२७ समाराधनम्

सप्तविंशः परिच्छेदः
समाराधन विधिः

अथ समाराधन विधिः उच्यते-
देशिकः वारुण, दिव्य, आग्नेय, वायव्य, पार्थिव, मान्त्र, मानसाभिधेषु सप्तविधेषुस्नानेषु एकतमेन स्नात्वा । शुक्लोपवीतोत्तरीय चन्दना द्यनुलेपन श्वेतमृत्स्नाकृतोर्ध्वपुण्ड्राद्यलङ्कृतः नित्यं स्वकृत्यां, निर्वृत्य। आजानुपादौ आमणिबन्धनात् हस्तौ च प्रक्षाल्य। आचम्य। आलयं द्विः प्रदक्षिणी कृत्य। द्वारपार्श्वं समासाद्य। आचक्रायेत्यादि मन्त्रैः षडङ्गन्यासं कृत्वा। अधिवलजंस्थितः। हस्ताभ्यां तालत्रयं कृत्वा। स्वयमेव उत्तमत्रय गेहकवाटत्रयं ॐ क्षं तार्क्ष्याय नमः। इति मन्त्रेण मध्यमत्रयगेहकवाटत्रयं ॐ शान्ताय नमः। इति मन्त्रेण। अधमत्रय गेह कवाट त्रयं ॐ यं वायवे नमः इति मन्त्रेण च उद्घाट्य। अन्यानि कवाटानि ॐ मुक्ताय नमः। इति परिचारकैः अन्यैः, ब्राह्मणैः वा उद्घाटयित्वा। “अधि पाता इ इति सामपठन् दक्षिणाङ्घ्रिणा गर्भगृहद्वार ब्रह्मसूत्रदक्षिणेन अन्तः प्रविश्य। द्वादशाक्षरमनुना शिरसा देवं प्रणम्य। दीपान् प्रज्वाल्य। स्रक् पुष्पादीनि विसृज्य। वेदिकापात्र बिम्बार्चनं चण्डप्रचण्डौ आरभ्य महाबलि पीठान्तं प्रतिष्ठोक्त विधानेन प्रणवादि नमोन्तैः तत्तन्मन्त्रैः शिष्येण वा परिचारकेण वा
यथा विधि कारयेत्।

सर्वालङ्कार संयुतः, आचार्यः अन्तः प्रविश्य देवे पूर्वपश्चिमाभिमुखे स्वयम् उदङ्मुखः दक्षिणोत्तराभिमुखे प्राङ्मुखः सन् देव पार्श्वे तालमात्रसमुत्सेधे तालद्वयसमायतेकूर्मासने
उपविश्य, भूत शुद्धिं कुर्यात्।
अपक्रमान्तु भूतानि पिशाचप्रेतगुह्यकाः।
सर्वेषाम् अविरोधेन विष्णोः कर्म समारभे। ।
उत्क्रामन्तु पिशाचाः ये भूताः भूमिभागगाः।
ये भूताः विघ्नकर्तारः ते गच्छन्त्वाज्ञया हरेः। ।

कूर्मादीन् दिव्यलोकं तदनु मणिमयं मण्डपं तत्र शेषं।
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च। ।
विष्णुं देवीं विभूषायुधगणमुरगं पादुके वैनतेयं।
सेनेशन्द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये।

इति उच्चार्य, बहिः तूर्यघोषे प्रवर्तिते यवनिकया गर्भगृह द्वारं निश्छिद्रम् आच्छाद्य। घण्टायां “ॐ ब्रह्मणे नमः”। मुकुले “ॐ चक्राय नमः”। सूत्रेषु “ॐ महानागेभ्यो नमः”। जिह्वायां “ॐ सरस्वत्यै नमः”। नादे ॐ प्रजापतये नमः”। इत्यावाह्य अभ्यर्च्य घण्टां चालयेत्।
भूतशुद्धिः
आसनमन्त्रस्य मेरुपृष्ठ ऋषिः, अतलं छन्दः श्रीकूर्मः देवता, आसने विनियोगः। पृथिव्याः कूर्मऋषिः। सत्यम् छन्दः। ब्रह्मा देवता। आसनेविनियोगः। ब्रह्मणे नमः। ॐ ह्रीं ॐ श्रीमदनन्तासनायनमः, ॐकमलासनाय नमः, ॐ विमलासनाय नमः, ॐ योगासनाय
नमः, ॐ वीरासनाय नमः, ॐ कूर्मासनाय नमः इति आसनम् अभ्यर्च्य,

पृथ्वी त्वया धृताः लोकाः देवी त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम्। ।
मां च पूतं कुरु धनैरेनतोस्मि त्वां सुरेश्वरीम् ।
इति प्रार्थ्य। पद्मं वा स्वस्तिकं वा आसनं बद्ध्वा। अस्मद्ग ुरुभ्यो नमः। अस्मत्परम गुरुभ्यो नमः अस्मत्परमेष्टि गुरुभ्यो नमः। इति गुरुपरम्परां ध्यात्वा। तदनु शोषणादि कुर्यात्।

शरीरस्य आत्मा ऋषिः, प्रकृति पुरुषौ छन्दसि, सत्यः देवता, आसने विनियोगः, ॐ
आत्म मन्त्रस्य आत्मा ऋषिः, पुरुषप्रकृति छन्दसि, सत्यः देवता, ॐ ब्रह्मणे नमः, ॐ विष्णवे नमः, ॐ ईश्वराय नमः, ॐ भूं भूम्यै नमः, ॐ करतलकरपृष्ठाभ्यां नमः, ॐ अङ्गुष्टाभ्यां नमः, ॐ तर्जनीभ्यां स्वाहा, ॐ मध्यमाभ्यां वषट् , ॐ अनामिकाभ्यां हुं, ॐ कनिष्टिकाभ्यां फट्, ॐ
नखमुखेभ्यः वौषट् , ॐ चक्र मन्त्रस्य शम्भु ऋषिः, गायत्रि छन्दः, श्री सुदर्शनः देवता, रेफं बीजं, ह्रीं शक्तिः, रक्तो वर्णः दिग्बन्धनार्थे विनियोगः। आचक्राय हृदयाय नमः, ॐ विचक्रायशिरसे स्वाहा, ॐ सुचक्राय शिखायै वषट्, सूर्यचक्राय कवचाय हुं, ज्वालाचक्राय नेत्राभ्यां वौषट्, सुदर्शन
चक्राय अस्त्राय फट्।
चक्रं शङ्खं च चापं परशुमसिमिषुं शूलपाशाङ्कुशास्त्रम्।
बिभ्राणं वज्रखेटे हलमुसल गदा कुन्तमत्युग्रदंष्ट्रं। ।
ज्वालाकेशं त्रिनेत्रं ज्वलदलन वहं हारकेयूरभूषम्।
ध्यायेत् षट्कोण संस्थं सकलरिपुजन प्राण संहारिचक्रम्।
ॐ रं कालवैश्वानरात्मने नमः, अग्निप्राकारमुद्रायै नमः, ॐ सशराय सशार्ङ्गाय सनाराचाय हुम्फट् सुदर्शनाय स्वाहा”, आकाशे चक्रमुद्रायै नमः इति चक्रमुद्रां न्यस्य। श्री भगवतः वासुदेवस्य आज्ञा भगवत्भक्तियोग प्रतिबन्धकसमस्ताऽविद्याकर्मकृत पापक्षयार्थं
भगवत्समाराधनार्थं भूतशुद्धिं करिष्ये इति सङ्कल्प्य ।
प्रणवस्य ऋषिः ब्रह्मा देवी गायत्री छन्दः परमात्मा देवता। अं बीजं। उं शक्तिः। मं कीलकं।
शुक्लो वर्णः। प्राणायामार्थे विनियोगः।
नारायणाय हृदयाय नमः। विभवे शिरसे स्वाहा। शान्ताय शिखायै वषट्। प्रणवार्थ
प्रकाशकाय कवचाय हुं। श्री भूमिसहिताय नेत्राभ्यां वौषट्। आनन्दाय अस्त्राय फट्।
नारायणं विभुं शान्तं प्रणवार्थप्रकाशकम्।
श्री भूमि सहितानन्दं हृत्पद्मे सततं भजे। ।

ततः रेचकपूरककुम्भकरेचकैः प्राणायामत्रयकरणम्। ॐ योग मुद्रायै नमः। वायु बीजस्य
किष्किन्ध ऋषिः। जगती छन्दः। महाभूत रूपि वायुः देवता। अस्मन् मनोवाक्काय कर्म कृत
समस्त पाप शोषणार्थे विनियोगः।
आवातवाहिभेषजं विवातवाहि यद्रपः।
त्वं हि विश्वभेषजो देवानां दूत ईयसे।
द्वाविमौ वातौवात आसिन्धोरापरावतः।
दक्षं मे अन्य आवातु परान्यो वातु यद्रपः।
नाभि कन्दे ॐ यं वायवे नमः। वेद्याकारेण धूम्र वर्णेन महावातात्मना अस्मच्छरीरस्थितं समस्त पापं शोषयामि। अग्नि बीजस्य काश्यप ऋषिः। त्रुष्टुप्छन्दः। वैश्वानराग्निःदेवता। अस्मन्मनोवाक्कायकर्मसमस्त पाप दहनार्थे विनियोगः। अग्निरक्षांसिसेधति…शुचिव्रत। हृदये-ॐ वैश्वानराग्नये नमः। त्रिकोणेन रक्तवर्णेन वैश्वानराग्निना अस्मच्छरीरस्थितं समस्तपापं दहामि। पृथ्वी बीजस्य। ब्रह्मा ऋषिः। गायत्रीछन्दः। वराहरूपि विष्णुः देवता। उत्थितस्य
अग्नेः कण्ठे स्तम्भनार्थे विनियोगः।
स्थोनापृथिवी…शर्म सप्रथाः। ॐ लं पृथ्वी बीजेन स्पर्शनेन सहोत्थितम् अग्निं कण्ठे स्तम्भयामि। अमृतबीजस्य ब्रह्माऋषिः गायत्री छन्दः। सोमोदेवता। तादृशास्मत् शरीरस्य
अमृतप्लावनार्थे विनियोगः।
यदतोवातते गृहे… आयुगुंषितार्षत्। ॐ वं वरुणायस्वाहा। वृत्तात् स्फटिक वर्णात्
वरुणबीजात् उत्थिताभिः अमृत दाराभिः अस्मच्छरीरम् आपादतलमस्तकं प्लावयामि।
तत्व संहारमुद्रायै नमः। इति तत्वसंहारमुद्रां प्रदर्श्य। पृथ्वी बीजस्य ब्रह्मा ऋषिः। गायत्री छन्दः। श्री वराह रूपि नारायणो देवता। ॐ लं लं लं चतुरश्रां पीतवर्णां घ्राणोपस्थेन्द्रिययुतां शब्दस्पर्श रूप रस गन्धगुणयुतां पृथ्वीं बाह्यात् पूरकेण मम शरीरं पादादि जानुपर्यन्तं सम्पूरयामि। तन्मध्ये ॐ ह्रां भं लं ह्रीं सकलरां पृथ्वी अधिपतये विष्णवे सद्योजाताय नारायणाय निवृत्तिकलात्मने हुम्फट्। इति पृथ्वी मन्त्रं ध्यायन् कुम्भेन पार्थिवं सर्वं तन्मन्त्रे संहरामि। ओ तं नमः पराय सितवर्णाय गन्धतन्मात्रात्मनेनमः। पृथ्वी मन्त्रं गन्धतन्मात्रायां संहरामि। तां गन्धतन्मात्रां रेचकेण तोयाख्ये महाधारे निक्षिपामि।

ॐ श्लां श्लां श्लां पार्थिवांशं पादादिजानुपर्यन्तात् चतुरश्रात् पार्थिव मण्डलात् आप्यांशे सापेक्षं
लीनो भव।
अपां बीजस्य सिन्धुद्वीपऋषिः। गायत्री छन्दः। वरुणो देवता। ॐ वं वं वं रसना
पाय्विन्द्रिययुताः अर्धचन्द्राकृतिः श्वेताः शब्दस्पर्शरूपरस गुणयुताः अपः बाह्यात् पूरकेण जान्वादि कटिपर्यन्तं मम शरीरे सम्पूरयामि। तन्मध्ये ॐ ह्रीं षं रीं सकलरीम् अम्भोधिपतये ब्रह्मणे वामदेवाय धनुर्धराय प्रतिष्ठाकलात्मने हुं फट् इति मन्त्रं ध्यायन्, अं मयं सर्वङ्कुम्भकेन शनैश्शनैः तन्मन्त्रे संहरामि। ॐ घं नमः पराय पाण्डरवर्णाय रसतन्मात्रात्मने नमः। अपां मन्त्रं रसतन्मात्रायां सम्हरामि। तां रसतन्मात्रां गन्धतन्मात्रयासह रेचकेन अग्नौ संयोजयामि। ह्वां ह्वां ह्वाम् आप्यंश जान्वादिकटिपर्यन्तात् आप्यात् अष्टदल पद्मात् तैजसांशे सापेक्षं लीनो
भव।
अग्निबीजस्य काश्यप ऋषिः। त्रिष्टुप्छन्दः। अग्निः देवता। ॐ रं रं रं त्र्यश्रं पाटलवर्णं दृष्टिचरणेन्द्रिययुतं शब्दस्पर्श रूपगुणम् अग्निं बाह्यात् पूरकेण गुह्यादि आनाभि मम शरीरेसम्पूरयामि। तन्मध्ये ॐ ह्रूं ह्रीं ण्यं ह्रीं सकलरूम् अग्न्यधिपतये रुद्राय घोराय प्रद्युम्नाय विद्याकलात्मने हुं फट् इति मन्त्रं ध्यायन्, तैजसं सर्वं कुम्भकेन शनैश्शनैः तन्मन्त्रे संहरामि। ॐ दं नमःपराय ज्योतिर्वर्णाय रूप तन्मात्रात्मनेनमः ज्योतिर्मन्त्रं रूपतन्मात्रायां संहरामि। तां रूपतन्मात्रां गन्धरसशक्तिभ्यांसह रेचकेन वायौ संयोजयामि। ह्रां ह्रां ह्रां तैजसांश गुह्यादि
आनाभि त्रिकोणाग्नि मण्डलात्वाय्वांशे सापेक्षं लीनो भव।
वायु बीजस्य किष्किन्ध ऋषिः। जगती छन्दः। वायुर्देवता। ॐ यं यं यं धूम्रं वृत्तं त्वक्करेन्द्रिययुतं शब्दस्पर्शगुणं वायुं बाह्यात् पूरकेण नाभ्यादि नासिकान्तं मम शरीरे सम्पूरयामि। तन्मध्ये ॐ ह्रैं णं सकलरैं वाय्वधिपतये ईश्वराय तत्पुरुषाय सङ्कर्षणाय शान्तिकलात्मने हुं फट् इति मन्त्रं ध्यायन्, वायव्यं सर्वं कुम्भकेण शनैश्शनैः तन्मन्त्रे संहरामि। ॐ धं नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने नमः। वायुमन्त्रंस्पर्शतन्मात्रायां सम्हरामि। तां स्पर्शतन्मात्रायां गन्धरस रूपतन्मात्राभिः सह रेचकेन आकाशे संयोजयामि। स्यां स्यां स्यां वाय्वांश नाभ्यादि नासिकान्तात् षड्बिन्दु लाञ्छितात् वायुमण्डलात् नाभसांशे सापेक्षं लीनो भव।

आकाशबीजस्य ब्रह्मा ऋषिः गायत्री छन्धः। परमहंसः देवता। ॐ हं हं हं नीलोत्पलदलनिभं वाक् श्रोत्रेन्द्रिययुतं शब्दगुणम् आकाशं बाह्यात् पूरकेण नासादिमूर्धान्तं मम शरीरे सम्पूरयामि। तन्मध्ये ॐ ह्रौं ह्रीं ह्रीं सकलरौम् आकाशाधिपतये सदाशिवाय ईशानाय वासुदेवाय शान्त्यादिकलात्मने हुं फट् इति मन्त्रं ध्यायन् नाभसं सर्वं कुम्भकेन शनैश्शनैः तन्मन्त्रे संहरामि। ॐ नं नमः पराय शुक्लवर्णाय शब्दतन्मात्रात्मने नमः, आकाशतन्मात्रं शब्दतन्मात्रायां सम्हरामि। तां शब्दतन्मात्रां गन्धरसरूपस्पर्शतन्मात्राभिः सह रेचकेन स्वान्ते संहरामि। क्ष्मां क्ष्मां क्ष्मां नाभसांश नासिकादि मूर्धान्तात् वृत्तद्वयात्मकात् नाभसात् मण्डलात्
स्वान्ते सापेक्षं लीनो भव।
ॐ पं नमःपराय सितासित वर्णाय मनस्तत्वात्मने नमः, स्वान्तम् अहङ्कृतौ सम्हरामि। ॐ फं नमःपराय पाटल वर्णाय अहङ्कारात्मने नमः, अहङ्कारं बुद्धौ सम्हरामि। ॐ बं नमःपराय स्फटिकाभासाय बुद्धि तत्वात्मनेनमः, बुद्धिं प्रकृतौ सम्हरामि। ॐ भं नमः परायसित वर्णाय प्रकृत्यात्मने नमः, प्रकृतिं जीवे सम्हरामि। ॐ मं नमःपराय स्फटिकाभासाय जीवतत्वात्मने नमः। सुसूक्ष्मं भास्कराभं वासनाविवशं जीवं नाभिचक्रस्थितं पद्मसूत्र सुसूक्ष्मया सुषुम्नयानाड्या कुम्भकेन वायुना अन्तर्देहे उपरि आरोप्य, ब्रह्मरन्ध्रं भित्वा देहात् बहिः निर्गत्य सूर्यमण्डलं प्रविश्य उपरि सहस्रदलयुते श्वेतपद्मे संस्थितं परब्रह्मणि संयोजयामि। ॐ मं हंसः हे जीव नाभिचक्रात् सुषुम्ना वर्त्मना परमात्मनि सापेक्षं लीनो भव। पादादिमूर्धान्तं। ॐ ह्रीं योनिमुद्रायै नमः। इति मुद्रां प्रदर्श्य।

ॐ लां नमः पराय सर्वात्मने श्रीमतेनारायणाय नमः।
ॐ वां नमः पराय निवृत्यात्मने अनिरुद्धाय नमः।
ॐ रां नमः पराय विश्वात्मने प्रद्युम्नाय नमः ।
ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय नमः।
ॐ षौं नमःपराय परमेष्ट्यात्मने वासुदेवाय नमः।

ब्रह्महत्याशिरस्कन्धं स्वर्णस्तेयं भुजद्वयम्।
सुरापानहृदायुक्तं गुरुतल्प कटिद्वयम्।
तत्संयोगि पदद्वन्द्वं रक्तश्मश्रु विलोचनम्।
उपपातकरोमाणमङ्गप्रत्यङ्ग संयुतम् ।
खड्गचर्मधरं कृष्णं कुक्षौ पापं विचिन्तयेत्।

इतिरीत्या ध्यात्वा। पादाग्रे रक्तवर्णाय त्रिकोणायाग्नये नमः। तज्ज्वालया देहमापादतलमस्तकं दहामि। ॐ लं लं लम् उत्थितमग्निं स्तम्भयामि। आकाशे ॐ वं वं वम् अमृतबीजं ध्यायामि। तदुत्थामृतधारया तद्भस्मं प्लावयामि। ॐ पृथ्वी बीजस्य मेरुपृष्ठ ऋषिः। अतलं छन्दः। श्री
कूर्मो देवता। प्लावितभस्म पिण्डीकरणार्थेविनियोगः।
“ॐ भूमिर्भूम्ना” इत्यारभ्य “पितरञ्च प्रयन्त्स्तुवः”। इत्यन्तं जप्त्वा। ॐ लं लं लं श्यामवर्णाय पृथिव्यात्मने नमः। प्लावित भस्मकूटं पिण्डीकरोमि। “आकाश शरीरं ब्रह्मा” इत्यारभ्य “योग्योपास्व” ॐ श्रीं ह्रीं शक्तिबीजेन सर्ववर्णेन सर्वात्मना शरीरं सकरचरणाद्यवयवं करोमि। ॐ सृष्टिमुद्रायै नमः। आकाशे “ॐ वां नमः पराय निवृत्यात्मने नमःइत्यमृत बीजं ध्यायामि। तस्मात् ॐ पीयूषनिधये नमः। इति ध्यायन् तस्मिन् ॐ श्वेतायाव्यक्त पङ्कजाय नमः। इति पद्मं ध्यात्वा। तस्मिन् परब्रह्मणः सकाशात् जीवमुत्पन्नं स्मरामि। ॐ मं नमः पराय स्फटिकाभासाय जीवतत्वात्मने नमः। आं ह्रीं क्रों यरलवशष सह ॐ मं हं सः हे जीव परब्रह्मणस्सङ्काशात् एतस्मिन् श्वेतपङ्कजे सापेक्षमागच्छ। ॐ मं जीव मुद्रायै नमः। तर्जन्यङ्गुष्ट पर्वनिवेशो जीवमुद्रा। तां प्रदर्श्य। ॐ भं नमः पराय सितवर्णाय प्रकृत्यात्मने नमः। जीवात् ॐ श्रीं ह्रीं नमः त्रिगुणात्मिकां प्रकृतिं सृजामि। ॐ भं नमः पराय स्फटिकाभासाय बुद्धितत्वात्मने नमः। प्रकृतेः वाण्यात्मिकां बुद्धिंसृजामि। ॐ फं नमः पराय पाटलवर्णाय अहङ्कारात्मने नमः बुद्धेःअहङ्कृतिं सृजामि। ॐ पं नमः पराय सितासित वर्णाय मनस्तत्वात्मने नमः अहङ्कारात् मनस्तत्वं सृजामि। ॐ नं नमः पराय शुक्लवर्णाय शब्दतन्मात्रात्मने नमः। मनसः शब्दतन्मात्रां सृजामि। शब्दतन्मात्रायाः ॐ ह्रौं ह्रीं ह्रीं सकलरौम् आकाशाधिपतये सदाशिवाय ईशानाय वासुदेवाय शान्त्यादिकलात्मने हुम्फट् भिन्नाञ्जनवर्णं वाक्श्रोत्रेन्द्रिययुतं शब्दगुणं ॐ कं नमः पराय आकाशतत्वं सृजामि। ॐ धं नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने नमः स्पर्शतन्मात्रां सृजामि। स्पर्शतन्मात्रायाः ॐ ह्रैं णं सकलरैं वाय्वाधिपतये ईश्वराय तत्पुरुषाय सङ्कर्षणाय शान्तिकलात्मने हुं फट् धूम्रं वृत्तं त्वक्करेन्द्रिययुतं शब्दस्पर्शगुणं ॐ खं नमः पराय वायुतत्वं सृजामि। वायोः ॐ दं नमः पराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने नमः रूपतन्मात्रां सृजामि। रूपतन्मात्रायाः ॐ ह्रूं ण्यं ह्रीं सकलरूम् अग्न्याधिपतये रुद्राय घोराय प्रद्युन्नाय विद्याकलात्मने हुं फट् शब्दस्पर्श

रूपगुणसहितं दृष्टिचरणेन्द्रिययुतं पाटलवर्णं त्रिकोणं ॐ गं नमः पराय अग्नितत्वं सृजामि। अग्नेः ॐ थं नमःपराय पाण्डरवर्णाय रसतन्मात्रात्मने नमः रसतन्मात्रां सृजामि। रसतन्मात्रायाः ॐ ह्रीं षं ह्रीं सकलरीम् अम्बोधिपतये ब्रह्मणे वामदेवाय धनुर्धराय प्रतिष्ठाकलात्मने हुम्फट् रसनापाय्विन्द्रियसहितं शब्दस्पर्श रूप रस गुणयुतं श्वेतवर्णं अर्धचन्द्राकृतिं ॐ घं नमःपराय अप्तत्वं सृजामि। अप्तत्वात् ॐ तं नमःपराय सितवर्णाय गन्धतन्मात्रात्मने नमः। गन्धतन्मात्रां सृजामि। गन्धतन्मात्रायाःॐ ह्रां झं लं ह्रीं सकलरां पृथिव्यधिपतये विष्णवे सद्योजाताय नारायणाय निवृत्तिकलात्मने हुं फट् पीताभं चतुरश्रं घ्राणोपस्थेन्द्रिययुतं शब्दस्पर्शरूपरसगन्धगुणं ॐ ङं नमः पराय पृथिवीतत्वं सृजामि। एवं पाञ्चभौतिकं सप्तधातुमयं षण्णवत्यङ्गुलायतं दिव्यं शरीरं कल्पयामि। ॐ षौं नमःपराय परमेष्ट्यात्मने वासुदेवाय नमः। ॐ यां नमःपराय पुरुषात्मने सङ्कर्षणाय नमः। ॐ रां नमःपराय विश्वात्मने प्रद्युन्नाय नमः । ॐ वां नमःपराय निवृत्यात्मने अनिरुद्धाय नमः। ॐ लां नमःपराय सर्वात्मने श्रीमतेनारायणाय नमः। ॐ मं नमः पराय स्फटिकाभासाय जीवतत्वात्मने नमः ॐ ह्रीं क्रों यरलवशष सह ॐ मं हं सह हे जीव श्वेतपङ्कजात् मम हृत्कमले सापेक्षमागच्छ। उपरि ॐ प्रबुद्धाय पङ्कजाय नमः । तदुत्पन्नामृतपूरितैर्हेमकुम्भै दिव्यनारीकरधृतैरात्मानम् अभिषिञ्चामि। हरेराराधनयोग्यं शुद्धम् अनघं ममशरीरम् अर्चयामि। ॐ
अस्मत् गुरुभ्यो नमः।

मातृका न्यास मन्त्रस्य। ब्रह्मा ऋषिः। देवीगायत्री छन्दः। मातृका सरस्वती देवता । हलो बीजानि। स्वराः शक्तयः। सकलमन्त्रोपब्रह्मणार्थे विनियोगः । ॐ अं कं खं गं घं ङम् आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं र्ञम् इं तर्जनीभ्यां स्वाहा। ॐ उं टं ठं डं ढं णम् ऊं मध्यमाभ्यां वषट् । ॐ एं तं थं दं धं नम् ऐम् अनामिकाभ्यां हुं। ॐ पं फं बं भं मं औ ं कनिष्टिकाभ्यां वौषट् । ॐ अं यं रं लं वं शं षं सं हं लं क्षम् अः नखमुखेभ्यः फट् । एवं
षडङ्गन्यासश्च।
पञ्चाशद्वर्णभेदैर्विहित वदनदोःपादहृत् कुक्षिवक्षो।
देहाम्भास्वत् कपर्दा कलितशशिकलाम् इन्दुकुन्दावदाताम्।

अक्षसृक्कुम्भचिह्नां लिखितवरकरां त्रीक्षणां पद्मसंस्थां।
इच्छाकल्पाम् अतुच्छस्तनजघनभरां भारतीं तां नमामि।
अथ केशवादि मातृकान्यासः। ॐ अं केशवकीर्तिभ्यां नमः ललाटे। ॐ आं नारायण
कान्तिभ्यां नमः मुखे । ॐ इं माधवतुष्टिभ्यां नर्मः । ॐ इं गोविन्द पुष्टिभ्यां नमःनेत्रयोः। ॐ उं विष्णुधृतिभ्यां नमः। ॐ ऊं मधुसूदनशान्तिभ्यां नमः श्रोत्रयोः । ॐ ऋं त्रिविक्रमक्रियाभ्यां नमः । ॐ ॠं वामनदयाभ्यां नमः नासापुटयोः ॐ लृं श्रीधरमेधाभ्यां नमः। ॐ लॄं हृषीकेश हर्षाभ्यां नमः गण्डयोः। ॐ एं पद्मनाभ श्रद्धाभ्यां नमः। ॐ ऐं दामोदरलज्जाभ्यां नमः । दन्तपङ्क्तयोः । ॐ ॐ वासुदेव लक्ष्मीभ्यां नमः। ॐ औ ं सङ्कर्षण सरस्वतीभ्यां नमः ओष्टयोः। ॐ अं प्रद्युम्न प्रीतिभ्यां नमः रसनाग्रे । ॐ अः अनिरुद्ध रतिभ्यां नमः मुखमण्डले। ॐ कं शङ्खि छायाभ्यां नमः। ॐ खं चक्रि जायाभ्यां नमः । ॐ गं गदि दुर्गाभ्यां नमः । ॐ घं खड्गि सत्याभ्यां नमः। ॐ ङं शार्ङ्गि प्रभाभ्यां नमः । दक्षिणबाह्वौ पञ्चविभागशः। ॐ चं हलिवाणिभ्यां नमः । ॐ छं मुसलिविलासिनीभ्यां नमः । ॐ जं शूलिलयाभ्यां नमः । ॐ झं पाशिविनताभ्यां नमः । ॐ ञम् अङ्कुशविश्वाभ्यां नमः वामबाहौ पञ्चविभागशः।

ॐ टं मुकुन्दविमदाभ्यां नमः । ॐ ठं नन्द सुनन्दाभ्यां नमः। ॐ डं नन्दिस्मृतिभ्यां नमः । ॐ ढं नरजर्झिभ्यां नमः। ॐ णं नरकजित् समृद्धिभ्यां नमःतथा दक्षिणपादे। ॐ तं हरिशुद्धिभ्यां नमः। ॐ थं कृष्णबुद्धिभ्यां नमः। ॐ दं सत्यभुक्तिभ्यां नमः। ॐ धं
सत्वमतिभ्यां नमः। ॐ नं शौरि क्षमाभ्यां नमः तथा वामपादे।

ॐ पं शूररमाभ्यां नमः । ॐ फं जनार्दनोमाभ्यां नमः । कुक्षिपार्श्वयोः। ॐ बं
भूधरक्लेदिनीभ्यां नमः पृष्ठे। ॐ भं वैकुण्ठ वसुधाभ्यां नमः पायौ। ॐ मं विश्वमूर्ति सङ्क्लिन्नाभ्यां
नमःमेहने ।
ॐ यं पुरुषोत्तमप्रथाभ्यां नमःनाभौ । ॐ रं बलापराभ्यां नमः कुक्षौ । ॐ लं
बलानुजधारणाभ्यां नमःहृदये । ॐ वं बालसूक्ष्माभ्यां नमःकण्ठे । ॐ शं विषघ्नसन्धिभ्यां नमः ॐ षं वृषप्रज्ञाभ्यां नमःस्तनयोः । ॐ सं हंसप्रभाभ्यां नमः, ॐ हं वराहनिशाभ्यां नमः भुजयोः। ॐ क्षं ॐ श्रीं ह्रीं क्लीं क्ष्रौं ॐ नमोनारायणाय क्षं नृसिंहमोहाभ्यां नमःमुखे।

अस्य श्रीमदष्टाक्षर महामन्त्रस्य । अन्तर्यामी नारायणऋषि:, देवीगायत्री छन्दः, परमात्मा नारायणःदेवता, अम् बीजम्, ह्रीं शक्ति:, मम् कीलकम्, परमव्योमक्षेत्रम्, बुद्धिःतत्वम्, शुक्लादिवर्ण:, उदात्तादिःस्वर:, भगवत्समाराधनार्थे विनियोगः।

करन्यास:

ओम् ओम् ओम् ओम् यम् ओम्
ओम् नम् ओम् ओम् णाम् ओम्
ओम् मोम् ओम् ओम् यम् ओम्
ओम् नाम् ओम् ओम् राम् ओम्
दक्षिण तर्जनीम् आरभ्य वाम तर्जनीम् आरभ्य
कनिष्टान्तम् पर्वसु। कनिष्टान्तम् पर्वसु।
ओम् राम् ओम् अङ्गुष्ट कनिष्टिकाभ्याम् नाभौ ।
ओम् यम् ओम् अङ्गुष्टम् विना सर्वाभिर्मेहने ।
ओम् णाम् ओम् तथैव जानुनि ।
ओम् यम् ओम् समस्ताङ्गुलीभिःचरणयो:।
ओम् ओम् ओम् मध्यमया मूर्ध्निमध्ये।
ओम् नम् ओम् तर्जनी मध्यमाभ्याम् नेत्रयो: ।
ओम् मोम् ओम् अङ्गुष्टानामिकाभ्याम् मुखे ।
ओम् नाम् ओम् अङ्गुष्ट तर्जनीभ्याम् हृदये ।

ओम् क्रुद्धोल्काय स्वाहा ज्ञानाय हृदयाय नम: ।
ओम् महोल्काय स्वाहा ऐश्वर्याय शिरसे स्वाहा ।
ओम् वीरोल्काय स्वाहा शक्त्यै शिखायै वषट् ।
ओम् विद्युल्काय स्वाहा बलाय कवचाय हुम् ।
ओम् सहस्रोल्काय स्वाहा वीर्यायअस्त्राय फट् ।

ओम् तेजोल्काय स्वाहा तेजसे नेत्राभ्यांवौषट्।
(ओम् किरीट मुद्रायै नम: शिरसि ओम् श्रीवत्स मुद्रायै नम: दक्षिणोरसि
ओम् कौस्तुभ मुद्रायै नम: वामोरसि ओम् वनमाल मुद्रायै नम: कण्ठे
ओम् चक्र मुद्रायैनम:, ओम् पद्म मुद्रायै नम:दक्षिण भागे।
ओम् शङ्खमुद्रायै नम:, ओम् गदा मुद्रायै नम: वाम भागे:, गरुड मुद्रायै नमः पादाग्रे)
ध्यानम्
चतुर्भुज मुदाराङ्गम् चक्राद्यायुध सेवितम्।
कालमेघ प्रतीकाशम् पद्मपत्रायतेक्षणम् । ।
पीताम्बरधरम्सौम्यम् प्रसन्नेन्दुनिभाननम्।
चारुहासम् सुताम्रोष्टं रत्नोज्वलितकुण्डलम्। ।
सुभ्रुललाटमकुटं घनकुञ्चितमूर्धजम्।
ललाटतिलकं सौम्यं दीपवत् श्वेतमृत्स्नया। ।
स्फुरत्कटककेयुर हारकौस्तुभभूषितम्।
स्फुरत्भास्वरवर्णाभं शोभितं वनमलया।
प्रद्योतनसहस्राभं भूषणैरपि मण्डितम्।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाला विभूषितम्।
श्रीभूमिभ्याम् सुखासीनम् स्वर्ण सिंहासनेशुभे।
ध्यात्वैवम् देवदेवेशम् मन्त्रजापपरो भवेत् । ।
शुक्लम् हिरम्मयम् कृष्णम् रक्तम् कुङ्गुम सन्निभम्।
पद्मकिञ्जल्क सदृशम् सर्ववर्णकमष्टकम्। इति ध्यायन् मन्त्रं जपेत्।
द्वादशाक्षर विधि:
अस्य श्री द्वादशाक्षर महामन्त्रस्य।श्रीवासुदेवः ऋषि: देवी गायत्री छन्दः
परमात्मा वासुदेवोदेवता।अम्बीजम् , क्रोम् शक्ति:श्वेतो वर्ण: बुद्धि:तत्वम्
परमव्योमक्षेत्रम्, भगवत्समाराधनार्थे जपेविनियोग:

कर न्यासः
ओम् ओम् ओम् ओम् यम् ॐ
ओम् नम् ओम् ओम् वाम् ॐ
ओम् मोम् ओम् ओम् दें ॐ
ओम् भम् ओम् ओम् सुं ॐ
ओम् गम् ओम् ओम् वाम् ॐ
ओम् वम् ओम् ओम् तेम् ओम्
दक्षतल मारभ्य कनिष्टान्तम् वामतल मारभ्य कनिष्टान्तम्

देह न्यास:
ओम् सुम् ओम् अङ्गुष्टकनिष्टिकाभ्याम् नाभौ। ।
ओम् देम् ओम् अङ्गुष्ट तर्जनीभ्याम् गुह्ये।
ओम् वाम् ओम् अङ्गुष्टम् विना जान्वो:।
ओम् यम् ओम् सर्वाङ्गुलीभि: चरणयो:।
ओम् ओम् ओम् अङ्गुष्टेन शिरस:पूर्वभागे
ओम् नम् ओम् तर्जन्या शिरस:दक्षिणे।
ओम् मोम् ओम् अनामिकयापश्चिमे।
ओम् भम् ओम् कनिष्टिकयाउत्तरे।
ओम् गम् ओम् मध्यमया मूर्ध्निमध्ये।
ओम् वम् ओम् तर्जनीमध्यमाभ्यां नेत्रयो:।
ओम् तेम् ओम् अङ्गुष्ट अनामिकाभ्यां मुखे।
ओम् वाम् ओम् अङ्गुष्टतर्जनीभ्यां हृदये।
ओम् ओम् ओम् ज्ञानाय हृदयाय नम:।
ओम् नम् ओम् ऐश्वर्याय शिरसे स्वाहा ।
ओम् मोम् ओम् शक्त्यै शिखायै वषट् ।

ओम् भम् ओम् बलाय कवचाय हुम् ।
ओम् गम् ओम् तेजसे नेत्राभ्याम् वौषट् ।
ओम् वम् ओम् वीर्याय अस्त्राय फट् ।
ओम् तेम् ओम् उदराय नम:।
ओम् वाम् ओम् पृष्टाभ्याम् नम: ।
ओम् सुम् ओम् बाहुभ्याम् नम: ।
ओम् देम् ओम् ऊरुभ्यां नम: ।
ओम् वाम् ओम् जानुभ्याम् नम: ।
ओम् यम् ओम् पादाभ्याम् नम: ।
ओम् किरीट मुद्रायै नम: शिरसि ।
ओम् श्रीवत्स मुद्रायै नम: दक्षिणोरसि ।
ओम् कौस्तुभ मुद्रायै नम: वामोरसि ।
ओम् वनमाल मुद्रायै नम: कण्ठे ।
ओम् चक्र मुद्रायै नम:। ओम् पद्ममुद्रायै नम: दक्षिण भागे।
ओम् शङ्ख मुद्रायै नम: । ओम् गदा मुद्रायै नम: वाम भागे।
ओम् गरुड मुद्रायै नम: । पादाग्रे।
ध्यानम्
चतुर्बाहुमुदाराङ्गं सर्व लक्षणलक्षितम्।
शुद्ध स्पटिक वर्णाभम् अयुतेन्दु समप्रभम्।
चारुहासम् सुताम्रोष्टम् कर्णान्तायतलोचनम्।
निर्धूत पद्मरागाभम् दन्तछविसुशोभितम्।
महोरस्कम् महाबाहुम् प्रसन्नेन्दुनिभाननम्।
सुभ्रू ललाटम्सुमुखम् घनकुञ्चित मूर्धजम्।
तटिछत सहस्राभम् पीतनिर्मलवाससम्।
पाणिपादतलाम्भोजम् पुण्डरीकायतेक्षणम्।

श्रीवत्साङ्गम् किरीटादि सर्वाभरण भूषितम्।
पद्म चक्र गदा शङ्खधारिणम् कौस्तुभोरसम्।
दिव्यगन्धविलिप्ताङ्गम् दिव्यमालाविभूषितम्।
शेषाहिभोगे विपुले सुखासीनम् चतुर्मुख।
श्रीभूमि सहितम् देवम् ललाटेश्वेतमृत्स्नया।
कृतोर्ध्व पुण्ड्रतिलकैः मण्डितम् चण्ड भानुभिः।
नियुतै रयुतैश्चन्द्रैः विद्युत्कालाग्निकोटिभिः।
समवेतैरिवैकत्र तेज:पुञ्जै: विसर्पिभिः।
भ्राजमानं दुरालोकम् देहमण्डल निर्गतै:।
भासयन्तञ्जगत्सर्वम् ध्यायेत् प्रक्षीण कल्मष:।
सितम् कृष्णञ्च धूम्राभम् श्यामन्तारानिभं तथा। ।
स्पटिकाभञ्च शङ्काभम् रक्तम् शुक्लं च लोहितम्। ।
तमोरूपम् पीतवर्णम् ध्यायेन् मन्त्रद्विषाक्षरम्। इति ध्यात्वा ।
षडङ्गस्य
रूपाणिषण्णां कुमुदं बन्धूकम् असितोत्पलम्।
अब्जकेसरमम्भोजंअतसीसून सम्पदम्। इति।
आत्मानं दिव्यायुध वस्त्रमाल्यानुलेपन कौस्तुभ वनमाला श्रीवत्स दिव्यलक्षण धरं साक्षात् परमेश्वरं ध्यायामि इति ध्यात्वा। न्यस्त बीजानि गन्धादिभिः अभ्यर्च्य । तदनु हृदयकमलमध्यम् अध्यासीनं भगवन्तं मानसोपचारैः होमान्तैः वक्ष्यमाणविधिना। अर्चयेत्।

मानसयाग विधिः उच्यते
अत्र तु हृत्कर्णिकाधारे वा यत्र कुत्र वा भगवन्मूर्तौ वा मूलमन्त्रशरीरस्थपरिवार यजनेन कृतोलययागः। कर्णिकामध्ये मन्त्रराजस्य केसरेषु लक्ष्म्यादीनां च यजनं भोगाभिधः। कमलादीनां पृथक्त्वेन यजनम् अधिकाराभिधः । एवं लयभोगाधिकारान् ज्ञात्वा नादावसान गगनस्थं हृदयकमलमध्ये भोगाभिधयागविधिना आवाह्य । वक्ष्यमाणेन वर्त्मना यजेत् ।

पद्मासनादि कमलासनं बद्ध्वा। नाभौ ब्रह्माञ्जलिं कृत्वा। ऋजुकायः नासाग्रन्यस्थनयनः दन्तैः दन्तान् असंस्पृश्य। तालुनिजिह्वां विन्यस्य। किञ्चित् कुञ्चितशिराः श्लथबाहुद्वयः आचार्यः बाह्येन्द्रियाणि मनसि उपरितानि कृत्वा। मनः बुद्धौ, बुद्धि ज्ञानगोचरां विधाय ज्ञानभावनया
पारमार्थिकं कर्म कुर्यात्।

नाभिमेढ्रान्तरे चतुर्धाभाजितेषु पदेषु क्रमात् आधारादीन् स्मरेत्। ॐ अस्मद्ग ुरुभ्यः नमः । नाभिमेढ्रान्तरे ॐ ह्रीं ङं घं गं खं कं पृथिव्यप्तेजोवय्वाकाश पञ्चभूतमयाय स्वसत्वविभवान्तस्थाय आधाराय नमः । शान्तम् उज्झितचेष्टं सितम् अन्तर्मुखस्मितं
आधायोल्लिङ्गिताकारम् आधारंस्मरामि ।
उपरि ज्ञौं ष्रूं ज्वालौघ विभवान्तस्थाय नं धं दं थं तं शब्दस्पर्शरूपरस गन्धगुणयुताय कालाग्निरूपाय कूर्माय नमः । कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्टप्तकाञ्चननिभं शङ्खचक्रधरं स्वस्तिकेन स्थितं कूर्मं ध्यायामि। उपरि ॐ अं स्वभोगविभवान्तस्थाय ञं झं जं छं चं वाक्पाणिपादपायूपस्थयुताय अनन्ताय नमः । अनन्तसशिसङ्काशं सहस्रफणालङ्कृतं सहस्रभुजं स्वपाणिसम्पुटेन भुवं दधानं सितारविन्द शङ्खाक्षसूत्राऽभयकरम् अनन्तं ध्यायामि। उपरि ॐ भूं काञ्चन विभवान्तस्थायै णं ढं डं ठं टं श्रोत्र त्वक्चक्षुर्जिह्वाघ्राणयुतायै भूम्यै नमः । निश्शेषरत्नहेमाङ्गां प्रावृट्च्छ्रियमिवोज्ज्वलां पद्मासनोपविष्टां पद्माञ्जलिधरां भुवं ध्यायामि। नाभौ ॐ वम् अमृतसार विभवान्तस्थाय पं मनस्तत्वयुताय क्षीरार्णवाय नमः। फुल्लकुन्दावदातं सितस्निग्धजटाधरं शङ्खं ध्मायमानं मुक्तादामविराजितं विस्तीर्ण सर्वावयवं विक्षिप्तोरुद्वयं स्थितं विक्षिप्तजानुपादं क्षीरार्णवं ध्यायामि। उपरि ॐ फम् अहङ्कारतत्वयुताय स्वबीजकोश किसलयदल विभवान्तस्थाय अनन्तदलपद्माय नमः । सुपक्वाम्रफलश्यामपाणिपदतलोज्ज्वलं रक्ताक्षं विप्रकीर्णकेशं स्मिताननं पद्मासनस्थितम् अलिमालावृतं सुदीर्घचरणं पद्ममुद्रान्वितं पद्मं ध्यायामि। तस्मिन् आग्नेये ॐ वं बुद्धितत्वयुताय विवेकविभवान्तस्थाय धर्माय नमः। तुहिनवर्णम् मृगेन्द्रवदनं धर्मर्मूीन्त ध्यायामि । नैॠते ॐ वं बुद्धितत्वयुताय विवेकविभवान्तस्थाय ज्ञानमूर्तयेनमः। अच्छोपलवर्णं मृगेन्द्रवदनं ज्ञानर्मूीन्त ध्यायामि। वायव्ये ॐ बं बुद्धितत्त्वयुताय विवेकविभवान्तस्थाय वैराग्याय नमः । मुक्ताफलरुचिं मृगेन्द्रवदनं

वैराग्यर्मूीन्त ध्यायामि । ऐशाने ॐ बं बुद्धितत्वयुताय अविद्याविभवान्तस्थाय ऐश्वर्याय नमः । शशिवर्णं मृगेन्द्रवदनम् ऐश्वर्यर्मूीन्त ध्यायामि । पूर्वेॐ बं बुद्धितत्त्वयुताय अविद्याविभवान्तस्थाय अधर्मायनमः । पद्मरागवर्णं मृगेन्द्रवदनम् अधर्मर्मूीन्तध्यायामि । दक्षिणेॐ बं बुद्धितत्त्वयुताय अविद्याविभवान्तस्थाय अज्ञानाय नमः। प्रवालवर्णं मृगेन्द्रवदनम् अज्ञानर्मूीन्त ध्यायामि। पश्चिमे ॐ बं बुद्धितत्त्व युताय अविद्या विभवान्तस्थाय अवैराग्याय नमः। अग्निवर्णं मृगेन्द्रवदनं अज्ञानर्मूीन्तध्यायामि। उत्तरे ॐ बं बुद्धितत्त्वयुताय अविद्याविभवान्तस्थाय अनैश्वर्याय नमः।
दाडिमफलवर्णं मृगेन्द्रवदनम् अज्ञानर्मूीन्त ध्यायामि।

प्रागीशानदिङ्मध्ये- ॐ बं बुद्धितत्त्वयुताय वाक्प्रपञ्चविभवान्तस्थाय ऋग्वेदाय नमः। हेमवर्णं वाजिवक्त्रम् ऋग्वेदं ध्यायामि। प्रागाग्नेयदिगन्तरे ॐ यं बुद्धितत्वायुताय वाक्प्रपञ्च विभवान्तस्थाय यजुर्वेदाय नमः । चम्पकवर्णं वाजिवक्त्रं यजुर्वेदं ध्यायामि। निऋतिवरुण मध्ये ॐ बं बुद्धितत्वयुताय वाक्प्रपञ्ज विभवान्तस्थाय सामवेदाय नमः ।
खद्योतवर्णं वाजिवक्त्रं सामवेदं ध्यायामि।
वायव्य वरुणान्तरे- ॐ बं बुद्धितत्वयुताय वाक्प्रपञ्ज विभवान्तस्थाय अथर्वणवेदाय नमः । हरितालवर्णं वाजिवक्त्रम् अथर्वणवेदं ध्यायामि। ईशानसोमदिङ्मध्ये- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय कृतयुगाय नमः । वृषेन्द्रवदनं सुपक्वाम्रफलवर्णं कृतयुगं ध्यायामि । अन्तकाऽग्न्यन्तरे- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय त्रेतायुगाय नमः। अतसीपुष्पनिभं वृषेन्द्रवदनं त्रेतायुगं ध्यायामि। याम्यराक्षसमध्ये- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय द्वापरयुगाय नमः। वृषेन्द्रवदनं नीलाब्जवर्णं द्वापरयुगं ध्यायामि । सोमसामीरणान्तरे- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय कलियुगाय नमः। वृषेन्द्रवदनं शुक्लवर्णं कलियुगं ध्यायामि। एतान् सम्पूर्णनर लक्षणान् सद्वस्त्र सत्पुष्पसदलङ्करणान्वितान् शङ्ख पद्म वराभयकरान् आधेयचक्रविन्यस्तमस्तकान् स्वात्मसिद्धये परस्मिन् मन्त्राकरणे समर्पितान्तः करणान् षोडशवार्षिकान् ध्यायामि। उपरि ॐ रं वं हं धामत्रयाश्रयाय ह्रीं भ्रमन्मायाविभवान्तस्थाय कालचक्राय नमः। युगान्तार्काग्निसङ्काशं स्वगोमण्डलमध्यगं स्वमुद्राव्यग्रपाणिं वल्गन्तं हेतिराजं ध्यायामि ।

उपरि ॐ भं प्रकृति तत्वयुताय गौणिवृत्तविभवान्तस्थाय अव्यक्तपद्माय नमः।
हिमहेमाग्निभास्वरं वायव्योद्भूतनालं शान्तम् अष्टभुजं स्वस्तिकेनस्थितं सौम्यम् ऊर्ध्वमुखं विकाराधारसुस्थितं हृत्पुण्डरीकरूपम् अव्यक्तपद्मं ध्यायामि। उपरि ॐ मं चिदादित्यस्वरूपाय विमलादिकलाजाल विभवान्तस्थाय जीवात्मने नमः। स्फटिकोपलकान्तिं चिद्घनं ध्रुवम् अव्यक्तं
सर्वशक्तिनिधिम् अमूर्तं चित्प्रभाकारं जीवं ध्यायामि।
देहमध्ये- ॐ सुषुम्नानाडिकायै नमः। नाभिकन्दात् ब्रह्मरन्ध्रेण सूर्यपथात् परगतां पायुद्वारेण पातालं भित्वा स्वगोचरं यातां सूत्रे मणिगणवत् स्वप्रतिष्ठित सर्वसङ्कल्पविषयां त्रिदीप्तिभास्वरां सुषुम्नाभिधां मध्यनाडिकां ध्यायामि। जीवात्मनः उपरि- ॐ ह्रीम् ऐं क्लीं सौः नानामन्त्रगणरूपिण्यै शब्दब्रह्मशक्त्यै नमः । सर्वमन्त्र जननीम् आकारादि हान्तं धारासन्तानरूपं वर्णजं नादं नदन्तीं परां वाक्भ्रमरीं शब्दब्रह्मेदिविश्रुतां शान्तात्मनां शक्तिं ध्यायामि। उपरि नादावसानगगने-ॐनमोभगवतेवासुदेवाय । शान्तं सनातनं संवित्स्वरूपं नित्यतृप्तनिरञ्जनं सर्वाकारम् अमूर्तं भक्तानुग्रहकाम्ययामूर्तताङ्गतम् अनुपमं सहस्ररविवह्नीन्दु लक्षकोटिसमप्रभं देवं ध्यायामि । इति ध्यात्वा। तदनु ॐ अस्मद्ग ुरुभ्यः नमः इति ध्यायेत् । हृत्कमलदलेषु पूर्वादिषु-ॐ उत्कर्षिण्यै नमः। ॐ ज्ञानायै नमः । ॐ क्रियायै नमः। ॐ योगिन्यै नमः । ॐ प्रह्वयै नमः । ॐ सत्यायै नमः। ॐ ईशान्यै नमः । कर्णिकायां ॐ अनुग्रहायै नमः । ॐ सहस्रशीर्षापुरुषः । सहस्राक्षस्सहस्रपात् । स भूमिं विश्वतो वृत्वा। अत्यतिष्ठद्दशाङ्गुलम् । ॐ नमोभगवतेवासुदेवाय, अव्यक्तपङ्कज कर्णिकामध्ये आगच्छागच्छ। पुरुषएवेदँसर्वं यद्भूतं यच्छभव्यम्। उतामृतत्वस्येशानः। यदन्नेनातिरोहति। आसनं
समर्पयामि।
स्वागतं देवदेवेश सन्निधिं भज मेऽच्युत।
गृहाणमानसीं पूजां यथार्थ परिभाविताम्।
ॐ आवाहनमुद्रायै नमः। ॐ स्थापन मुद्रायै नमः। ॐ सन्निधान मुद्रायै नमः। ॐ सन्निरोध मुद्रायै नमः। ॐ साम्मुख्यमुद्रायै नमः। ॐ प्रार्थनामुद्रायै नमः। शिरसः उपरि- ॐ पद्मान्तराकाशस्थितायै गङ्गायै नमः। सुषुम्नावर्त्मना भगवन्मूर्ध्निच्युताम् अमृतमयीं गङ्गां ध्यायामि। इति ध्यात्वा । तज्जलेन अमृतमयेन अर्घ्यादिदानं स्मरेत् ।

एतावानस्य महिमा । अतो ज्यायाश्च पूरुषः। पादोस्यविश्वा भूतानि । त्रिपादस्यामृतं दिवि ।
पाद्यं समर्पयामि।
त्रिपादूर्ध्व उदैत्पुरुषः। पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामत् । साशना नशने अभि।
अर्घ्यं समर्पयामि।
तस्माद्विराडजायत। विराजो अधिपूरुषः। स जातो अत्यरिच्यत। पश्चात् भूमिमधो पुरः।
आचमनं समर्पयामि।
ॐ नमोभगवतेवासुदेवाय मन्त्रासनं कल्पयामि। देवस्य दक्षिणकेसरेषु-ॐ श्रीं श्रियै नमः आगच्छागच्छा शब्दब्रह्मस्वरूपिणीं सर्वशक्तिमयीं श्रियं ध्यायामि। ॐ श्रियै नमः पद्मासनं समर्पयामि। अमृतमयं पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मन्त्रासनं कल्पयामि। श्री देवी मन्त्रस्य। मङ्कणऋषिः। गायत्रीछन्दः। श्रीर्देवता। श्रीं बीजं। ह्रीं शक्तिः। क्लीं
कीलकं। समाराधनार्थे विनियोगः।
ओम् श्रां हृदयाय नम: ।
ओम् श्रीं शिरसे स्वाहा ।
ओम् श्रूं शिखायै वषट् ।
ओम् श्रैं कवचाय हुम् ।
ओम् श्रौं नेत्राभ्यांवौषट्।
ओम् श्रः अस्त्राय फट् । ओम् कमल मुद्रायै नम: ।
देवस्य वामे-ॐ भूं भूम्यै नमः आगच्छागच्छा, सर्वशक्तिमयीं भूमिं ध्यायामि । ॐ भूम्यै नमः कल्पयामि । अमृतमयं पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि । मन्त्रासनं कल्पयामि । भूदेवी मन्त्रस्य। कण्वऋषिः। गायत्रीछन्दः । भूर्देवता। ह्रीं बीजं। श्रीं
शक्तिः। क्लीं कीलकं। समाराधनार्थे विनियोगः।
ओम् ह्रां हृदयाय नम: ।
ओम् ह्रीं शिरसे स्वाहा ।
ओम् ह्रूं शिखायै वषट् ।
ओम् ह्रैं कवचाय हुम् ।

ओम् ह्रौं नेत्राभ्यांवौषट्।
ओम् ह्रः अस्त्राय फट् । ओम् कमल मुद्रायै नम: । परिवारकल्पनं करिष्ये । योगासनाब्जपत्रेषु, पूर्वादिषु, द्वादश दलेषु।
ओम् श्रीवत्साय नम: , ओम् वनमालायै नम: , ओम् योगमायायै नम:, ॐ वैष्णव्यै नम: , ओम् विमलायै नम: , ओम् सृष्ट्यै नम:, ओम् उत्कर्षिण्यै नम: , ओम् प्रज्ञायै नम: , ओम् सत्यायै नम: , ओम् ऐशान्यै नम: , ओम् अनुकम्पायै नम: , ओम् पितामह्यै नम: ।
एता: पुष्पाञ्जलि धरम् ध्यात्वा ।
ओम् व्याप्त्यै नम: , ओम् कान्त्यै नम: , ओम् तृप्त्यै नम: , ओम् श्रद्धायै नम:
ओम् विद्यायै नम:, ओम् जयायै नम:, ओम् क्षमायै नम:, ओम् शान्त्यै नम: तत्परितः - द्वितीया वरणे ओम् शङ्खिने नम:, ओम् चक्रिणे नम:, ओम् गदिने नम:, ओम् शार्ङ्गिणे नम:, ओम् पाशिने नम:, ओम् अङ्कुशिने नम: ।
ॐ इन्द्राय नम:, ओम् अग्नये नम:, ओम् यमाय नम:, ओम् नैरृतये नम:, ॐ वरुणाय नम:, ओम् वायवे नम:, ओम् सोमाय नम:, ओम् ईशानाय नम: ।
त्रितीयावरणाद्बहि: भगवत: प्रति मुखे ओम् क्षम् वैनतेयाय नम: ।
ईशानदिशि ओम् विष्वक्सेनाय नम: । एताः भगवदभिमुखान् प्राञ्जलीन्
ध्यायामि ।
ॐ नमोभगवतेवासुदेवाय श्रीभूसहिताय स्नानासनं कल्पयामि । यत्पुरुषेणहविषा…ग्रीष्म इद्मश्शरद्धविः। स्नानं समर्पयामि । ॐ अलङ्कारासनं कल्पयामि। सप्तास्यासन्
परिधयः…पुरुषं पशुम्।
ॐ वस्त्रं समर्पयामि। तं यज्ञं…ऋषयश्च ये । उपवीतं समर्पयामि।
तस्माद्यज्ञात्सर्वहुतः…ग्राम्याश्च ये । ॐ गन्धं समर्पयामि।

तस्माद्यज्ञात्सर्वहुतः…यजुस्तस्मादजायत । ॐ पुष्पं समर्पयामि। तस्मादश्वा
अजायन्त…अजावयः। ॐ धूपं समर्पयामि । यत्पुरुषं व्यदधुः…ॐ दीपं समर्पयामि। ॐ
नमोभगवतेवासुदेवाय श्रीभूसहिताय भोज्यासनं कल्पयामि ।
ब्राह्मणोस्यमुखमासीत्…पद्भ्यां शूद्रो अजायत । ॐ अमृतमयं नैवेद्यं समर्पयामि ।
चन्द्रमामनसो जायत…प्राणाद्वायुरजायत । ॐ ताम्बूलं समर्पयामि।
ॐ नमोभगवतेवासुदेवाय श्रीभूसहिताय आवाहनादि ताम्बूलान्तै स्सङ्कल्प जनितैः
पवित्रैरक्षयैश्शुभैः सांस्पर्शिक औपचारिकाभ्यवहारिकरूपैः सप्तलोकसमुद्भवैः यथोदितैः उत्कृष्टतर लक्षणैरमृतमयैर्भोगैः श्रीभूमिभ्यां सह सन्तुष्टोभव। ॐ नमोभगवतेवासुदेवाय
श्रीभूसहिताय सर्वालङ्कार संयुतानि धेनुयानानि समर्पयामि।
नाभ्या आसीद्…तथालोकाम् अकल्पयन् । ॐ श्रीभूसहितवासुदेवाय चरणौ शरणं प्रपद्ये ।
आनन्दाश्रु परिप्लुतस्सन्नात्मानं सपुत्र पौत्रदारं भगवते समर्पयामि । ॐ क्षं सर्वाभीष्टप्रदायिन्यै धेनुमुद्रायै नमः सुरभिमुद्रां प्रदर्श्य। तज्जातैरमृतमयैर्वस्तुभिःसन्तुष्टो भव। अञ्जलिं सुवर्णपुष्पसम्पूर्णं ध्यायामि । इति अञ्जलिं कृत्वा। तस्मिन् रेचकपूरककुम्भकैः प्रत्येकं मूलमन्त्रमुच्छार्य, तस्मिन्-ॐ नमो नारायणाय आगच्छ आगच्छ इति वह्नयर्केन्दुनिभं ध्यात्वा । सन्निरुद्ध्य । तं देवं मूर्ध्नि क्षिप्त्वा। भूयोप्यर्घ्यं पुष्पाञ्जलिं च वितीर्य। मूलमुद्रां प्रदर्श्य। लक्ष्म्यादीनां तत्तन्मुद्राश्च दर्शयित्वा। यथाशक्ति मूलमनुं जप्त्वा। स्तोत्रैः स्तुत्वा। श्रीभूमिसहितं वासुदेवं प्रसादयेत्।
मानसाग्निकार्य विधिः
अथ मानसाग्निकार्यविधिः उच्यते । नाभि चक्रमध्ये ॐ गं भं ह्रीं त्रिगुणावृत्ताय त्रिकोणाय ॐ रं प्रधानाग्नियुताय वह्निगृहाय नमः। नाभिचक्रे त्रिकोणकुण्डस्थम् अग्निं ध्यायामि। ध्यानारणि मन्थनेन चिदग्निमुत्पादयामि । वासुदेवात्मकं शुद्धं संस्कृतं दीप्तम् ऊर्ध्वशिखञ्चाग्निं ध्यायामि । इति ध्यात्वा। “अदितेनुमन्यस्व” इत्यारभ्य “देवसवितःप्रसुव” इत्यन्तेनाऽमृतैः परिषेचनं ध्यात्वा तज्ज्वालाग्रे ॐनमोभगवतेवासुदेवाय आगच्छागच्छेति मन्त्रविग्रह मावाह्य । सन्निरुद्ध्य। पूर्ववदमृतेनार्घ्यदि स्मृत्वा । वितीर्य। अमृतमाज्यमुपरिष्टात् पद्मात् सुवर्णपात्रे सुषुम्नावर्त्मना परिच्युतं ध्यात्वा । तेनाज्येन नाभिचक्र त्रिकोण कुण्डस्थं चिदग्निज्वालाग्रा वस्थितं मन्त्रविग्रहं मूलमन्त्रेण स्वाहान्तेन सन्तर्प्य। “अदितेन्वमग्गुस्थाः”

इत्यारभ्य " देवसवितः प्रासावीः”इत्यन्तेन परिषेचनं ध्यात्वा। अमृतमयं निवेदनं
ध्यात्वा। पुनश्च हृदयकमलमध्ये नाभिचक्रे चिदग्निज्वालाग्रावस्थितं पूर्ववदावाह्य। तत्र स्थितं ध्यात्वा। ततः दक्षिणतः करकं तोयपुष्पाक्षतैः पूर्णं भावयित्वा। तन्मध्ये ॐ नमोभगवते वासुदेवाय इति संस्मृत्य। तन्मध्ये ॐ श्रीं श्रियै नमः। यागोक्तां भूसम्पत्तिं लक्ष्मीरूपां ध्यायामि। इति ध्यात्वा। तन्मध्ये पुनरपि पूर्ववत् मूलमन्त्रं स्मृत्वा। सशीर्षे जानुनी भूमौ कृत्वा।
विष्णोर्निवेद्य। तं प्रसादाभिमुखं परितुष्टं विचिन्त्य
नमस्ते सर्वलोकेश भगवन् मन्त्र विग्रह।
आराधयामि त्वां बिम्बे तावन्निवस मे हृदि।
इत्युक्त्वा । ततो बाह्यपूजां वक्ष्यमाणेन विधिना कुर्यात्।

अथ मन्त्र शुद्धिः
ॐ यं वायवे नमः मन्त्रबीजानि शोषयामि।
ॐ रम् अग्नये नमः मन्त्रबीजानि दहामि।
ॐ लं पृथ्व्यै नमः। अमृतधारया प्लावयामि।
ॐ हं मन्त्रबीजानि शोधयामि।
इति शोधनं कृत्वा। शुद्धमन्त्रम् अक्षमालया अष्टोत्तरशतं वा
अष्टाविंशतिर्वा, बीजाद्यन्त सम्पुटितं जपेत्।
द्वयं मन्त्र शुद्धिः।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
भूतशुद्धि मन्त्रन्यासान्तर्याग, मानसाग्निकार्य, मन्त्रशुद्धिविधिःनाम सप्तविंशः परिच्छेदः