२६ दीक्षा

श्री:
श्रीमतेरामानुजाय नमः
श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
षड्विंशः परिच्छेदः
दीक्षा विधिः

अथ तावत् दीक्षाविधिः उच्यते।

दीक्षामण्डपम्

दीक्षा-मण्डपं प्रतिष्ठा-मण्डपवत् स-मध्य-वेदिकं कल्पयित्वा

कुण्डम्

वेदिकायाः पश्चिमे ताल-त्रयात् बहिः,
ब्राह्मणस्य चेत् दीक्षा तालद्वय-सम्मित चतुरश्रङ् कुण्डं,
क्षत्रियस्य यदि गो-कर्ण-युग्मेन वृत्तं,
यदि वैश्यस्य वितस्तिभ्यां चतुर्-अश्राकारं,
पाद-जस्य प्रादेश-द्वयेन त्रि-कोणं च कुण्डं कल्पयित्वा

पात्राणि

स्रुक्स्रुवौ च एवम् एव वर्णानुपूर्वेण,
एवम् अन्यानि पात्राणि समिदादीन् यागसम्भारान् च दशम्यां सम्पाद्य

प्रोक्षणादि

तद्-अनु एकादश्यां सायाह्ने दीक्षाचार्यः मण्डपे सर्वालङ्कारयुते पूर्ववत् द्वार-तोरण-कुम्भादीन् संस्थाप्य
पूर्ववत् अङ्कुरावापनं कृत्वा

मण्डलसृष्टिः

मण्डलाराधनम्

कलश-करके

तद्-अनु हेमादिमयं कुम्भं, तादृशं करकं च, मृण्मयं चेत् सूत्र-वेष्टितं,
तद्-युगलं गालितोदकेन आपूर्य,
न्यस्त-रत्न-सुवर्ण–स्रव-चन्दन–परिष्कृतम्
अ-हत-वास–युग्म-संवेष्टितं कृत्वा,
करकम् अस्त्र-मन्त्रेण शत-वारम् अभिमन्त्य,

अविच्छिन्न-धारया वेदिकां परितः प्रादक्षिण्येन करकं,
तस्याः पृष्टतः कुम्भं च नीत्वा,
चक्र-पद्मस्य ईशान-कोणे धान्यराशौ,
दक्षिणे कलशं, वामे करकं च सम्स्थाप्य,
(करके षड्-अक्षरेण सुदर्शनं, अथ)
कुम्भे मूलमन्त्रेण हरिं पीठ-कल्पन-पूर्वकम् आवाह्य अभ्यर्च्य,

होमः

मण्डले साङ्गं सपरिवारं परमात्मानं यथाविधि समभ्यर्च्य,
तदनु अष्टाक्षरेण अग्निं मथित्वा, कुण्डमध्ये निधाय,

तत्र श्रृतं चरुं चतुर्धा विभज्य,
भागम् एकं मण्डलस्थाय हरये,
कुम्भस्थाया अंशम् एकं च निवेद्य,
अग्नौ एकम् अंशं हुत्वा,
गुरुः स्वयम् एकम् अंशम् उपयुञ्जीत।

तत्र अग्नौ समिधां अष्टोत्तरशतम्,
आज्याहुतीनाम् अपि तथा मूलमन्त्रेण,
चरुं पुरुष-सूक्तेन हुत्वा,
पूर्णाहुतिं कुर्यात्।

तदनु आचार्यः
स्नातं जितक्रोधं मदादि-रहितं शुचिम् अ-हत-क्षौम-वसनं सोत्तरीयम् अलङ्कृतं शिष्यं आहूय
नवेन वाससा नेत्रे स्वमन्त्रेण बद्ध्वा,
तम् आत्मनः दक्षिणपार्श्वे प्राङ्मुखं विनिवेश्य,

तेन दर्भैः संस्पृष्टः सन्
द्वादशाक्षरेण आज्य-चरु-समित्-पुष्प-तिलैः द्वादशाहुतीः जुहुयात्।

पुण्ड्रधारणादि

ततः गुरुः शिष्यस्य मूर्धानं प्रसृति-मुद्रया त्रिः प्रादक्षिण्येन अष्टाक्षरेण स्पृशन्
भस्मना पाण्डरेण मूल-मनुना शिरः स्पृष्ट्वा,
शिष्यस्य ऊर्ध्व-पुण्ड्रं विधाय,
अस्त्र-मन्त्रेण प्रतिसरं बद्ध्वा,
शिष्यं पञ्चगव्यं चरुं च प्रणवेन प्राशयित्वा

दन्तान् धावयित्वा,
दन्तकाष्ठं भूमौ निपात्य अवलोकयेत्।
नैरृत-वारुण-याम्येषु यद्य् अग्रम् अशुभं भवति।
तदा नृसिंहमन्त्रेण तिलैः अष्टोत्तरशतम् आहुतीनां जुहुयात्।

ततः गुरुः शिष्यम् आचान्तं करे गृहीत्वा,
देवेशं प्रणम्य,

विश्वास-प्रस्तुतिः

संसार-पाश-बद्धानां
पशूनां पाश-मोक्षणे।
त्वम् एव शरणं देव
गतिर् अन्या न विद्यते।
पाश-मोक्षण-हेतुर् यः
त्वत्-समाराधनात्मकः।
तेनेमान् जन्म-पाशेन
पाशितान् पशु-जन्मनः।
विपाशयामि देवेश
तद् अनुज्ञातुम् अर्हसि।

मूलम्

संसारपाश बद्धानां पशूनां पाशमोक्षणे।
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुर्यः त्वत्समाराधनात्मकः।
तेनेमान् जन्मपाशेन पाशितान् पशु जन्मनः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।

इति इमां गाथाम् उदीर्य,
शुक्ल-कृष्ण-रक्त-वर्णं तन्तुं त्रि-गुणी-कृत्य
पुनश् च त्रिगुणीकृतेन तेन
माया-सूत्रेण शिष्यस्य शिखाम् उपक्रम्य

पादान्तं पञ्च-विंशति-सङ्ख्यया मूलमन्त्रेण वेष्टयित्वा,
तेनैव मन्त्रेण सर्पिषा अष्टोत्तरशतं आहुतीश्च हुत्वा,
माषोदनेन भूतेभ्यः बलिं दत्वा,
शिष्य-नेत्र-बन्धं देह-बन्धं च विमोच्य,

शायनादि

माया-सूत्रम् अन्यस्मिन् शरावे निधाय,
अन्येन पिधाय,
कुम्भ-पार्श्वे निधाय,
दर्भान् भूमौ संस्तीर्य,
तत्र शिष्यं शाययेत् ।

तदा मण्डल-कुण्डाग्निस्थ-देवान् न उद्वासयेत्।
प्रभाते शिष्यस्य सु-स्वप्न-दर्शने सद्य एव दीक्षेत ।
दुस्-स्वप्न-दर्शने तु सद्यः गुरुः स्नात्वा याग-मण्डपं समासाद्य,
दुस्-स्वप्न-दोष-शान्त्यर्थं शान्ति-होमङ् करिष्ये इति सङ्कल्प्य,
पूर्ववत् शान्ति-होमङ् कृत्वा,

मायामोचनम्

पूर्ववत् तोरण-ध्वज-कुम्भ-पूजनं कृत्वा,
मन्डलस्थं कुम्भस्थं च देवम् अभ्यर्च्य,
चतुर्-विधम् अन्नं निवेद्य,
नत्वा प्रदक्षिणी-कृत्य,
शिष्यस्य नेत्रे पूर्ववत् बद्ध्वा,
तम् आत्मनः दक्षिणे पार्श्वं प्रापय्य,
समिद्-आदिभिः मूलमन्त्रेण प्रत्येकम् अष्टोत्तरशतम् आहुतीनां हुत्वा,

ततः माया-सूत्रं पञ्च-विंशति-धा छित्वा,
तेन प्रत्येकम् अष्टोत्तर-शतम् अष्टकृत्वा+++(??)+++ प्रकृत्यादीनि हुत्वा

पुनर्-उज्जीवनम्

गुरुः स्वहृत्-पद्मे परम-पुरुषं ध्यायन्
तस्मिन् शिष्य-जीवं संहार-क्रमेण संहृत्य
तस्य शोषणादि कृत्वा,
तद्-अनु तत्त्व-सृष्टि-होम-पूर्वकं शिष्यस्य स्थूल-शरीरं सृष्ट्वा
स्व-हृदय-स्थं मण्डले विचिन्त्य,
मण्डलस्थं शिष्ये ध्यात्वा,
शिष्यं सजीवं ध्यात्वा,
मूलमन्त्रेण कुम्भजलेन प्रोक्ष्य,

शिष्यस्य नेत्र-बन्धम् उन्मुच्य,
मूल-मन्त्रेण अन्यत् वासः परिधाप्य,
तस्य पाद-प्रक्षालनम् आचमनान्तं कारयित्वा,

होमशेषैः स्पर्शः

अन्येन वाससा शिष्यस्य नेत्रे बद्ध्वा,
गुरुः तम् अन्तिके प्राङ्मुखम् उपवेश्य,
षड्-अध्वनः शोधयित्वा,

महा-व्याहृति-मन्त्रेण आज्येन अष्टोत्तरशतम् आहुतीनां हुत्वा,
हुतशेषेण शिष्यस्य पादौ +++(संस्पृश्य)+++,

तिलैः तावतीः तन्-मन्त्रेण हुत्वा,
हुतशेषेण शिष्यस्यनाभिं +++(संस्पृश्य)+++,

कुशेशयैः तावतीः पूर्वोक्त विद्यया हुत्वा,
हुतशेषेण शिष्यस्य हृदयं +++(संस्पृश्य)+++,

पूर्वोक्तेन मनुना चरुणा पूर्वोक्त सङ्ख्यया हुत्वा,
हुतशेषेण शिष्यस्य मूर्धानं च संस्पृश्य,

नाम-करणम्

होमान्ते गुरुः शिष्यं दक्षिणे करे गृहीत्वा,
कुम्भं मण्डलं च प्रदक्षिणं प्रक्रमय्य,
मण्डलस्य चतुर्णां द्वाराणां मध्ये यस्मिन् कस्मिंश्चित् द्वारि तिष्ठन्,
गुरुः शिष्याञ्जलिं मणिभिः मुक्ताभिः प्रवालैः केवलैः पुष्पैः वा पूरयेत्।

तदनु सदस्य् अनुज्ञया गुरुणा अभ्यनुज्ञातः,
तस्मिन् मण्डले पूर्वम् अञ्जलिपूरितं पुष्पादि शिष्यो विकिरेत्।

तद्-उत्करः यत्र पतति,
तद्-भागाधिप-मूर्तीनां नामानि केशवादीनि,
तद्-अन्ते भागवतः इति भट्टारकः इति वा गुरुः शिष्यस्य विनिर्दिशेत्,
क्षत्रियस्य तु देवान्तं नाम, वैश्यस्य पालशब्दान्तं, शूद्रस्य दासान्तम् ।

मन्त्रोपदेशः

तद्-अनु गुरुः शिष्यस्य नेत्रबन्धं विमुच्य,
चक्राब्जमण्डलं प्रदर्श्य,
तेन सह आचार्यः देवं नारायणं ध्यात्वा,
शिष्यस्य कर्णे सप्रणवं, स-ऋषि-छन्दो-दैवतं, साङ्गं द्वादशाक्षरं,
तद्-अनु अष्टाक्षरं,
पश्चात् मूर्ति-मन्त्रान् च यथाविधि अध्यापयेत् ।
क्षत्रियवैश्योश् च एवम् ।
शूद्राणां, स्त्रीणाम् अनुलोम-जानां च नमःप्रणव हुम्फट् स्वाहाकार वर्जितं केवलं
केशवादिकं वैष्णवं नाम अध्यापयेत्।

आचारोपदेशः

तद्-अनु कुम्भ-स्थं मण्डल-स्थं च हरिम् अर्चयित्वा, ध्यात्वा,
गुरुः स्वहस्ते चक्राब्ज-मण्डलं ध्यात्वा,
विष्णु-हस्तङ् कृत्वा,
स्थितस्य प्राञ्जलेः शिष्यस्य मूर्ध्नि निधाय,
देशिकः तत्र अग्नि-सन्निधौ शिष्यस्य आचारान् नियमान् च सर्वान् बोधयेत्। यथा -

इति गुरुः शिष्याय नियमान् सम्बोध्य।

समाप्तिः

ततः पूर्णाहुत्यन्तं शान्तिहोमम् अखिलं च कृत्वा,
अग्निं विसृज्य,
कुम्भस्थं मण्डलस्थं च देवम् उद्वास्य,
शिष्याय आशिषःवाचयेत्।

दक्षिणाभोजनादि

तद्-अनु शिष्यश् च गुरवे गो-भू-हिरण्य-भूषण-यान-दासी-दासादि-
यथा-वित्तानुसारतः वितीर्य,
ब्राह्मणान् भोजयित्वा,
तेभ्यश् च दक्षिणां वितीर्य,
तत्रैव हुतशेषं भुक्त्वा,

अहश्-शेषम् उषित्वा,
रवौ अस्तङ् गते सर्वाऽलङ्कार-युतः गुरुणा अनुज्ञातः,
बन्धुभिःसह अलङ्कृतं स्वगृहं प्रविशेत्।

इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
दीक्षा विधिः नाम षड्विंशः परिच्छेदः