अथ षष्ठः परिच्छेदः
मूर्धेष्टका (कवाटस्थापन) विधिः उच्यते-
पूर्वे मण्डपं प्रपां वा मध्ये वेदिकाद्वयेन सह कल्पयित्वा। मध्यवेदिकायां पूर्ववत् व्रीहि शालि तण्डुल तिलैः सवस्त्राच्छादनं स्तण्डिलं कृत्वा। तस्मिन् पूर्वोक्त लक्षणयुतान् नवकुम्बान् पुण्याहपूर्वकं संस्थाप्य। इष्टकाधिवासार्थं द्वितीय वेदिकायां च स्थण्डिलं पूर्ववत् कृत्वा। दर्भान् आस्तीर्य। मूर्धेष्टका शुद्ध्यर्थं स्नपनकर्मकरिष्ये। इति सङ्कल्प्य। पुण्याहं वाचयित्वा। तत्र नवकलशान् सलक्षणान् संस्थाप्य। तान् च पूर्वोक्त
विशेषेणविशिष्टान् विधाय। ब्रह्मादि ईशानान्तं पूर्ववत् घृतादि द्रव्यैः आपूर्य। तेषु पूर्ववत् तदधिदैवतानि आवाह्य अभ्यर्च्य। नपुंसकेष्टकाः चतस्रः सङ्गृह्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। तेषु वासुदेवादीन् आवाह्य अभ्यर्च्य। पीठे संस्थाप्य। नवकलशैः तत्तन्मन्त्रेण ताः क्रमेण पृथक् अभिषिच्य। सदर्भ नव वासोभिः पृथक् पृथक् संवेष्ट्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। पूर्वकृत द्वितीयवेदिका स्थण्डिलोपरि ताः शाययित्वा। पूर्ववत् द्वारतोरण कुम्भान् संस्थाप्य। तत्तद्दैवतानि आवाह्य अभ्यर्च्य। मध्यवेदिकाकुम्भेषु मध्ये परमात्मानं उपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य। पायसान्नं निवेद्य। वेदिकायां चतसृषु दिक्षु अधिवासहोमं धाम्नः अष्टसु दिक्षु शान्ति होमं च कृत्वा। सम्पाताज्यं सङ्गृह्य। तेन स्पर्शमन्त्रेण ताः स्पृष्ट्वा। पूर्ववत् सङ्कल्पादि पूर्वसूत्रैः प्रतिसरं बध्नीयात्। ततःपञ्चविंशति कलशस्नपन कर्मकरिष्ये। इति सङ्कल्प्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। पूर्वायतानि दश उदकायतानि तावन्ति सूत्रानि निपातयेत्। तदाकृते एकोत्तराशीति पदानि भवन्ति। तेषु मध्यपद नवके कुम्भ नवकं तत्परितः द्वेद्वे पङ्क्तिं वीध्यर्थं परिमाज्र्य। तद्बहिः पूर्वादिसोमान्तं दिक्षु त्रीणि त्रीणि आग्नेयादीशानान्तम् एकैकं कुम्भानां व्रीहि तण्डुल तिलकृतस्थण्डिलोपरि विन्यस्य। मध्यकुम्भनवकं घृतोष्णोदक नवरत्न फलसप्तलोह मार्जन गन्धाक्षत यवैःब्रह्मादीशानान्तं क्रमेण आपूर्य। पूर्वादि दिक्स्थमध्य कुम्भान् चतुरः क्रमेण पाद्य अर्घ्य आचमन पञ्चगव्यैः आग्नेयादि कोणस्थितान्चतुरः दधिक्षीर मधु कषायैः पाश्र्वस्थित कुम्भाष्टकं शुद्धोदकेन च आपूर्य। पूर्वोक्त विशेषेण विशिष्टान् आधाय। द्रव्यकुम्भेषु परवासुदेवादि दामोदरान्तान् शुद्धोदक कुम्भेषु नारायणं च आवाह्य। अभ्यर्च्य। ततः यजमानः आचार्यः स्नात्वा वस्त्राङ्गुलीयकादिभूषणैः भूषितः उपोषितः। तत्र दर्भान् आस्तीर्य। परमपुरुषं ध्यायन् शायीत। श्वभूते सुमुहूर्ते कृतकृत्यः गुरुः इष्टकाः पञ्चविंशतिकलशैः मूलमन्त्रेण महाकुम्भतोयेन च स्नापयित्वा
अभ्यर्च्य। मूलेन जलैः वासोभिः वेष्टयित्वा। सर्वालङ्कृतानाम् ऋत्विजां मूध्र्नि विन्यस्य। सवेदवाद्यघोषं धामप्रदक्षिणी कृत्य। विमानोपरितले इष्टकाः आरोप्य। पुण्याहं वाचयित्वा। आचार्यः प्राङ्मुखः हृदयकमले नारायणं ध्यायन् पूर्वादि दिक्रमेण प्रणवेन इष्टकाः स्थापयेत्। तदानीं पापरोगयुतान् प्रतिलोमजान् अपि बहिः निर्वासयेत्। तदनु यजमानः शिरसा गुरुं प्रणम्य। गो भू हिरण्य भूषणदासीदास वाहन छत्र चामर पादुकादीन् महादक्षिणां च दद्यात्। रथकारं च तथा वस्त्रान्नधनदान्यादिभिः तोषयेत्।
अत्र स्थूपिकाकील विधिः उच्यते ।
सौवर्ण राजतं ताम्रं वा दारुजं वा वक्र ग्रन्थि वर्जितं स्थूपिका कीलं मूर्धभूम्यङघ्रि प्रमाण विस्तारायामं भवेत्। तदग्रमङ्गुली प्रमाणं विमान कण्ठतुल्य प्रमाणम् अध्यर्ध प्रमाणं द्विगुण प्रमाणं वा वृत्तं चतुरश्रं पञ्चाश्रं वा कल्पयेत् । वृत्तायते चतुरश्रायते च विमाने स्थूपिकाकीलानि युग्मानि स्युः;इतरेषु विमानेषुअयुग्मानि। विंशति यावत् युग्मानि;एकोनविंशतिं यावत्अयुग्मानि चतुरश्र षडश्राष्टाश्र वृत्तेषु धामसु स्थूपिकाकीलं एवमेवस्यात् एवं कीलं कृत्वा। आचार्यः तस्य मूर्धेष्टका विधिवत् अधिवास स्नपनादि
आरोपणान्तं सर्वं कर्म कृत्वा। कीलं विमानाग्रं प्रापय्य।
ततः आचार्यः तत्र पुण्याहं वाचयित्वा। स्थूपिका गर्ते नवरत्नानि धातु लोहबीजानि च यथाविधि निक्षिप्य। स नववस्त्र उत्तरीयः धृत पञ्चाङ्ग भूषणः प्राङ्मुखः मूलमन्त्रेण स्थूपिका कीलं गर्ते संस्थाप्य। सुधया धृढीकृत्य। ततः विमानदिग्देवता कल्पनं कुर्यात्। तदनु यजमानः यथावित्तम् आचार्यं मूर्तिपानां दक्षिणां दद्यात्
अथ शिखाकुम्भं
सौवर्णं राजतं ताम्रं पैत्तलं मृम्मयं वाशिखाकुम्भं वृत्तेधाम्निवृत्तम् अश्रे अश्रं संस्थाप्य। तं नानारत्नैःलोहैः च आपूर्य। तदग्रं मुकुलाकृतिं दीपाकृतिं वा कल्पयित्वा। ततः विकच
कमलाकृतिं कुर्यात्।
अथ विमानदिग्देवता कल्पन विधिः
विमानस्य ऐन्द्र्यां श्यामलम् इन्द्रं रक्तं कुमारं वा दक्षिणस्यां रक्तवर्णम् उमापतिं दक्षिणामूर्तिं वा प्रतीच्यां श्वेतवर्णं नृहरिं श्रीधरं वा उदीच्यां कनकवर्णं ब्रह्माणं धनपतिं वा अथवा पुरुष सत्य अच्युताऽनन्तान् यद्वा श्याम रक्त कनकश्यामल वर्णान् वासुदेव सङ्कर्षण प्रद्युम्न अनिरुद्धान् यदिवा नर नारायण हरि कृष्णान् आहोस्वित् वराह नृसिह्म श्रीधर हयवक्त्रान् एतान् चतुर्भुजान् शङ्खचक्रधरान् ब्रह्माद्यान् अपिस्वायुध धरान् ध्रुव भेरेस्थिते स्थितान् आसीने आसीनान् शयिते तु स्थितान् आसीनान् वा यानारूढे यानारूढान् स्थितान् वा विश्वरूपे विश्वरूपान् स्थितान् वा चतुर्भुजान् इन्द्रादीन् च सर्वेष्वपि प्राकारेषु आसीनान् विमाने शैलजे शैलजान् कुर्यात्। तेषां जलाधिवासादि शयनाधि वासान्तं कर्मं यथाविधि
कृत्वा।
सुमुहूर्ते स्वस्व स्थानेषु संस्थाप्य। वर्णलेपनं कुर्यात्। इष्टकामये धाम्नि तु शूलानां जलाधिवासादि शयनाधिवासान्तं कर्म कृत्वा। स्वस्वस्थानेषु संस्थाप्य। त्रिवस्तुकमयं कृत्वा। यस्य यः वर्णःविहितः तेनैव रञ्जयेत्। ते सर्वे भित्तिमागस्ताः सपद्मविष्टरः
अर्धचित्राः आभास चित्राः वा कल्पनीयाः।
एक नासायुते धाम्नि दिङ्मूर्तिरपि एकैव । नासिकाहीने तु दिङ्मूर्तिः न इष्यते ।
चतुरश्रायते वृत्ते वृत्तायते च धाम्नि आग्नेयादिषु विदिक्षु क्रमेण वीरसेन सुषेण भद्र सुभद्रका बाहुभिः चतुर्भिः सद्मधारिणः स्थाप्याः। चतुरश्रायते धाम्नि दक्षिणोत्तरतः
नासिका द्वययुते पूर्णपुष्करौ शङ्खचक्र धरौ यवनिकां स्पर्शि हस्तौ कल्पनीयौ। विमानस्य प्रतितलं नृत्यतः सुरविद्याधरान् किन्नरोरगान् वीणा पणवधारिणश्च सर्वत्र भगवदवतारान् च वृत्तेः उपरि कण्ठस्य अधस्तात् कोणेषु चतुर्षु कनक वर्णं गरुडं सिह्मं वा कण्ठमात्रोन्नतं पादमात्रोन्नतम् अध्यर्धोन्नतं त्रिपादमात्रोन्नतं वा कल्पयेत्। अधस्तात् विमानाधिष्टाने आग्नेये स्थितं हस्ति वदनं दक्षिणस्यां शोणमीशम् ऋषिभिः सेवितं दक्षिणामूर्तिं वा प्रतीच्यां विश्वरूपम् उत्तरे कमलासनं कनक वर्णम् ऐशान्यां महिषासुरमर्दिनीं अथवा पूर्ववत् सर्वाऽपि दिङ्मूर्तिः तस्य अधस्तात् उपपीठेऽपि पूर्ववत् अथवा
तत्कर्तोपेतान् प्रादुर्भावान् प्रकल्पयेत्।
पाषाण शर्करा तक्रसुधया त्रिप्रकारया त्रिफलाम्म्भोभिःत्रिवारं द्विवारम् एकवारं वा पिष्टया खादिरार्जुन शाल्मली क्षीरशाखिनाङ्कषायाम्भोभिः तथा कृतया घटे भूयः पिष्टया माषीयत्वक्वात मिश्रया गुडपाकरसैः सैकतैः च पुनः भृशङ्कुट्टितयाधाम स्थूल सूक्ष्मरूप पराख्येन त्रिविधेन क्रमेण लिम्पेत्। एवं कृतेधाम चिरस्थायी भवति। पाषाण शर्करातक्रसुगन्धचूर्णं द्विगुणवालुकया युक्तं संयक् पिष्ट्वा कुर्यात्। एकवारं क्षुण्णं स्थूलं, द्विवारं क्षुण्णं सूक्ष्मं, त्रिवारं क्षुण्णं परम्। एवं क्रमेण लेपनक्रमःतद्धाम पञ्चवर्णैः यथाविधि शोभितं कृत्वा। उपानदादि स्थूप्यन्तं कनकादिभिः भूषयेत्।
अथ कवाट स्थापन विधिः उच्यते
कवाटद्वार शाखाः समानीय। “ओं लां नमः पराय सर्वात्मने” इति सङ्क्षाल्य। पुण्याहं वाचयित्वा। कवाटद्वारशाखाः चतस्रः पञ्चोपनिषन्मन्त्रेण अद्भिः सम्प्रोक्ष्य। अहतैः वासोभिः आच्छाद्य। पूर्ववत् धान्यराशिं कृत्वा। तत्र कवाटद्वार शाखाः संस्थाप्य। कुम्भस्थापनार्थं च पूर्ववत् स्थण्डिलं कृत्वा। तत्र सरत्नलोह कूर्चाऽश्वत्थपल्लवापिधानं सकरकं महाकुम्भं मध्ये तत्परितः तादृश विशेषण विशिष्टं
कलशाष्टकं च क्रमात् विन्यस्य। द्वारतोरण कुम्भेषु तत्तद्दैवतानि आवाह्य।
अभ्यर्च्य। पुण्याहवाचन पुरस्सरम् अधिवासहोमं कृत्वा। प्रभाते गुरुः कवाट
आधारशिलागर्तयोः पूर्ववत् रत्नन्यासं विधाय। तदुपरि कवाटाधारशिले
संस्थाप्य। पुण्याहं वाचयित्वा। आधारशिले पञ्चगव्येन प्रक्षाल्य। सुलग्ने कवाटे
संस्थाप्य। महाकुम्भस्त कूर्चेन कवाटयोः देवता विन्यासं कारयेत्। तत्क्रमः-
अधश्शाखायां शान्तिं दक्षिण शाखायां वाग्देवीम् उपरि श्रियं औत्तर शाखायां रतिं दक्षिण कवाटे विश्वदृग्भूतनाथौ उत्तरे विश्ववक्र प्रतापवन्तौ च । तत्रस्थाःमत्स्यादि दशमूर्तिः स्वस्व विद्यया प्रोक्ष्य। वेत्रेषु वेदशास्त्र पुराणानि नाराचेषुत्रयस्त्रिशत् देवताः कीलेषु ऋषीन् कवाट पट्टिकायां भूतनाथं कवाटकन्द पट्टे विश्वभावनं च प्रणवादि नमोन्तैः स्वस्व मन्त्रैः महाकुम्भजलैःन्यसेत्। ततःआचार्यादिभ्यः यथाविभवं दक्षिणां दद्यात्।
इति मूर्धेष्टका (कवाटस्थापन) विधिः नाम षष्टः परिच्छेदः
अथ सप्तमः परिच्छेदः
शिला दारु सङ्ग्रह विधिः
शिलादारु सङ्ग्रहविधिः उच्यते
प्रतिमा रत्न लोह शिला मृद्दारु प्रकृति द्रव्य भेदेन षड्विधाः। आद्या माणिख्य रत्नकृत करचरणाद्यवयवयुता चित्ररूपा अर्धचित्ररूपा वा पटल त्रासादिदोषरहिता समर्चने सर्वकाम फलप्रदा। लोहजास्तु सुवर्ण रजत ताम्र रूप प्रकृति द्रव्य भेदतःत्रिविधाः। आद्या सर्व सम्पत्करी। द्वितीयावित्त यशो विजय विज्ञानकरी। तृतीया ऋद्धि शान्ति सौभाग्य दायिनी। शिलाश्च सित पाटलपीत कृष्ण भेदेन चतुर्विधाः। आद्या ब्राह्मणस्य,
द्वितीया क्षत्रियस्य, तृतीया वैश्यस्य, तुरीया शूद्रस्य। यथाक्रमं मुख्याः उदीरिताः। अथवा एतः चतस्रः ब्राह्मणस्य। राज्ञः पाटल पीत कृष्णाः वैश्यस्य पीत कृष्णेः, तुरीयस्य कृष्णमात्रमिति गौणःअयं विधिः। शङ्ख चक्र गदा पद्म शक्ति वन्दनमालिका सिह्म मातङ्ग सारङ्ग वराहाङ्गुश कुण्डिका श्रीवत्स चामर छत्र ध्वज मत्स्य विहङ्गमतिल तण्डुल वालुकाः यासु दृश्यन्ते ताः शुभदाः। तासु गर्भवत्यः शिलाः अग्राह्याः। गर्भः तु अन्तः अवस्थितः दोषाः। माहिषं नवनीतं मेषश्रृङ्गचूर्णं कुरुविन्दचूर्णयुतं गोक्षीरेण सम्पेष्य शिलायां दारौ च लिम्पेत्। तदा गर्भः दृश्यते। वेदिका मण्डलावर्तकानि यासु शिथिलःध्वनिः स्पर्शे सत्यौष्ण्यं वा जायते ताः गर्भवत्यः इति मन्तव्यः। तं यत्नेन निरीक्ष्य उत्पाटयेत्। तस्यां मण्डले पाटले दृष्टे तत्र पाटलाः पांसवः पाटले श्वेतपङ्कजे श्वेताः पांसवः कपिलवर्णे स्निग्धे च कमठः (कालायाम समये वर्णे स्निग्धे च तत्र कमठः) कपोत वर्णें गौली मञ्जिष्टवर्णे लोहित दर्दुरः पाण्डर वर्णं शुक्ल दर्दुरः रक्तपीते कच्छपः कुसुम्भ पीतवर्णं पीतो वर्षाभूः शुक्ल हेम वर्णं क्षुद्र विहङ्गमःकालावससमे वर्णे गोधा गुडवर्गे पाषाणः मधुवर्णे खद्योतः सारङ्ग वर्णे वृश्चिकः खड्गसन्निभं सलिलं नीले शलभःरक्षे फेनं कपिले मूषिकः कृष्णे कृष्णाहिः बालतृण सन्निभं मत्स्यःइति एवमादयः दृश्यन्ते। एवं गर्भं निश्चित्य रथकारः गर्भमुद्धरेत्। मोहात् लोभात् वा सगर्भ शिला दारुभ्यां प्रतिमाः यदि कृता तदाराजराष्ट्र यजमानानां विनाशःभवति । कृतेगर्भोद्धारे तद्दोष परिहाराय स्थापकः यथा विधि शान्तिं कृत्वा ब्राह्मणान् भोजयित्वा। आशिषः वाचयित्वा। तेभ्यः दक्षिणां दध्यात्। यदि शीतलशिलया बिम्बकरणं तदा तत्र देवस्य सान्निध्यम् अचिरादेव भवति। शिलाच्छेदे तु यच्चिरःप्रदेशे कांस्य घण्टा ध्वनिः मूले च तालध्वनिः सा पुंशिला । किञ्चित् न्यून ध्वनिः यदि सा स्त्री शिला। नादहीना नपुंसकशिला भवति। बिम्बं पुंशिलया पीठं स्त्रीशिलया कुर्यात्। रत्नन्यासं नपुंसक
शिलायां कुर्यात्। श्रियादि देवीनां विदानं तु स्त्रीशिलया पीठं पुम्शिलया च कुर्यात्। रत्नन्यासं नपुंसक शिलायां कुर्यात्। सौम्या शीतला वैष्णवी महाफलप्रदा। कृष्णा आग्नेयी रौद्री रोगप्रदा। सौम्याग्नेयो भयात्मिका। ब्राह्मी वृष्टिकरी। धर्मकाले शीतला प्रावृषि च उष्णा एकवर्णा शुद्धा शिला प्रतिमाविधौ ग्राह्या। सङ्कीर्णा अनेक वर्णादुःखदा। प्रतिमा कृते प्रशस्त पर्वतेषु शिला ग्राह्या। तत्रापि भूगतां वर्जयेत्। या कुसुम वन सङ्कीर्ना जलाशय समावृता सा भूः वारुणी तत्रत्य शिला कामदा। यस्याश्च उत्तरतः जलं दक्षिणे सस्य समृद्धानि क्षेत्राणि पश्चिमे क्षीर वृक्षः सा भूः माहेन्द्रि। तत्रत्या पुष्टिदा। बहुफलप्रदा च। यस्यां पूर्वतः दक्षिणतः च खदिर काश्मर्यादि भूरुहाः झिल्लिका टिट्टिभ गृद्र वराह आपदादयश्च यस्यांअन्तर्गतम् अल्पजलं सा आग्नेयी। तत्रत्यास्वल्प विभवदा। या विभीतका द्विपादापमृगसिंह्ययुत त्यक्तोदका तृणकण्ठ खद्रुम संवृतसावायवी। तत्रत्याशिला शून्यदा। नदीह्रद तटभूति भूमि चतुष्पाद ग्राम श्मशान वल्मीक लवणोदकामेध्य भूमिशबर चण्डालाधिष्टित शर्करोसरसम्बाध निस्तृण जलवर्जित
देवतालय समीप वातातप तप्तदेशेभ्यः शिलाः न ग्राह्याः।
पुण्यक्षेत्रे शुभे देशे बृह्म वृक्ष निरन्तरे।
कुश काशोदक युते कृष्णमृग निषेविते।
पद्मोत्पलसमाकीर्णे व्रीहिक्षेत्र निरन्तरे।
हिन्ताल पूगपुन्नाग नालिकेर समावृते।
तपस्वि जनसम्बद्धे देशे ग्राह्याशिला भवेत्।
एवं वर्ज्यावर्ज्य गुणदोषादिकं विदित्वा । देश भू लिङ्ग वर्ण भेदाच जानीयात्। अथ आचार्यः यजमनानुगुणे शुभे दिने तेन साकं ब्राह्मणान् भोजयित्वा। तेभ्यः दक्षिणां च वितीर्य। रथकारेण स्थपतिभिः च शिलासङ्ग्रह देशं समासाद्य। तत्र प्रपां कारयित्वा।
तत्र विधिवत् अङ्कुरार्पणं च कृत्वा। तन्मध्ये वेदिकामुत्पाद्य। तस्यां व्रीहितण्डुल तिलैः स्थण्डिलम् च निर्माय। तस्मिन् मध्ये महाकुम्भं, तद्दक्षिणे करकं, तत्परितः कलशाष्टकं च ससूत्र वस्त्र वेष्टनं संस्थाप्य। “ओं षौं नमः परायपरमेष्ट्यात्मने नमः” इति सरत्न लोहाश्वत्थपल्लव कूर्चापिधानं विधाय। सहस्रारहुम्फट् इति सिद्धार्थान् विकीर्य। पुण्याहं वाचयित्वाप्रोक्ष्य। चक्रमुद्रां प्रदश्र्य। अञ्जलिना प्रणम्य। मूलमन्त्रेण महाकुम्भे देवं, करकेसुदर्शनं, उपकुम्भेषु विष्ण्वादि मूर्तींश्च आवाह्य। परमान्नं निवेद्य। चतसृषु दिक्षु कुण्डेषु स्थण्डिलेषु वा पालाश समित्पुष्प फलाज्यद्रव्यैः पञ्चभिः मूलमन्त्रेण पृथक् अष्टोत्तरशताहुतीः चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा । प्राचीन कुण्डे सर्पिषा ॐ वनदेवताभ्यः स्वाहा, ओं पर्वतेभ्यः स्वाहा, ओं गरुडशैलेभ्यः स्वाहा, ओं तटेभ्यः स्वाहा, ओं श्रृङ्गेभ्यः स्वाहा, आं निर्झरेभ्यः स्वाहा, ॐ समुद्रेभ्यः स्वाहा, ओं वृक्षेभ्यः स्वाहा, ओम् ओषदीभ्यःस्वाहा, ॐ वनस्पतीभ्यः स्वाहा, ओं जरायुजेभ्यः स्वाहा, ओम् अण्डजेभ्यः स्वाहा, ओं स्वेदजेभ्यः स्वाहा, ओम् उद्बीजेभ्यः स्वाहा, ओं सर्वेभ्यः भूतेभ्यः स्वाहा, ओं भूर्भुवस्सुवः स्वाहा इति हुत्वा । सम्पाताज्यं सङ्गृह्य । पूर्णाहुतिं च हुत्वा । सम्पाताज्यम् शिलायां स्पर्शमन्त्रेण विस्राव्य । पलल रजनी चूर्ण लाजापूप करम्भत्वग्भिः गन्धद्रव्याणि संयोज्य। ओं सर्वेभ्यो भूतेभ्यः नमः इति भूतबलिन्दत्वा । स्वप्नाधिपति मन्त्रेण आज्येन अष्टोत्तर शताहुतीः हुत्वा । अग्निमुद्वास्य । निशि सवेदवाद्यघोषम् आचार्यः उपोषितः अष्टोत्तरशत सङ्ख्यया स्वप्नाधिपति मन्त्रं जपित्वा । दर्भशय्यायां स्वापम् कुर्यात् । ततः स्वप्ने यदि पर्वतं समुज्ज्वलं पश्येत् । प्रातः एव उत्थाप्य । आचार्यः तत्र शिला सङ्ग्रहणं विधिवत् कुर्यात् । स्वप्नादर्शने दुस्वप्न प्रदर्शने वा शान्तिं कुर्यात् । तदनु सुमुहूर्ते शिलां
वीक्ष्य अस्त्रमन्त्रेण संसिद्धान् सिद्धार्थान्।
यक्षाः पिशाचाः नागाः च ये अत्र तिष्ठन्ति नित्यशः।
सर्वे ते व्यपगच्छन्तु सन्निधत्तां सदा हरिः।
इति मन्त्रेण तत्र विकीर्य । पुनः अपि ओं लां नमः पराय सर्वात्मने नमः। सर्वभूतेभ्यः बलिं ददामि इति प्रतिदिशम् । बलिन्दत्वा । ततः पुण्याहं वाचयित्वा । प्रोक्ष्य । ओं यां नमः पराय पुरुषात्मने नमः इति शिलां सम्स्पृश्य । मूलमन्त्रेण अर्घ्यं दत्वा । अष्टोत्तरशत सङ्ख्याकं मूलमन्त्रं जपेत् । प्रासाद प्रतिमानुगुण्येन सूत्रं निपात्य। रथकार अनुज्ञया स्थपतयः शिलाःच्छिन्द्यः । साशिला पूर्व दक्षिण पश्चिमोत्तर दिक्षु यत्र शिरसा पतति तद्दिक्क्रमेण जय शान्ति श्री पुष्टिप्रदा स्यात्। यदि कोणेषु तां वर्जयेत्। अथवा धाम्नो मुखं यस्यां तस्याऽं यदि, साच ग्राह्या। एव संवीक्ष्य, शिलाम् उद्धृत्य, वेदिका कलशतोयैः। । पुरुषसूक्तेन अभिषिच्य। करकजलेन परिषिच्य। देवीनाम् अपि बिम्ब सिद्ध्यर्थं पूर्ववत् पृथक् कुम्भान् अधिवास्य। मध्यकुम्भे त्रैलोक्यमातरं श्रियं। उप कुम्भाष्टके वागीश्वरि, क्रिया, कीर्ति, लक्ष्मि, सृष्टि, प्रह्वी, सत्या, ब्राह्माख्याः अष्टौ शक्तीः वर्धन्यां सुदर्शनं च आवाह्य। पूर्ववत् “ओं श्रीं श्रियैस्वाहा” इति मन्त्रेण समिदाज्यचरुभिःहुत्वा। स्त्रीलिङ्गशिलां सङ्गृह्य। कुम्भजलैःश्रीसूक्तेन अभिषिच्य। वर्धनी जलेन “ओं सहस्रार हुं फट् इति परिषिच्य। परिवार देवता कल्पनार्थम् एवमेव तत्तन्मन्त्रेण शिलाः ससङ्गृह्य। शकटादिकम् आरोप्य धाम नयेत्। तदनु रथकारानुज्ञया स्थपतयः
यथाविधि प्रतिकृतिः कुर्युः।
दारु सङ्ग्रहः
अथ दारु सङ्ग्रहण विधिः उच्यते।
वृश्चिकादिमिथुनान्तेषुमासेषुअष्टेषु दारुसङ्ग्रहणं कुर्यात्। शिलासङ्ग्रहणं तु सर्वदैव। सङ्ग्रहयोग्य वृक्षः तु चन्दन अगरु काश्मर्यं हरिचन्दन केसर खदिरकुरवकासन मधुक
देवदारु, जाति बिल्व शमीशाक कदम्भ तिलक मेरु फलिनि सुरभि चम्पक शिंशुपा
क्षीरिका सालबीजक कुरुविन्द तिनिश स्यन्दन चूत तमाल सरलार्जुन कुटज कङ्कोली
सप्तपर्ण मधुष्टीलूरण निचुल पुन्नाग खदिरा राजवृक्षादयःप्रशस्ताः। सारवद्भिः सर्वदोष विवर्जितैः घनोपेतैरेवदारुभिःप्रतिमां कारयेत्। स्वयं शुष्क दग्ध भग्न हत त्वग्वक्रगुणक्षत कोटर पक्षिसेवित शाश्वच्चण्डालाद्यधमसेवित प्रतिलोमज सेवितनिवासभूत चैत्यस्य देवताधिष्टित स्मशानस्थ मार्गस्य देवतालय कूप तटाकसमीपस्थ विकृताद्याः वृक्षाः
वर्जनीयाः।
दारु सङ्ग्रहस्य अपि शिलासङ्ग्रहवत् पूर्वं ब्राह्मणभोजनाशीर्वादानुग्रह दक्षिणा वितरण मृत्सङ्ग्रहणाङ्कुरार्पणादिकं कर्म सकलं कृत्वा। आचार्यः दारुसङ्ग्रहदेशम् आसाद्य। तत्र षोडशस्तम्भयुता समध्यवेदिकां प्रपां कारयित्वा। मध्यवेदिकायां धान्यराशौ सलक्षणं सकरकं सकलशाष्टकं महाकुम्भं सगन्धोदकं सूत्रवस्त्रादि वेष्टितं निधाय। परमेष्टिमनुना सरत्नलोहाश्वत्थ पल्लव कूर्चापिधानं विधाय। पूर्ववदस्त्रमन्त्रेणसिद्धार्थान् विकीर्य। पुण्याहं वाचयित्वा, प्रोक्ष्य। चक्रमुद्राप्रदश्र्य। अञ्जलिना प्रणम्य। कुम्भ करककलशेषु च आधारादि पद्मान्तं पीठं परिकल्प्य। तेषु पूर्ववत् देवताः आवाह्यअभ्यर्च्य। परमान्नं निवेद्य। चतुर्दिक्कुुण्डेषु अग्निमुपसमिध्य। वासुदेवादिकान् आवाह्य। अभ्यर्च्य। पलाशसमित्पुष्पफलाज्यपल्लवैः मूलेन अष्टोत्तरशताहुतीः, चरुणा नृसूक्तेन षोडशाहुतीः हुत्वा। पूर्ववत् प्राचीनकुण्डे सर्पिषाओं वनदेवताभ्यःस्वाहा, ओं गरुडशैलेभ्यःस्वाहा, ओं शिलादेवताभ्यः स्वाहा, ओं तटदेवताभ्यः स्वाहा, ओं श्रृ"देवताभ्यः स्वाहा, ओं समुद्रेभ्यःस्वाहा, ओं वृक्षेभ्यःस्वाहा, ओम् ओषधिभ्यः स्वाहा, ओं वनस्पतीभ्यःस्वाहा, ओं जरायुजेभ्यः स्वाहा, ओम् अण्डजेभ्यःस्वाहा, ओं स्वेदजेभ्यः स्वाहा, ओम् उद्बीजेभ्यः स्वाहा, ओं सर्वेभ्यो भूतेभ्यः स्वाहा” इति हुत्वा। उत्थाय। वृक्षमूलं प्रक्षाल्य।
नवेनवाससा मूलमन्त्रेण आवेष्ट्य। तेनैव(तैरेव)दर्भैःआच्छाद्य। तदनु केशवादि,
दामोदरान्तं मत्स्यादि कल्क्यान्तं च प्रणवादि स्वाहान्तैः तत्तन्मन्त्रैः हुत्वा। सम्पाताज्यं सङ्गृह्य। “ओं भूःस्वाहा, ओं भुवःस्वाहा, ओं सुवःस्वाहा, ओं भूर्भुवस्सुवः स्वाहा” इति च
हुत्वा।
ॐ सप्तते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयः सप्तहोत्रास्सप्तधामप्रियाणि। सप्तधात्वा यजन्ति सप्तयोनीरावृणस्वाघृतेन स्वाहा इति पूर्णाहुतिं हुत्वा। सम्पातेन स्पर्शमन्त्रेण वृक्षं
संस्पृश्य।
कर्मणा पूर्ववृक्षेण स्थावराकारमाश्रिता।
वृक्षोभिः विष्णोःकर्मार्थं सर्वसम्पत्करं तव।
स्थावरत्वादितो गच्छ दिव्यरूपमनुत्तमम्।
भुङ्क्ष्व भोगान् विपुलान् वासुदेवप्रसादतः।
हिनस्मिनाहं त्वां वृक्ष किन्तु मुञ्चामि जन्मतः। ।
इति पादपम् उपस्थाय। रक्षासूत्रेण मूलमन्त्रेणवेष्टयित्वा। पलल रजनीचूर्ण
करम्भलाजचरुगव्यैः “ओंसर्वेभ्यःभूतेभ्यःनमः” इति भूतबलिं दत्वा। स्वप्नाधिपति मन्त्रेण पूर्ववत् हुत्वा। अग्निमुद्वास्य। सवेदवाद्य घोषं स्वप्नार्थं" ॐ ह्रीं नमः स्वप्नाधिपतये सुस्वप्नं मम कुरु स्वाहा" इति मन्त्रम् अष्टोत्तर शतवारम् जपित्वा। आचार्यः दर्भशय्यायां शायीत। स्वप्ने दारौ प्रज्वलिते प्रातः एव आचार्यःस्नात्वा। दारुसङ्ग्रहणं विधिवत् कुर्यात्। अदर्शने दुस्वप्न दर्शने चकृत्वा शान्तिहोमम्। ततः गुरुः सुमुहूर्तेवृक्षम्पश्यन् यक्षाः पिशाचाः इति गाथां उदीर्य। अस्त्रमन्त्रेण सिद्धार्थान् विकीर्य। भूतेभ्यः बलिन्दत्वा। पुण्याहं वाचयित्वा। प्रोक्ष्य। पुरुषमन्त्रेण वृक्षं संस्पृश्य। मूलमन्त्रेण अर्घ्यं प्रदाय। तमेव मनुम् अष्टोत्तरशतवारं
जप्त्वा। प्राङ्मुखः गुरुः कुठारेण स्वयं वृक्षं छिन्द्यात्। ततः गुर्वनुज्ञया रथकाराः छेदनं कुर्युः। यदिप्राच्या मुदीच्यां वा पतितः तदा अभ्युदयावहः। ततः गुरुः छिन्नं वृक्षं हरिस्वरूपं ध्यायन् मूलमन्त्रेण वेदिकासंस्थित कुम्भतोयेन अभिषिच्य। वर्धनीवारिणा परिषिच्य। आलयं नीत्वा। तेन बालबिम्बादि प्रतिकृतौ कारयेत्। तदनु यजमानः गुरवे पञ्चा"भूषणं निष्कशतं च तदर्धम् ऋत्विजां च दक्षिणां दद्यात्।
असंस्कृतेन तरुणायथोक्तविधिना यदि।
कुर्यात् मोहात् प्रतिकृतिं तदनर्थाय कल्पते।
यथोक्त विधिना ब्रह्मन् कुर्यादभ्युदयावहम्।
इति शिलादारु सङ्ग्रह विधिः नाम सप्तमः परिच्छेदः
अथ अष्टमः परिच्छेदः
प्रतिष्ठाविधिः
प्रतिष्ठाविधिः उच्यते
नूतन प्रतिष्ठा कर्म सिद्ध्यर्थं तत्कर्मारम्भ दिनात् अर्वाक् द्वादशाहे नवाहे सप्तमाहे पञ्चमे अथ तृतीये अहनि वा पालिका घटिकाशरावेषु यथोक्त विधिना अङ्कुरान् अर्पयेत्
पालिकादि लक्षण तेषां लक्षणानि क्रमेण वक्ष्यन्ते।
पालिकाः तावत् साङ्गुलहस्तोत्सेदाः। षोडशाङ्गुल विस्तारमुखाः सप्ताङ्गुल
बिलयुताःअष्टाङ्गुल पाद पीठ विस्ताराः धुत्तूरकुसुमसमाः अम्भोजसदृक्षमुखाः।
घटिकास्तु द्वाविंशत्यङ्गुलोत्सेधयुताः पञ्चवदनाः मध्ये घटिकाकाराः चतुर्दिक्षु चतुरङ्गुल विस्तीर्णवदन चतुष्टया मध्यभागविलसत्शडङ्गुल विस्तीर्ण वदनयुताःच । शरावास्तुविंशत्यङ्गुलोत्सेधाःद्वादशाङ्गुलविस्ताराश्च। यथाविभवविस्तरं
हेमादि लोहजाः मृम्मयाः वा शरावघटपालिकाः सम्पादनीयाः। मुख्यक्लृप्तौ तेषां
प्रत्येकशः षट्त्रिंशत्यदि तदा अष्टोत्तरशतम्भवति। जगन्यक्लृप्तौ पृथक् षोडश यदि तदा अष्टाचत्वारिंशत् भवति । यद्वा द्वादश द्वादश अष्टौ अष्टौ चत्वारि चत्वारि वा ग्राह्याः। यद्वा सर्वार्थेऽपि पालिकाः एव षोडशाष्टौ चतस्रः वा ग्राह्याः। ते च दैवे कार्यें सर्वेनापि
प्रकारेण युग्माः एव भवेयुः। मानुषे तु अयुग्माः।
मृत्सङ्ग्रहण विधिः
तदनु अङ्गुरावापनार्थं शुभे विविक्ते अभिमतेदेशे षोडशस्तम्भयुतं चतुर्दिक्चतुद्र्वारं मण्डपं कल्पयित्वा। तं गोमयेण अनुलिप्या। वन्दन मालिकादर्भमालिका मुक्तादामक्षौमवितान दीपमालाक्षत सुदाचूर्णाद्यैः अलङ्कृत्य। ततः मृत्स"◌्रहणार्थम् आचार्यः स्नात्वा। अलङ्कृतः धृतोद्र्वपुण्ड्रः प्रक्षालितपाणिपादः त्रिःआचम्य। खनित्रमानीय अद्भिः प्रक्षाल्य। नवेन वाससा आच्छाद्या पुष्पैः अलङ्कृत्य स्नातम् अलङ्कृतम् ऋत्विजमाहूय। तन्मूध्र्नि निक्षिप्य तं गजस्कन्धं रथमश्वं वा आरोप्य। सध्वजच्छत्रपताकावाद्यवेद घोषं शाकुन सूक्तपाठकैः साङ्कुरपालिका बहु दीपैः भक्तैः भागवतैः साकं प्राचीमुदीचीं वा दूरात् मनोहरां दिशं गत्वा। तत्र प्रपां कल्पयित्वा अलङ्कृत्या। तत्र आसने प्राङ्मुखः उपविश्य। प्रतिष्ठाकर्म सिद्ध्यर्थं मृत्सङ्ग्ररहण कर्म करिष्ये इति स"ल्प्य। प्राणानायम्य। आत्मशुद्धिं
मानसयागान्तं कृत्वा। गलन्तिकायां
ॐ नमो भगवते सुदर्शनाय चक्रराजाय ज्वालामालिनेहुम्फट् स्वाहा आगच्छ आगच्छ
इति आवाह्य अभ्यर्च्य पुण्याहं वाचयित्वा,
तज्ज्लेन सहस्रारहुम्फट् इति धरणीं विष्णु गाय र्त्या प्रक्षालितं खनित्रं च सम्प्रोक्ष्य। तत्र ऊद्र्व वक्त्राम् ऐशाने न्यस्त मौलिकां नैॠते न्यस्त पादां भुवं नव ताल मानेन आलिख्य। दर्भैः
परिस्तीर्य।
ॐ भूमिः भूम्ने इति सूक्तेन भुवं कूर्चेन स्पृशन् वराहं ध्यात्वा । अभिमन्त्य तत्र ओं भूं भूम्यै नमः आगच्छ आगच्छ इति आवाह्या, ओं भां ज्ञानाय हृदयाय नमः इति षडङ्ग न्यासं कृत्वा कलार(कल्हार) मुद्रां प्रदश्र्य। भूमन्त्रेणैव अघ्र्यादिभिः अभ्यर्च्य। खनित्रं दर्भैः परिस्तीर्य। तस्मिन् ओं नमो भगवते हुं वराहाय आगच्छ आगच्छ इति आवाह्य ओं ह्रां ह्रीम् इत्यादि षडङ्गन्यासं कृत्वा । वराह मुद्रां प्रदश्र्य। अर्घ्यादिभिः अभ्यर्च्य। पूर्वादि दिक्षु इन्द्रादीन् आवाह्या अभ्यर्च्य । सर्वेभ्यः निवेद्य । भूम्यां मुख बाहु ऊरुस्थल स्तन जठर मध्यजघनाङ्क्रिषु सर्वे सवाद्यघोषं वराहमन्त्रेण मृदङ्खात्वा । लोहजे वेत्रजे वा भाजने मूलमन्त्रेणसङ्गृह्य। अस्त्रमन्त्रेणअहतवाससा आच्छाद्या । पश्चात् एवमेव नद्याः गोकुलाच्च वालुकां गोकरीषं च सङ्गृह्य । पृथक् पृथक् भाजनयोः निक्षिप्य। वासोभ्यां पिधाय । गुरुः स्वयं भाजनत्रयमपि वहन् गजं वा स्यन्दनं वा आरुह्य। सवेद वाद्यघोषं ग्रामं प्रदक्षिणी कृत्य। अङ्कुरार्पण मण्डपं प्रविशेत् । इति श्रीवराहगुरुणा विरचितायाङ्क्रिया-कैरव-चन्द्रिकायां मृत्सङ्ग्रहणविधिः नाम अष्टमः परिच्छेदः
नवमः परिच्छेदः
अङ्कुरार्पण विधिः
अथ अङ्कुरार्पण विधिः उच्यते ।
आचार्यः स्नातः नूतन क्षौमपरिधान उत्तरीयःउष्णीष गन्धमाल्य पवित्र कुण्डल हार
कटकादि भूषा विशेषालङ्कृतः मूर्तिपैरपि एवं विधैःसाकम् आदौआजानुवामणिबन्धात्
हस्तौच प्रक्षाल्य। आचम्य। अङ्कुरार्पण मण्डपं पुण्याह जलेनप्रोक्ष्य।
तत्रचन्दनाद्र्राणिसूत्राणि प्रागायतानि द्वादश उदगायतानि पञ्चदशच पातयित्वा। तत्र
चतुःपञ्चाशदुत्तर शतपदेषु ब्रह्मादीशानान्तं द्वादश द्वादश पदानि पालिका घटिका शराव
स्थापनार्थं सङ्गृह्य। शेषाणि षट्चत्वारिशत्पदानि सम्मृज्य।
ब्रह्मेन्द्र वरुणस्तानेषु घटिकाः।आग्नेय यम नैरृत स्थानेषु पालिकाः, मारुत सौम्य रौद्रेषु शरावान् च पृथक् पृथक् एवम् अष्टोत्तर शत सङ्ख्यया स्थापयेत्। प्रत्येकं षोडशग्रहणविधाने तु प्रागायतानि नव उदगायतानि द्वादश सूत्राणि निपात्य। तेषु अष्टोत्तर अशीति पदेषु पूर्वादि पश्चिमान्तेषु स्थानेषु चत्वारि चत्वारि पदानि एवं षोडश आग्नेयादि नैरृतान्तेषु चतुर्षुस्थानेषु चत्वारि चत्वरि एवञ्च षोडश रौद्रादि वायव्यान्तेषु चतुर्षु च चत्वारि चत्वारि एवमपि षोडश एवम् अष्टचत्वारिंशत पदानि पात्रस्थापनार्थंसङ्गृह्य। शेषाणि चत्वारिंशत्पदानि सम्मृज्य । पूर्वोक्त विधिना पात्राणि स्थापयेत्। त्रिविधपात्राणां प्रत्येकं द्वादश ग्रहण विधौ तु प्रागायतनि नव उदगायतानि च नवसूत्राणि निपात्य । तेषु चतुष्षष्टि पदेषु बाह्यतः द्वे द्वे पङ्क्ती विभज्य। अन्तरान्तरा एकां
पङ्क्तिं विसृज्य च ।
ऐशानेन्द्राग्नेय नैरृत वारुण मारुत भागेषु चत्वारि चत्वारि पात्रानि स्थापयेत्। द्वादश पात्रस्थापन विधाने तु प्रागायतानि चत्वारि उदगायतानि पञ्च सूत्राणि विधज्य । द्वादश पदेषु चतस्रः पालिकाः चतस्रःघटिकाः चतस्रः शरावाश्च स्थाप्याः । अथवा परितः सोमकुम्भं षोड्श अष्टौ चतस्रः वा पालिकाः एव स्थाप्यः । एवं कृत्वा पालिकादीनि
पात्राणि विष्णुगाय र्त्या प्रक्षाल्य।
तेषां कण्ठेषु सहदेवी दूर्वाऽश्वत्थ पल्लवानि बध्वा । कुश काशतृणैः बिलमूलानि
अवरुध्य। तानि प्रथमं मृद्भिः, अनन्तरं वालुकाभिः तदनु करीष चूर्णैश्च पूरयित्वा। तेषु कूर्चं निधाय। पालिकादि स्थानेषु प्रतिपदं शालि तण्डुल तिलैः क्रमेण आढक तदध
प्रस्थपरिमितैः वृत्तं चतुरश्रं वा
ॐ रां नमः पराय विश्वात्मने नमः इति पीठङ्कृत्वा । तदुपरि पद्ममालिख्य । प्राङ्मुखः
उदङ्मुखः वा ओं षौं नमः पराय परमेष्ट्यात्मने नमः
इतिवारुण्यादि ऐन्द्रान्तं घटिका। ओं यां नमः पराय पुरुषात्मने नमः इति नैरृत्यादि आग्नेयान्तं पालिकाः, ओं रां नमःपराय विश्वात्मने नमः इति वायव्यादि ऐशानान्तं
शरावान् अपिसंस्थाप्य।
ततः दर्भैः परिस्तीर्य। सोमकुम्भमुद्धृत्य।
इन्द्रं नत्वावाजिन मां बृहतायां तृषुभाजनो योगानां ब्राह्मणादीनाम् इति मन्त्रेण तन्तूनावेष्टितानाम् अन्तरालं यवान्तरम् अर्धाङ्गुलान्तरं वा यथाभवेत् । तथा तन्तुना आवेष्ट्य। पालिकादीनां पश्चिमे प्रदेशे धान्यपीठं व्रीहि तण्डुल तिलैः कल्पयित्वा। तत्र पद्मम् विलिख्य। तस्मिन् सोमकुम्भंविन्यस्य। पालिकादीनिप्रत्यग्रैःवासोभिः अशक्तौ प्रतिव्यूहं वा सोमकुम्भं च नवाभ्यांवासोभ्यं युवासुवासा इति मन्त्रैः संवेष्ट्य। तं गन्धोदकेन आपूर्य। सरत्नकूर्चापिधानाश्वत्थपल्लवं कृत्वा। दर्भैः परिस्तीर्य। नीवार शालि मुद्ग माष प्रियङ्गु यव तिल गोधूमादीन् याज्ञिकान् धान्यजातान् नूतने पात्रे निक्षिप्य। तत् परिचारक मूर्धनि निधाय। स तूर्यघोषं धाम प्रदक्षिणीकृत्य। यागमण्डपं प्रविश्य। पालिकादीनां पूर्वभागे द्रोण शाल्यादि धान्य कल्पित पीठे विन्यस्य। तानि बीजानि गोक्षीरैः विष्णु गाय र्त्या प्रक्षळ्य । दर्भैः परिस्तीर्य। ओं यवाधि दैवताय ब्रह्मणे नमः। ओं सर्षपाधि दैवतायरुद्राय नमः। ओं प्रियङ्वाधि दैवताय सुब्रह्मण्याय नमः। ओं निष्पावाधि दैवताय वायवे नमः। ओं मुद्गाधि दैवताय विष्णवे नमः। ओं शाल्याधि दैवतायै श्रियै नमः। ओं गोधूमाधि दैवताय यमाय नमः। ओं माषाधि दैवताय यक्षाय नमः। ओं तिलाधि दैवताय जलादिपाय नमः। ओं
वेणुधान्याधि दैवताय विनायकाय नमः। इति तत्तद्बीजाधिदैवतानि आवाह्यअभ्यर्च्य।
नवेन वाससा आच्छाद्य।
सोमकुम्भे च आधारादि पद्मान्तं पीठं परिकल्प्य। अभ्यर्च्य तस्मिन्, सों सोमाय नमः आगच्छ, आगच्छ इति सोममावाह्य। ओें सा इत्यादि षडङ्गन्यासं कृत्वा। अर्घ्यादिभिः अभ्यर्च्य। पुनः पुण्याहं वाचयित्वा। प्रोक्ष्य। बहिः शङ्कभेर्यादि वाद्यानि
आघोष्य।
घटिकासु ओं कं ब्रह्मणे नमः आगच्छ आगच्छ इति ब्रह्माणं,
पालिकासु ओम् अं विष्णवे नमः आगच्छा आगच्छ इति विष्णुं च,
शरावेषु ओम् ईशानाय नमः आगच्छा आगच्छेति ईशानम् आवाह्य अभ्यर्च्य।
द्वारावरण ध्वजकुम्भ देवता पूजनं करिष्ये, इति सङ्कल्प्य,
पूर्वादि द्वारेषु चतुर्षु धान्यपीठं परिकल्प्य। तत्तत्तोरण ध्वजान् इदं विष्णु इति कुम्भानपि
संस्थाप्य।
पूर्वे ऋग्रूपे सुशोभन नाम्नि अश्वत्थ तोरणे ओं लम् इन्द्राय नमः तत्पाश्र्वस्थित रक्त ध्वजयोः, कुमुदाक्षाय नमः तत्र कुम्भयोः प्रवाळं, पद्मरागं च क्रमेण निक्षिप्य। तयोः ओं पूर्णाय नमः, ओं पुष्कराय नमःइत्यावाह्य, गन्धादिभिः अभ्यर्च्य। दक्षिणे यजुरूपे सुभद्र नाम्नि औदुम्बर तोरणे ओं यमाय नमः, तत्पाश्र्वस्थित पीत ध्वजयोः ओं पुण्डरीकाय नमः, ओं वामनाय नमः, तत्र कुम्भयोः क्रमेण वज्र वैडूर्ययोः ओम् आनन्दाय नमः, ओं नन्दाय नमः, इत्यावाह्य अभ्यर्च्य। पश्चिमे साम रूपे सुबन्ध नाम्नि न्यग्रोधतोरणे ओं वं वरुणाय नमः, तत्पाश्र्वस्थित नीलध्वजयोः ओं शङ्कु कर्णाय नमः, ओं सर्व नेत्राय नमः, तत्र कुम्भयोः क्रमेण सपुष्यराग नीलयोः “ओं वीरसेनाय नमः, ओं सुषेणाय नमः, इत्यावाह्य अभ्यर्च्य ।
उत्तरे अथर्वरूपे सुहोत्रनाम्नि प्लक्षतोरणे ओं सं सोमाय नमः, तत्पाश्र्वस्थित
पाण्डरध्वजयोः ओं सुमुखाय नमः, ओं सुप्रतिष्ठाय नमः, तत्र कुम्भयोः क्रमेण समुक्ता स्फटिकयोः ओं सम्भवाय नमः, ओं प्रभवाय नमः, इत्यावाह्य अभ्यर्च्य। सर्वान् पिधाय। द्वारतोरणकुम्भान् प्रत्येकं नवैः वासोभिः आच्छाद्य। पालिकाधि देवताः सोमकुम्भं च पुनः अपि सम्पूज्य। पायसान्नं शुद्धान्नम् वा निवेद्य। ततः कुण्ड स्थण्डिलं वा विधिवत् अग्निप्रतिष्ठादि अग्नि मुखान्तं कृत्वा। अग्निमध्ये आधारादि पद्मान्तं पीठं होमेन परिकल्प्य । तस्मिन् पूर्ववत् सोममावाह्य। ध्यात्वा अभ्यर्च्य। अर्घ्यादि नैवेद्यान्तङ्घृतेन दत्वा । तत्तन्मन्त्रेण सर्पिषा अष्टोत्तरशताहुतिः, पलाश खादिर अश्वत्थबिल्व समिद्भिःमूलमन्त्रेण अष्टोत्तरशताहुतीः, नृसूक्तेन चरुणाषोडशाहुतीश्च, पुनः सर्पिषा सोममन्त्रेण अष्टोत्तर शताहुतीश्च हुत्वा। सम्पदाज्यं सङ्गृह्य। स्पर्शमन्त्रेण हस्ताभ्याम्पालिकादि पात्रेषु अवशिष्टं
बीजपात्रे च निक्षिप्य। पूर्णाहुतिं कृत्वा।
अग्निस्थं सोममुद्वास्य । सोममन्त्रं शतवारं जप्त्वा । पुण्याहं वाचयित्वा, प्रोक्ष्य। आचार्यः स्वस्थमनाः सुमुहूर्ते सदस्यैः वैष्णवैः अनुज्ञातः द्वादशाक्षर विद्यया पालिकादि पात्रेषु बीजावापं कृत्वा । मूर्द्धानं दिवो अरतिं” इति मन्त्रेण मृद्भिः आच्छाद्य। इमं मे इति आरभ्य प्रमोषीः इत्यन्तेन सोमकुम्भ जलेन संसिच्य।
पिधानैःआच्छाद्य। रक्षिभ्यः कुमुदादिभ्यः बलिन्दध्यात्।
एवं यावत्कर्मावसानम् अहर्निशं सोमकुम्भ पूजन परमान्ननिवेदन। दीपारोपण
बलिप्रदानानि कुर्वन् हरिद्रा जलेन अङ्कुराभिवृद्ध्यर्थं संसिच्य। सुगुप्ते स्थले संस्थाप्य। रक्षेत्। यजमानःगुरूण् ऋत्विजश्च वित्त ताम्बूल फलादिभिः तोषयेत्। इति क्रियाकैरवचन्द्रिकायाम् अङ्कुरार्पण विधिः नाम नवमः परिच्छेदः।
दशमः परिच्छेदः
प्रतिष्ठा उपकरण विधिः
अथ तावत् प्रतिष्ठा उपकरण विधिः उच्यते।
तत्र कुण्ड लक्षणम्-प्रासादस्य अग्रभागे प्रथमद्वितीय तृतीयावरणेषु योग्यावकाशेषु एतेषु अष्टासु आशासु अभिमते देशे दशभिःहस्तैः विस्तीर्णायामयुतम् चतुर्दिक्षु चतुद्र्वार मण्डपं कल्पयित्वा। तन्मध्ये मानान्तराङ्गुल वशेन पञ्चहस्तायामविस्तारां
एकहस्तोच्छ्रिताम् चतुरश्रां वेदिमिष्टकया कल्पयित्वा।
तस्याः त्रितलात् बहिः पूर्वदेशे मुष्ट्यङ्गुलवशेन चतुर्विंशत्यङ्गुलायाम विस्तारं चतुरश्रं विंशत्यङ्गुल प्रकृतिमानं भूतलं खात्वा। खातभूतलात् बहिः द्व्यङ्गुलं विसृज्य। ततः तालमानां चतुरङ्गुलविस्तारां सात्विकीं प्रथम मेखलां, तत्परितः अष्टाङ्गुलमानां चतुरङ्गुल विस्तारां राजसीं द्वितीय मेखलां, तत्परितः चतुरङ्गुलमुन्नतां तावत् विस्तारां तामसीं तृतीय मेखलां च इति क्रमेण यथाविधि इष्ठकयैव कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। वेदिकायाः च आग्नेये पूर्ववत् चतुर्विंशत्यङ्गुलायाम विस्तारं सूत्रं चतुरश्रं निपात्य। पश्चिमभागागमे नैरृतवायव्य कोणाभ्यां पञ्च पञ्च अङ्गुलीः हित्वा। ततः प्रतीच्यागमे शङ्गुमारभ्य दक्षिणोत्तर सूत्रभ्रमणं कृत्वा। ततः पूर्वागम शङ्कुपर्यन्तं दक्षिणोत्तर सूत्रे निपात्य। योन्याकारं कृत्वा। शेषं सम्मार्ज्य। विंशत्यङ्कुल प्रकृत्युच्छ्रायं खात्वा। तस्मात् द्वयङ्गुलं विसृज्य। पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। बहिः शङ्कुं संस्थाप्य। अष्टादशाङ्गुल सूत्रं शङ्कोः पूर्वतःपश्चिमतः च तथा निपात्य। अष्टादशाङ्गुलं सूत्रं पूर्वमारभ्य
पश्चिमान्तं भ्रामयेत्। तदा चापाकारम्भवति।
प्रकृतिं तथैव विंशत्यङ्गुलं खात्वा। तस्मात् द्व्यङ्गुलं विसृज्य।
पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। तस्याः नैॠते शङ्कुंसंस्थाप्य। भुवन सङ्ख्याङ्गुल वशेन सूत्रं परिभ्राम्य। वृत्तं कृत्वा। वृत्तं चतुर्विंशत्यङ्गुल वशेन षोढा विभज्य। शङ्कुं निधाय। पूर्व पश्चिम शङ्कुभ्यां सूत्रं निपातयेत्। एवमेव सूत्रनिपाते कृते, अष्टाङ्गुल निरन्तरं षडश्र कुण्डं भवति। तथा विंशत्यङ्गुलं प्रकृतिं खात्वा। खातभूतलात् द्व्यङ्गुलं हित्वा। कुण्ड वशेन मेखलात्रयं कुर्यात्। तस्मात् पश्चिमे तालत्रयात् बहिः शङ्कुंसंस्थाप्य। पक्षाङ्गुल वशेन सूत्रवर्त्मना चक्रवत् वृत्तं कृत्वा। पूर्ववत् प्रकृतिं कुण्डानुगुण्येन
मेखलात्रयं च कुर्यात्।
अस्य मेखलास्थाने द्वादश अष्टौ वा दलानि कल्पितानि चेत् पद्म कुण्डं भवति।
मेखलास्थाने अराणि कल्पितानि चेत् चक्रकुण्डं भवति। तस्याः च मारुते शङ्कुंसंस्थाप्य। सार्धगोलकाचलाङ्गुल सूत्रपातेन वृत्तं कृत्वा। सूत्रागमं पञ्चधा विभज्य। शङ्कुं निधाय।
पञ्चकोण वशेन सूत्राणि निपात्य।
कुण्डानुगुण्येन प्रकृतिं मेखलात्रयं च कुर्यात्। तस्याः च उत्तरे तालत्रयात्
बहिःषण्णवत्यङ्गुलमानं वेदनाग वशेनविभज्य। तन्मानं त्रिकोणं यथासूत्रं निपात्य। तथा विंशत्यङ्गुलङ्खात्वा। कुण्डानुगुण्येन पूर्ववत् मेखलात्रयं कुर्यात्। तस्याश्च ऐशाने शङ्कुं निधाय। सैकाग्नि वेदाङ्गुलवशेन सूत्रवर्त्मना वृत्तं कृत्वा। सूत्राङ्गुलं कलशाङ्गुल वशेन अष्टधा विभज्य। शङ्कुं निधाय। कोणमध्यं यथा षडङ्गुलं भवति तथा अष्ट सूत्रं निपात्य। पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं च कुर्यात्। कुण्डानां मध्ये अष्टदलपद्मं कुण्डानां पश्चिमायां तलोत्सेध मेखलोपरि पक्षाङ्गुलायामम् अङ्गुलैः दशभिः षड्भिःद्व्यङ्गुलेन एकेन अङ्गुलेन वा मूलमारभ्य। क्रमेण विस्तीर्णां निम्नां मेखलाग्रे चतुरङ्गुलायत त्र्यङ्गुलनहन षडङ्गुल मुखयुतां नालवत्तया काहलाकारवत् अश्वत्थ पत्ररूपेण योनिं कुर्यात्। पद्म
कुण्डे पद्मं, योनिकुण्डे योनिं च वर्जयेत्। होता चेत् उदङ्मुखःयमस्य दिशि वा योनिं
कल्पयेत्। मोक्षार्थी चेत् योनिं विना कुण्डं कुर्यात्।
यावत् प्रमाणा रज्जुः स्यात् तावानेव आगमो भवेत्।
आगमार्धं तु शङ्कुः स्यात् अन्तरर्थे निरञ्जनम्।
षण्णवत्यङ्गुलायामा सर्व कुण्डस्य कर्णिका।
इति वचन लक्षणानि सम्यक् ज्ञेयानि। एकमूर्ति विधाने अयुग्मानि एव, अथवा
युग्मानि कुण्डानि कारयेत्। मध्यवेदिकायाः पूर्वे दक्षिणे वा भागे सलक्षणं
शयनाधिवासार्थं पूर्ववत् वेदिकां कारयेत्।
अथ तावत् स्रुक्स्रुव विधिः उच्यते
सुवर्णादिलोहैः वा पालाशादि यज्ञवृक्षैः वा स्रुक् स्रुवौ कारयेत्। स्रुक्दण्डं तु बाहुदण्ड समायतं साङ्गुलद्वितालायतं वा सर्वतः षडङ्गुल विस्तारं कृत्वा। तं गुणसङ्ख्यया विभज्य। उपर्यंशं द्वेधाविभज्य। तयोः उपर्यंशं च भूतांशं कृत्वा। तत्र आद्यमंशं हित्वा। उपरिस्थितवेदांशैः वराहवदनवत् अग्रम् एकाङ्गुलानाहं विधाय। अधोविसृष्टैकांशेन सह स्वतृतीयांशावशिष्टार्ध भागेन संयोजिते, तदा विस्तारायाम समं चतुरश्रं षडङ्गुलमितं भवति। एवं गलं कल्पयित्वा। तदधः नालं द्व्यङ्गुलविस्तारं, तत्रपाश्र्वयोःअर्धाङ्गुलायाम विस्तार निम्नयुतं कृत्वा। अन्यत् सूत्रपातात् बहिः स्थितं शेषेण हित्वा। गलाधोवशिष्टांशं वृत्तं चतुरश्रंवा कल्पयित्वा। गलमध्ये तृतीयभाग सम्मितं विस्तारायामसमं गाध सदृशं गर्तं वृत्तं वा कृत्य। गर्त बाह्यं त्रेधा विधाय। प्रथमवलये दलाष्टकं कृत्वा। मध्यांशं चतुर्धा विभज्य। आद्यं नाभिमण्डलं तस्य बहिः नेमिमण्डलस्य मध्ये, मण्डलद्वयं च एकी कृत्य। तस्मिन् षट् वा दश वा इन्दीवरदलवत् अराणि कल्पयित्वा। अवशिष्टेन एकभागेन नेमि मण्डलं निर्माय। तत्कोणेषु चतुर्षु शङ्खान् कृत्वा।
बहिः मेखलां यवोन्नतां कृत्वा। चतुर्यवप्रमाणेन गर्तम् आरभ्य। अग्रान्तं सर्पिषः विवरं कृत्वा। तत्पृष्ठ भागं कमठपृष्ठसदृशं कूर्मपृष्ठसदृशंवा चतुरश्रं विधाय। आधारंविना अन्त्यं वलयत्रयाङ्कितं वृत्तं चतुरश्रम् अष्टाश्रं वा कृत्वा। तदग्रं च यथापुरं कमलाकारं कल्पयेत्। स्रुवस्य तु दण्डं हस्तमानं कृत्वा। तदग्रं द्व्यङ्गुल विस्तारं तन्मध्ये नासिकापुटवत् अर्धाङ्गुलविस्तारायामं वृत्तं गर्तद्वयमापाद्य। तदधः गर्तद्वयस्य मध्ये रेखिकां यवोन्नतां तयोःपरितश्च अवशिष्टेन एकाङ्गुलेन गलं च विधाय। परिशिष्टेन गोलाङ्गुलाकृतिं कृत्वा।
मूलं द्व्यङ्गुल विस्तीर्णं कारयेत्।
मण्डपस्य द्वाराणां चतुष्टयेपि प्रागादिक्रमेण अश्वत्थ, उदुम्बर, प्लक्ष, वटवृक्षैः तेषु एकेन वा यथोक्तालाभे चन्दनद्रुमेण वा तोरणानि कुर्यात्। तत्पादान् सप्तभिः पञ्चभिः वा अयुग्मैःहस्तैः आयतान् द्वाविंशाङ्गुलघनान् वृत्तान् चतुरश्रान् वा कृत्वा। तदुपरि तदर्धेन आयताः तादृशानाहयुताः तथाविधाश्च पट्टिकाः कल्पयित्वा। प्रति पट्टिकं द्वितालमानानि अष्टाङ्गुलानाहयुतानि त्रीणि त्रीणि कीलानि च निधाय। तोरणानां पादेषु पूर्णकुम्भ दक्षिणावर्तशङ्ख चक्र ध्वज पटह कार्मुकनागान् च चित्रयेत्।
अथ अष्ट मङ्गल विधिः
यथाविभवं हेमादि लोहजानि वा याज्ञीय वृक्षजानि वा क्रमेण द्वाविंशाङ्गुल तदद्र्ध द्वयङ्गुलैः आयामविस्तृति घनयुतानि सपीठानि फलकानि कल्पयित्वा। तेषु श्रीवत्स पूर्णकुम्भ भेरी दर्पणमण्डल मत्स्ययुग्म शङ्खचक्राणि, पद्मासनस्थितं गरुडं च, द्वाविंशाङ्गुल मानेन कल्पयित्वा। तेषां पाश्र्वयोः मूर्धनि च चामर प्रदीप छत्राणि लाञ्छयेत्। बिम्बप्रमाणानुगुण्येन औदुम्बरस्नानपीठं नयनोन्मीलनपीठ जलाधिवासनासनादीन् च आचार्य मूर्तिपासन पादुकाः च उपकुम्भ कलश करकमणिक दीपस्तम्भ घृतादि स्नपनद्रव्य चन्दनादि सुगन्ध विविधवस्तु समित् पुष्प कुश विविध
धान्य सुवर्णादिलोह रत्न सवत्सगोप्रभृतीन् अन्यान् च सम्भारान् पूर्वं सम्पाद्य। तदनु
आचार्यः यथाविधि प्रतिष्ठामारभेत्।
इति क्रियाकैरवचन्द्रिकायां प्रतिष्ठा उपकरण विधिःनाम
दशमः परिच्छेदः
क्रियाकैरवचन्द्रिकायाम् एकादश परिच्छेदः
छायाधिवास जलाधिवासविधिः
पूर्वं शिल्पिभिः शास्त्रोक्त वर्त्मना बिम्बे मान-उन्मान प्रमाण-परिमाण-उपमान-
लम्बमान-अभिध लक्षणयुते निर्मिते, स्थूलसूक्ष्मेषु प्रतिम्माङ्गेषु सुकृतेषु, कर्मार्चा पीठिकायां रत्नादि न्यासं कृत्वा। शिल्पिनैव नयनेच उन्मीलिते, ततः गुरुः यजमानेन सह रथकारं शिल्पिनः च आभरण वस्त्राद्यैः वस्तुभिः तोषयेत्। तेषु च निर्गतेषु सदनमन्तर्बहिः च मार्जनालेपनादिभिः संशोध्य, दर्भपुञ्जैःप्रज्वालितैः पर्यग्निकरणं च कृत्वा। प्राकार गोपुर मण्डपानि च मार्जनालेपनादिभिः संशोध्य। पञ्चगव्यैः पवमानादि सूक्तैः सम्प्रोक्ष्य। गोघृतेन सर्वत बहून् दीपान् उद्दीप्य। कालागरुप्रभृत धूपद्रव्यैः सर्वतः धूपयित्वा। दूर्वाक्षत सुधाचूर्णैः धाम सलङ्कृत्य। ततः अपराङ्घ समये, गुरु बिम्बस्य “मानादिन्यूनातिरेक शान्त्यर्थं शान्ति होमं करिष्ये” इति सङ्कल्प्य। पुण्याहम वाचयित्वा। विधिवत् अग्निं संस्कृत्य। साक्षतैः शमीपल्लवैः " ओम्भूस्वाहा" “ओम्भुवस्वाहा” , “ओं सुवःस्वाहा” , “ओं महःस्वाहा” , “ओं जनःस्वाहा” , “ओं तपःस्वाहा” , “ओं सत्यंस्वाहा” , इति प्रत्येकं शतमाहुतीः चरुणा नृसूक्तेन षोडशाहुतीः च, “ओं षौं नमः परायपरमेष्ट्यात्मने स्वाहा” , “ओं यां नमः परायपुरुषात्मने
स्वाहा” , “ओं रां नमः पराय विश्वात्मने स्वाहा” , “ओं वां नमः परायनिवृत्यात्मने स्वाहा” , “ओं लान्नमः परायसर्वात्मने स्वाहा” , इतिप्रतिमासन्निधौ हुत्वा तदनु
नमस्तुभ्यं भगवते जात वेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथातथम्।
भोक्त्रे यष्टव्यदेवानाम् आत्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
इति मन्त्रेण, अधोक्षजमग्निस्थं देवं देवं प्राञ्जलिः सन् उपस्थाय। अग्निं प्रणिपत्य । सदर्भेन नवेन वाससा मूलमन्त्रेण प्रतिमामाच्छाद्य। तेनैव उत्तरीयं च वितीर्य। विष्णु गाय र्त्या अघ्र्य पाद्याचमनीय गन्ध पुष्पधूपदीपाद्यैः अभ्यर्च्य। श्री भूम्योस्तु ओं श्रीं श्रियै नमः, ॐ ह्रीं भूम्यै नमः इति तत्तन्मन्त्रैः वस्त्राच्छादनादि दीपान्तैः अभ्यर्च्य । ब्रह्मादि परिवाराणां च स्वस्व मन्त्रेण तथा कृत्वा। छायाधिवास सिद्ध्यर्थं रक्षा बन्धन कर्मकरिष्ये, इति सङ्कल्प्य । सुवर्णादि पात्रे, खारिद्रोण तण्दुलवति षष्ट्युत्तरक्रमुक तच्चतुर्गुण नागवाल्लीदल तदर्ध कदल्यादि फलयुते, निष्कप्रमाण स्वर्ण सूत्राणि यद्वा सप्तभिः, पञ्चभिः वा तन्तुभिः कृतानि क्षौममयानि कार्पासमयानि वा सूत्राणि निधाय।
अहतेन वाससा आच्छाद्य।
तत् परिचारक मूध्र्नि विन्यस्य। चामर व्यजनछत्रनृत्तगीत बृहद्दीपैः साकम्
धामावरणानि ग्रामं वा प्रदक्षिणी कृत्य। बिम्बस्य पुरतः चतुरश्रं भूमिं गोमयेन
अनुलिप्य। तत्र धान्यभारेण पीठं कृत्वा। तदुपरि तत्पात्रं निधाय। पुण्याहं वाचयित्वा। प्रोक्ष्य। सहस्रार हुं फट् इति मन्त्रेण सूत्राणि सप्तवारमभि मन्त्य। सम्पूज्य। बिम्बं सम्पूज्य। हस्तयोः अङ्गुष्टानामिकाभ्यां तानि गृहीत्वा। त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं।
उर्वारुकमिव बन्धनात् मृत्योः मुक्षीय मामृता इति मन्त्रेण चन्दनक्षोदेन(घृष्ट
चन्दनेन)अनुलिप्य।
विश्वेत्ताते सवनेषु प्रवाच्या याचकर्थमघवन्निन्द्रसुन्वते पारावतं यत् पुरसम्भृतं वश्वपावृणोच्छरभाय ऋषि बन्धवे इति मन्त्रेण मूलमन्त्रेणवा देवस्य दक्षिणे, देव्याः वामे च हस्ते बद्ध्वा। अस्त्रमन्त्रं शतवारञ्जप्त्वा । यो ब्रह्माब्रह्मण उज्जहार इति घृतसूक्तेन अभिमन्त्य । बृहत्सामक्षत्रभृत् eइति धूपपात्र भस्मना रक्षां कृत्वा। अर्घ्यादिभिः देव देव्यौ च अभ्यर्च्य। महापूपं निवेद्य। आचार्यः स्वस्यदक्षिण हस्ते कौतुकं बद्ध्वा। देवं द्विषट्काक्षर विद्ययाप्रणम्य। संस्तुत्य। देवस्य पुरतः भूमौ छायाधिवासार्थं धान्यपीठे सुवर्णादि लोहजां मृम्मयीं वा जलद्रोणीं तादृशं कटाहं वा संस्थाप्य। गालितेन गन्धोदकेन आपूर्य। दर्भैः परिस्तीर्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। पूर्ववत् द्वारतोरण कुम्भान् अभ्यर्च्य। जलद्रोण्यादि जलं “ओं यां नमः पराय पुरुषात्मने नमः” इति मन्त्रेण संशोध्य। “ओं रां नमः पराय विश्वात्मने नमः” इतिमन्त्रेण दग्ध्वा। “ओं वां नमः परायनिवृत्यात्मने नमः” इति अयुतचन्द्रसमप्रभं निवृत्ति मन्त्रं ध्यात्वा। तद्विनिसृतैः अमृतैःपूरितां जलद्रोणीं विचिन्त्य। तस्मिन् आधारादि पद्मान्तं योगपीठंसङ्कल्प्य। अष्टाविंशति दर्भकृत कूर्चे संहारक्रमं स्मरन् मूलमन्त्रेण हरिमावाह्य। अभ्यर्च्य। कूर्चं जलद्रोण्यन्तर्जले, प्राक्छिरस्कं संहारक्रमेण शाययित्वा। “सशराय शाराय नाराचाय हुम्फट् सुदर्शनाय स्वाहा” इति मन्त्रेण चक्रमुद्रां प्रदश्र्य। श्री भूम्योः त्रयोविंशति दर्भकृतकूर्चं, रुद्र वेधसोः पञ्चविंशति दर्भकृतं, अन्येषां देवानां द्वाभ्यां कृतं कूर्चं, पूर्ववत् यथाविधि तत्तन्मन्त्रेण सम्हारक्रमेण शाययित्वा। तद्दक्षिणे शालितण्डुलैःपीठं परिकल्प्य। तस्मिन् स्वर्णादि लोहमयं सकरकं महाकुम्भम् उपकुम्भाष्टकं च मृम्मयञ्चेत् ससूत्रवेष्टनं विन्यस्य। सरत्न वस्त्रकूर्चाश्वत्थ पल्लवपिधानं कृत्वा। दर्भैः परिस्तीर्य। मध्यकुम्भे ब्रह्माणं, करके सुदर्शनं, उपकुम्भाष्टके
च इन्द्रादीन् आवाह्य। अभ्यर्च्य। सर्वाणेन नव वाससा प्रतिमां सम्यक्
आच्छाद्य। “रक्षोहण” इतिमन्त्रेण सिद्धार्थान् दिक्षु समन्ततः विकीर्य।
तत्रदीपमनिर्वाणमारोप्य। तत्रब्राह्मणेषु वेदेतिहास पुराणादीन् पठत्सु, गुरुः
मन्दिरद्वारेषु “ओं सुदर्शनाय नमः” इति अभ्यर्च्य। मूर्तिपैः सह आलयं प्रदक्षिणीकृत्य। बहिः निष्क्रमेत्। यस्य बिम्बस्य साक्षात् जलाधिवासः न युज्यते तस्य छायाधिवासः विहितः। दारु लोह शिलामयानां तु बिम्बानां साक्षादेव जलाधिवासः। तेष्वपि लोहजस्य
बिम्बस्य पीठसंयोजनानन्तरं जलाधिवासं कुर्यात्।
ततः गुरुः सङ्कल्प्य। पीठसंयोजनार्थं शालिभारं वृत्ताकारं विधाय। तदुपरि तदर्धं
तण्डुलं, तदुपरि तदर्धं तिलं च सान्तरान्तर वस्त्राच्छादनं विन्यस्य। तस्योपरि अष्टपत्र पद्ममालिख्य। तस्मिन् दर्भान् आस्तीर्य। प्रत्यग्र प्रागग्र वाससा आच्छाद्य। तस्मिन् सपद्मं केवलं वा पीठं विन्यस्य। दर्भैः परिस्तीर्य। तस्मिन् रत्नानि लोहानि च विष्णुगाय र्त्या निक्षिप्य। विधिवत् अग्निम् उपसमिध्य। विष्णु गाय र्त्या आज्येन अष्टोत्तरशतं आहुतीः, चरुणा नृसूक्तेन षोडशाहुतीः च हुत्वा। ततःपुण्याहं वाचयित्वा, प्रोक्ष्य। स्वस्थ मानसः परवासुदेवं ध्यायन्, मूलमन्त्रेण पीठे देवं समारोप्य। “प्रतिष्ठासि” इति मन्त्रं पठन् स्थापयित्वा। तेनैव नयनोन्मीलनं च कारयित्वा। तं च महता धनेन तोषयित्वा। ततः मानादि लक्षण न्यूनादि दोष शान्ति होमं पूर्ववत् कृत्वा। “नमस्तुभ्यं” इति गादामुदीर्य।
नमस्तुभ्यं भगवते जातवेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथा तथम्।
भोक्त्रे यष्टव्यदेवानामात्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
स्वागतं देवदेवेश विश्वरूप नमोस्तुते।
शुद्धोऽपि त्वदधिष्ठाने शुद्धिङ्कुर्म क्षमस्व ताम्। ।"
पुण्याहं वाचयित्वा। बिम्बशुध्यर्थं धान्यपीठे ससूत्रकूर्च पल्लवपिधानं गोघृतापूरितं कुम्भं विन्यस्य। तस्मिन् द्विषट्काक्षरविद्यया देवमवाह्य अभ्यर्च्य। तेन बिम्बं मूलमन्त्रेण संस्नाप्य। ततः बिम्बं हरिद्रामलकादि चूर्णैः उद्वत्र्य। पुरुषसूक्तेन उष्णोदकेन स्नापयित्वा। सदर्भ नववाससा मूलमन्त्रेण प्रतिमां संवेष्ट्य। तेनैव उत्तरीयं च दत्वा। अर्घ्यादिभिः अभ्यर्च्य। “जलाधिवासार्थं रक्षाबन्धन कर्मकरिष्ये” इति सङ्कल्प्य। पूर्ववत् प्रतिसरबन्धं कृत्वा। देवं “उत्तिष्ठ ब्रह्मणस्पते” इति मन्त्रेण उत्थाप्य। “भद्रं कर्णेभिः” इति रथादिकं यानमारोप्य। बृहद्रथन्तर पुरुषसूक्त नारायणानुवाक शाकुन रक्षोघ्न सूक्तानि पठद्भिः अन्यैः वेदविद्भिः पाण्डरातपत्र सितचामर चीनांशुकछत्र बर्हबर्हिमय ध्वज कल्याणव्यजन बहुविधान नृत्तगीतवाद्या विशेषादि नानाविधोपचारैः च साकं ग्राम धामादिकं प्रदक्षिणी कृत्य, जलाधिवास देशान्तमासाद्य। जलसमीपे प्रपां कल्पयित्वा। तत्र प्रतिमां प्राङ्मुखमुदङ्मुखं वा आसने विनिवेश्य। जल मध्ये बहुस्तम्भप्रपां कल्पयित्वा। चतुद्र्वारयुतां चतुर्वन्दन मालिकावितान ध्वज दर्भमाला मुक्तादाम स्रक्दीप
नानाफलांलङ्कृतां विधाय।
“जलाधिवास कर्म करिष्ये” इति सङ्कल्प्य। पूर्ववत् पुरुषमन्त्रेण तज्जलं संशोष्य। विश्व मन्त्रेण दग्ध्वा। निवृत्ति मन्त्रेण अमृतकल्पं विचिन्त्य। पुण्याहं वाचयित्वा । प्रोक्ष्य। तस्मिन् चतुरश्रं सास्तरणं सोपधानं नवं महापीठं विन्यस्य। तस्मिन् आधारादि पद्मान्तं योगपीठं सङ्कल्प्य। अभ्यर्च्य। तत्र द्वार तोरणकुम्भान् संस्थाप्य। विधिवत् सम्पूज्य। शाकुन सूक्त पाठकैः ब्राह्मणैः मूर्तिपैःच साकम् आचार्यः, “उत्तिष्ठ” इति मन्त्रेण बिम्बमुद्धृत्य। “भद्रं कर्णेभिः” इति जल स्थित पीठे निवेश्य। संहारक्रमं स्मरन् बिम्बं उदङ्मुखं प्राक्चिरसं तस्मिन् शाययित्वा। पूर्ववत् धान्यपीठे रक्षार्थं कुम्भ करक कलशान्
सलक्षणान् संस्थाप्य। तेषु पूर्ववत् ब्रह्म सुदर्शनेन्द्रादीन् आवाह्य। अभ्यर्च्य। तानपि बिम्ब
दक्षिणे जले यथाक्रमं निवेश्य।
“ओं सशराय शार्ङ्गाय नाराचाय हुम्फट् सुदर्शनाय स्वाहा” इति मन्त्रेण चक्र मुद्रां “ओं नमो भगवते रं प्रळय कालानलाय हुम्फट् " इति मन्त्रेण अग्नि प्राकार मुद्रां च प्रदश्र्य। पूर्वादि दिक्षु ऋगादीन् चतुरः वेदान् कोणेषु इतिहास पुराणानिच ब्राह्मणेषु पठत्सु अनिर्वाणान् दीपान् आरोप्य। तीरे नानावाद्यानि आघोषयेत्। एवं त्रिरात्रं वा एकरात्रं यामार्धं वा जले अधिवासयेत्। तदारभ्य बिम्बोत्थापनान्तं तस्मिन् जले स्नानपानादिकं कर्म नकिञ्चिदपि कार्यम्। गृहार्चास्थापनेतु सद्य एव कुर्यात्। जलाधिवास नयनोन्मीलन शयनाधिवासानां च न कालः विधीयते। महाप्रतिष्ठायान्तु प्रदोषे जलाधि वासं महानिशि
शयनं दिवाप्रतिष्ठाञ्च कुर्यात्।
नदीषु दीर्घिकायांवा तटाकेनिर्झरेपिवा।
जलाधिवासनं कुर्यात्प्रसन्ने सलिलं तथा।
अल्पतोये श्मशानान्ते लवणोदक दूषिते।
कषाये कटुकेचैव तिक्ते फेनश्च दूषिते।
चैत्यवृक्षसमीपे च नीचेरध्यासते तथा।
ऊषरे शैवलयुते वर्णान्तरयुते तथा।
एवमादिषु दुष्टेषु प्रतिमां नाधिवासयेत्।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत्।
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम्।
यथासम्भवमन्यस्मिन् मृम्मयादौ तदिष्यते।
सद्यो वा तोयवासञ्च पुरस्तादधिवासनात्। *
इति क्रियाकैरवचन्द्रिकायां
जलाधिवास, छायाधिवासविधिःनाम एकादश परिच्छेदः
द्वादश परिच्छेदः
वास्तुयाग नयनोन्मीलन विधिः
तत्र वास्तुहोमः-
एवम्प्रतिमां विधिवत् अधिवास्य। प्रभाते कृतकृत्यो गुरुः यजमानेन सह मण्डपं
प्रविश्य। तस्मिन् दक्षिणे पाश्र्वे विस्रस्तां वास्तुनाथं विलिख्य परिस्तीर्य।
“वास्तु होमं करिष्ये” इति सङ्कल्प्य, पुण्याहं वाचयित्वा, प्रोक्ष्य, दर्भसप्तकृतं कूर्चन्निक्षिप्य,
“ओं वं वास्तुपुरुषाय नमः आगच्छागच्छ” इति आवाह्य
वास्तुनाथं गन्धादिभिः अभ्यर्च्य
वास्तु नाथस्य शिरसि “ओम् अंशुमालिने नमः”
दक्षिणतः बाहु मूले “ओं झषध्वजायनमः”
कूर्परे “ओं कुमारायनमः”
हस्ते “ओं विनायकाय नमः”
पादयोः “ओं अश्विनीदेवताभ्यां नमः”
मध्ये “ओं चन्द्रमसे नमः”
सव्यतः हस्ते “ओं दुर्गायै नमः”
कूर्परे “ओं सप्त मातृभ्यः नमः”
बाहुमूले “ओं स्थाणवे नमः”
हृदये “ओं विष्णवे नमः”
नाभौ “ओं ब्रह्मणे नमः”
तत्परितश्च अष्टसुदिक्षु क्रमेण “ओं लम् इन्द्राय नमः”
“ओं रम् अग्नये नमः”
“ओं हं यमाय नमः”
“ओं षं नैॠतये नमः” “ओं वं वरुणाय नमः”
“ओं यं वायवे नमः”
“ओं सं सोमाय नमः”
“ओं शं शङ्कराय नमः”
वास्तुनाथस्य उत्तरे “ओं क्षं क्षेत्रपालायनमः” इत्यावाह्य अभ्यर्च्य।
वास्तुनाथस्य पश्चिमे देशे विधिवत् अग्निम् उपसमिध्य। तस्मिन् तम् आवाह्य। पञ्चोपनिषन्मन्त्रैः सर्पिषा सहस्रं शतं वा आहुतीनां हुत्वा। ततः “ओं वास्तुनाथाय स्वाहा” इति सहस्रं शम्यपामार्ग खादिर समिद्बिः आज्येन प्रत्येकं, चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा। तदनु “ओम् अंशुमालिने स्वाहा” “ओं
झषध्वजायस्वाहा” ओं कुमारायस्वाहा” “ओं विनायकाय स्वाहा” ओम् अश्विनीदेवताभ्यां स्वाहा" “ओं चन्द्रमसे स्वाहा” ओं दुर्गायैस्वाहा , ओं सप्तमातृभ्यःस्वाहा " “ओं स्थाणवे स्वाहा” ओं विष्णवे स्वाहा" “ओं ब्रह्मणे स्वाहा” इति चरुणा आज्येन च, सकृत् सकृत् हुत्वा। " इन्द्रादिदेवेभ्यः क्षेत्रपालाय च नमोन्तैःस्वस्व मन्त्रैः बलिन्दत्वा।
वास्तुनाथमुद्वासयेत्।
अनर्चिते वास्तुदेवे कृतं कर्म आसुरं भवेत्।
तस्मात् सर्वप्रयत्नेन वास्तुनाथं समर्चयेत्।
नयनोन्मीलनम्-
अथ मण्डपं मार्जनालेपन प्रोक्षणादिभिः संशोध्य। सुधाचूर्णादिभिः तद्भुवमलङ्कृत्य। अस्त्राभिमन्त्रितान् सिद्धार्थान् सर्वतः दिक्षु विकीर्य। ततः नास्तिक भिन्नमर्याद देवब्राह्मणनिन्दक पापरोगयुतानि निन्दित पिशुन पाषण्ड हीनवृत्ति प्रतिलोम समत्सर लुब्ध मूर्खाद्यान् अविदुषः म र्त्यान् च बहिः निर्वास्य। स्तम्भवेष्टनवितान मुक्तादामतोरण दर्भमाला फलपुष्पाक्षताद्यैः मण्डपमलङ्कृत्य। तत्र चतुर्दिक्षु तोरणस्थापनार्थं द्वितालमवटं खात्वा। प्राच्यामश्वत्थ तोरणं, याम्ये औदुम्बरं, पश्चिमे न्यग्रोधजम्, उत्तरे प्लाक्षं च तोरणं सम्स्थाप्य। सर्वतः दिक्षु आनद्ध ततसुषिरघनाभिध चतुर्विध वाद्यविशारदैः अन्यैः वेदविद्भिः ब्राह्मणैः च मुखरितं, बहुप्रदीप साङ्कुर पालिका चन्दनागरु कर्पूर धूपालङ्कृतं मण्डपं कारयित्वा। ततः अपराह्णे गुरुः स्वयमुदकात् बिम्बमुत्थाप्य। तीर विष्टरे प्राङ्मुखं विन्यस्य। कुम्भकलशान् च जलात् उद्धृत्य। तत्तद्देवताः उद्वास्य।बिम्बं वारिभिः प्रक्षाल्य। लोहजं चेत् तिन्त्रिणीफल रसेन सम्शोध्य। प्रक्षाल्य। वस्त्राभरण गन्धाद्यैः अलङ्कृत्य। यथापूर्वं बिम्बे यानमारोप्य। सतूर्य म"लघोषं याग मण्डपं प्रापय्य। तत्रोत्तर भागे विष्टरे विनिवेशयेत्। तदनु मूर्तिपैः साकम् आचार्यः गर्भगेहं प्रविश्य। पूर्वाधिवासितं
कूर्चं कटाहादि जलात् समुद्धृत्यकुम्भदेवताश्च उद्वास्य कूर्चस्थं बिम्बे विचिन्त्य। तस्मात्
वस्त्राभरणमाल्यानिव्यपोह्य।
“नयनोन्मीलनं करिष्ये” इति सङ्कल्प्य । पुण्याहं वाचयित्वा। नयनोन्मीलनोपकरणानि प्रोक्ष्य। वक्ष्यमाणेन विधिना ध्रुवबेरस्य, शय्यादीनां च पृथक् नयनोन्मीलनं कृत्वा। अष्ट धान्यानि गाः कन्यकाश्च दर्शयित्वा। साक्षात् स्नपनकरण योग्यविषये वक्ष्यमाण विधिना सप्तदशकलशान् घृतादि द्रव्यपूरितान् संस्थाप्य। तत्तद्देवताः आवाह्यअभ्यर्च्य। सकूर्चे दर्पणे देवमावाह्य। तैः सम्स्नाप्य। शय्यादीनां तु पृथक् नवभिः कलशैः, ब्रह्मेशयोः सप्तभिः, ऋषीणां पञ्चभिः, देवानां त्रिभिः, एकेन वा स्नपनं कृत्वा। दर्पणस्थं बिम्बे विचिन्त्य। वस्त्रादि नीराजनान्तैः उपचर्य। ध्रुवबेर हृदये दीप्रं मणिप्रभं द्विषडर्णं अनुध्यायन् विन्यस्य। शय्या दीनां च एवं विधाय। ध्रुवबिम्बं शय्यादि देवीश्च कम्बलैःआच्छाद्य। तस्य पुरतः धान्य पीठे सौवर्णं राजतं च पात्रयुग्मम् आढकपरिपूर्यं पूर्व पश्चिमं विधाय। क्रमेण मध्वाज्यपूरितं कृत्वा। तादृशौ शलाकिके च अष्टाङ्गुले तयोः विन्यस्य। नवैः वासोभिः आच्छाद्य। स"ल्प्य। पुण्याहं वाचयित्वा। तत्सर्वं प्रोक्ष्य। मधुपात्रे “ओं हं सूर्याय नमः” इति, आज्यपात्रे “ओं सं चन्द्रमसे नमः” इति च आवाह्य। अभ्यर्च्य। “मधुवातेति” मधु “सविराजं पर्येति” इति वा “शुक्रमसीति” वा आज्यं च अभिमन्त्य। तत्परितः नीवार शालि मुद्ग श्यामाक प्रियङ्गु यव तिल गोधूमानि पृथक् पात्रेषु ताम्बूल नारिकेल कदलीफलानि च, पुरतः गाः कन्यकाः, च संस्थाप्य। सवेद वाद्यघोषं मध्वक्तमुखया सौवर्ण शलाकया “चित्रं देवानां” इति दक्षिणं सर्पिरक्तमुखया राजत शलाकया, “तच्चक्षुः” इति वामं च लोचनमुन्मील्य। आच्छादन पटं व्यपोह्य। गुरवे पात्रयुग्मं शलाकिकम् अष्टधान्यानि गाःच “गोविन्दःप्रीयतां” इति दत्वा। पुनः अपि
जीवजीवात्मकैः धनैः तोषयेत्।
इति वास्तुयाग नयनोन्मीलन विधिः नाम द्वादश परिच्छेदः
क्रियाकैरवचन्द्रिकायां त्रयोदशः परिच्छेदः
कर्माङ्गस्नपन विधिः
अथ तावत् बिम्बशुद्ध्यर्थं “स्नपन कर्मकरिष्ये” इति सङ्कल्प्य। पुण्याहं वाचयित्वा। प्रतिसर कर्मञ्च पूर्ववत् विधाय। अधमाधम स्नपनोपयुक्त घृतादि कषायान्त स्नपनद्रव्याणि पूर्वं सम्पाद्य। बिम्बस्यपुरतः चतुरश्रं गोमयेण अनुलिप्य। तत्र चन्दनाद्र्राणि सूत्राणि प्रागायतानि उदगग्राणि च षट् निपात्य। तेषु पञ्चविंशति पदेषु मध्ये नवपदानि तत्परितः च अष्ट दिक्षु पदाष्टकं च कुम्भस्थापनार्थं विसृज्य। शेषां सम्मृज्य। कुम्भाष्टक सप्तदशकोष्टेषु प्रत्येकमाढकं तदर्धं प्रस्थंवा व्रीहीणां तत्तुर्यांशानि तण्डुलानि तत्तुर्यांशानि तिलानि च उपर्युपरि क्रमेण विन्यस्य। तेषु पद्मानि विलिख्य। द्वे द्वे दर्भाग्रे निक्षिप्य। सौवर्णान् राजतान् ताम्रान् वा यथाविभव विस्तरं मृम्मयान् वा द्रोण परिपूरकान् कुम्भान् विष्णुगाय र्त्या कुम्भान् प्रक्षाळ्य। मृम्मयान् “इन्द्रन्नत्वेति” तन्तुना आवेष्ट्य। कलशस्थापन मेदिन्याः पश्चिमे भागे कलशाधिवासार्थं धान्यपीठं विधाय। तस्योपरि विश्व मन्त्रेण प्रागग्रान् उदगग्रान् वा कुशान्आस्तीर्य। तेषुप्राङ्मुखःउदङ्मुखो वा कुम्भान् ओम् इत्यधोमुखान् विन्यस्य। तेषु परमेष्टिमन्त्रेण त्रीन् त्रीन् दर्भान् आस्तीर्य। पुरुष मन्त्रेण अघ्र्यजलेन प्रोक्ष्य। विश्वमन्त्रेण अक्षतान् विकीर्य। निवृत्ति मन्त्रेण तान् उत्थाननाि कृत्वा। “स्नपनार्थं होष्ये” इति सङ्कल्प्य। विधिवत् अग्निं संसाद्य। तस्मिन् विष्णु गाय र्त्या आज्येन अष्टोत्तर शताहुतीः हुत्वा। अवशिष्टाज्येनस्नपन द्रव्याणि संसिच्य। कलश स्थापन वेधिका मध्ये कोष्टेषु कुम्भ स्थानेषु मध्यमं कुम्भं घृतेन आपूर्य। विष्णु गायत्र्या विन्यस्य। तत्पूर्व कुम्भम् उष्णोदकयुतं तदाग्नेय माणिक्य पद्मराग नीलवज्र पुष्य प्रवाळ मौक्तिक मरकत वैडूर्य रत्नपूरितं कुम्भं।
घृतकुम्भस्य याम्ये तथा विध दाडिम चूतामलक बिल्व नारिकेल पनस मातुल" फलैः
भिन्नैर्युतं कुम्भम् । घृतस्य नैरृत दिशि सुवर्ण रजत ताम्र सीस त्रपु कम्स्य अयस्सारैः प्रत्येकं निष्कमात्रैः पूरितं कुम्भं घृतस्य पश्चिम दिशि रजनी सूर्यवर्तिनी सहदेवि शिरीषा सदाभद्रा कुशाग्रामिद मार्जन द्रव्यैः पृथक् मुष्टिमात्रैर्युतं कुम्भं। घृतस्य मारुत दिशि चन्दन कुष्ट कुङ्कुमागरु उशीर ह्रीभेर गिरिसम्भव मांसी मुराख्य गन्ध द्रव्यैः प्रत्येकं फलमात्रैः युतं कुम्भं। घृतस्य उत्तरे नीवार वेणु शालि प्रियङ्गु यव कङ्गु षाष्टिक गोधूम तण्डुलैः पृथक् मुष्टि मात्रैः द्रव्यैःपूरितं कुम्भं। घृतस्य ऐशान दिशि यव व्रीहिभिः पृथक्
कुडुपमानैः युतं कुम्भं च सं स्थाप्य।
ब्रह्मस्थान स्थितं कुम्भ नवकस्य प्राच्यां दिशि तुळसी पद्म दूर्वाक्षत श्यामाक विष्णु पर्णी बिल्वपत्रैः मुष्टि मात्रैः चन्दनेन फलमात्रेण च युतं पाद्य कुम्भं, तद्दक्षिणे सिद्धार्थ अक्षत कुशाग्र फल तिल पुष्पैः पृथक् मुष्टि मात्रैः त्रिनिष्क मात्र चन्दनेन च युतम् अघ्र्यकुम्भं। तत्पश्चिमे तक्कुोल चम्पक मुकुल कर्पूर जाति फलैर्येलालव" त्वक्चन्दन पुष्पैः पलार्ध प्रमाणैःयुतम् उपस्पर्शन कुम्भं। तदुत्तरे पञ्चगव्यैर्युतं कुम्भं
( पञ्चगव्यानि तु स्नपने
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्मात् शकृद्वारि चतुर्गुणम्। ।
इति प्रमाणेन गव्यानि पञ्च पृथक् मृद्भाजने गृहीत्व। शकृम्मूत्र दधि घृत पयांसि परमेष्टि पुरुष विश्व निवृत्ति सर्वमन्त्रैः यथाक्रमं यथा सर्वमपि द्रोण मानं तदर्धम् आढकं वा भवेत्। तथा आनीय कुम्भे सर्वम् एकीकृतं) संस्थाप्य। मध्य नवकस्याग्नेये दधि कुम्भं, नैरृते क्षीरकुम्भं, वायव्ये मधुकुम्भं, ऐशाने शमी पलाश खादिर बिल्वाश्वत्थ वितत न्यग्रोध
त्वग्भिः पलाद्र्ध परिमाणाभिः पूरितं, कषायकुम्भं च संस्थाप्य। सप्तविंशति दर्भकृत कूर्चं घृत कुम्भे सप्तभिः पञ्चभिः त्रिभिर्वा दर्भैः कृतान् कूर्चान् उपकुम्भेषु अवागग्रं यथाकण्ठमानं विन्यस्य। “ओ नमश्चक्र राजाय” इति शरावैः पिधाय। “युवासुवासा” इति मन्त्रेण अहत वस्त्रैः तेषां कण्ठवेष्टनं कृत्वा। दर्भैःपरिस्तीर्य। तेषु घृतोष्णोदक फल मार्जनाक्षत रत्न लोह गन्ध पाद्यार्घ्या◌ाचमनकषाय कुम्भेषु परवासुदेव पुरुष सत्य अच्युत अनन्त केशव नारायण माधव गोविन्द विष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश पद्मनाभ दामोदरान् स्वस्व मन्त्रेणावाह्य। सम्पूज्य। पूर्व सम्पादिताग्नौ मूलेन कलश सङ्ख्यया आज्याहुतीः चरुणा नृसूक्तेन षोडशाहुतीः पुनराज्येन कलशदेवता मन्त्रैः पृथक् सह्स्रं शतमष्टाविंशतिरष्टौवा आहुतीर्हुत्वा। सम्पादाज्यं स्पर्श मन्त्रेण कुम्भेषु संसिच्य। अग्निस्तमुद्वास्य। आचार्यः मूर्तिपैः वेदपारगैः ब्राह्मणैश्च बिम्बस्य अन्तिकं गत्वा “उत्तिष्ठ ब्रह्मणस्पते " इति मन्त्रेण बिम्बम् उत्थाप्या। “भद्रं कर्णेभिः” इति स्नानासन वेदिकायां प्राङ्मुखं विनिवेश्य। तदनु पुण्यक्षेत्र नदीतीर पर्वत पुलिन ह्रद निर्झर सङ्ग्रम शोष्य वेदिकोर्वर शालिक्षेत्र वेदखात वृषशृ” हस्तिदन्त वराहघृष्ट वल्मीक कुलिरावसत नलिनि दीर्धिका सुस्थिताः एकोनविंशति मृत्तिकाः पृथक् पात्रे समानीय पुण्याहं वाचयित्वा प्रोक्ष्य। बिम्बम् अर्घ्यादि उपचारैःउपचर्य । पुण्यक्षेत्रजैकोनविंशति मृत्तिकाभिः “मूर्धानन्दिवो” इति मन्त्रेण बिम्बं मूर्धादि पादान्तम् आलिप्य। शुद्धोदकेन “इमम्मेवरुण” इति मन्त्रेण प्रक्षाल्या। अनन्तरं बिम्बम् अर्घ्यादिभिः उपचर्य।
“इदं विष्णुः” इति पाद्य कुम्भेन, “आपो हिष्ठा " इति अघ्र्य कुम्भेन, “इमम्मेवरुण” इति उपस्पर्शनेन,
“पवित्रं ते” इति पञ्च गव्येन,
“दधिक्राविण्णो” इति दध्ना,
“पयोव्रत” साम्ना पयसा,
“मधुवाता” इति मधुना,
“यज्ञायज्ञ” इति कषायाम्बुना,
“मानस्तोके” इति उष्ण तोयेन,
“वषट् ते विष्णोः” इति मणिवारिणा,
“याः फलिनीः” इति फलाम्बुना,
“हिरण्यगर्भ समवर्तत” इति लोहवारिना,
“शन्नोदेवीः” इति मार्जनाम्भसा,
“गन्ध द्वारा” इति गन्धाम्भसा,
“त्रातारमिन्द्रं” इति अक्षतवारिणा,
“इदं विष्णोः” इति यवाम्भसा,
“घृतस्नात” इति घृतनेच
एतैः मन्त्रैः एतैःकलशैःपाद्यपूर्वं घृतान्तं प्रति द्रव्य घटाप्लवम् उपस्नान प्लोतवस्त्रोत्तरीयाघ्र्य
पाद्याचमन गन्ध पष्प धूप दीप प्रदान सहितं
अभिषिच्य । अनन्तरं पुरुष सूक्तेन सहस्रधारया शुद्धोदकेन अभिषिच्य। वस्त्रादि
अलङ्कृत्य। अर्घ्यादिभिः उपचर्य। फलादिकं निवेद्य। ताम्बूलञ्च समर्पयेत्। घृतस्य उपस्नानं
उष्णोदकेन।
इति क्रियाकैरवचन्द्रिकायां त्रयोदशः परिच्छेदः
चतुर्दशः परिच्छेदः
शयनाधिवास -कुम्भस्थापनविधिः
अथतावत् आचार्यः मण्डपमध्ये वेदिकायां चक्राब्ज मण्डलं वर्तयित्वा। तत्पूर्व दक्षिण वामभागे शय्यावेदिं कृत्वा। द्वादशार्णमनुना गन्धोदकेन प्रोक्ष्य। तस्यां प्रागग्रान् उदगग्रान् वा दर्भान् आस्तीर्य। तत्र व्रीहीणां पञ्चभारं तण्डुलानां तदर्धं, तिलानां तदर्धं च अन्तरान्तर प्रत्यग्राच्छादनान्तरितं विस्तीर्य। तिलोपरि पद्मं विलिख्य। तदुपरि पूर्ववत् दर्भान् आस्तीर्य। तस्योपरि क्रमेण वैयाघ्रचर्म मृद्वास्तरण तूलिकारत्नकम्बल क्षौमचित्रवस्त्र शुक्लवसनानि तदुपरि शयनाङ्गानि उपधानानि सपाद गण्डुकानि निधाय। दर्भैःपरिस्तीर्य। तां कस्तूरिकादि गन्धद्रव्याधिवासितां सुगन्धपुष्प मालादि
नानालङ्गारशोभितां कृत्वा।
आचार्यः पुरुषसूक्तादि पाठकैः ब्राह्मणैः ऋत्विग्भिः च तूर्यघोषपुरस्सरं बिम्बं “उत्तिष्ठ” इति मन्त्रेण तस्मात् उत्थाप्य। बहिः कुण्डं यथा प्रादक्षिण्येन शनैः शय्यावेदिभुवं, तस्यां आधारादि पद्मान्तं पीठं सङ्कल्प्य। अभ्यर्च्य। “यद्वैष्णवं” इतिमन्त्रं, “विश्वतश्चक्षुः” इति मन्त्रं च उच्चरन् प्राक्शिरो दक्षिणाननं मन्दिराननं दक्षिणाशाशिरस्कं वा बिम्बं शय्यायां शाययित्वा। “युवासुवासाः” इतिमन्त्रेण कम्बलैः वस्त्रैः वा सर्वतः प्रतिमाम् आच्छादयेत्। तदनु द्वार तोरणपूजां करिष्ये इति स"ल्प्य। द्वारतोरण ध्वजकुम्भेषु पूर्ववत् यथाविधि तत्तद्दैवतानि आवाह्य अभ्यर्च्य। पूर्वादिदिक्षु ऋगादीन् वेदान् अन्यान् च ब्राह्मणेषु पठत्सु, सर्वत्र तुर्यघोषेषु प्रवर्तितेषु, समाहितमनाः आचार्यः हृदयकमले भगवन्तं ध्यायन्
पुण्याहं वाचयित्वा।
चक्राब्जमण्डले साङ्गं सपरिवारं वासुदेवं यथाविधि सम्पूज्य। शय्यावेदिं त्रिभागी कृत्य। मध्य दक्षिणभागयोः बिम्बे अधिवासिते सति उत्तरभागे देवस्य पश्चिमोत्तरे शालि तण्डुल
तिलैः पीठं स वस्त्रास्तरणं कृत्वा ।
तदुपरि पद्ममालिख्य । तस्मिन् सवस्त्र कूर्चाश्वत्थ पल्लवरत्नापिधानं द्रोणमान
गन्धोदकपूरितं लोहजं मृम्मयं वा महाकुम्भं, तन्निकटे दक्षिणे तादृशं करकं च शायितबिम्ब स्थापितकुम्भयोः परितः अष्टसु धान्यपीठेषु तादृक्लक्षणयुतं मूर्तिकुम्भाष्टकं च संस्थाप्य
परिस्तीर्य।
तेषु शङ्खचक्र गदापद्म ध्वज श्रीवत्स गरुडकमठान् प्रत्येकं निष्कमात्र जाम्बूनदकृतान् निक्षिप्य। मूर्तिकुम्भानां मध्ये पूर्वोक्त लक्षणयुतानि अष्टौ फलकानि सुवर्णादि लोहजानि याज्ञीयदारुजानि वा संस्थाप्य। परितः साङ्कुराः पालिकाश्च निधाय।“कुम्भपूजां करिष्ये” इति सङ्कल्प्य। कुम्भजलानां पृथक् शोषणादिकृत्वा। तस्मिन् जले पीठं आधारादि पद्मान्तं स"ल्प्यअभ्यर्च्य। एवम् अष्टास्वपि कृत्वा। ततः पूर्वादिषुकुम्भेषु विष्ण्वादि दामोदरान्तान् देवान् स्व स्वमन्त्रेणावाह्यऽभ्यर्च्य। तदानीं पायसान्नेन भगवन्मयान् ब्राह्मणान् द्वादशाधिकान् भोजयित्वा। तेभ्यः अपि गो तिल वस्त्र सुवर्णानि
दद्यात्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
शयनाधिवास कुम्भस्थापनविधिर्नाम चतुर्दशः परिच्छेदः
पञ्चदशःपरिच्छेदः
गोदोहनविधिः तत्वन्यासहोमः, प्राणप्रतिष्ठा विधिः
अथ तावत् गोदोहन विधिरुच्यते। तत्र गोःआह्वानमन्त्रः। पूषासि उपसृष्टां मे प्रब्रूतात्।
सम्प्रेष्यति। उपसृजामि” । इत्यामन्त्रयते।
“अयक्ष्मावःप्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः”।
“गां चोपसृष्टां” “विहारञ्चान्तरेण मासञ्चरिष्ट” उपसीदामि, “अयक्ष्मावह
प्रजयासंसृजामि रायस्पोषेण बहुळा भवन्तीः ऊर्जम्पयः पिन्वमाना घृतञ्च जीवो जीवन्तीः
उपवः सदेयं”
“द्यौश्चेमं यज्ञं पृथ्वी च सन्दुहातां धातासोमेन सहवातेन वायुः यजमानाय द्रविणं
दधातु”
“उत्सन्दुहन्ति कलशं चतुर्बिलम् इडान्देवीं मधुमतीं सुवर्विदं तदिन्द्राग्नीं जिन्वतँ सूनृतावत्
तद्यजमानम् अमृतत्वे दधातु, एताभ्यां दोहनम्।
“ओं नमोभगवते वासुदेवाय गङ्गां, यस्यां देवानां मनुष्याणां पयोहितं, सा विश्वायुः,
“देवस्यत्वा सवितापुनातु वसोःपवित्रेण शतधारेण सूपुव,
“हुतः स्तोकोर्हतोद्रप्सोग्नये बृहते नाकायस्वाहा” अग्नये बृहते नाकाय इदं नमम,
द्यावापृथिवीभ्यॉं स्वाहा। पृथिवीभ्याम् इदं नमम” ।
एवन्द्वितीयां सरस्वतीम् इति, तृतीयां गोदाम् इति चतुर्थीं यमुनाम् इति दोहयित्वा। वत्सेभ्यः मनुष्येभ्यःपुनः दोहाय कल्पताम्वाचंविसृज्य अन्वारभ्य तूष्णिम् उत्तराः चतस्रः
दोहयित्वा।
“सम्पृच्यध्वमृतावरी रूर्मिणीर्मधु मत्तमा मन्द्राधनस्य सातये”
कुम्भाभ्यां सङ्क्षाळनम् आनीय अविष्यन्दयन् सुश्रितानि करोति।
“दृगँ ह गा दृगँ हगोपतिं मा वो यज्ञपतिरिषत्ङ्क” वत्र्मकुर्वन् प्राक् उद्वासयति। सायं दोहं दोहयति। सायं दोहवत् प्रातः-दोहन्दोहयति। प्रातर्दोहपयः गृहीत्वा। “सोमेनत्वातनच्मि” “आपो हविषि जागृत यथा देवेषु जागृथ एवम् अस्मिन् यज्ञे
यजमानाय जागृत।
अयस्पात्रे, दारुपात्रे वा अपः आनीय “अदस्त्वमसि विष्णवेत्वा यज्ञायापि दधाम्यहं अद्भिररिक्तेन पात्रेण याः पूताःपरिशेरते” तेनापि दधाति। “अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यतां तिरः पवित्रमतिनीताः आपोधारयमातिगुः” आचार्यः जपति। यदि मृम्मयेनापि दध्यात् तृणं काष्ठं वापिधाने अनुप्रविद्ध्येत्। “विष्णो हव्यंरक्षस्व” प्रज्ञातं निदधाति। एवं गोदोहनादि यथाविधि कुर्यात्। ।
अथ होमः-
अथ मूर्तिपाः गुर्वाज्ञया वक्ष्यमाण विधिना होमम् आरभेत्।
अरणीम् अश्वत्थ शमीगर्भाभ्यां सम्पाद्य। द्वादशाक्षर मन्त्रेण मथित्वा। ततः अग्निम् उत्पाद्य। तं वा सूर्यकान्ताश्मनःजातं वालौकिकं वा उपादाय। प्रोक्ष्य। दिव्याग्निं ध्यात्वा। प्रत्यक्कुुण्डस्य पश्चिमे दक्षिणेवा त्रीन् दर्भान् संस्तीर्य। तदुपरि कूर्मासनं निवेद्य। तत्र उपविश्य। भूतशुद्ध्यादि मानस यागान्तं कृत्वा। कुण्डान्तः दर्भमुष्टिभिः पर्यग्निकरणं कृत्वा। एवमेव सर्वेषां कुण्डानां विधाय। प्रत्यक्कुुण्डे अग्निसंस्कारं वैष्णवीकरणं च कृत्वा। तस्मादेव इतरेषु अग्निमुद्धरेत्। चतुरश्रादि सर्वकुण्डाग्नि मध्येषु आधारादि पद्मान्तं तत्तन्मन्त्रेण आज्येन हुत्वा, अभ्यर्च्य। चतुरश्र कुण्डाग्नि मध्यस्थ पद्ममध्ये ओं नमोभगवतेवासुदेवाय आगच्छागच्छ, गोक्षीर वर्णं पीताम्बरं चतुर्भुजं क्रमेण पद्मचक्र शङ्ख गदाधरं श्रीपुष्टि तुष्टि युतं वासुदेवमावाहयामि। इत्यावाह्य अभ्यर्च्य।
चापकुण्डे ओं नमो भगवते सङ्कर्षणाय आगच्छागच्छ, बालसूर्य निभं पीताम्बरं चतुर्भुजं क्रमेण मुसलचक्र शङ्खपद्मधरं श्रीपुष्टियुतं सङ्कर्षणमावाहयामि। इत्यावाह्य अभ्यर्च्य। वृत्तकुण्डे ओं नमो भगवतेप्रद्युम्नाय आगच्छागच्छ, मरकतवर्णं पीताम्बरं चतुर्भुजं क्रमेण कौमोदकीपद्म शङ्ख चक्रधरं (श्रीपुष्टि सहितं) प्रद्युम्न मावाहयामि। इत्यावाह्य अभ्यर्च्य। त्रिकोणकुण्डेओन्नमोभगवतेअनिरुद्धायआगच्छागच्छ, नीलजीमूतनिभं पीताम्बरं चतुर्भुजं क्रमेण अभय चक्र शङ्ख गदाधरं (श्रीपुष्टि सहितं) अनिरुद्धमावाहयामि। इत्यावाह्य
अभ्यर्च्य।
श्रीवत्सादि गरुडान्तञ्च तत्तन्मन्त्रेण तेभ्यः सकृत् सकृत् अर्घ्यादि दीपान्तम् आज्येन जुहुयात्। इतोऽधिकेषु युग्मेषु अयुग्मेषु वा कुण्डेषु वासुदेवादिकान् यजेत्। प्रागादिषु कुण्डेषु पालाश खादिर बिल्व उदुम्बर समिद्भिः आग्नेयादि चतुष्र्वपि पिप्पल प्लक्ष न्यग्रोध काश्मर्य समिद्भिश्च क्रमेण होमः कार्यः। भूयसां परिकल्पने उक्ताभावेऽपि
पालाशिभिरेव कार्यः।
चरुश्रपणार्थं-
चतस्रोधेनवस्थाप्याः दक्षिणद्वार्युदङ्मुखः।
गङ्गा सरस्वतीङ्गोदा यमुनारूपधारिणी।
दुग्धैः तदीयैःश्रपणं चरुणामाहुतिस्तथा।
सायन्तन समय एव मन्त्रवदोहनं कृत्वा।
श्रपयेत् पयसापूर्वे शालितण्डुलमाढकम्।
कृसरन्दक्षिणात्येऽग्नौ पाश्चात्ये गुडमिश्रितम्।
उदीच्येग्नौ हरिद्रान्नं दुग्धान्नमितराग्निषु।
इति विधाय चतुरश्रमुखेषु कुण्डेषु क्रमेण वासुदेवादिभिः मन्त्रैः समिद्भिः आज्यैः पृथक् अष्टोत्तरशतम् आहुतीनां चरुणापुरुषसूक्तेन षोडशाहुतीश्च पुनराज्यैः पूर्वोक्त मन्त्रैः तथा इतरकुण्डेषु च तिलैः सर्वत्र तैः वा आचार्यैः स्वयं हुत्वा। ततः सोत्तरीयवसनाभरणैः मूर्तिपैः यथाविधि होमं कारयेत्। एवं मूर्तिपेषु जुह्वत्सु आचार्यः सर्वालङ्कारयुतः महाकुम्भस्यपश्चिमे पूर्वाभिमुखमासने सम्यगुपविश्य। महाकुम्भजलस्य शोषणादि कृत्वा। तस्मिन् आधारादि पद्मान्तम्पीठं सङ्कल्प्य अभ्यर्च्य। तत्परितश्च यथाविधि ब्रह्मादि नारदान्तं देवान् आवाह्य अभ्यर्च्य। अस्मद्ग ुरुभ्यो नमः इति गुरून् ध्यात्वा। तस्मिन् परञ्ज्योतिः चैतन्यघनम् अक्षरंसर्वगंवासुदेवं ध्यायन्, द्वादशाक्षर विद्यया समावाह्य, ध्यात्वा। प्रणवेन अर्घ्यादि दत्वा। तदनु योगासनाब्ज पत्रेषु श्रीवत्साद्याश्च आवरणत्रयेषु व्याप्त्यादि गरुडान्तान् च आवरणदेवान् अभ्यर्च्य। करकेच पूर्ववत् योगपीठं कृत्वा, तस्मिन् “सहस्रारहुम्फट् आगच्छागच्छ सहस्रादित्यभास्वरं सहस्रारं सहस्रज्वालावृतं सुदर्शनं आवाहयामि” इत्यावाह्य, तन्मन्त्रेण अर्घ्यादिभिः अभ्यर्च्य निवेदयेत्। तत्र आचार्यः बिम्ब समीपे स्वस्तिकासनं बद्ध्वा उपविश्य। बिम्बं पञ्चभूतमयं ध्यात्वा।
वक्ष्यमाणेन विधिना तत्व संहारन्यासं कुर्यात्।
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने नमः-पादादि जान्वन्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसना पाय्विन्द्रिययुताय
शब्दस्पर्शरूप रसगुणयुताय अप्तत्वात्मने नमः-जान्वादि गुह्यान्तं,
ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने नमः-गुह्यादि नाभ्यन्तं,
ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वक्कुरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने नमः-नाभ्यादि नासिकान्तं,
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने नमः-नासादि मूर्धान्तं,
ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने नमः-हृदि,
ॐ फं नमःपराय पाटलवर्णाय अहङ्कारात्मने नमः-हृदि,
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मने नमः-हृदि,
ॐ भं नमःपराय सित वर्णायप्रकृत्यात्मने नमः-हृदि,
ॐ मं नमःपराय स्फटिकाभासायजीवतत्वात्मने नमः-हृदि, ।
इति बिम्बस्य संहारन्यासं कृत्वा।
तदनु चतुरश्रकुण्ड समीपं गत्वा। आसने संयगुपविश्य। तत्वहोमं करिष्ये” इति
सङ्कल्प्य। अग्निं “अदितेनुमन्यस्व” इत्यारभ्य “देवसवितः प्रसुव” इत्यन्तेन
परिषिच्य। वक्ष्यमाणैः मन्त्रैः हुत्वा।
प्रतिमन्त्राहुति पात्रान्तरम् सम्पाताज्यं सङ्गृह्य। देवस्यतत्तदङ्गेषु तत्तन्मन्त्रैरेव नमोऽन्तैः
कूर्चेन न्यसेत्।
तत्वन्यासः-(सृष्टिक्रमः)
ॐ मं नमःपराय स्फटिकाभासाय जीवतत्वात्मने स्वाहा-
ॐ भं नमःपराय सित वर्णाय प्रकृत्यात्मनेस्वाहा नमः-
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मनेस्वाहा
ॐ फं नमःपराय पाटलवर्णाय अहङ्कारात्मने स्वाहा-
ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने स्वाहा-हृदि, ॐ नं नमःपराय शुकवर्णाय शब्दतन्मात्रात्मने स्वाहा-श्रोत्रयोः, ॐ धं नमःपराय लोहितवर्णाय स्पर्शतन्मात्रात्मने स्वाहा-प्रतिमायां त्वचि, ॐ दं नमःपराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने स्वाहा-नेत्रयोः, ॐ थं नमःपराय पाण्डरवर्णाय रस तन्मात्रात्मने स्वाहा-तालुनि, ॐ तं नमःपराय सितवर्णाय गन्धतन्मात्रात्मने स्वाहा-नासिकायां, ॐ णं नमःपराय पाटलवर्णाय श्रोत्रेन्द्रियात्मने स्वाहा-श्रोत्रयोः, ॐ ढं नमःपराय हेमवर्णाय त्वगिन्द्रियात्मने स्वाहा-त्वचि, ॐ डं नमःपराय कृष्णवर्णाय नेत्रेन्द्रियात्मने स्वाहा-नेत्रयोः, ॐ ठं नमःपराय गौरवर्णाय जिह्वेन्द्रियात्मने स्वाहा-जिह्वायां, ॐ टं नमःपराय सितवर्णाय घ्राणेन्द्रियात्मने स्वाहा-नासिकायां, ॐ ञं नमःपराय सितवर्णाय वागिन्द्रियात्मने स्वाहा-वाचि, ॐ झं नमःपराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहा-करयोः। , ॐ जं नमःपराय रक्तवर्णाय पादेन्द्रियात्मने स्वाहा-पादयोः, ॐ छं नमःपराय रक्तवर्णाय पाय्विन्द्रियात्मने स्वाहा-अपाने, ॐ चं नमःपराय हेमवर्णाय मेहनेन्द्रियात्मने स्वाहा-मेहने,
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने स्वाहा। -मूर्धादिनासान्तं,
ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वक्कुरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने स्वाहा। -नाभ्यादि नासिकान्तं,
ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने स्वाहा। -नाभ्यादि गुह्यान्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसनापाय्विन्द्रिययुताय शब्दस्पर्शरूप
रसगुणयुताय अप्तत्वात्मने स्वाहा। -गुह्यादि जान्वन्तं,
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने स्वाहा। -जान्वादि चरणान्तं,
एभिः मन्त्रैः प्रत्येकम् अष्टोत्तर शताहुतीः अष्टाविंशतिः अष्टौवा आज्येन हुत्वा। सम्पाताज्येन
प्रतिमाङ्गेषु न्यसेत्।
अथ प्राणादि दशवायु न्यासः-
ॐ नाभिकन्दात् ब्रह्मरन्द्रावधिस्थितायां सुषुम्नायां स्थिताय प्राणाय स्वाहा।
ॐ कन्दात् वामनासापुटावधि इडायां स्थिताय अपानायस्वाहा।
ॐ कन्दात् दक्षिणनासापुटावधि पिङ्गळायां स्थिताय व्यानाय स्वाहा।
ॐ कन्दात् वामदृगन्तम् उत्थितायां गान्धार्यांस्थिताय उदानाय स्वाहा।
ॐ कन्दात् दक्षिणदृगन्तम् उत्थितायां हस्तिजिह्वायां स्थिताय समानाय स्वाहा।
ॐ कन्दात् वामश्रोत्रान्तम् उत्थितायां पूषायां स्थिताय नागाय स्वाहा।
ॐ कन्दात् दक्षिणश्रोत्रान्तम् उत्थितायां यशस्विन्यां स्थिताय कूर्माय स्वाहा।
ॐ कन्दात् पायुमूलावधि स्थितायाम् अलम्बुसायां स्थिताय कृकराय स्वाहा।
ॐ कन्दादारभ्य मेढ्रान्तम् अधोगतायां कुहूनायां स्थिताय देवदत्ताय स्वाहा।
ॐ कन्दादारभ्य पादाङ्गुष्ठान्तम् अधोगतायां कौशिन्यां स्थिताय धनञ्जयाय स्वाहा । एवं
पूर्ववत् होमः न्यासश्च।
अथ प्राणप्रतिष्ठा
अस्य श्री प्राणप्रतिष्ठा महामन्त्रस्य। ब्रह्म विष्णु महेश्वराः ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि, सकलजगत्सृष्टि स्थिति संहारकारिणी परा प्राणशक्तिः देवता। आं ह्रीं क्रों बीजं, स्वाहा शक्तिः, ओं कीलकं, बिम्ब प्राणप्रतिष्ठार्थे विनियोगः।
१ आं ह्रीं क्रों यरलवशषह ओं हम्सः, अं ङं घं गं खं कं पृथिव्यप्तेजो वाय्वाकाश
प्राणात्मने क्रों ह्रीम् आम् आं हृदयाय नमः। स्वाहा।
२ आं ह्रीं क्रों यरलवशषसह ओं हम्सः, इं नं धं दं थं तं शब्दस्पर्शरूपरस गन्धापानात्मने
क्रोंर्ह्रीम् आम् इं शिरसेस्वाहा स्वाहा।
३ आं ह्रीं क्रों य र लवशषसह ओं हम्सः, उं ञं झं जं छं चं वाक्पाणि पाद
पायूपस्थव्यानात्मने क्रों ह्रीम् आम् ऊं शिखायै वषट् स्वाहा।
४ आं ह्रीं क्रों य र लवशषसह ओं हम्सः, एं णं दं डं ठं टं श्रोत्रत्वक्चक्षुर्जिह्वा
घ्रानोदानात्मने क्रो ह्रीम् आम् ऐं कवचाय हुं स्वाहा।
५ आं ह्रीं क्रों य र लवशषसह ओं हम्सः, ओं पं फं बं भं मं मनोऽहङ्कार बुद्धि प्रकृतिजीव
समानात्मने क्रों ह्रीम् आं औ ं नेत्राभ्यां वौषट् स्वाहा।
६ आं ह्रीं क्रों य र लवशषह ओं हम्सः, अं यं रं लं वं शं षं सं हं लं क्षं वचना गमनानन्द विहरणोत्सर्गानन्द नाग कूर्म कृकरदेवदत्त धनञ्जयात्मने क्रों ह्रीम् आम् अः अस्त्रायफट्
स्वाहा।
ध्यानम्
रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः।
पाशङ्कोदण्डम् इक्षूत्भवम् अलिगुणमपि अङ्गुशं पञ्च बाणान्।
बिभ्राणा सृक्कुपालं त्रिनयन सहिता पीनवक्षोरुहाड्या।
देवीबालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः।
मूलमन्त्रम् ओम् आं ह्रीं क्रों य र लवशषसह ओं हम्सः, अमुष्यप्राण इहप्राणः आं ह्रीं क्रों य र लवशषसह ओं हम्सः, अमुष्यजीव इहस्थितः, आं ह्रीं क्रों य र लवशषसह ओं हम्सः, अमुष्य सर्वेन्द्रियाणि मनोहङ्कारबुद्धिप्रधान पृथिव्यप्तेजो वाय्वाकाश श्रोत्रत्वक्चक्षु र्जिह्वाघ्राण वाक्पाणिपाद पायूपस्थ त्वक्चर्म मांस रुधिरमेधोस्थि मज्जाशुक्ल प्राणाऽपानव्यानोदान समानाः इह आयान्तु सुखं चिरं तिष्ठन्तु स्वाहा ओम् इति। पूर्ववत् होमः न्यासश्च । श्रियादिदेवीनां ब्रह्मादिपरिवाराणाञ्च एवमेव कुर्यात्। अथ आयुधन्यासः-ओं चक्राय स्वाहा, ओं शङ्खय स्वाहा, ओं गदिने स्वाहा, ओं पद्माय स्वाहा, ओं शार्ङ्गाय स्वाहा, । एवं होमः न्यासश्च। अथ भूषणन्यासः-ओं किरीटाय स्वाहा, ओं श्रीवत्साय स्वाहा, ओं कौस्तुभाय स्वाहा, ओं वनमालायै स्वाहा, ओं
वैनतेयाय दर्पणरूपाय स्वाहा । ।एवं होमः न्यासश्च।
इति तत्व न्यास होमः नाम पञ्चदशः परिच्छेद:
:
क्रियाकैरवचन्द्रिकायां षोडशपरिच्छेदः
षोडशन्यास विधिः
अथ प्रणवन्यासः
ॐ अं नमः पराय विष्णवे स्वाहाहृदये ।
ॐ उं नमः पराय ब्रह्मणे स्वाहादक्षिणोरसि।
ॐ मं नमः पराय शङ्करात्मने स्वाहा वामोरसि।
ॐ नमः पराय त्रिमू र्त्यात्मने वासुदेवाय स्वाहा हृदये। इति होमः न्यासश्च।
अथ व्याहृतिन्यासः
ॐ नमः पराय भूलोकाय स्वाहापादयोः।
ॐ नमः पराय भुवर्लोकाय स्वाहाहृदि।
ॐ नमः परायसुवर्लोकाय स्वाहाशिरसि। इति होमः न्यासश्च।।
अथ अक्षर न्यासः
ॐ अं नमः पराय रसनात्मनेस्वाहा जिह्वायाम्। एवमुत्तरत्र।
ॐ आं नमः पराय मुखात्मनेस्वाहा।
ॐ इं नमः पराय दक्षिणलोचनात्मनेस्वार्हा।
ॐ इं नमः पराय वामलोचनात्मने स्वाहा।
ॐ उं नमः पराय दक्षिणकर्णात्मने स्वाहा।
ॐ ऊं नमः पराय वामकर्णात्मने स्वाहा।
ॐ ऋं नमः परायदक्षिणनासापुटात्मने स्वाहा।
ॐ ॠन्नमः पराय वामनासापुटात्मनेस्वाहा।
ॐ लृं नमः परायदक्षिणगण्डात्मने स्वाहा।
ॐ लॄं नमः परायवामगण्डात्मने स्वाहा।
ॐ एं नमः पराय उत्तर दन्तपङ्क्त्यात्मने स्वाहा।
ॐ ऐं नमः पराय अधो दन्तपङ्क्त्यात्मने स्वाहा।
ॐ ओं नमः पराय उत्तरोष्टात्मने स्वाहा।
ॐ औ ं नमः पराय अधरोष्टात्मने स्वाहा।
ॐ अं नमः पराय ललाटात्मने स्वाहा।
ॐ अःनमः पराय ताल्वात्मने स्वाहा।
ओं यं नमः पराय त्वगात्मने स्वाहा।
ॐ रं नमः पराय चक्षुरात्मने स्वाहा।
ॐ लं नमः पराय नासिकात्मने स्वाहा।
ॐ वं नमः पराय दशनात्मने स्वाहा।
ॐ शन्नमः परायश्रोत्रात्मने स्वाहा।
ॐ षं नमः पराय उदरात्मने स्वाहा।
ॐ सं नमः पराय कट्यात्मने स्वाहा।
ॐ हं नमः पराय हृदयात्मने स्वाहा।
ॐ लं नमः पराय नाभ्यात्मने स्वाहा।
ॐ क्षं नमः पराय मेहनात्मनेस्वाहा।
ॐ कं नमः पराय अङ्गुष्टाभ्यांस्वाहा।
ॐ खं नमः पराय तर्जनीभ्यां स्वाहा।
ॐ गन्नमः पराय मध्यमाभ्यां स्वाहा।
ॐ घं नमः परायअनामिकाभ्यां स्वाहा।
ॐ ङं नमः पराय कनिष्टिकाभ्यां स्वाहा।
ॐ चं नमः पराय दक्षिणोरुमूलात्मने स्वाहा।
ॐ छन्नमः पराय दक्षिणोरुमध्यात्मने स्वाहा।
ॐ जं नमः परायदक्षिणजान्वात्मने स्वाहा।
ॐ झं नमः पराय दक्षिण जङ्घात्मने स्वाहा।
ॐ ञं नमः पराय दक्षिणपादात्मने स्वाहा।
ॐ टं नमः पराय वामोरुमूलात्मने स्वाहा।
ॐ ठं नमः पराय वामोरुमध्यात्मने स्वाहा।
ॐ डन्नमः पराय वामजान्वात्मने स्वाहा।
ॐ ढं नमः पराय वामजान्वात्मने स्वाहा।
ॐ णं नमः पराय वामपादात्मने स्वाहा।
ॐ तं नमः पराय दक्षिणभुजमूलात्मने स्वाहा।
ॐ थं नमः पराय दक्षिणभुज मध्यात्मने स्वाहा।
ॐ दं नमः पराय दक्षिणभुज सन्ध्यात्मने स्वाहा।
ॐ धन्नमः पराय दक्षिणभुज कूर्परात्मने स्वाहा।
ॐ नं नमः पराय दक्षिणकरतलात्मने स्वाहा।
ॐ पं नमः पराय वामभुजमूलात्मने स्वाहा।
ॐ फं नमः पराय वामभुजमध्यात्मने स्वाहा।
ॐ बं नमः पराय वामभुज सन्ध्यात्मने स्वाहा।
ॐ भन्नमः पराय वामभुजकूर्परात्मने स्वाहा।
ॐ मं नमः पराय वामकरतलात्मने स्वाहा। इति होमः न्यासश्च।
अथ नक्षत्र न्यासः
ॐ नमः पराय रोहिण्यात्मने हृदयाय स्वाहा।
ॐ नमः पराय मृगशिरात्मने शिरसे स्वाहा।
ॐ नमः पराय आद्र्रात्मनेकेशाय स्वाहा।
ॐ नमः पराय पुनर्वस्वात्मने ललाटायस्वाहा।
ॐ नमः परायपुष्यात्मने वदनाय स्वाहा।
ॐ नमः पराय आश्लेषात्मने नासिकायै स्वाहा।
ॐ नमः पराय मघात्मन्यः दन्तेभ्यःस्वाहा।
ॐ नमः पराय पूर्वफल्गुन्यात्मभ्यांश्रोत्राभ्यांस्वाहा।
ॐ नमः पराय उत्तरफल्गुन्यात्मने दक्षिणभुजायस्वाहा।
ॐ नमः पराय हस्तात्मने वामभुजायस्वाहा।
ॐ नमः पराय चित्रात्मने दक्षिणहस्ताय स्वाहा।
ॐ नमः पराय स्वात्यात्मने वामहस्ताय स्वाहा।
ॐ नमः पराय विशाखात्मनेदक्षिणस्तनाय स्वाहा।
ॐ नमः पराय अनुराधात्मने वामस्तनायस्वाहा।
ॐ नमः पराय ज्येष्ठात्मने उदराय स्वाहा।
ॐ नमः पराय मूलात्मिन्यै कट्यैस्वाहा।
ॐ नमः पराय पूर्वाषाढात्मने मेहनायस्वाहा। ।
ओं नमः पराय उत्तराषाढात्मनेवृषणाय स्वाहा।
ॐ नमः पराय श्रवणात्मने पायवे स्वाहा।
ॐ नमः पराय धनिष्टात्मने दक्षिणोरवे स्वाहा।
ॐ नमः पराय शतभिषगात्मने वामोरवे स्वाहा।
ॐ नमः पराय पूर्वभाद्रात्मिन्यै दक्षिणजङ्कायैस्वाहा।
ॐ नमः पराय उत्तरभाद्रात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय रेवत्यात्मने दक्षिणपादायस्वाहा।
ॐ नमः परायअश्विन्यात्मने वामपादाय स्वाहा।
ॐ नमः पराय भरण्यात्मने दक्षिणपाश्र्वायस्वाहा।
ॐ नमः पराय कृत्तिकात्मने वामपाश्र्वाय स्वाहा। इति होमः न्यासश्च। ।
अथ ग्रहन्यासः
ॐ नमः पराय सूर्यात्मने दक्षिण नेत्राय स्वाहा।
ॐ नमः पराय चन्द्रात्मने वामनेत्राय स्वाहा।
ॐ नमः पराय अहङ्कारात्मने उदराय स्वाहा।
ॐ नमः पराय बुधात्मिन्यै बुद्धये स्वाहा।
ॐ नमः पराय बृहस्पत्यात्मने वागिन्द्रियाय स्वाहा।
ॐ नमः पराय शुक्रात्मभ्यःइन्द्रियेभ्यः स्वाहा।
ॐ नमः पराय शनैश्चरात्मने ललाटाय स्वाहा।
ॐ नमः पराय राह्वात्मने पादाय स्वाहा।
ॐ नमः पराय केत्वात्मने केशाय स्वाहा।
ॐ नमः पराय ध्रुवात्मिन्यै नाभ्यै स्वाहा।
ॐ नमः पराय सप्तष्र्यात्मभ्यः पादादिसर्वगात्रेभ्यः स्वाहा। इति होमः न्यासश्च।
कालन्यासः
ओं नमः परायशरीरात्मने शरीराय स्वाहा।
ॐ नमः परायचैत्रात्मने शिरसे स्वाहा।
ॐ नमः परायवैशाखात्मने मुखाय स्वाहा।
ॐ नमः परायज्येष्ठात्मने हृदयाय स्वाहा।
ॐ नमः पराय आषाडात्मनेदक्षिणस्तनाय स्वाहा।
ॐ नमः पराय श्रावणात्मने वामस्तनाय स्वाहा।
ॐ नमः पराय भाद्रपदात्मने उदराय स्वाहा
ॐ नमः पराय आश्वयुजात्मिन्यै कट्यै स्वाहा।
ॐ नमः पराय कार्तिकात्मने दक्षिणोरवे स्वाहा।
ॐ नमः पराय मार्गशीर्षात्मने वामोरवे स्वाहा।
ॐ नमः पराय पौषात्मिन्यै दक्षिणजङ्घायै स्वाहा।
ॐ नमः पराय मखात्मिन्यै वामजङ्घायै स्वाहा।
ॐ नमः पराय फाल्गुनात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय वत्सरात्मने वाममुख्यबाहवे स्वाहा।
ॐ नमः पराय पर्वात्मभ्यः सर्वपर्वभ्यःस्वाहा।
ॐ नमः परायसर्वाङ्गस्वरूपेभ्यः ऋतुभ्यः स्वाहा।
ॐ नमः परायषष्ट्युत्तरात्रात्मभ्यःसर्वसन्धिभ्यः स्वाहा।
ॐ नमःपराय त्रुटि लव कला काष्ठा क्षण निमेषात्मभ्यः
रोमभ्यःस्वाहा।
ॐ नमः परायकृतयुगात्मनेमुखाय स्वाहा।
ॐ नमः पराय त्रेतायुगात्मने हृदयायस्वाहा।
ॐ नमः परायद्वापरयुगात्मिन्यै कट्यैस्वाहा।
ॐ नमः परायकलियुगात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायस्वायम्भुव मन्वन्तरात्मने स्वाहा।
ॐ नमः पराय स्वरोचिषमन्वन्तरात्मनेस्वाहा।
ॐ नमः परायउत्तममन्वन्तरात्मने स्वाहा।
ॐ नमः परायतामसमन्वन्तरात्मने स्वाहा।
ॐ नमः परायरैवतमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय चाक्षुषमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय वैवस्वतमन्वन्तरात्मने स्वाहा। दक्षिणभुजे।
ॐ नमः पराय सूर्यमन्वन्तरात्मने स्वाहा।
ॐ नमः परायदक्ष मन्वन्तरात्मने स्वाहा।
ॐ नमः परायब्रह्ममन्वन्तरात्मने स्वाहा।
ॐ नमः परायधर्म मन्वन्तरात्मने स्वाहा।
ॐ नमः परायरुद्रमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय सावर्णिमन्वन्तरात्मने स्वाहा।
ॐ नमः परायरौद्रभूतिमन्वन्तरात्मने स्वाहा। वामभुजे।
ॐ नमः पराय प्रथमपरार्धात्मिन्यैदक्षिणजङ्कायै स्वाहा।
ॐ नमः पराय द्वितीयपरार्धात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय महाकल्पात्मने शिरसे स्वाहा।
ॐ नमः पराय उत्तरायणात्मने दक्षिण पादाय स्वाहा।
ॐ नमः परायदक्षिणायनात्मने वामपादाय स्वाहा। तत्तत्स्थानेषु।
इति होमः न्यासश्च। ।
अथ ब्राह्मणादि वर्णन्यासः-
ओं नमः परायब्राह्मणात्मने मुखाय स्वाहा।
ॐ नमः पराय क्षत्रियात्मभ्यां बाहुभ्यांस्वाहा।
ॐ नमः परायवैश्यात्मभ्याम् ऊरुभ्यां स्वाहा।
ॐ नमः परायशूद्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायसङ्करात्मभ्यःपादाङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय गवात्मने मुखाय स्वाहा।
ॐ नमः पराय अजाविकात्मभ्यां बाहुभ्यां स्वाहा।
ॐ नमः पराय अजाविकात्मभ्याम् ऊरुभ्यां स्वाहा।
ॐ नमः परायग्रामारण्यपश्वात्मभ्यां पादाभ्यां स्वाहा। एवं होमः न्यासश्च। ।
अथ तोयन्यासः
ओं नमः पराय मेघात्मभ्यः केशेभ्यः स्वाहा।
ॐ नमः परायकूपात्मने रोमकूपाय स्वाहा।
ॐ नमः परायवाप्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायनिर्झरात्मभ्यां जङ्काभ्यां स्वाहा।
ॐ नमः परायनद्यात्मभ्यः सर्वावयवेभ्यः स्वाहा।
ॐ नमः पराय समुद्रात्मिन्यै कुक्ष्यै स्वाहा। इति होमः न्यासश्च।
अथ निगमन्यासः
ॐ नमः परायऋग्वेदात्मने शिरसे स्वाहा।
ॐ नमः पराय यजुर्वेदात्मने दक्षिणभुजायस्वाहा।
ॐ नमः पराय सामवेदात्मने वामभुजाय स्वाहा।
ॐ नमः पराय सर्वोपनिषदात्मने हृदयाय स्वाहा।
ॐ नमः पराय इतिहासात्मिन्यै दक्षिणजङ्कायै स्वाहा।
ॐ नमः परायपुराणात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय अथर्वा"रि◌सात्मिन्यै स्वाहा।
ॐ नमः पराय कल्पसूत्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायव्याकरणीत्मने वक्त्राय स्वाहा।
ॐ नमः परायतर्कशास्त्रात्मने कण्ठाय स्वाहा।
ॐ नमः परायमीमांसानिरुक्तात्मने हृदयाय स्वाहा।
ॐ नमः पराय छन्द आत्मने दक्षिण नेत्राय स्वाहा।
ॐ नमः परायज्योतिषात्मने वामनेत्राय स्वाहा।
ॐ नमः पराय शिक्षात्मिन्यै कुक्ष्यै स्वाहा।
ॐ नमः परायगारुडतन्त्रात्मने दक्षिणकर्णात्मने स्वाहा।
ॐ नमः पराय भूततन्त्रात्मने वामकर्णात्मने स्वाहा।
ॐ नमः परायधनुर्वेदात्मने दक्षिणहस्ताय स्वाहा।
ॐ नमः पराय आयुर्वेदात्मने वामहस्ताय स्वाहा।
ॐ नमः पराययोगशास्त्रात्मने हृदयाय स्वाहा।
ॐ नमः परायनीतिशास्त्रात्मभ्यां पादाभ्यां स्वाहा।
इति होमः न्यासश्च।
अथ देवता न्यासः
ॐ नमः परायब्रह्मणे शिरसे स्वाहा।
ॐ नमः परायसरस्वत्यात्मिकायै जिह्वायै स्वाहा।
ॐ नमः परायइन्द्रात्मने दक्षिणभुजाय स्वाहा।
ॐ नमः परायमहाबलात्मने वामभुजाय स्वाहा।
ॐ नमः पराय विश्वकर्मात्मने दक्षिणस्तनाय स्वाहा।
ॐ नमः परायप्रह्लादात्मने वामस्तनाय स्वाहा।
ॐ नमः परायनारदात्मिन्यै दक्षिणकुक्ष्यै स्वाहा।
ॐ नमः पराय अनन्ताद्यात्मिन्यै वामकुक्ष्यैस्वाहा।
ॐ नमः परायवरुणात्मभ्यःअस्थिभ्यः स्वाहा।
ॐ नमः पराय पित्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायविश्वेदेवाभ्याम् ऊरुभ्यां स्वाहा।
ॐ नमः परायऋष्यात्मभ्यां जानुभ्यां स्वाहा।
ओं नमः पराय यक्षात्मभ्याञ्जङ्काभ्यां स्वाहा।
ॐ नमः पराय राक्षसात्मभ्यां गुल्फाभ्यां स्वाहा।
ॐ नमः परायविद्याधरात्मिन्यै पाष्र्णये स्वाहा।
ॐ नमः परायनवग्रहात्मने पादतलाय स्वाहा।
ॐ नमः परायपूतनाजृम्भकात्मकेभ्यः नखेभ्यः स्वाहा।
ॐ नमः पराय सुभ्रह्मण्यात्मने दक्षिणकटिपाश्र्वायस्वाहा।
ॐ नमः पराय गन्धर्वात्मने ओष्टाय स्वाहा। इति होमः न्यासश्च।
अथ वैराजन्यासः
ॐ नमः परायस्वर्लोकात्मने मस्तकाय स्वाहा।
ॐ नमः परायसूर्यात्मनेदक्षिणनेत्राय स्वाहा।
ॐ नमः परायचन्द्रात्मने वामनेत्राय स्वाहा।
ॐ नमः परायवाय्वात्मिन्यै नासिकायै स्वाहा।
ॐ नमः पराय दिगात्मभ्यां बाहुभ्यां स्वाहा।
ॐ नमः परायऋष्यात्मने हृदयाय स्वाहा।
ॐ नमः परायव्योमात्मने वपुषे स्वाहा।
ॐ नमः पराय देवात्मने अन्तरात्मने स्वाहा।
ॐ नमः पराय मेघात्मभ्यःकेशेभ्यःस्वाहा।
ॐ नमः परायनक्षत्रात्मकेभ्यः भूषणेभ्यः स्वाहा।
ॐ नमः पराय अग्न्यात्मने मुखाय स्वा हा।
ओं नमः परायसरस्वत्यात्मिन्यै वाचे स्वाहा। इति होमः न्यासश्च।
अथ क्रतुन्यासः
ॐ नमः पराय अश्वमेधात्मने शिरसे स्वाहा।
ॐ नमः पराय नरमेधात्मने ललाटाय स्वाहा।
ॐ नमः पराय राजसूयात्मने मुखायस्वाहा।
ॐ नमः पराय गोसवात्मने कण्ठाय स्वाहा।
ॐ नमः पराय एकादशात्मिन्यै नाभ्यैस्वाहा।
ओं नमः पराय अग्निष्टोमात्मने लिङ्गाय स्वाहा।
ॐ नमः पराय अतिरात्रात्मने वृषणाय स्वाहा।
ॐ नमः पराय आप्तोर्यामात्मभ्याम् ऊरुभ्यां स्वाहा।
ॐ नमः पराय षोडशाहात्मभ्यां जानुभ्यां स्वाहा।
ॐ नमः पराय उक्थ्यस्वरूपायै दक्षिणजङ्घायै स्वाहा।
ॐ नमः पराय वाजपेयस्वरूपायै वामजङ्घा यै स्वाहा।
ॐ नमः पराय चातुर्मास्यात्मने बाहवे स्वाहा।
ॐ नमः पराय सौत्रामण्यात्मने हस्ताय स्वाहा।
ॐ नमः पराय पश्विष्ट्यात्मभ्यः अङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय दर्शात्मने दक्षिणनेत्राय स्वाहा।
ॐ नमः पराय पौर्णमासात्मने वामनेत्राय स्वाहा।
ॐ नमःपराय इष्टिदर्भयूपस्वाहाकारवषट्कारात्मभ्यां स्तनाभ्यां स्वाहा।
ॐ नमः परायपञ्चमहायज्ञात्मकेभ्यः अङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय दक्षिणात्मने हृदयाय स्वाहा।
ॐ नमः पराय स्तोमात्मकेभ्यःकेशेभ्यः स्वाहा।
ॐ नमः पराय आहवनीयात्मने मुखाय स्वाहा।
ॐ नमः पराय गार्हपत्यात्मने मुखाय स्वाहा।
ॐ नमः पराय दक्षिणाग्न्यात्मिन्यै नाभ्यै स्वाहा।
ॐ नमः पराय आवसथ्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय सभ्यात्मने हृदयायस्वाहा।
ॐ नमः पराय प्रवग्र्यात्मकेभ्यः भूषणेभ्यः स्वाहा। इति होमः न्यासश्च।
अथ गुणन्यासः
ओं नमः पराय सत्वगुणात्मने शिरसे स्वाहा।
ॐ नमः पराय रजोगुणात्मने हृदयाय स्वाहा।
ॐ नमः पराय तमोगुणात्मभ्यां पादाभ्यां स्वाहा। इति होमः न्यासश्च।
अथ मूर्ति न्यासः
ओं नमः पराय मत्स्यमूर्त्यात्मने शिरसे स्वाहा।
ॐ नमः पराय कूर्ममूर्त्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय वराहमूर्त्यात्मभ्यां जङ्घाभ्यां स्वाहा।
ॐ नमः पराय नृसिह्म मू र्त्यात्मने ललाटाय स्वाहा।
ॐ नमः पराय वामनमूर्त्यात्मने मुखाय स्वाहा।
ॐ नमः पराय भार्गवरामात्मनेहृदयाय स्वाहा।
ॐ नमः पराय कार्तवीर्यात्मभ्यां कराभ्यां स्वाहा।
ॐ नमः पराय दाशरथिरामात्मने हृदयाय स्वाहा।
ॐ नमः पराय बलरामात्मने हृदयाय स्वाहा।
ॐ नमः पराय कृष्णात्मने हृदयाय स्वाहा।
ॐ नमः पराय बुद्धात्मने गुह्याय स्वाहा।
ॐ नमः पराय कल्क्यात्मभ्यां जानुभ्यां स्वाहा। इति होमः न्यासश्च।
अथ शक्तिन्यासः
ओं नमःपराय लक्ष्म्यात्मने ललाटाय स्वाहा।
ॐ नमः पराय सरस्वत्यात्मने मुखाय स्वाहा।
ॐ नमः पराय रत्यात्मने स्वाहा।
ॐ नमः पराय प्रीत्यात्मने कर्णाय स्वाहा।
ॐ नमः पराय की र्त्यात्मने चक्षुषे स्वाहा।
ॐ नमः पराय शान्त्यात्मने हृदयाय स्वाहा।
ॐ नमः पराय तुष्ट्यात्मने उदराय स्वाहा।
ॐ नमः पराय पुष्ट्यात्मभ्यः सर्वगात्रेभ्यः स्वाहा। इति होमः न्यासश्च।
अथ षड्गुणन्यासः
ओं नमः पराय ज्ञानाय हृदयायनमः स्वाहा।
ॐ नमः पराय ऐश्वर्याय शिरसेस्वाहा स्वाहा।
ॐ नमः पराय शक्त्यैशिखायै वषट् स्वाहा।
ॐ नमः पराय बलाय कवचाय हुं स्वाहा।
ॐ नमःपराय तेजसे नेत्राभ्यां वौषट् स्वाहा।
ॐ नमः पराय वीर्याय अस्त्रायफट् स्वाहा। इति होमः न्यासश्च।
अथ लोकन्यासः
ओं नमः पराय अतलात्मभ्यां पादतलाभ्यां स्वाहा।
ॐ नमः पराय वितलात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय सुतलात्मभ्यां गुल्फाभ्यां स्वाहा।
ॐ नमः पराय नितलात्मभ्यां जङ्घाभ्यां स्वाहा।
ॐ नमः पराय महातलात्मभ्यां जानुभ्यां स्वाहा।
ॐ नमः पराय रसातलात्मभ्याम् ऊरुभ्यां स्वाहा।
ॐ नमः पराय तलातलात्मिन्यै कट्यै स्वाहा।
ॐ नमः पराय भूलोकात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय भुवर्लोकात्मने मेहनाय स्वाहा।
ॐ नमः पराय स्वर्लोकात्मने उदराय स्वाहा।
ॐ नमः पराय महर्लोकात्मने हृदयाय स्वाहा।
ॐ नमः पराय जनोलोकात्मने कण्ठाय स्वाहा।
ॐ नमः पराय तपोलोकात्मने मुखाय स्वाहा।
ॐ नमः पराय सत्यलोकात्मने शिरसे स्वाहा। इति होमः न्यासश्च।
जङ्घमेषु बिम्बेषु षोडशन्यासं न कुर्यात्।
इति क्रियाकैरवचन्द्रिकायां षोडशन्यासविधिर्नाम षोडशपरिच्छेदः