अथ पञ्चविंशः परिच्छेदः
गृहार्चाप्रतिष्ठा
अथ गृहार्चा प्रतिष्ठाविधिः उच्यते-सुवर्णादिलोहजां, यद्वा चन्दनाऽगरु देवदारु बिल्व सरल तमाल चूत बदरी पनस क्षीरिणी सप्तलाजाति स्पन्दन तिमिश कदम्ब कुरवक तिलक मधूकासन जम्बू पुन्नाग कनद खदिर निम्ब विभीतिक शाल्मल्यादि वृक्षजां यजमानाभीष्ट कर्मानुरूपां ब्राह्मणस्य चेत् हस्तमानमितां, क्षत्रियस्यचेत् एकविंशाङ्गुलमानां वैश्यस्य चेत् एकोनविंशाङ्गुलां, शूद्रस्य सप्तविंशाङ्गुलां, लोहजां चेत् ब्राह्मणस्य द्वादशाङ्गुलमानेन, क्षत्रियस्य नवाङ्गुलमानेन, विशः सप्ताङ्गुलमानेन, शूद्रस्य पञ्चाङ्गुलेन कृतां प्रतिमां रत्नजां मणिजां वा श्रीभूमिभ्यां श्रियावा युतां केवलां वा प्रभा पीठादियुतां सलक्षणां संहारशयनमात्ररहितां यथाविधि शिल्पिना कारयित्वा। गृहस्य
मारुत्यां दिशि स्थापयेत्।
तत्प्रतिष्ठार्थं सर्वान् सम्भारान्सम्भृत्य। यजमानःस्वयम् आचार्यवरणं कृत्वा ।
अङ्गणे नदीतीरे वा, यद्वा सुपूजिते क्षेत्रे प्रपां समध्यवेदिकां सचतुष्कुण्डां सैककुण्डें वा
निर्माय, आचार्येण प्रतिष्ठां कारयेत्।
आचार्यः पूर्वम् अङ्कुरान् अर्पयित्वा। तदनु जलाधिवास नयनोन्मीलन पाद्यादि
द्रव्यकलशस्नपन शयनाधिवास कुम्भावाहनादिकं यथापूर्वं प्रतिष्ठायामिव कृत्वा। कुण्डे अग्निम् उपसमिध्य। पुरस्तात्तन्त्रपूर्वकं तत्वहोमादि शान्तिहोमावसानिकं हुत्वा। पूर्ववत्
सम्पातेन संस्पृश्य।
सुमुहूर्ते प्रतिमास्थापनस्थाने रत्नन्यासं कृत्वा। तत्र यथाविधि संस्थाप्य।
आवाहनादिकं कर्म कुर्यात्। जङ्घमस्य चेत् आवाहनादिकम् अभिप्रेत
वेदिकायां कृत्वा। तदनु स्थाने स्थापयेत्। द्वारे चण्ड प्रचण्ड क्षेत्रपाल विघ्नेश वास्तुनाथ दुर्गा गुह विष्वक्सेन शङ्ख पद्मनिधीश्च आवाह्य अभ्यर्चयेत्। तदनु यजमानः च
आचार्याचोदितः भूमौ दण्डवत् प्रणम्य इमां गाथाम् उदीरयेत्।
" दासोस्मि तव देवेश सपुत्रगणबान्धवः।
सन्निधत्स्व गृहे यावत् अन्ववायो महाच्युत।
पूजां मयां यथाशक्ति विहितां विकलामपि।
गृह्णीष्व भगवन् भक्तजनानुग्रह काम्यया। "
इत्थम् आचार्यसन्निधौ भगवन्तं याचयित्वा। गुरवे मूर्तिपेभ्यश्च यथाशक्ति दक्षिणां वितीर्य।
ब्राह्मणान् भोजयित्वा तेभ्यः अपि दक्षिणां दद्यात्।
श्रीवत्सप्रतिष्ठाः-
अथ श्रीवत्सप्रतिष्ठा विधिः उच्यते-
श्रीवत्सम् अग्रे शालिभारे सशाटिके निवेश्य। पुण्याहादिपूर्वकं सर्वं कर्म कृत्वा। तत्वानि विन्यस्य। कुम्भे च आवाह्य अभ्यर्च्य। पद्मकुण्डे अग्निम् उपसमिध्य। श्रीवत्समन्त्रेण समिदाज्य चरुभिः प्रत्येकम् अष्टोत्तरशतम् आहुतीनां हुत्वा। तत्वहोमं शान्तिहोमं च
कृत्वा। सम्पातेन स्पृष्ट्वा।
कुम्भजलेन प्रोक्ष्य। सुमुहूर्ते विष्णोः वक्षसि निवेशयेत्। गुरवे दक्षिणाच पूर्ववत्।
कौस्तुभ प्रतिष्ठाः-
कौस्तुभं तु यथापूर्वम् स्वमन्त्रेण स्थण्डिले स्थापयित्वा। सुवर्ण प्रतिमां कौस्तुभाकारेण कारयित्वा। महाकुम्भे विन्यस्य। पूर्ववत् सर्वं कर्म कुर्यात्।
वनमाला प्रतिष्ठाः-
वनमालां सुवर्णमयीं नानारत्न परिष्कृतां पूर्वोक्तविधानेन स्वमन्त्रेण प्रतिष्ठाप्य। सुमुहूर्ते
विष्णोःकण्ठे लम्बयेत्।
अथ किरीट प्रतिष्ठाः-
शुद्धकार्तस्वरमयं रत्नचितं वा किरीटं भगवद्योग्यं कृत्वा। पाद्यादि घृतान्तैः
सप्तदशकलशैःकिरीटमन्त्रेण संस्नाप्य। सवस्त्रधान्यकृत स्थण्डिले निधाय। कुम्भे
तन्मन्त्रेण आवाह्यअभ्यर्च्य। कुण्डचतुष्टये वा एकस्मिन् कुण्डे वा समिदाज्यचरुभिः तन्मन्त्रेण पृथक् अष्टोत्तरशताहुतीनां हुत्वा। शान्तिहोमं हुत्वा। सम्पातेन किरीटं संस्पृश्य। सुमुहूर्ते कुम्भजलेनस्वविद्यया प्रोक्ष्य। तदनु भद्रासने समासीनं देवं राजवत् उपचर्य।संस्नाप्य। अलङ्कृत्य आराध्य। वेदघोषैः वाद्यघोषैः सर्वोपचारैः सह आचार्यः मूर्तिपैः साकं पञ्चोपनिषन्मन्त्रैः देवस्य मूर्धनि किरीटम् आरोप्य। देवं यानम् आरोप्य। तूर्यघोष पुष्पवृष्ट्याद्युपचारपुरस्सरं ग्रामं प्रदक्षिणी कृत्य मन्दिरे विनिवेश्य अर्चयेत्। गुरवे
दक्षिणा देया।
भूषणादि प्रतिष्ठाः-
हारादि नूपुरान्तं भूषणजालं द्वादशाक्षरेण गन्ध जलेन सङ्क्षाल्य। धान्यराशौ संस्थाप्य। अग्नौ स्वविद्यया हुत्वा। तत्तद्भूषणं ध्यात्वा। द्वादशाक्षरमनुं जपन् तत्तन्मन्त्रेण तैस्तैः
भूषणैः भूषयेत्।
चक्राद्यायुध प्रतिष्ठाः-
अथ चक्राद्यायुधानां प्रतिष्ठाविधिः उच्यते। -
चक्रं तु हस्तमानेन यद्वा सप्तदशाङ्गुलम्।
अष्टादशाङ्गुलं यद्वा विंशत्यङ्गुलसम्मितम्।
चतुर्दशाङ्गुलं वापि षोडशाङ्गुलमेव वा।
द्वादशाङ्गुलमानं वा स्वलक्षण परिष्कृतम्।
मूलबिम्बाननसमं सहस्रारं समुज्वलम्।
यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्।
षोडशारमथाष्टारम् अथवा षडरं वरम्।
सहस्रज्वालमथवा षड्ज्वालं नाभिमण्डितम्।
त्रिलोहनिर्मितं चक्रं नालपीठ समन्वितम्।
कृत्वा करण्डमकुटं बिभ्राणं वा सुदर्शनम्।
चतुर्भुजधरं क्रुद्धं भ्रुकुटी कुटिलाननम्।
पुरुषं द्विभुजं यद्वा दक्षिणेनापि तर्जनम्।
स्पृशन्तं कटिमन्येन च इतराभ्याम् कृताञ्जलिम्।
मुख्याभ्यां कराभ्यां तु सुस्थितं पद्मविष्टरे। "
एवं रूपयुतं चक्रं कल्पयित्वा। पूर्ववत् अङ्कुरार्पणजलाधिवास नयनोन्मीलन स्नपन
शयनाधिवासद्वारतोरणकुम्भपूजानाम् अनन्तरं महाकुम्भे सुदर्शनं तन्मन्त्रेण आवाह्य।
अभ्यर्च्य।
अत्युग्रं पुरुषं ध्यायेत् द्विभुजं रक्त वाससम्।
रक्तदंष्ट्राननम् नाभौ सुस्थितं चक्रनायकम्। "
इति ध्यात्वा। चतुष्कुण्डेषु यद्वा एकस्मिन् समिदाज्य चरुभिः तन्मन्त्रेण पृथक्
अष्टोत्तरशतम् आहुतीनां हुत्वा। चक्रं शोषणादिभिः संशोष्य। शान्तिहोमावसाने सम्पातेन नाभ्याद्यवयवान् संस्पृश्य। सुमुहूर्ते स्वविद्यया प्रोक्ष्य। सम्पूजयेत्।
शङ्खादि प्रतिष्ठाः-
शङ्खादीनां चतुर्णाम् यथा पूर्वम् आचार्यः स्वस्वमन्त्रैः प्रतिष्ठां कृत्वा। यथाविधि पूजयेत्।
गुरवे दक्षिणां च पूर्ववत्।
चण्डादिद्वारपाल प्रतिष्ठाः-
चण्डादिद्वारपालानां जलाधिवासनयनोन्मीलन स्नपन शयनाधिवास एक कुम्भपूजन
तत्वहोमन्यास शान्तिहोम(सम्पात)स्पर्शनादिकर्म कृत्वा। आचार्यः तत्तन्मन्त्रेण
बीजयुक्तेन कुम्भजलेन प्रोक्षयेत्। गुरवे दक्षिणा च पूर्ववत्।
गरुड प्रतिष्ठाः-
अथ वैनतेयप्रतिष्ठा विधिः उच्यते-
अङ्कुरावापनादि कर्मं यथाविधि पूर्ववत् कृत्वा। आचार्यः पूर्वादिषु चतुर्षु कोणेषु क्रमेण सत्य सुपर्ण गरुड तार्क्ष्यान् आवाह्य। तेषु क्रमेण बृहत्साम, सुपर्णमनु , रथन्तर, गरुडगायत्री मन्त्रैः प्रत्येकं प्रतिद्रव्यम् अष्टोत्तरशतम् आहुतीनां हुत्वा। परस्तादुपरिष्टाश्च शिष्टं
कर्म यथापूर्वं कुर्यात्। गुरवे दक्षिणा च देया।
आदित्यप्रतिष्ठाः-
आदित्यप्रतिष्ठायां तु स्व गायर्त्याराधनम्। तथैव होमः। “बिभ्राडि” त्यनुवाकेन सावि र्त्या
च स्थापनं सूर्यविद्यया कुम्भप्रोक्षणं च कुर्यात्।
ब्रह्मादीनां च सर्वेषां देवानां च यथा पुरम्।
स्वतन्त्रे परतन्त्रे च स्वैः मन्त्रैः स्थापनं भवेत्।
दुर्गा च मातरः सप्त याः कश्चित् देवताः स्त्रियः।
तासां प्रतिष्ठा लक्ष्मीवत् स्वैः स्वैः मन्त्रैः विशिष्यते।
विष्वक्सेन प्रतिष्ठाः-
विष्वक्सेनस्य भगवत्बिम्बस्येव सर्वकर्माणि कृत्वा। स्वमन्त्रेण स्थापनं कुर्यात्। सर्वत्र
दक्षिणा च पूर्ववत्।
भक्तप्रतिष्ठा विधिः-
भक्तानां प्रतिकायं स्वतन्त्रं स्वामितन्त्रं वा शिलादिभिः यथालाभं कृताञ्जलिपुटं सौम्यं स्थितम् आसीनं यथावर्ण रूपं यथाश्रमधर्मं यथावयोरूपधरं पद्मपीठे प्रतिष्ठितं कर्मानुरूप्येण वा प्रतिष्ठितं शिल्पिना कल्पयित्वा। शुभेदिने गुरुः आदौ अङ्कुरान् युग्मास्वेव पालिकासु अर्पयित्वा। वेदिकाधिवासन कुम्भाष्टकरहितं सर्वम् अन्यत् कर्मजालं पूर्ववत्। द्वारतोरणयजन पूर्वकं प्रणवेन अन्यैः मन्त्रैश्च यथाविधि कृत्वा। कुम्भप्रोक्षणं तन्मन्त्रेणैव कुर्यात्। तेषां स्वातन्त्ये सिह्मदिङ्मूर्ति वर्जितं मन्दिरं कुर्यात्।
दीक्षा गुरु प्रतिष्ठाः
आचार्यः मन्त्रसिद्धये दीक्षागुरोः प्रतिमां कृत्वा। पुण्याहपूर्वकं सर्वं कर्मजालं भक्तानामिव कृत्वा। ब्राह्मणान् भोजयित्वा। तेभ्यःदक्षिणां च वितीर्य। तत्र स्वाध्यायाऽध्ययनादिविप्रैः कारयित्वा। स्वयं च कुर्यात्। तेषां स्वातन्त्ये ध्वजारोहण होमबलि तीर्थयात्रारहितमुत्सवं कुर्यात्। पारतन्त्ये भगवता साकं भगवत्प्रीतये कुर्यात्। गुरवे दक्षिणा च पूर्ववत्। इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां गृहार्चा , श्रीवत्स, कौस्तुभ, वनमाला, किरीट, भूषण, चक्राद्यायुध, चण्डादिद्वारपाल, गरुडः आदित्य भक्ता,
दीक्षागुरुप्रतिष्ठाविधिःनाम पञ्चविंशः परिच्छेदः
इति क्रियापाद प्रयोगः