२४ प्रभादिप्रतिष्ठा

अथ चतुर्विंशः परिच्छेदः
प्रभाप्रतिष्ठा
अथ प्रभादीनां प्रतिष्ठाविधिः उच्यते-
कालान्तरे चेत् प्रभादीनां प्रतिष्ठा, जलाधिवासाद्यखिलं कर्म यथापूर्वं कृत्वा। गुरुः ज्वालामालासहस्राड्यां विद्युत्सङ्घातसन्निभां प्रभां ध्यात्वा। संस्पृश्य। अग्नौसमिदाज्यचरुभिः मूलमन्त्रेण प्रत्येकम् अष्टोत्तरशतम् आहुतीनां हुत्वा। सर्पिषा शान्ति होमं च हुत्वा। सम्पातेन प्रभां संस्पृश्य। प्रभाते कुम्भवारिणा मूलेनप्रोक्ष्य। प्रभां सुमुहूर्ते देवेन संयोज्य। महोत्सवं कुर्यात्। गुरवे दक्षिणा च पूर्ववत्। पीठस्थापनम्। पीठस्थापने तु गुरुः तत्र पीठम् सम्स्थाप्य। योगासनमन्त्रैः आधारादि पद्मान्तैः अग्नौ हुत्वा। सम्पातेन पीठं संस्पृश्य। पद्म पीठं सुमुहूर्ते देवेन योजयेत्। दक्षिणा
च पूर्ववत्।
अथ घण्टा प्रतिष्ठा उच्यते
घण्टां पञ्चगव्येन पञ्चवारुणिकैः मन्त्रैः संस्नाप्य। नववाससा आवेष्ट्य। शालितण्डुलतिलैः स्थण्डिलं कृत्वा। तदूध्र्वे नववस्त्रं सदर्भं विन्यस्य। तत्र घण्टां तन्मन्त्रेण शाययित्वा। नवेन वाससा आच्छाद्य। तत्रसलक्षनं कुम्भम् एकं सम्स्थाप्य। तस्मिन् “शब्दब्रह्मस्वरूपिण्यै ओं घण्टायै नमः” इति आवाह्य अभ्यर्च्य। कुण्डेस्थण्डिले वा तन्मन्त्रेण समिदादिभिः पृथक् अष्टोत्तरशतम् आहुतीनां, चरुणा नृसूक्तेन षोडश च हुत्वा। तां शब्दब्रह्ममयीं ध्यात्वा।

शान्तिहोमं कृत्वा। सम्पातेन घण्टां सम्स्पृश्य। प्रभाते कुम्भतोयेन प्रोक्ष्य। ततः घण्टां
देवस्य सर्वकर्मसु चालयेत्। गुरवे दक्षिणा पूर्ववत्।
धूप दीपप्रतिष्ठा
धूपदीपयोस्तु पूर्ववत् सर्वं कर्म कृत्वा। “ओं धूपपात्राधिदैवताय पावकाय नमः” इति धूपं, ओं दीपपात्राधिदैवताय भास्कराय नमः" इति दीपं च होमानन्तरं महाकुम्भ
जलेनप्रोक्षयेत्। दक्षिणा च पूर्ववत्।
भेर्यादि प्रतिष्ठा-भेर्यादीनां पञ्चगव्येन शुद्धिङ्कुर्यात्।
रथादीनां छत्रादीनां च प्रतिष्ठा
रथादियानानां तु शुद्धिं पूर्ववत् कृत्वा। स्वस्वदेवतामन्त्रेण महाकुम्भजलेन प्रोक्षणं कुर्यात्। छत्रादीनामपि पूर्ववत्।सर्वत्र ब्राह्मणान् भोजयित्वा। पुण्याहपूर्वकं यथाविधि सर्वं कर्मकुर्यात्। यजमानश्च गुरवे वित्तानुसारतः दक्षिणां दद्यात्।
अक्षमला प्रतिष्ठाविधिः
अथ अक्षमालाप्रतिष्ठा विधिः उच्यते
सुवर्ण रजत ताम्र त्रपु सीस कांस्यायस्फटिक सूर्यकान्त चन्द्रोपल पुत्र जीवेन्द्राक्षी विभीतिका निम्ब पद्म सितअम्भोज कमलाक्ष रुद्राक्ष शङ्ख जलज कुशग्रन्त्यादिषु जप्तुः अभिमत कर्मानुगुणान् मणीन् अष्टोत्तरशतसङ्ख्याकान् तदर्धान् सप्तविंशति सङ्ख्याकान् वा अक्षास्थि तुल्यान् धात्रीफलास्थिसदृशान् बदरास्थि समानान् वा सम्पाद्य।तान् दोषवर्जितान् निरीक्ष्य। पञ्चवारुणिकैः पञ्चोपनिषत् मन्त्रैश्च पञ्चगव्यैः सङ्क्षाल्य। तान् हेमै राजते वा सूत्रे त्रिगुणीकृते केशादि दोषवर्जिते कार्पाससूत्रे वा पृष्ठेन पृष्ठं मुखेन मुखं परस्परं यथा न सम्बध्येत। तथा अन्तरान्तरा सुवर्णेन वा सूत्रेणवा मध्यबन्धयुतान्
आरोप्य। तां मालां कटकाकारं कृत्वा।

तन्मालौमहत्तरम् अन्यं मणिं निधाय। एवम् अक्षमालिकां कृत्वा। तां पुण्याहजलेन प्रोक्ष्य। पद्मदलेसंस्थाप्य। कुङ्कुमाद्यैःविलिप्य। शालितण्डुलैः, भारादिप्रमाणयुतैः स्थण्डिलं कृत्वा। तत्र चक्रपद्मं विलिख्य। कुशैः नववस्त्रैश्च आच्छाद्य। हेमवस्त्रयुतं महाकुम्भं धान्यपीठे निक्षिप्य। तस्मिन् “ओं नमो अक्षमालिकाधि दैवताय मन्त्रपुरुषाय नमः” इति मन्त्रेण आवाह्य अभ्यर्च्य कुण्डेस्थण्डिले वा अग्निम् उपसमिध्य। समिच्चरुघृतैः तन्मन्त्रेण पृथक् अष्टोत्तरशतम् आहुतीनां हुत्वा। तस्याः शोषणादि कृत्वा। ताम् अण्डमयीं
ध्यात्वा। तन्मध्येपुरुषं ध्यायेत् बद्धाञ्जलिमवस्थितम्।
चतुर्भुजं वलर्क्षाभं वरदाभयहस्तकम्।
अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।
इति ध्यात्वा। तदनु शान्तिहोमानन्तरं सम्पातेन तां संस्पृश्य। सुमुहूर्ते तस्यां सृष्टिक्रमेण तत्वानि विन्यस्य। आचार्यः स्वहृदयकमले मन्त्ररूपिणीम् अभिन्नां तेजसा आदित्यसङ्काशां वैष्णवींशक्तिं ध्यात्वा। तां ब्रह्मरन्ध्रात् अक्षमालिकायां तन्मन्त्रेण आवाह्य। महाकुम्भ
जलेन प्रोक्ष्य।
सन्निधत्तां भवान् देव मन्त्रमूर्ते जनार्दन।
जपाक्षमालावलये भक्तानुग्रहकाम्यया। ।
इति गाथाम् उदीर्य, तत्र मन्त्रविग्रहम् अक्षमालां बिभ्राणं चतुर्भुजं वलक्र्षाभं देवं ध्यात्वा। अभ्यर्च्य। गुरुः यजमानाय दद्यात्। पूर्वं गुरुः अक्षमालायां यं मन्त्रं स्थापितवान् तमेव
गणयेत्। यथावित्तं गुरवे दक्षिणा देया।

इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां प्रभापीठ घण्टाधूपदीपभेर्यादिवाद्य रथादियान छत्रादिपरिबर्हाक्षमालाप्रतिष्ठा विधिः नाम चतुर्विंशः परिच्छेदः