अथ एकविंशः परिच्छेदः
विमानप्रतिष्ठाविधिः
अथ विमान प्रतिष्ठाविधिः उच्यते-
महाप्रतिष्ठायाम् इव विमानस्य पुरतः मण्डपमध्ये चतुहस्तमायतम् एकहस्तोत्सेधं
मध्यवेदिकायुतं चतुर्भिः अष्टभिः वा कुण्डैः युतं कल्पयित्वा। तत्र प्रतिष्ठोपयुक्तानि पालिकाघटिका शरावाष्टधान्यकुम्भ कलशकरक शालितण्डुल तिल नववस्त्र नवरत्न तोरण ध्वजाष्टम"ल स्नपनद्रव्य स्रुक्स्रुव समिद्दर्भकुसुम घृतदीपस्तम्भासनादीनि अन्यानि च द्रव्याणि सम्पाद्य। आचार्यः यजमानानुज्ञया मूर्तिपैः सह कर्मारम्भदिनात् पूर्वं द्वादशाहे, नवाहे, सप्ताहे, पञ्चमेऽहनि, तृतीये अहनि वा ब्राह्मणान् आहूय, आशिषः वाचयित्वा, दक्षिणां च वितीर्य तेभ्यः अनुज्ञां प्राप्य, मृत्सङ्ग्रहणार्थं प्राचीम् उदीचिं वा दिशं गत्वा। तत्र पालिकादिषु पात्रेषु यथाभिमतं पूर्ववत् अङ्कुरान् अर्पयित्वा। शिल्पिना विमानदिग्देवतानां नयनेषु उन्मीलितेषु तं च वस्त्राभरणाद्यैः तोषयित्वा। तस्मिन् निर्गते सति सदनं मार्जनालेपन पर्यग्निकरण पञ्चगव्य प्रोक्षणादिभिः शोधयित्वा, पुण्याहं वाचयित्वा। अब्लिङ्गैः मन्त्रैः गर्भगृहम् अन्तः बहिश्च सम्प्रोक्ष्य। गोघृत दीपिकालागरुप्रमुख गन्धद्रव्य धूप सुधार्चूर्ण दूर्वाक्षतैः सदनं सर्वतः समलङ्कृत्य। ततः अपराह्णसमये मानादीनां न्यूनातिरेक दोषशान्त्यर्थं प्रासादाग्रे यथाविधि शान्तिहोमं कृत्वा। " नमस्तुभ्यं भगवते" इति उपस्थाय। सदर्भैः नववस्त्रैः मूलमन्त्रेण प्रासादान्तर्गत प्रतिमाः आच्छाद्य। उत्तरीयं च दत्वा। विष्णुगायर्त्या, अर्घ्यादिभिः सम्पूज्य। छायाधिवासार्थं विमानस्य तद्गतदेवतानां स्वस्य च रक्षाबन्धनं कृत्वा।विमानं द्वादशाक्षरेण अभ्यर्च्य। तस्यपुरतः छायाधिवासार्थं व्रीहि, तण्डुल तिलैः स्थण्डिलं कृत्वा। तस्मिन् स्वर्णादिलोह निर्मितं कटाहं, तादृशीं जलद्रोणीं वा संस्थाप्य। गन्धोदकेन
आपूर्य। पुण्याहंवाचयित्वा। द्वारतोरण कुम्भान् संस्थाप्य। जलस्य शोषणादि कृत्वा। क्षीरार्णवं ध्यात्वा। तस्मिन् आधारादि पद्मान्तं पीठं कल्पयित्वा। अष्टाविंशति दर्भकृतकूर्चं मूलविद्यया विमानम् आवाह्य। अभ्यर्च्य। आचार्यः संहारक्रमं स्मरन्। तस्मिन् तं प्राक्छिरसं शाययित्वा। चक्रमुद्रां प्रदश्र्य। विमानगतदेवतानाम् अपि द्वाविंशतिदर्भकृतकूर्च द्वारा पृथक् पृथक् स्वस्वपुरतः भाजनेषु यथाविधि छायाधिवासं कृत्वा। पूर्वस्थापित जलद्रोण्याः याम्यायां दिशि यथोक्तधान्यकृतस्थण्डिले सलक्षणं सकरकोपकुम्भाष्टकं सम्स्थाप्य। परिस्तीर्य। पुण्याहं वाचयित्वा, प्रोक्ष्य। मध्यकुम्भे ब्रह्माणं करके सुदर्शनं उपकुम्भाष्टके इन्द्रादीन् च आवाह्य। अभ्यर्च्य। प्रत्येकशः सर्वाङ्गीणैः नवैः वासोभिः विमानं तद्गतप्रतिमाश्च आच्छाद्य। “रक्षोहण” इतिमन्त्रेण सर्वतः सिद्धार्थान् विकीर्य।दिग्बन्धनं कृत्वा।दीपान् उद्दीप्य। चतसृषु दिक्षु, वेदान् उद्घोष्य। द्वारेसुदर्शनं आवाह्यअभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। प्रादक्षिण्येन सदनात् निष्क्रम्य। आचार्यःसर्वालङ्कारयुतः मूर्तिपैः वेदविद्भिः ब्राह्मणैः साकं पूर्वोक्तमण्डपे, यथाविधि पूर्ववत् वास्तुहोमं कृत्वा। ततः मण्डपं मार्जनालेपनादिभिः संशोध्य। वितानस्तम्भवेष्टन मुक्तादाम स्रक्दर्भमाला तोरण फलपुष्पबहुदीपागरुधूप पताकानारिकेल कदलीभिः अलङ्खृत्य। द्वारतोरण ध्वजकुम्भान् सम्स्थाप्य। यथाविधि वस्त्राद्यः संयुक्तान् विधाय।ततः गुरुः अन्तः प्रविश्य छायाधिवासितान् देवान् विमानं च उद्वास्य। विमानस्थितवस्त्रादीनि अपनीय। तेषु यथाविधि पूर्वोक्तवर्त्मना नयनानि उन्मील्य। ततः सप्तदशकलशैः घृतादिद्रव्ययुतैः हरिद्राचूर्णैश्च, विमानस्य दिग्देवतानां च पृथक् पृथक् तथैव मृदालेपनपूर्वकं सर्वं◌ं स्नपनकलापं सकूर्चे दर्पणे कृत्वा। पुनः आवाह्य। विमानादिकं नवैः वासोभिः आच्छाद्य। प्रतिष्ठाविधिवत् मध्यवेदिकोपरि शय्यां कृत्वा। तस्यां कूर्चद्वारेण विमानदेवताः आवाह्य। शाययित्वा, तत्र व्रीह्यादिधान्य कल्पित
स्थण्डिलोपरि, स्वर्णादि लोहजं मृम्मयं वा ससूत्रवेष्टनं सकरकोपकुम्भाष्टकं महाकुम्भं संस्थाप्य। गन्धोदकैः आपूर्य। तान्सरत्नलोह वस्त्र कूर्चपिप्पल दलापिधानान्कृत्वा। पुण्याहंवाचयित्वा। द्वारतोरण ध्वज कुम्भेषु यथाक्रमं तत्तद्देवताः आवाह्य। अभ्यर्च्य।
महाकुम्भे आधारादिपद्मान्तं पीठं सङ्कल्प्य। तस्मिन्,
सहस्रशीर्षं पुरुषं सहस्राक्षं सहस्रपम्।
सहस्रकुन्तलोपेतं सहस्रमकुटान्वितम्।
सहस्रादित्यसङ्काशं सहस्रेन्दुनिभाननम्।
सहस्रवाहनैः युक्तं सर्व दिङ्नासिकान्वितम्।
शङ्खचक्रगदापाणिं सर्व प्रहरणान्वितम्।
प्रासादरूपिणं देवं ध्यात्वैवावाहयेत् गुरुः। ।" इति ध्यात्वा।
“ओं नमोभगवते विमानाधिदैवताय नारायणाय आगच्छागच्छ” इत्यावाह्य अभ्यर्च्य।
करके सुदर्शनम् उपकुम्भाष्टके विष्ण्वादिमूर्तींश्च आवाह्य अभ्यर्च्य। विमानं च तथा ध्यात्वा। अभ्यर्च्य। चतुर्विधम् अन्नं निवेद्य। ब्राह्मणान् भोजयित्वा। आशिषः वाचयित्वा। तेभ्यः अपि दक्षिणां वितीर्य। कुण्डेषु अग्निं यथाविधि उपसमिध्य। पुरस्तात्तन्त्रपूर्वकं मूर्तिहोमादिकं कृत्वा। धाम हेमादिनिर्मितं रत्नखचितं ध्यात्वा।
“तत्र जीवमपि ध्यायेत् व्यापकं तदुपादिकम्।
बुद्धिं च पिण्डिकां पादान् अहकारं तथैव च।
पादौ पाद शिला जङ्घे गर्भगेहं तथोदरम्।
स्तम्भान् बाहून् कटिं चापि तथैव कटिमेखलाम्।
जिह्वां वर्णां तथा नेत्रं प्रतीपद्वाश्च मेहनम्।
अपानं जलनिर्याणं नासिकां नासिकां तथा।
गवाक्षमक्षि ग्रीवां च ग्रीवं स्कन्धं कपोलकौ।
शिरश्च कलशं मांसं प्रलेपं स्पर्शनं सुधाम्।
अस्थीनि च शिलास्तस्थाः स्नायुं दारुशिखाध्वजान्।
केशरोमाणि कूर्चं च ध्यात्वा धाम पुराकृतिम् । "
इति विमानं पुरुषाकृतिं ध्यात्वा। तदनु जीव तत्वहोमं प्रणवादि स्वाहान्तं पृथक्
अष्टोत्तरशतम् अष्टाविंशति अष्टौ वा आज्येन हुत्वा। सम्पाताज्यं सङ्गृह्य। विमानस्य तत्तदङ्गेषु तत्तन्मन्त्रैरेव संस्पृशेत्। “ओं मं नमः पराय स्फटिकाभासाय जीवतत्वात्मने
स्वाहा” धामनि।
“ओं भं नमःपरायसितवर्णाय प्रकृत्यात्मने स्वाहा” , धामनि(तत्रैव)। "
ॐ बं नमः पराय स्फटिकाभासाय बुद्धि तत्वात्मने स्वाहा" , धामनि(तत्रैव)। “ओं फं नमः पराय पाटलवर्णाय अहङ्कारात्मने स्वाहा” , पिण्डिकायां। “ओं पं नमः पराय सितवर्णाय मनस्तत्वात्मने स्वाहा” , पिण्डिकायां(तत्रैव)। “ओं नं नमः पराय शुक्लवर्णाय शब्दतन्मात्रात्मने स्वाहा” , क्षुद्रनासिकायां। “ओं धं नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने स्वाहा” , सुधालेपे। “ओं दं नमः पराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने
स्वाहा” , गवाक्षे।
“ओं थं नमः पराय पाण्डरवर्णाय रसतन्मात्रात्मने स्वाहा” , वर्णे।
“ओं तं नमः पराय सितवर्णाय गन्धतन्मात्रात्मने स्वाहा” महानासिकासु।
“ओं णं नमः पराय पाटलवर्णाय श्रोत्रेन्द्रियात्मने स्वाहा” , पाश्र्वनासिकासु।
“ओं ढं नमः पराय हेमवर्णाय त्वगिन्द्रियात्मने स्वाहा” , सुधालेपे। "
ॐ डं नमः पराय कृष्णवर्णाय नेत्रेन्द्रियात्मने स्वाहा" , गवाक्षे।
“ओं ठं नमः पराय गौर वर्णाय जिह्वेन्द्रियात्मने स्वाहा” , वर्णे।
“ओं टं नमः पराय सितवर्णाय घ्राणेन्द्रियात्मने स्वाहा” , महानासासु।
“ओं ञं नमः पराय सितवर्णाय वागिन्द्रियात्मने स्वाहा” , वर्णे।
“ओं झं नमः पराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहा” , पादेषु।
“ओं जं नमः पराय रक्तवर्णाय पादेन्द्रियात्मने स्वाहा” , पादशिलायां।
“ओं छं नमः पराय रक्तवर्णाय अपानेन्द्रियात्मने स्वाहा” , जलनिर्याणे।
“ओं चं नमः पराय हेमवर्णाय मेहनेन्द्रियात्मने स्वाहा” , मेहने।
“ओं कं नमः पराय जलदवर्णाय निराकाराय आकाशतत्वात्मने स्वाहा” , नासिकादि
शिखाकुम्भान्तम्।
“ओं खं नमः पराय धूम्रवर्णाय वेदिकाकाराय वायुतत्वात्मने स्वाहा” , गर्भगेहादि
नासान्तम्।
“ओं गं नमः पराय लोहित वर्णाय त्रिकोणाकाराय अग्नितत्वात्मने स्वाहा” , गर्भगेहे। “ओं घं नमः पराय स्फटिकवर्णाय अर्धचन्द्राकाराय अप्तत्वात्मने स्वाहा” , उपपीठादि
जलनिर्याणान्तम्।
“ओं ङं नमः पराय पीतवर्णाय चतुरश्राय पृथिवीतत्वात्मने स्वाहा” , उपपीठपादेषु।
एवं तत्व न्यासं च कृत्वा। ततः शक्तिहोमं न्यासं च कुर्यात्।
“ओं प्रकृत्यै स्वाहा, अपाने, “ओं शान्त्यै स्वाहा, जगत्यां, “ओं पृथिव्यै स्वाहा, कुमुदे, “ओं वागीश्वर्यै स्वाहा, गले, “ओं रत्यै स्वाहा, पट्टिकायाम्। एवं पञ्चा"युक्त विमाने।
द्वादशा” कल्पने तु, “ओं कीत्र्यै स्वाहा, महापट्टिकायाम्, “ओं पुष्ट्यै स्वाहा, गले, “ओं माहीशक्त्यै स्वाहा, वाजने, “ओं तुष्ट्यै स्वाहा, पट्यां(वेद्यां), “ओं सृष्ट्यै स्वाहा, अङ्ग्रिषु, “ओं
मायायै स्वाहा, कपोतेषु, “ओं मोहिन्यै स्वाहा, भूतमालासु,
अष्टादशा” कल्पने तु- ओं महालक्ष्म्यै स्वाहा, कूटेषु,
ॐ वसुधायै स्वाहा, पञ्जरेषु, ओम् अतिमोहिन्यै स्वाहा, प्रस्तरेषु,
ॐ स्वाहाशक्त्यै स्वाहा, वेद्याम् ओं श्रियै स्वाहा, धाम्नि।
इति शक्तिहोमं न्यासं च कुर्यात्।
अनन्तरं पूर्ववत् शान्तिहोमं स्पर्शहोमं च। तदनु दिङ्मूर्तीनाम् तत्वहोमं न्यासं च पृथक् पृथक् कृत्वा। सहस्रं शतं वा ब्राह्मणान् भोजयित्वा। तेभ्यः अपि दक्षिणां दत्वा। विमानस्य प्रतिष्ठार्थं पञ्चविंशति तन्तुभिः पट्टिकायां दिङ्मूर्तीनां सौवर्णेन च रक्षाबन्धनं विधिवत् कृत्वा। तदनु पलल रजनीचूर्न लाज दधि सक्तुभिः बल्यन्तं सम्योज्य। तेन,
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशिस्थिताः।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः। ।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
भूमौव्योम्नि स्थिताः ये च बलिङ्गृह्णन्तु तेऽपि च। ।
विनायकाः क्षेत्रपालाः ये चान्ये बलिकाङ्क्षिणः।
पूषाद्याः पार्षदाश्चैव गृह्णन्तु बलिमद्य ते। ।”
इति मन्त्रैः सर्वतः दिक्षु बलिदानं कृत्वा। तदनु प्रभाते सुमुहूर्ते सर्वालङ्कारयुतः गुरुः महाकुम्भ मूर्तिकुम्भान् समादाय। अग्रे गलन्तिकागलत् वारिधारया परिषिञ्चन् धामप्रदक्षिणी कृत्य। विमानाग्रे धान्यकृतस्थण्डिले तान् निधाय। आचार्यः उदङ्मुखस्सन्
महाकुम्भस्यशक्तिं विमाने मूलमन्त्रेण मूर्तिकुम्भगतश्शक्तीः मूर्तिपेषु च विन्यस्य। विमानं सहस्रशीर्षं पुरुषं ध्यात्वा। महाकुम्भं समादाय। दिङ्मूर्तीः स्व स्वमन्त्रैः प्रोक्ष्य। तथैव अन्यान् विमानस्थदेवान् च प्रोक्ष्य। ततःविमानं तद्गतदेवताश्च अर्घ्यादिभिः अभ्यर्च्य। महाहविः निवेदयेत्। तदनु यजमानः गुरुं प्रणिपत्य। जीवजीवात्मकैः धनैः मूर्तिपान्
अन्यान् च यथावित्तानुसारतः तोषयेत्।
इति विमानप्रतिष्ठाविधिः नाम एकविंशः परिच्छेदः