२० पाणिग्रहणम्

अथ विंशः परिच्छेदः
पाणिग्रहण विधिः
अथ श्रियादि देवीनां पाणिग्रहण विधिः उच्यते-यथोक्तदिवसे अङ्कुरार्पणं कृत्वा।
आचार्यः उद्वाहदिवसे शुभे मुहूर्ते देवस्य देव्याश्च सङ्कल्प पूर्वकं पृथक् उद्वाहकौतुकं यथाविधि बद्ध्वा। देवं क्षौमवस्त्रोत्तरीय किरीटहारकुण्डलाद्याभरण गन्धपुष्पाद्यैः अलङ्कृत्य। वैवाहिक सदनं प्रवेश्य। तत्रदेवम् अर्घ्यादिभिः अभ्यर्च्य। स्थण्डिलं कल्पयित्वा। उल्लिख्य अग्निं प्रतिष्ठाप्य। आचार्यः देवेन सह अन्तर्गर्भगृहं प्रविश्य। देवमासने विनिवेश्य। देवीम्नूतनेन वाससा “युवासुवासाः” इतिमन्त्रेण प्रदक्षिणं

परिधाप्य। आचमय्य। आभरणपुष्पाद्यैः अलङ्कृत्य। आचार्यः स्वयन्देवीं देवेन वेदादिना संयोज्य। तदनु यजमानः प्राणानाम्य। सङ्कल्प्य। जगत्कारणभूताय देवाय मदीयां गोत्रजां कन्यकां प्रजासहत्वकर्मभ्यः प्रतिपादयामि" इति देवीं सर्वाभरणसुवर्णगोभूसहितं सहिरण्योदकं देवाय दद्यात्। ततः गृहीतपाणिं देवं देवीं च मन्दिरात् कल्याणमण्डपं प्रापय्य। आचार्यः देवं देवीं च आसने विनिवेश्य। स्वयं उत्तराशाभिमुखः सन् प्रानानायम्य। सङ्कल्प्य। पूर्वोक्तवङ्घौ परिस्तीर्य। पुरस्तात्तन्त्रम् कृत्वा विध्युक्तवर्त्मना क्रमेण आधार होमम् नृसूक्तेन समिद्भिः षोडशाहुतीः चरुणा विष्णुगाय र्त्या चतुर्विंशत्याहुतीः, श्रीसूक्तेन घृतेन पञ्चाशताहुतीश्च जुहुयात्। श्रीभूम्योः युगपत् उद्वाहकर्म यदि उभयोरपि अङ्कुरादिकं सर्वं पृथगेव कुर्यात्। एककृत्वे एककालीनत्वे च सति श्रीभूम्योः अङ्कुरादिकं सर्वं पृथगेव। एकस्मिन् काले पर्यायेण यदि तत्रापि भिन्नमाचरेत्। आनुपूर्वावशेनापि कर्म विभक्तमेव स्यात्। यद्वा मुहूर्ते भिन्ने तु वैवाहिकं कर्म भिन्नमेव। मुहूर्तयोः यौगपद्ये क्रियाम् आनुपूव्र्या कुर्यात्। श्रीभूम्योः भिन्नकर्तृत्वे यौगपद्योद्वाहेऽपि श्रीभूम्योः प्रतिसरः पृथगेव। देवस्य तु एक एव। तयोरपि एकाग्नौ भिन्नाग्नौ वा यथाभिमतम् उल्लेखनादि पुरस्तात्तन्त्रम् कृत्वा। श्रीभूम्योः अपि पारतन्त्ये सर्वाः क्रियाः प्रतिव्यक्ति पृथगेव पूर्वं श्रियै पश्चात् भूम्यै च पर्यायेण
कुर्यात्।
भूमेस्तु उद्वाहे भूमिमन्त्रेण समिद्भिः षोडशाहुतीः विष्णुगाय र्त्या चरुणा
चतुर्विंशत्याहुतीः पुरुषसूक्तेन घृतेन षोडशाहुतीश्च हुत्वा। ततः विष्णुसूक्तेन लाजहोमं कृत्वा। अग्निं प्रदक्षिणी कृत्य। आचार्यः लाजशेषं प्रणवेन सकृत् हुत्वा। " " “इमं मे वरुण” “तत्वायामि” “त्वन्नो अग्ने” “सत्वन्नो अग्ने” “त्वमग्ने अयासि” इति पञ्चवारुणिकैः

घृतेन हुत्वा। पञ्चोपनिषम्मन्त्रैः प्रायश्चित्ताहुतीः द्वादशाक्षरमन्त्रेण पूर्णाहुतिं च हुत्वा। ब्राह्मणान् तोषयित्वा। देवम् अर्घ्यादिभिः अभ्यर्च्य। घृतारोपणम् आचरेत्। घृतारोपणं यथा-घृतदूर्वाङ्कुरचन्दन शालितण्डुलानि पात्रे निधाय। हस्ताभ्यां तत् आदाय। आचार्यः देवस्य, देव्याश्च अङ्गेषु “सुमङ्गलं” इति दूर्वां, पादयोः “सुशोभनं” इति घृतङ्कट्यां “सुभद्रं” इति चन्दनं मूध्र्नि" सुमङ्गलम् इति शालितण्डुलानि च क्षिप्त्वा। सर्वैः सभ्यैः अपि यथा कारयित्वा। “रसेनास्मि” इति मधुपर्कम् निवेद्य। लक्ष्मीपतिं च आभरणाद्यैः अलङ्कारैः प्रसाध्य। यथार्हैः माल्यानुलेपनाद्यैः अपि अलङ्कुर्यात्। यजमानः देवं प्रणम्य। तस्मै धेनुः गुरवे यथावित्तानुसारतः दक्षिणाम् दद्यात्। ततः आचार्यः हरेः नीराजनं दत्वा। दिक्षु पिण्डिकाक्षेपणं कृत्वा। लौकिकेनमार्गेण अन्यत् सर्वमपि विधाय। श्रीभूमि सहितं देवं ग्रामधाम प्रदक्षिणम् कारयित्वा। मण्डपे देवं देव्यौ च आरोप्य। राजोपचारैः उपचर्य। महाहविः निवेद्य। अन्ते ब्राह्मणान् भोजयेत्। एवं दिवसे दिवसे स्नपनम्, अहर्निशं पूर्ववत् होमम् उत्सवम् च कृत्वा। तुरीयादिनापररात्रौ समिदाज्यचरुभिः लाजेन च मूलमन्त्राभ्यां पृथक् अष्टोत्तरशताहुतीः हुत्वा। ततः पञ्चोपनिषदैः अपि हुत्वा। पञ्चमेदिवसे देवम् देव्यौ च तैलेन अभ्यर्च्य। विधिवत् सुस्नाप्य। महाहविः निवेद्य। ग्रामे महोत्सवं कुर्यात्। ततः आरभ्य श्रीभूमि सहितं देवं मन्दिरे अभ्यर्चयेत्। इतरासां देवीनां च एतादृशाःएव विधिः। जामदग्न्यादि देवीनाम् उद्वाहं स्मार्तवर्त्मना कुर्यात्।

इति श्रियादि देवीनां पाणिग्रहणविधिः नाम विंशः परिच्छेदः