१९ विभवमूर्त्यादिप्रतिष्ठा

अथ एकोनविंशः परिच्छेदः
मत्स्यादिमूर्ति प्रतिष्ठा विधिः
अथ विभवमूर्तिस्थापनविधिः उच्यते-
मत्स्यादिमूर्तीनां महाप्रतिष्ठायाम् इव अधिवासादिकं सर्वमपि कुर्यात्। अत्र तु विशेषः
कथ्यते।

मत्स्यमूर्तिः वारुण साम्ना नृसूक्तेन महाकुम्भम् अभिमन्त्य। तस्मिन् “ओं नमोभगवते म्यूं मत्स्यरूपाय” इति वा मूलमन्त्रेण वा समावाह्य। आचार्यः कुम्भजलेन प्रोक्ष्य।
मीनात्मने नमस्तुभ्यं वेदरक्षाविधायिने।
प्रलयार्णव दुर्वारवारिपूरविहारिणे। ।" इति मन्त्रेण उपतिष्ठेत।
कूर्मस्य, वारुणसूक्तेन महाकुम्भम् अभि मन्त्य। अष्टाक्षर विद्यया समावाह्य। कर्मावसाने, “तुभ्यं नमस्क्रियां कुर्मः कूर्मरूपाय वेधसे।
धारिणे मन्दरस्याद्रेः विबुधानन्ददायिने। " इत्युपतिष्ठेत।
वराहस्य, वराहरूपिणं महाकुम्भे पुरुषसूक्तेन आवाह्य। कर्मावसाने, क्रोडात्मने नमस्तुभ्यं यज्ञदेहाय(वज्ररूपाय)वेधसे।
दंष्ट्राग्र विधृताशेष धरणीधरणीधर। " इति उपतिष्ठेत।
नृसिह्मस्य, नृसिह्मरूपिणं महाकुम्भे, “युञ्जते” इति अनुवाकेन समावाह्य। कर्मावसाने, निशातनखदम्भोलिदलितासुरवक्षसे।
दर्शिताश्रितवात्सल्य नृसिह्मवपुषे नमः। " इत्युपतिष्ठेत।
वामनस्य, वामनम्महाकुम्भे “युञ्जते” इतिअनुवाकेनसमावाह्य। कर्मावसाने, “बलिद्विषे नमस्तुभ्यं परित्रातवलद्विषे।
वामनाय महाकाय वञ्चिताशेषमानव। " इति उपतिष्ठेत।
भार्गवरामस्य, जामदग्न्यम्महाकुम्भे पौरुषेणसूक्तेन आवाह्य, कर्मावसाने, त्रिसप्तकृत क्षत्राणां निहन्त्रे तिग्मतेजसे।
नमस्तुभ्यं भगवते परश्वथविधारिणे। " इति उपतिष्ठेत।
राघवस्य, रामं सीतालक्ष्मणादिभिःसहितं वा महाकुम्भे पौरुषेनसूक्तेन
आवाह्य, कर्मावसाने,

नमस्तुभ्यं भगवते राघवाय महात्मने।
रावणादि जगद्द्वेषि निबर्हणमहौजसे। ।” इति उपतिष्ठेत।
रामप्रतिष्ठा पृथक् चेत् परिवारात्मनःहनूमत्प्रमुखान् च प्रतिष्ठापयेत्।
प्रथमावरणे प्राच्यां भरतं, दक्षिणे जानकीं, प्रतीच्यां जाम्बवन्तं, उदीच्यां लक्ष्मणं, आग्नेयादिविदिक्षु सुग्रीव, विभीषण, नल, शत्रुघ्नान्च संस्थाप्य। द्वितीयावरणे पूर्वादिदिक्षु वसिष्ठ, वामदेव, जाबालि, गौतम, भरद्वाज, कौशिक, वाल्मीक, नारदान्, तृतीयावरणे इन्द्रादिलोकपालान्, गरुडस्थाने हनूमन्तं, विष्वक्सेनस्थाने नीलं गुहं वा स्थापयेत्। उत्सवे तु ध्वजपटे गरुडं हनूमन्तं वा लिखित्वा ध्वजारोहणं कुर्यात्।
बलरामस्य, बलरामं पूर्ववत् कुम्भे समावाह्य। कर्मावसाने,

बलिने बलबद्राय नमः शेषमहाहये।
तुभ्यं मालेव महती धरा येन शिरोधृता। " इति उपतिष्ठेत।
कृष्णस्य, कृष्णं भगवद्बिम्बवत् संस्थाप्य। कर्मावसाने, वृष्निवर्याय कृष्णाय नमस्तुभ्यं मधुद्विषे।
भूभार भूतकंसादि महासुरनिघातिने। ।”

इति उपतिष्ठेत। रुक्मिणीसत्यभामादीनां श्रियादीनामिव उद्वाहकर्मकुर्यात्।
कल्किविष्णोः पूर्ववत् कृत्वा। कर्मान्ते,

म्लेच्छानामुपसंहत्र्रे साधूनां स्थितिहेतवे।
नमस्तुभ्यं भगवते भूसुरान्वय जन्मने। ।" इति उपतिष्ठेत।

मत्स्यादि दशमूर्तीनां षोडशन्यासः न इष्यते। लोहबिम्बानां च।
तासां शिलामयीनां वर्णचित्रणं यदि, अधिवासादिकं कर्म पूर्वं कृत्वा पश्चात् वर्णलेपनं विधाय। अनन्तरम् आवाहनादिकं कुर्यात्। ध्रुवबिम्बस्थितेः भिन्नकाले कर्माद्यर्चास्थापनं यदि, तासां पृथगेव शयनादिकं कुर्यात्। ब्राह्मेकर्मार्चां, याम्ये उत्सवकौतुकं, उत्तरे तीर्थस्नपनबिम्बे, दक्षिणे शयनोत्थापन बिम्बे, बलिबिम्बं च अन्यानि लोहबिम्बानि लौकिकानि
इष्टभूमिषु च स्थापयेत्।
यद्वा उत्सवार्थबिम्बानि द्वारपाश्र्वयोः वा, अभिषेकमण्डपे वा दक्षिणाभिमुखानि स्थापयेत। जलाधिवासयोग्यानां तु छायाधिवासनं कूर्चादर्शमण्डल स्नपनं कूर्चद्वारा शयनाधिवासं च कृत्वा, सर्वम् अवशिष्टं षोडशन्यास चतुर्थस्नपनवर्जितं पूर्ववत् कुर्यात्। वटपत्रशायिनस्तु गर्भमन्दिरोदरे अभितः वारिधं विलिख्य। तद्दले शयानं श्यामलं कोमलाकृतिं बालवपुषं देवं चित्राभासेन कल्पयित्वा। द्वारपाश्र्वयोः मार्कण्डेयं महीं च
विलिख्य चित्राभासोक्तविधिना प्रतिष्ठा कर्म कुर्यात्।
अथ लक्ष्म्यादीनां प्रतिष्ठाविधिः उच्यते
देवस्यदेवीनां च स्थापनं यदिसमानकालीनं तदा देव्याः सहैव शयनम्। कालभेदे तु
पृथगेव कुर्यात्। पूर्ववत् समध्यवेदिकं मण्डपं कल्पयित्वा। तस्मिन् वेदिकायां
शाययित्वा। प्रागादि तोरणेषु बलाकिनी वनमालिनी विभीषिका शा"रीः, द्वारकुम्भेषु
द्वन्द्वशः ज्येष्ठाविद्या श्रद्धा कान्ति श्री तुष्टि क्षमा वृद्धिः। पूर्वादि ध्वजेषु द्वन्द्वशः, धृति लज्जा जया माया सावित्री क्षमा शुद्धि श्रद्धाश्च सम्पूज्य। प्रागादि होमकुण्डेषु लक्ष्मी, सरस्वती, पुष्टि, तुष्टिश्च आवाह्य। स्वस्व मन्त्रेण होमः कार्यः। कलश देवतास्तु वागीश्वरी क्रिया कीर्ति लक्ष्मी सृष्टि प्रह्वी सत्या ब्राह्म्यः। महाकुम्भे श्रीदेवी। एवं विधिवत्
सम्पूज्य। षोडशन्यासरहितं शेषं कर्म पूर्ववत् कुर्यात्।

एषः विधिः अस्वातन्त्ये, स्वातन्त्ये तु ग्रामे वा नगरे वा पत्तने वा आलये श्रियः स्थापनं ग्रामाभिमुखं कल्पयित्वा। विमानोपरि चतसृषु दिक्षु तुष्टि पुष्टि सावित्री वाग्देवीः, कोणेषु सिह्मं वैनतेयं वा कल्पयित्वा। तत्र ब्राह्मे स्थाने शिलादिमयीं प्रतिकृतिं स्थापयित्वा। स्वस्वस्थानेषु परिवारान् द्वार पार्श्वयोः चण्डीं प्रचण्डीम् अर्धमण्डप द्वारे दक्षिणे बलाकिनीं, उत्तरे वन्यमालिनीं, प्रथम गोपुरद्वारे विभीषिकां शाङ्करीं, द्वितीय गोपुरद्वारे शङ्ख पद्मनिधीं, तृतीयगोपुरद्वारे नलकूबर जृम्भलौ, चतुर्थगोपुरद्वारे शिभिकुण्डल मणिभद्रौ, पञ्चमगोपुरद्वारे जयां विजयां विष्वक्सेन स्थाने चतुर्भुजां वामेन वेत्रं, इतरेणहस्तेन तर्जनं च कुर्वतीं। अपराभ्यां हस्ताभ्यां पद्मे दधानां, पीतवर्णं सुमुखीं स्थापयित्वा। प्रासादमुखमण्डपे वैनतेयं। आदिमूर्तेरिव परिवारां च कल्पयित्वा। स्वातन्त्र्ये एवं कल्पयित्वा। चतुर्थे अहनि स्नपनं कृत्वा। तद्दिने ध्वजमुत्थाप्य महोत्सवं कुर्यात्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
विभवमूर्ति श्रीदेवी प्रतिष्ठाविधिः नाम एकोनविंशः परिच्छेदः