१७ शान्तिहोमः

क्रियाकैरवचन्द्रिकायां सप्तदशपरिच्छेदः
शान्तिहोमः
एवं षोडशन्यासं कृत्वा ततः शान्तिहोमं कुर्यात्।
प्राचीनकुण्डे"ओम्भूःस्वाहा" इति मधुना अष्टोत्तरशताहुतीः हुत्वा। सम्पातेन देवस्य पादौस्पृशेत्। दक्षिणे अग्नौ “ओं भुवः स्वाहा” इति पयसा तथा हुत्वा। सम्पातेन देवस्य जठरं, पश्चिमे अग्नौ " ओं सुवः स्वाहा" इति दध्ना तथाहुत्वा। उत्तरे अग्नौ “ओं भूर्भुवः सुवः स्वाहा” इति आज्येन तथा हुत्वा। सम्पातेन देवस्य शिरः, सर्वैः सम्पातैः सर्वाङ्गं च स्पृशेत्। तत्रैव गुडाज्यमधुभिः विष्णुगाय र्त्या प्रत्येकं तथा हुत्वा। सम्पातेन देवस्य मुखं
सर्वाङ्गं च स्पृशेत्।
(शाखाप्रोक्षण विधिः
तदनु आचार्यः वेदिकोपरि कोणभागस्थकुम्भजलैः विष्णुगाय र्त्या वेतस शाखया प्रतिमां सिञ्चेत्। मूर्तिपाश्च पालाश खदिराश्वत्थ बैल्व शाखाभिः पवमानादिभिः मन्त्रैः वेदिकोपरिस्थित दिक्कुम्भजलैः प्रतिमां सिञ्चेयुः। )लोहशिला दारुमयेषु एषः विधिः। बहुबेरं तु सदने अन्तः प्रविश्यैव संहारोत्पादनादिकं शान्तिहोमावसानिकं कर्म कुर्यात्। शय्यादिषु अन्तः परिवारेषु ब्रह्मादिषु च एवं पूर्वोक्तरीत्या तत्वन्यासः होमश्च कर्तव्यः। सर्वेषां प्राणप्रतिष्ठा होमन्यासकाले अर्घ्यादिभिः उपचारैः उपचर्य। चतुर्विधं अन्नं प्रणवेन निवेदयेत्। भोगिभोगे आसीने शयाने वा अनन्तस्यापि एवम् एव कुर्यात्।

ततः प्रतिष्ठा कर्म सिद्ध्यर्थं “रक्षाबन्धनकर्म करिष्ये” इति सङ्कल्प्य। मूलभेरे यथाविधि रक्षाबन्धनं कृत्वा। अभिनवैः कम्बलैःवस्त्रैश्च “युवा सुवासाः” इतिप्रतिमाम् आच्छाद्य। द्वारि"ओं नमः सुदर्शनाय चक्रराजाय ज्वालामालिने हुं फट् स्वाहा" इति मन्त्रेण सुदर्शनम् आवाह्यअभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। तत्र बलिञ्च निक्षिपेत्। महाप्रतिष्ठा विधाने तु इन्द्रादि परिवारेषु स्वस्वस्थानेषु स्थाप्येषु देवेन साकं यथायोग्यं जलाधिवास छायाधिवास नयनोन्मीलन स्नपनादिकं कर्म कृत्वा। तत्तत्स्थानस्य पुरतः भूमौ पूर्ववत् धान्यपीठान् कृत्वा। शयनसामग्रीसम्पूर्णेषु तेषु चण्डादि द्वारपाल गरुड विष्वक्सेनावरणदेवान् महापीठादि पञ्चावरण बलिपीठान् च अधिवास्य तत्तत्स्थानानां पुरतः। कुण्डेषु स्थण्डिलेषु वा परिवारहोमं कुर्यात्। प्रत्यावरणम् अष्टाशा-कुण्डेषु यथाक्रमं पलाश खादिराश्वत्थ प्लक्ष न्यग्रोध बिल्वोदुम्बर काश्मर्य समिदः स्युः। एताभिः समिद्भिः आज्येन चरुणा च वक्ष्यमाणैः मन्त्रैः प्रतिदैवतम् अष्टोत्तरशताहुतीः गरुड विष्वक्सेन चण्डादीनां पलाशया आज्य चरुभ्यां पूर्व सङ्ख्यया वक्ष्यमाणैः मन्त्रैः पृथक् वृतैःब्राह्मणैः
होमं कारयेत्।
गर्भगृहद्वारे “ओं च्रों चण्डाय स्वाहा” “ओं प्रों प्रचण्डाय स्वाहा” अर्ध मण्डपद्वारे “ओं शं शङ्खिणेस्वाहा” “ओं चं चक्रिणे स्वाहा” अधिष्ठाने गजाननादयः, वासुदेवादयः पुरुषादयः वा, आग्नेयां “ओं गजाननाय स्वाहा” ऐशान्यां “ओम् अम्बिकायै स्वाहा” गोपुरोत्तरसाले सूर्यगाय र्त्या, दक्षिणे ईशाय दक्षिणामूर्तये वा, प्रतीच्याम् उत्तरसाले सूर्याय, दक्षिण साले ओं चन्द्रमसे, अन्तर्मण्डप द्वारे ओं जयाय, विजयाय इत्यावरणदेवताः। आग्नेयां"ओङ्कामाय" याम्यां “ओं ब्रह्मणे” नैॠते “ओं गजाननाय” वारुण्यां “ओं षम्मुखाय” वायव्ये “ओं दुर्गायै” उत्तरे “ओं धनाधिपतये” ऐशाने “ओं श"राय स्वाहा” तत्रैव “ओं क्षेत्रपालाय” उत्तरे ब्रह्मणे, ऐशाने “ओं

महिषासुर मर्दिन्यै” " नृत्तार्धमण्डपाग्रे मूलबेराभिमुखं “ओं वक्रतुण्डाय विद्महे सुवर्णपक्षाय धीमहि। तन्नो गरुडः प्रचोदयात् स्वाहा” तत्राङ्गणे नैरृते “ओं श्रीं श्रियै
“अङ्कणे स्वस्वाथानेषु इन्द्रादयः, इन्द्रस्य “ओं त्रातारमिन्द्रम् अवितारमिन्द्रं हवे हवे सुहवँ शूरमिन्द्रं हुवेन शक्रं पुरुहूतमिन्द्र
स्वस्तिनो मघवाधात्विन्द्रः स्वाहा”
अग्नेः " अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि अयसा मनसा धृतोयसा
हव्यमूहिषे अयानोधेहि भेषजं स्वाहा”
यमस्य “यदुलूको यदि मोघमेतत् यत् कपोतः पदमग्ने कृणोति यस्यदूतः प्रहित एतत्
तस्मै यमाय नमो अस्तु मृत्यवे स्वाहा”
निॠते, “असुन्वन्तमयजमानमिच्छस्तेनस्येत्यां तस्करस्यान्वेषि अन्यमस्मदिच्छ सात
इत्यनमो देवि निॠतेतुभ्यमस्तु स्वाहा”
वरुणस्य “इमम्मे वरुण” इत्यारभ्य आयुः प्रमोषीः स्वाहा।इत्यन्तेन
वायोः " आनोनियुद्भिश्शतिनीभिरध्वरं सहस्रिणीभिः उपयाहियज्ञं वायो अस्मिन्
हविषिमादयस्व यूयम्पात स्वस्तिभिः सफ्दा नः स्वाहा”
सोमस्य “सन्तेपयांसिसमुयन्तुवाजाःसंवृष्णियान्यभिमातिपाहःआप्यायस्व अमृताय
सोमदिवि श्रवांस्युत्तमानिधिष्व स्वाहा”
ईशानस्य “तमीशानं जगतस्स्तस्थुषस्पतिं धियं जिन्वमवसेहूमहेवयं पूषानो यथा
वेदसामसद्वृधेरक्षितापायु रधस्थःब्वस्तये स्वाहा” इदम् एकावरण मात्रविषयम्।
अन्तर्हारोपेते धाम्नि तु अन्तर्मण्डल नाम्नि प्रथमावरणे गोपुरोत्तरसाले “ओं पुरुषाय स्वाहा” दक्षिणसाले सत्याय, आग्नेये हयग्रीवाय, दक्षिणस्यां सङ्कर्षणाय, नैरृते वराहाय, वारुण्यां प्रद्युम्नाय, वायव्ये अनन्ताय, उत्तरस्याम् अनिरुद्धाय, ऐशान्यां नृसिह्माय, अङ्गणे

इन्द्रादि पीठिकास्थानेषु “ओं चक्रिणे स्वाहा” “ओं मुसलिने स्वाहा” “ओं शङ्खिणे स्वाहा” “ओं खड्गिने स्वाहा” “ओं हलिने स्वाहा” “ओं गदिने स्वाहा” “ओं पाशिने स्वाहा” “ओं वज्रिणे स्वाहा” अन्तर्हार धाम्नि द्वितीयावरणे गोपुरोत्तर साले सूर्याय, दक्षिणे चन्द्रमसे, आवरणे आग्नेय कामाय, याम्यां ब्रह्मणे, नैरृते गजाननाय, वारुण्यां षम्मुखाय, वायव्ये दुर्गायै, सौम्यायां धनाधिपतये, ऐशाने शराय, तदावरण गोपुर
चतुष्टय द्वारपालाः-
पूर्वद्वारे पद्मधराय, गदाधराय, दक्षिणे खड्गधराय, शार्ङ्गधराय, पश्चिमे वज्रधराय, मुसलधराय, उत्तरे पाशधराय, अङ्कुशधराय, अङ्गणे पीठिकास्थानेषु इन्द्रादयः, मध्यान्तर्हारनाम्नि तृतीयावरणे गोपुरचतुष्टयद्वारपालाः-धात्रे, अर्यम्णे, विधात्रे, मित्रावरुणाय, भगाय, विवस्वते, पूष्णे, त्वष्ट्रे
अग्नियममध्ये-ओं धराय, ध्रुवाय, सोमाय अद्भ्यः, अनलाय, प्रत्यूषाय, प्रभासाय, यम निॠतिमध्ये-कव्यवाहे, अनलाय, सोमाय, अग्निष्वात्ताय, सोमपे बर्हिषदाय, निॠतिवरुणमध्ये- रुद्राय, अग्नये, विष्णवे, वरुणवायु मध्ये आवहाय, विवहाय, उद्वहाय, संवहाय, निवहाय, अनुवहाय, व्यवहाय, वायुकुबेरमध्ये-वसिष्टाय, वामदेवाय, जाबालये, काश्यपाय, भृगवे, जमदग्नये, भरद्वाजः कुबेरेशानयोःमध्ये-मृगाय, व्याधाय, शर्वाय, निॠतये, ध्वजाय, एकपदे, अहये बुद्ध्न्याय, पिनाकिने, यवदाय, स्थाणवे, भगाय, कपालिने, तत्रैव- क्षेत्रपालाय, प्राङ्गणे इन्द्रादि पीठिकास्थानेषु कुमुदादयः, मध्यमायां पूर्वादि सालगोपुरद्वारपालाः, पूर्वे दुर्जयाय, प्रबलाय, दक्षिणे-विश्वभावनाय, पुष्कराय, पश्चिमे-सम्भवाय, प्रभवाय, उत्तरे- सुशोभनाय, सुभद्राय। आवरण देवतास्तु-पूर्वे अनलाय, रवये, पुरन्दराय, अग्नये, अद्भ्यः, आग्नेय, आदित्यादि नवग्रहेभ्यः याम्ये, अग्नये, वायवे, प्रजायै, सक्तये, निॠते अश्विभ्यां,

वारुणेलक्ष्म्यै, सरस्वत्यै, विघ्नाय, वायव्येइन्द्रादयः, उत्तरस्यां वासुदेवाः, ओम्ब्रह्मणे मरीचये, अत्रये, विवस्वते पृथिवीश्वराय, चित्राय, अपवत्साय, सन्धात्रे, सवित्रे, रुद्राय, रुद्रराजाय, इन्द्राय, इन्द्रजयाय, ईशानाय, पर्जन्याय, जयन्ताय, महेन्द्राय, भानवे, सत्याय, भृषाय, अन्तरिक्षाय, अग्नये, पूष्णे, कुशाय, भानवे, गृहक्षताय, वमाय, गन्धर्वाय, भृङ्ग राजाय, मृगाय, सुग्रहाय, पुष्पदन्तकाय, वरुणाय, भृगवे, श्यावाय, यक्ष्मणे, मनोजवाय, रोगाय, नागाय, मृत्यन्ताय, फल्लाटाय, सोमाय, अदितये, वास्तुनाथाय, ऐशाने, सप्तविंशतिनक्षेत्रभ्यः, इन्द्रादि पीठिकासु, उपेन्द्राय, प्राकृताय, पुण्याय, पुष्कराय, विश्वभावनाय, असुरघ्नाय, कृतान्ताय, भूतनाथाय, महामर्यादाय, गोपुरद्वारपालाः, कुमुदादयः, आवरणे पूर्वाद्याशासु सिद्धेभ्यः, ॠषिभ्यः, नागेभ्यः, असुरेभ्यः राक्षसेभ्यः यक्षेभ्यः विद्यादारेभ्यः सौरभेयीभ्यः गुह्यकेभ्यः गन्धर्वेभ्यः अप्सरोभ्यः प्रजापतिभ्यः अङ्गने इन्द्रादि पीठिकासु विश्वेश्वराय, विश्वकृते, विश्वाय, विश्वात्मने, विश्वलोचनाय, विश्वपादाय, विश्वभुजाय, विश्वकर्मकृते, “ओं महापीठे
सर्वेभ्यः विष्णुपार्षदेभ्यः स्वाहा " " ।
एतत् प्रथमावरणादि पञ्चमावरनान्तम्। एवं परिवार होमं प्रणवादि स्वाहान्तं स्वस्व मन्त्रेण पूजायां नमोन्तेन च ब्राह्मणैः कारयित्वा। तेभ्यश्च दक्षिणां दद्यात्। ततः व्रीह्यादिभिः धान्य पीठं विदाय। तस्मिन् दर्भान् आस्तीर्य। परिस्तीर्यच। तस्मिन् लक्ष्मी रूपां पिण्डिकाम् आधारशक्तिरूपाम् आधार शिलां च अधिवास्य पृथक् नवेन वाससा आच्छाद्य। पूर्ववत् स्थण्डिलं कृत्वा। तस्मिन् बहुबीज दातु लोह रत्नानि भाजने निक्षिप्य। तद्वाससा आवेष्ट्य तत् निक्षिप्य। पूर्वं शय्यावेदिकायां शयनां प्रतिमाम् अभिनिकेतमुत्थाप्य। अर्घ्यादिभिः अभ्यर्च्य। पायसादि चतुर्विधम् अन्नं निवेद्य। महाकुम्भं च तथा सम्पूज्य। ततः
पललचूर्ण लाज दधि सक्तुभिः बल्यन्नं संयोज्य।

आद्याश्च कर्मजाश्चैव ये भूताः प्राक्दिशस्थिताः।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः। ।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
भूमौ व्योम्नि स्थिताये च बलिङ्गृङ्घन्तु तेऽपि च। ।
विनायकाः क्षेत्रपालाः ये चान्ये बलिकाङ्क्षिणः।
पूषाद्याः पार्षदाश्चैव प्रति गृह्णन्त्विमं बलिम्। ।
चण्डाद्याः कुमुदाद्याश्च ये भूताः सर्वतः स्थिताः।
आगच्छन्तु पदे सर्वे गृह्णन्तु ते इमं बलिम्। ।

इति गाथया सर्वतः दिक्षु बलिन्दत्वा। ततः ओं नमो भगवते स्वप्नाधिपतये सुस्वप्नं
ममकुरुस्वाहा” इतिमन्त्रेण आज्येन अष्टोत्तरशताहुतीः हुत्वा। अनन्तरं
“प्रतिष्ठार्थं” रक्षाबन्धन कर्मकरिष्ये इति सङ्कल्प्य, पुण्याहं वाचयित्वा, देवस्य देव्याश्च दक्षिणवामकरेषु क्रमेन हेममयं प्रतिसरम्बद्ध्वा, बालबिम्बस्य पुरतः व्रीह्यादिभिः धान्यपीठिकां विधाय। तस्यां सलोहरत्नाश्वत्थ पल्लव कूर्चसोपकुम्भाष्टकं सकरकं महाकुम्भं संस्थाप्य। उपकुम्भाष्टके इन्द्रादीन् आवाह्य। अभ्यर्च्य। बालबिम्बं सम्पूज्य। तच्छक्तिं महाकुम्भे करके सुदर्शनं च आवाह्य। अभ्यर्च्य। तदनु मूर्तिपैः प्रतिकुण्डं पूर्णाहुतिश्च कारयेत्। तदानीं होमधूमः कमलकुवलयगन्धो यदि हुतवहः रत्नश्वेत वर्णः दक्षिणावर्त ज्वालावान् यदि च तदानीम् अत्यन्तं शुभाय कल्पते। तदा सवेद वाद्य घोषं “सुस्वप्न सिद्यर्थं स्वापं करिष्ये” इति सङ्कल्प्य। भूमौ प्राचीनान् दर्भान् आस्तीर्य। तेषु आचार्य
मूर्तिपयजमानाः स्वप्नार्थं शयिरन् ।

इति क्रियाकैरवचन्द्रिकायां शान्तिहोमविधिर्नाम सप्तदशपरिच्छेदः