०४ प्रथमेष्टकाविधिः

अथ चतुर्थः परिच्छेदः
प्रथमेष्टका विधिः
अथ प्रथमेष्टका विधिः उच्यते-
आदौ तावत् आचार्यः शास्त्रोक्तवर्त्मना प्राचीपरीक्ष्य। प्राच्यादि विभागेन द्वाराणि कल्पयित्वा। चतुर्विंशत्यङ्गुलायतं द्वादशाङ्गुलायतं वा अङ्गुष्टपरिणाहं शुभम् ऋजुं क्षीरवृक्षजं शङ्कुंसमानीय। प्रासादस्थान मध्यभागे मूलमन्त्रेण संस्थाप्य। शङ्कुद्विगुणमानेन परितः मण्डलान्ते पूर्वापराङ्गयोः छायामालोक्य। छायान्तर्मण्डलान्ते पूर्वतः पश्चिमतः बिन्दुद्वयं विलिख्य। तयोः मध्यतः पूर्वबिन्दुमारभ्य अपरबिन्दुपर्यन्तं सूत्रमापात्य। तयोरन्तरं यथा कच्छपानन पुच्छवत् भवेत् तथा विधाय। तदन्वेवमेव उत्तरतः दक्षिणतश्च कृत्वा। एवं

चतसृषु दिक्षु च त्रि पञ्च सप्तहस्तं यथाभिमतंअधिकं वा सूत्रं निपात्य। दिक्सूत्रभ्रमणेनैव यथा चतुरश्रं भवेत् तथासमालिख्य। दिक्षु अष्टासु यथान्यायं शङ्कून् संस्थापयेत्। शङ्कुस्थापनवेलायां निमित्तानि परीक्षेत्। शुभानि चेत् शुभं फलं। विपरीतानि चेत्
शान्तिमाचरेत्।
स्थितासन शयन यान विश्वरूप बिम्बानुगुण्येन चतुरश्र वृत्त वृत्तायत चतुरश्रायत भेदान् ज्ञात्वा। यजमानः भुक्तिकामश्चेत् युग्मैःहस्तैः, मोक्षार्थी यदि अयुग्मैः एकहस्तमारभ्य दशहस्त पर्यन्तं यथाभिमतं प्रासादं द्वादशाङ्गुलान्तं यथावित्तानुसारतः मानयित्वा। तत्रविमानं च निर्माय प्रथमेष्टकाम् आरभेत्। इष्टका शिला काष्ट मृम्मयभेदेन त्रिविधा। विमाने शैलजे शिलया, काष्ठजे काष्ठेन, पक्वेष्ठकामये सुपक्वेष्टकया, आमेष्टकामये च आमेष्टकया, शैलाकाष्टमये शिलाकाष्ठमये च शिलया, इष्टकाकाष्ठमये धाम्नीष्टकया च प्रथमेष्टकया कार्या। प्रतिमार्थं शिलासङ्ग्रह कल्पेन शिलां सङ्गृह्य । तासु पुल्लिङ्गादिपरीक्षां कृत्वा। पुल्लिङ्गशिलया पादादि स्थूप्यन्तं, स्त्रीशिलया प्रथमेष्टकां, नपुंसकशिलया मूर्धेष्टकां
च कुर्यात्।
दार्विष्टकाःअपि प्रतिमा दारुसङ्ग्रहवत् ग्राह्याः। विपरीतकरणे महान् दोषः।
राजराष्ट्रक्षयश्च। छेदे कांस्य घण्टाध्वनिः मूर्ध्नि, मध्ये कांस्यध्वनिः, मूले तालध्वनिः यस्यां सा पुंशिला। तस्मात् किञ्चिदूनध्वनिः स्त्री शिला। नादहीना नपुंसकशिलाभवति। अथ मृम्मयेष्टकाविधिः - पूर्वमाचार्यः रथकारनिर्दिष्टं देशं समासाद्यन्तत्रपुण्याह पूर्वकं अग्निम्प्रतिष्ठाप्य। ज्वलिते अस्मिन् मूलमन्त्रेण अष्टोत्तरशताहुतीः आज्येन चरुणा पुरुषसूक्तेन षोडशाहुतीः समिद्भिः अष्टोत्तरशतसङ्ख्यकाभिः भूयोपि च मूलमन्त्रेण हुत्वा। चरुणा विष्णु पारिषदान् उद्दिश्य, क्षेत्रपालाय, भूतेभ्यः, वास्तुनाथाय, देवेभ्यः, ऋषिभ्यः, देवगणाय इति च आज्येन स्वाहान्ताभिः भूरादि सप्तव्याहृतिभिश्च हुत्वा।

पूर्णाहुतिं च हुत्वा । पूर्वादिषु चतसृषु दिक्षु “विष्णु पार्षदेभ्यः सर्वभूतेभ्यः वास्तुनाथाय क्षेत्रपालाय” इति नमोन्तैः एतैः मन्त्रैः चरुणा बलिं च कृत्वा। अग्निमुद्वास्य। कुलालेन इष्टकाः कारयेत्। तास्वपि च ऋजुः युग्मा रेखा यस्यां सा पुरुषेष्टका प्रथमा। तिरश्चीना युग्मा रेखा यस्यां सा स्त्रीष्टका द्वितीया । नीरेखा पाश्र्वयोः वक्ररेखा वा नपुंसकेष्टका तृतीया। प्रासादादिकरणे प्रथमा । पीठादिकरणे द्वितीया। प्रासाद गर्भाधानादि करणे तृतीया । तदायामस्तु हस्तमानः चेत् उत्तमः। अष्टादशाङ्गुलायामः मध्यमः । षोडशाङ्गुलायामः अधमः। आयामार्धेन विस्तारः। विस्तारार्धेन घनम् । आयाम समविस्तारास्यात् आच्छादनेष्टका । इदं महामानम्प्रासादतुल्यः विस्तारः। तद्विगुणःआयामह इदम् अल्पमानम्। एवमिष्टकाः कारयित्वा। ताः पक्वाः शुभाःदृढाः सम्पादयेत्। देवालये चतस्रः प्रथमेष्टकाः। मनुष्यालये पञ्च पक्वेष्टकामये धाम्नि पक्वा प्रथमेष्टका इत्यादि वेद्यम्। ततः मण्डपं प्रपां वा कल्पयित्वा। वितानादिभिः अलङ्कृत्य। तन्मध्ये सप्ततालायतां हस्तमात्रसमुच्छ्रितां वेदिकां कल्पयित्वा। मृत्सङ्ग्रहणपूर्वकं अङ्गुरान् अर्पयित्वा। ततः वेदिकामध्ये शालीनां भारचतुष्टयेन तदुपरि तदर्धेन तण्डुलानां तस्योपरि तदर्धेन तिलानां स्थण्डिलं कृत्वा। अन्तरान्तरयोगेन आहतैः वासोभिः आच्छाद्य। तदुपरि सलक्षणान् सूत्रवस्त्रादिवेष्टितान् सरत्नहेमकूर्च पिप्पलदलान् कुम्भान् नव विन्यस्य। तद्वेदिकोत्तरभागे पूर्ववत् धान्यपीठं परिकल्प्य। इष्टकाधिवासार्थं दर्भानास्तीर्य। पुण्याहं वाचयित्वा। स्नपनार्थं पूर्वोक्तलक्षणयुक्तान् नव कलशान् धान्यपीठे संस्थाप्य। ब्रह्मादि ईशानान्तं घृतक्षीर दधिगुड पञ्चगव्य फलरस गन्धलोह मधुभिः सम्पूर्य। वस्त्रेण आवेष्ट्य। क्रमेण परवासुदेव पुरुष सत्याच्युत अनन्त केशव नारायण माधव गोविन्दान् आवाह्यअभ्यर्च्य। चतस्रः स्त्रीलिङ्गेष्टकाः समादाय। पुण्याहपुरस्सरं वासुदेवादीन् आवाह्यअभ्यर्च्य। पीठे संस्थाप्य। पयोव्रतसाम्ना पयसा, मधुवातेति गुडेन,

याःफलिनीरिति फलवारिणा, हिरण्यगर्भ मन्त्रेणलोहवारिणा, दधिक्राविण्णेतिदध्ना, पञ्चवारुणिकेति पञ्चगव्येन, गन्धद्वारेति गन्धाम्बुना, मधुवातेति मधुना, घृतस्नाते तिसाम्ना घृतेन च अभिषिच्य। पृथक् पृथक् इष्टकाः सदर्भेन वस्त्रयुग्मेन संवेष्ट्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। इष्टकाःशयनेअधिवास्य।पूर्वादिद्वारेषु तोरण कुम्भान् संस्थाप्य। तत्तद्दैवतानि आवाह्यअभ्यर्च्य। पूर्वस्थापित मध्यकुम्भे परमात्मानं उपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य। पायसगुडोदनानि निवेद्य। तस्य पूर्वे उत्तरे वा कुण्डौ स्थण्डिले वा अग्निमानीय। समिदाज्य चरुभिः यथाविधि च पुनः समिदाज्य तिल पुष्पैः पृथक् अष्टोत्तरशताहुतीः च नृसूक्तेन चरुणा च हुत्वा। सम्पाताज्यं पात्रान्तरे
सङ्गृह्य। तेन इष्टकाः स्पर्शमन्त्रेण संस्पृशेत्।
प्रतिसरः
अथ प्रतिसरबन्ध कर्मकरिष्ये इति सङ्कल्प्य। प्रतिसरं पुण्याहजलेन प्रोक्ष्य। हेममयैः कार्पासमयैः वा प्रतिसरैःअस्त्र मन्त्रेण सम्बध्य। “ओं ह्रीं स्वं स्वप्नाधिपतये स्वाहा इति मन्त्रेण सर्पिषा अष्टोत्तरशताहुतीः हुत्वा। ततः आचार्यः यजमानेन सह दर्भशय्यायां स्वप्नार्थं शयीत। स्वप्ने शुभे शुभं फलम्। अशुभे शान्ति होमं कृत्वा। विभातायां विभावर्यां शुभे मुहूर्ते ऋत्विग्भिः सह इष्टकाः समादाय। धामप्रदक्षिणी कृत्य। अन्तः प्रविश्य। क्लृप्त द्वारदेशस्य दक्षिणतः पादमूले वेदघोषैः वाद्यघोषैः च सह निक्षिपेत्। प्रादक्षिण्येन इन्द्रादि सोमान्तम् इष्टकाः मूलमन्त्रेण श्रियःमन्दिरे श्री सूक्तेन निदध्यात्। दक्षिण पश्चिमयोः मूलं पूर्वोत्तरयोः अग्रं च कुर्यात्। उपानत् विषमो यथा न भवेत् तथा निदध्यात्। सर्वं कर्मा पुण्याहपुरस्सरं निदध्यात्। तदा यजमानः गुरवे वस्त्राभरणपूर्वां शतनिष्कपरिमितां दक्षिणां तदर्धम् ऋत्विग्भ्यः तदर्धं परिचारकेभ्यश्च दद्यात्।

इति प्रथमेष्टका विधिः नाम चतुर्थः परिच्छेदः