तृतीयः परिच्छेदः
बालालय प्रतिष्ठा विधिः
अथ बालालय प्रतिष्ठा विधिर् उच्यते - आरभ्यमान प्रासादस्य इन्द्रेशानाऽन्तरे सोमेशयोः इन्द्राग्न्योः यमनैॠत्योः निॠति वरुणयोः वरुण वाय्वोः वायुसोमयोः वा अन्तरे स्वाभिमते देशे बालालयं प्रकल्पयेत्। तत्र सप्तभिः पञ्चभिः त्रिभिः वा हस्तैः बालालयं कल्पयेत्। मूलमन्दिरस्य वलजं यस्यां दिशि तस्यामेव बालालयस्यापि निदध्यात्। लोहजं शैलजं दारुजं वा चतुर्भुजं शङ्खचक्र गदापद्मधरम् उत्सेधतोह्रासे पञ्चाङ्कुलं वृद्धौ त्रयो विंशत्यङ्गुलं यजमान सुखावह मानानुगुणं वा बालबिम्बं कार्यम्। मूलालयस्थाप्येषु मत्स्याद्यवतारेषु बालबिम्बं वा तथारूपं, विश्वरूपे तु चतुर्भुजं, स्थित्यासन शयनेषु च तथैव (स्थित्यासन शयनरूपं) बालबिम्बं कारयित्वा। तदङ्कुरार्पण
पूर्वकं जले अधिवास्य। कुम्भस्थापनाधिवास होमादि कृत्वा। बालगेहस्य मध्ये दिव्येंशे वा हस्तमात्रसमुच्छ्रितां मेखलात्रययुतां वेदिकां कल्पयित्वा। प्रभाते सुमुहूर्ते शक्तिन्यास चतुर्थस्नपन वर्जम् तस्यां देवं यथाविधि संस्थाप्य। सम्प्रोक्ष्य। मन्त्रान् विन्यस्य सम्पूजयेत्।
ततः
आमूलधामप्रारम्भात् आसमाप्तेः हरे विभो।
पूजां गृह्णीष्व भगवन् अस्मिन् त्वं बाल मन्दिरे।
शमयन् मूलधिष्ण्यस्य विघ्नकृद्दैत्य संहितम्।
इति मन्त्रेण प्रार्थ्य। विज्ञाप्य प्रणम्य। चण्डप्रचण्ड क्षेत्रपाल खगेशान् द्वारे इन्द्रादि लोकपालान् तत्तद्दिक्षु ईशान भागे सेनेशं नैॠते गणेशं च अशरीरिणः सर्वान् एतान् बालमन्दिरस्य परितः हस्तमात्रातु मेखलात्रययुतासु वृत्तासु चतुरश्रासु वा वेदिकासु स्थण्डिले वा तादृशे सम्पूज्य। सर्वान् कुमुदादिगणान् महापीठे अभ्यर्च्य। गुरुः एवं बालालयं प्रतिष्ठाप्य। अन्ते ध्वजारोहणपूर्वकं पुष्पयागावसानिकम् उत्सवम् अथवा एकाहोत्सवं कुर्यात्। बालबिम्बं लोहजं चेत् तेनैव सकलं नित्यादि कर्मकुर्यात्। उत्सवार्थं न चेत् बिम्बं बालेनैव कुर्यात्। बालबिम्बं शिलादारुजमयं चेत् दारुसङ्ग्रह शिलासङ्ग्रह
पूर्वकं बालबिम्बं प्रतिष्ठापयेत्।
आलय निर्माण विधिः
पश्चात् रथकारः स्थपतिभिः सह मन्दिरनिर्माणमारभेत। तत्र मुख्य मध्यमाधम
सञ्चितासञ्चितोपसञ्चित कल्पन भेदं शिलेष्टकादार्वादिषु गर्भादि दोष लक्षणानि
देवतान्तरालयगतत्वादि दोषान् च सम्यक् ज्ञात्वा मूलमन्दिरं कल्पयेत् ।
खातभूतले जलेन समतां वीक्ष्य प्रकृतिं क्षितौ विन्यस्य। शास्त्र चक्षुषा प्रथमां फलकामादाय । सुधया तां दृढीकृत्य। जलेन समतां वीक्ष्य । तस्योपरि उपपीठं तदुपरि
अधिष्ठानम् उपपीठेनविना अधिष्ठानं वा परिकल्प्य । अधिष्ठानं वा यद्वा पूर्वमधिष्ठानं तदुपरि उपानहं तदुपरि पादं ततः प्रस्तरं पश्चात् ग्रीवां तदनु शिखरम् एवं यथाक्रमम् एकतल कल्पने यथावत्स्थूपि एवं कुर्यात् । द्वितल कल्पने तु अधिष्ठान चरण प्रस्तरकूटशाला संस्थान पञ्जर प्रस्तर वेदिकाग्रीव शिखराणि एवं क्रमेण त्रितलादि आद्वादश तलमेवमेव। ततः अधिकेषु उपानजगती कुमुदपट्टिका कण्ठपट्टिका महतीपट्टिका वाजन वेदिका चरणतलोत्तर हंसमाला कपोत प्रतिप्रतिवेदिका कण्ठशिखराणि इति एवम् अष्टादशा" कल्पनमिति यावत्स्थूपि यजमानानुगुण्येन वा कुर्यात्। पूर्वमेवं सर्वं यथाविधि पटादौ
निर्माय अनन्तरं मन्दिर निर्माणं च कुर्यात्।
इति श्री-वराहगुरुणा विरचितायां क्रिया-कैरव-चन्द्रिकायां
बालालयप्रतिष्ठाविधिः नाम तृतीयः परिच्छेदः