३२

पाद्मसंहितायाम्

द्वात्रिंशोऽध्यायः

  • गृहार्चाविधिः*

  • तत्रलोहदार्वादिभेदेन फलम् *

श्रीभगवान्—-

गृहार्चास्थापनं वक्ष्ये यथावत्कमलासन।
सौवर्णी राजती वाऽपि 1 प्रतिमा स्याद्द्विजन्मनाम्॥ 32.1 ॥

आरकूटमयी यद्वा यद्वा ताम्रमयी भवेत्।
लोहजाः प्रतिमास्सर्वास्सर्व कामफलप्रदाः॥ 32.2 ॥

2 शिलाबिम्बं दारुबिम्बं स्वगृहे नार्चयेद्बुधः।
पिशाचादि वशीकारे प्रतिमा चायसी मता॥ 32.3 ॥

उच्चाटनकरी कांस्यप्रतिमा कमलासन।
3 त्रिलोहजा शत्रुजया सीसकोस्थाऽमयप्रदा॥ 32.4 ॥

4 रत्न जप्रतिमास्सर्वास्सर्वकाम फलप्रदाः।
चन्द्रकान्तस्फटिकजा सौम्या प्रतिकृतिर्मता॥ 32.5 ॥

आग्नेयी मित्रमणिजा अन्या स्फटिकजा द्विधा।
पालग्रामशिला श्वेता सौम्या 5 सौम्यफलप्रदा॥ 32.6 ॥

श्रीकरी पीतवर्णा च रक्ता कामप्रदा मता।
कृष्णा पुष्टिप्रदा नित्यं पिङ्गला 6 रोगदा सदा॥ 32.7 ॥

शिलाश्च क्रसरिज्जातास्सर्वा मोक्षफलप्रदाः।
मूर्तभिर्गर्भितास्सर्वा श्शिलाश्चक्र सरिद्भवाः॥ 32.8 ॥

प्रादुर्भावैश्च मीनाद्यैस्तथा दिव्यायुधैरपि।
लाञ्चिताः कौस्तुभाद्यैश्च भूषणैः कमलासन॥ 32.9 ॥

अङ्किताः पूजनीयाश्च भुक्तिमुक्तिफलार्थिभिः।
सर्वास्स्वायम्भुवा ज्ञेयाश्शिलाश्च क्रसरिद्भवाः॥ 32.10 ॥

नित्यं सन्निधि रेतासु परस्य परमात्मनः।
न प्रतिष्ठा विधातव्या न चैवाऽऽवाहनादिकम्॥ 32.11 ॥

सालग्रामशिला यत्र पूज्यते भगवन्मयैः।
तद्देशे योजनादर्वाङ्मृतो निर्वाणमश्नु ते॥ 32.12 ॥

द्वारवत्याश्चिलाश्चापि सालग्रामशिलासमाः।
द्रुमजातिप्रतिकृतिस्सभाज्या कामनवशात्॥ 32.13 ॥

प्रतिमा चन्दनमयी पूजिता श्रियमावहेत्।
प्रतिमा चाऽगरुमयी भुक्तिमुक्ति 7 फलप्रदा॥ 32.14 ॥

देवदारुमयं बिम्बं सर्वदं भवनेऽर्चितम्।
बिल्वजा प्रतिमा लक्ष्मीमतुलामानहेत्सदा॥ 32.15 ॥

ब्रह्मवर्चसकामेन ब्रह्मवृक्षसमुद्भवा।
शमीप्रतिकृतिस्स्वर्ग्या नमेरुस्सुखदाभवेत्॥ 32.16 ॥

अन्नादिकामैः प्रतिमा पूज्योदुम्बरदारुजा।
अश्वत्थनिर्मिता पूज्या राज्यकामेन धामनि॥ 32.17 ॥

न्यग्रोधनिर्मितं बिम्बं 8 सर्वत्र भवनेऽर्चितम्।
प्लक्षजं जीवधनदं सर्वोपकरणावहम्॥ 32.18 ॥

पियङ्गु निर्मितं बिम्बं श्रीवश्यं भवनेर्चितम्।
पुत्रदीपमयं प्रत्रकारकं मुक्तिदं तथा॥ 32.19 ॥

मन्त्रादि साधने युक्तां सरलार्चां समर्चयेत्।
तमालजातिप्रतिमा सर्वलोक सुखावहा॥ 32.20 ॥

चूतजाऽरोग्यदा पुत्र 9 वित्तजा बदरीकृता।
10 वसप्रतिमा ब्रह्मन् बहुपुत्रा समर्चिता॥ 32.21 ॥

क्षीरणी धनदा ज्ञेया सप्तला दुखनाशिनी।
धनजं जातिजं बिम्बं 11 स्फन्दजं सुखकारणम्॥ 32.22 ॥

12 तिमिदं धनजं ब्रह्मन् कदम्बं ज्ञानकारणम्।
कुरवः पुष्ठिफलदस्तिलकस्सर्वकामदः॥ 32.23 ॥

मधूकस्सिद्धिदश्चाहुरसनश्श्रीकरस्सदा।
पुष्टिदो जम्बुवृक्षस्तु पुन्नागः पुष्टिवर्धनः॥ 32.24 ॥

13 रोगदो राजवृक्षश्च कादिरश्चाक्षिनाशनः।
निम्भवृक्षप्रतिकृतिर्विद्येषण करी मता॥ 32.25 ॥

विभीतिका शल्मली च कल्प्यते 14 कमलासन।
गजोत्पाटिकागौरार्क मूलकल्पितकौतुकम्॥ 32.26 ॥

वैनायकमभिप्रेतसकलार्थ प्रसादकम्।
मात्राङ्गुलिवशेनैव गृहार्चामानकल्पनम्॥ 32.27 ॥

नाधिकं हस्तमानाच्च न न्यूनं द्वादशाङ्गुलात्।
कौतुकं भवनेऽभ्यर्चं शिलादार्वादिजं ध्रुवम्॥ 32.28 ॥

अङ्गुलैः प्रतिमामानं वर्णानामुच्यते क्रमात्।
हस्तमानमितार्चा स्याद्भवने पूर्वजन्मनः॥ 32.29 ॥

अङ्गुलै रेकविंशत्या प्रतिमा वसुधापते।
विशामेकोनविंशत्या 15 द्वाभ्यां सूद्रस्य हीनया॥ 32.30 ॥

अर्धचित्रं तदभासं भवने भुक्तिवर्धनम्।
द्वादशाङ्गुलमानार्चा लोहजा पूर्वजन्मनः॥ 32.31 ॥

नवाङ्गुला क्षत्रियस्य विशस्सप्ताङ्गुला मता।
पञ्चाङ्गुला चतुर्थस्य प्रतिमा भवने भवेत्॥ 32.32 ॥

प्रतिमा यन्मयी क्लृप्ता प्रभापीठादि तन्मयम्।
यद्वा सोवर्णबिम्बस्य राजतं ताम्रमेव वा॥ 32.33 ॥

लो हेन चेदुत्तमेन प्रतिमा निर्मिता भवेत्।
तदनन्तरलोहेन प्रभापीठादी कल्पयेत्॥ 32.34 ॥

त्रिलोहजायामर्चायां सुवर्णं वा प्रभादिकम्।
रत्नस्फटिकजानां तु प्रतिमानां प्रभादिकम्।
लोजहं स्मर्यते ब्रह्मन् रहस्यमिदमीरितम्॥ 32.35 ॥

गृहे संहारशयनमर्चयेन्नकदाचन।
भगवन्मूर्तयस्त्वन्या स्सर्वाः पूज्या तथातथम्॥ 32.36 ॥

16 श्री भूमि सहितं देवं श्रिया केवलयाऽपि वा।
सहितां पूजये 17 न्नित्यं भक्त्या पद्मनि केतन॥ 32.37 ॥

  • गृहे पूजास्थाननिर्देशः*

पूजास्थानं 18 गृहस्योक्तं मारुत्यां दिशि नाऽन्यथा।
अर्चयेद्भवनेष्वर्चां यजमानो यथोदिताम्॥ 32.38 ॥

तत्प्रतिष्ठार्थमाचार्यमभ्यर्थ्याऽऽगमयोद्गृहम्।
अङ्कणे वा नदीती रे क्षेत्रे यद्वा सुपूजिते॥ 32.39 ॥

वेदिकां परितः क्लृप्ते होमकुण्डचतुष्टये।
एकर्स्मि वा गुरुः कुर्यात्फ्रतिष्ठा कर्मापूर्ववत्॥ 32.40 ॥

अङ्कुरानर्पयित्वाग्रे जले चैवाधिवासनम्।
नयनोन्मीलनं चाऽपि कुर्याऽत्पूर्वोक्तवर्त्मवा॥ 32.41 ॥

पाद्यमर्घ्यं तथाचामं पञ्चगव्यं 19 तथा दथि।
20 पयोमधुकषायं च उष्णाम्भः फलवारि च॥ 32.42 ॥

मार्जनाम्भोक्षताम्भश्च रत्नाम्भो लोहवारि च।
गन्धाम्भश्च यपाम्भश्च क्रमेणाऽनेन पद्मज॥ 32.43 ॥

स्नापयेच्च नृसूक्तेन तथेदं विष्णुरित्यृचा।
स्नपनं कारयेद्वार्वान् मन्त्रैः प्रागुक्तवर्त्मना॥ 32.44 ॥

शयनादिकमन्यच्च क्रियाजातं यथापुरम्।
महाप्रतिष्ठा विधिवत्कर्म कुर्याद्गुरुस्स्वयम्॥ 32.45 ॥

प्रतिमास्तापनस्थाने रत्नन्यासादि पूर्वकम्।
प्राप्तै मुहूर्ते प्रतिमा स्थावरां चेदभीप्तिताम्॥ 32.46 ॥

स्थाने तां स्थापयित्वैवं कुर्या 21 धावाहनादिकम्।
22 जङ्गमा चेदभिमता वेद्या मावहनादिकम्॥ 32.47 ॥

कुर्यात्तदनु तां स्थाने स्थापयेद्विधिपूर्वकम्।
चण्‍डप्रचण्डौ वलजे क्षेत्रपालं खगेश्वरम्॥ 32.48 ॥

विघ्नेशं वास्तुनाथं च दुर्गां वा तत्र कल्पयेत्।
गुहं च विष्वक्सेनं च शङ्खपद्मनिधी तथा॥ 32.49 ॥

आचार्यचोदितो भूमौ पतित्वा दण्डवत्स्वयम्।
याजमानः 23 प्रार्थयेत्तमभीप्सितम् शेषतः॥ 32.50 ॥

दासोऽस्मि तव देवेश सपुत्रगणभान्दवः।
सन्निधस्स्वगृहो यावदन्ववायो ममाऽच्युत॥ 32.51 ॥

फूजां मया यथाशक्ति विहितां विकलामपि।
24 गृह्णीष्व भगवन् भक्तजनानुग्रह काम्यया॥ 32.52 ॥

याचित्वा देवदेवेश मित्थमाचार्य सन्निदौ।
गुरवे दक्षिणां दद्याद्यथाविभविस्तरम्॥ 32.53 ॥

यथा च तृप्तिरस्य स्यात् ऋत्विजामपि पूर्ववत्।
भ्राह्मणान् भोजयेच्छक्त्या तोभ्यो दद्वाच्च दक्षिणाम्॥ 32.54 ॥

स्थापयित्वाऽर्चयेद्देवं भक्तिमान् भक्तवत्सलम्।
भुक्त्वा भोगान् सुविस्तीर्णान् प्रेत्य नेहाऽभिजायिते॥ 32.55 ॥

भवने स्थापितो विष्णुः पुष्णाति कुलमात्मनः।
मन्दिरे तु गजत्सर्वं पुष्णाति स्थापितो हरिः॥ 32.56 ॥

श्री वत्सकौस्तुभोष्णीषवनमाला चतुष्टयम्।
प्रधान भुषणं विष्णोः प्रतिष्ठाप्य यथाविधि॥ 32.57 ॥

श्रीवत्सं स्थापयित्वाग्रे 25 शालिभरारे सशाटके।
निवेश्य प्रळयं 26 सर्गं महाकुम्भं यजेद्गुरुः॥ 32.58 ॥

कुण्डे श्रीवत्समन्त्रेण नळिनाकारकल्पिते।
जुहुयात्समिधा 27 घारचतुभिश्शतमष्ट च॥ 32.59 ॥

वारान्न्यसेश्च 28 तत्त्वानि शान्तिं हुत्वास्पृशेच्चतम्।
संप्रोक्ष्य कुम्भतोयेन मुहूर्त्मे हरिवक्षसि॥ 32.60 ॥

निवेशयेद्दक्षिणा च देया निष्कत्रयाऽवरा।
गुरवे यजमाने मनः प्रीतिविवर्धनी॥ 32.61 ॥

यो भूषयति देवेशं श्रीवत्सप्रतिकर्मणा।
स लक्ष्मीं लभते नित्यामुत्तमां नाऽत्र संशयः॥ 32.62 ॥

कौस्तुभं स्वेन मन्त्रेण स्थापयित्वा यथापुरम्।
हरिमा कल्पयेत्तेन मुहूर्ते देशिकोत्तमः॥ 32.63 ॥

यजमानश्च गुरवे प्रयच्छेद्दक्षिणां शुभाम्।
यः कौस्तुभेन देवेशं मण्डये 29 दश्नुते श्रियम्॥ 32.64 ॥

वनमालां च सौवर्णीं नानारत्न 30 परिष्कृताम्।
स्थापयित्वोक्तमार्गेण मुहूर्ते शभने गुरुः॥ 32.65 ॥

कर्णे प्रलम्बयोद्विष्णोस्सर्वसम्बत्करीं नृणाम्।
दक्षिणां कुरवे दद्वाद्यजमानोऽपि पुष्कलाम्॥ 32.66 ॥

यश्च चभुषयति श्रिशं मनुजो वनमालाया।
पोऽश्नु ते दुर्लभान् कामान् सर्वानेवन शंशयः॥ 32.67 ॥

प्रेत्य लोकान् सुविपुलान् स्वर्गादीन् सोऽश्नुतेऽक्षयान्।
शुद्धजाम्बूनदमयं किरीटं 31 मणिभिश्चितम्॥ 32.68 ॥

32 चेतसा भक्तियुक्तेन यथार्हं मधुविद्विषः।
कलशैस्सप्तदशभिस्स्नापयित्वा स्वविद्यया॥ 32.69 ॥

शालिभारेषु विन्यस्य वेष्टयित्वा च वाससा।
अहतेन पुनः पुम्भो यजेदावाह्य विद्यया॥ 32.70 ॥

जुहुयाच्च चतुर्थक्षु विद्यया च स्वया गुरुः।
स्पृष्टा च शान्तिहोमान्ते प्रभाते कुम्भवारिणा॥ 32.71 ॥

संप्रोक्ष्य स्वेन मन्त्रेण दत्वा च गुरुदक्षिणाम्।
प्राप्ते मुहूर्ते देवेशमासीनं 33 भूपविष्टरे॥ 32.72 ॥

स्नापयेद्राजनद्देवमाराद्या कल्पभूषणैः।
ब्राह्मणेषु चतुर्वेदा नधीयानेषु सर्वतः॥ 32.73 ॥

नानाविधेषु वाद्येषु चतुर्दिक्षु नदत्सु च।
वन्दारुषु च देवेशं स्तोत्रैरुच्चावचैर्भृशम्॥ 32.74 ॥

स्तुवस्तु भक्तिनम्रेषु श्रीभूमिसहितं हरिम्।
प्रस्तूयमानेष्वन्येषु मङ्गलेषु समन्ततः॥ 32.75 ॥

कुण्ढेषु पुरतो हुत्वा पूर्ववत्समिदादीभिः।
चतुर्दिक्षु च 34 तुर्द्वारि ए काग्नेः कोणतः स्थिते॥ 32.76 ॥

पञ्चोपनिषदैर्मन्त्रैः किरीटं देवमूर्धनि।
आरोपयेयुराचार्य्याः मूर्तिपाश्च विचक्षणाः॥ 32.77 ॥

मुञ्चेयुः पुष्पवृष्टिं च तूर्यघोषपुरस्सरम्।
महद्भिरुचारैश्च गुरुणाऽभ्यर्चितं हरिम्॥ 32.78 ॥

ब्राह्मणेभ्यो धनं दत्वा सुखासीनां महासने।
यानमारोप्य हस्त्यादि श्वेतच्छत्र विराजितम्॥ 32.79 ॥

वीज्यमानं च गौरेण चामरेण समन्ततः।
ग्रामं प्रदक्षिणं नीत्वा मन्दिरे विनिवेशयेत्॥ 32.80 ॥

यः किरीटेन 35 देवेशमाकल्फेन प्रसाधयेत्।
त्रयाणामपि लोकानामाधिपत्यं स विन्दति॥ 32.81 ॥

हारादिभिर्नूपुरान्त्रैर्भूषणैस्तपनीयजैः।
क्षाळितैर्गन्धतो येन द्वादशाक्षरविद्यया॥ 32.82 ॥

धान्यराशिषु संस्थाप्य होमं च समिदादिभिः।
36 स्पृष्ट्वा कल्पं जपेन्मन्त्रं देशिको द्वादशाक्षरम्॥ 32.83 ॥

मूहूर्ते भूषयेत्तेन देवेशं विद्याया तया।
ये भूषयति देवेशं सोऽपि कार्यान् समश्नुते॥ 32.84 ॥

  • पंचायुधमान प्रतिष्ठादि*

पञ्चायुधानां दिव्यानां प्रतिष्ठा वक्ष्यतेऽधुना।
चक्रस्य तावत्सर्वेषु 37 मुख्यस्य कमलासन॥ 32.85 ॥

वक्ष्यते स्थापनं तस्य यानं रूपं च 38 यादृशम्।
विस्तृतं हस्तमानेन यद्वा सप्तदशाङ्गुलम्॥ 32.86 ॥

अष्टादशाङ्गुलं यद्वा विंशत्यङ्गुलमेव वा।
चतुर्धशाङ्गुलं यद्वा षोडशद्वादशाङ्गुलम्॥ 32.87 ॥

मूलबिम्बाननसमं सहस्रारं समुज्वलम्।
यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्॥ 32.88 ॥

द्वादशारमथाष्ठारमथवा 39 षडरं परम्।
सहस्रज्वालमथवा षड्ज्वालं नाभिमण्टितम्॥ 32.89 ॥

(40.त्रिकोण

चतुर्भुजधरं क्रुद्धं भ्रुकुटीकुटिलाननम्।
पुरुषं द्विभुजं यद्वा दक्षिणेनापि तर्जनम्॥ 32.91 ॥

स्पृशन्तं कटिमन्येन इतराभ्यां कृताञ्जलिम्।
मुख्याभ्यां तु कराभ्यां वा सुस्थितं पद्मविष्टरे॥ 32.92 ॥

अथिवास्य जले पूर्वं स्थापयित्वा च मण्टपे।
शययित्वा च शयने इष्ट्वा कुम्भे स्वविद्यया॥ 32.93 ॥

द्वायन्पुरुषमत्युग्रं द्विभुजं रक्तवाससम्।
रक्तदंष्ट्राननं नाभो 40 संस्थितं गुरुरीदृशम्॥ 32.94 ॥

चतुर्दिक्षु च कुण्डेषु चक्रमन्त्रेण मूर्तिपाः।
जुहुयुस्समिधाघारं चरुबिः कमलासन॥ 32.95 ॥

41 कुण्ढेष्वेकत्र पुरतस्तोरणादीनि पूर्ववत्।
अर्चयित्वा ततश्चक्रं 42 शोषयेच्छोषणादिभिः॥ 32.96 ॥

स्फृष्ट्वातु शान्तिहोमान्ते नाभ्याद्यवयवान् क्रमात्।
मूहूर्ते कुम्भतोयेन शिञ्चेदात्मीया विद्यया॥ 32.97 ॥

चतुर्णामित रेषां च शङ्खादीनां यथापुरम्।
43 प्रतिष्ठापनमाचार्यः स्वैर्मन्त्रैरनुपूर्वशः॥ 32.98 ॥

गुरवे दक्षिणा देया दशनिष्कावरा ततः।
पंचायुधानि 44 निर्माय यः स्थापयति मानवः॥ 32.99 ॥

स विष्टपत्रये दीमान् न भिभेति कुतश्चन।
45 भुङ्कै च भोगान् 46 विस्तीर्णान् योदते च त्रिविष्टपे॥ 32.100 ॥

चण्ढादि द्वारपालानां प्रतिष्ठाविधिरुच्यते।
जलादिवासनं पूर्वं मण्टपे स्नपनं तथा॥ 32.101 ॥

शय्यायां चापि शयनं कुम्भे चैकत्र पूजनम्।
होमश्चतुर्षु कुण्ढेषु कुण्ढे वैकत्र पद्मज॥ 32.102 ॥

तत्त्वन्यासं तथाशान्तिहोमाङ्गस्पर्शनं तथा।
प्रोक्षणं कुम्भतोयेन विद्यया च स्वभीजया॥ 32.103 ॥

गुरवे दक्षिणा चाऽपि देया वित्तानुसारतः।
चण्डादीन् स्थापयेन्मत्मर्त्य 47 श्चैतत्सारूप्यमश्नुते॥ 32.104 ॥

  • वैन तेयादि प्रतिष्ठा*

वैनतेयप्रतिष्ठायां विशेषो वक्ष्यतेऽधुना।
प्राच्यां 48 जुह्वन् बृहत्साम्ना तस्यं ध्यायेद्गुरुस्ततः॥ 32.105 ॥

दक्षिणस्यां सुपर्णं तु सौपर्ण्या विद्यया (50 हुवेत्।
प्रतीच्यां गरुडं कुण्ढे ध्यायेद्धोमो रथन्तरैः॥ 32.106 ॥

तार्क्ष्यध्यानमुदीचीने गायत्र्या च स्वया हुतिः।
पुरस्तादुपरिष्टा च्च शुभं 49 कर्मयथापुरम्॥ 32.107 ॥

स्थापको वैनतेयस्य लभते तत्समीपताम्।
आदित्यस्य प्रतिष्ठा च विधातव्या यथापुरम्॥ 32.108 ॥

विशेषस्तूच्यते कश्चिद्यथावदवधारय।
50 आवहनं स्वगायत्र्यातया कुण्ढेषु चाहुतिः॥ 32.109 ॥

बिभ्राडित्यनुवा केन सावित्र्या स्थापनं तथा।
मार्यस्य मूलमन्त्रेण कुण्भतोयेन सेचनम्॥ 32.110 ॥

स्थापकस्तस्य तल्लोके राजते मुक्तकिल्बिषः।
ब्रह्मादीनां च सर्वासां देवतानां यथापुरम्॥ 32.111 ॥

स्वातन्त्र्ये पारतन्त्र्ये च स्वैर्मन्त्रैः स्थापनं भवेत्।
दुर्गा च मातरस्सप्त याः काश्चिद्देवतास्त्रियः॥ 32.112 ॥

प्रतिष्ठा तासुलक्ष्मीवन्मन्त्रैस्स्वैस्वैर्विंष्यते।

  • विष्वक्सेनोत्पत्ति स्थापनादि*

ब्रह्मा—-

विष्वक्सेवस्य भगवन् उत्फत्तिः 51 कारणात्कृतः।
स्थापनं च कथं तस्य कथ्यतां यद्यनुग्रहः॥ 32.113 ॥

श्री भागवान्—-

दौवारिकेषु सर्वेषु यश्चण्ढः प्रथमो भवेत्।
स देवासुरयोर्युद्धे बली दण्ढधरस्स्वयम्॥ 32.114 ॥

जघान दैत्यान् देवार्थमात्मनाऽभि प्रचोदितः।
तस्य तुष्टोह मददां मत्स्वरूपसरूपताम्॥ 32.115 ॥

ऐश्वर्यं कुमुदादीनां बलं चाऽप्रतिवारितम्।
विष्वस्सेनसमाख्यां च सर्वसेनाधिपोचिताम्॥ 32.116 ॥

नैवेद्यस्य चतुर्थांशं सर्वस्योपहृतस्य मे।
चण्ढस्य च पदेत्युग्रमन्यं स्थापित 52 वानहम्॥ 32.117 ॥

इत्थं ब्रह्मन् तदुत्फत्तिः स्ताप्यश्च मम सन्निधौ।
स्थापनं च स्वमन्त्रेण तस्येष्टं यद्वदात्मनः॥ 32.118 ॥

दक्षिणा गुरवे देया स्थापकस्य फलं तथा।
प्रतिकायं च भक्तानां कृत्वा स्थापनमाचरेत्॥ 32.119 ॥

स्वतन्त्रं 53 वाऽन्यतन्त्रं वा यथालाभं शिलादिभिः।
कृताञ्जलिपुटं सौम्यं स्थितमासीनमेव वा॥ 32.120 ॥

यथावर्णं यथारूपं यथाचाश्रमधर्मिणाम्।
यथापयोरूपधरं पद्मपिठे प्रतिष्ठितम्॥ 32.121 ॥

कृतलक्षणसम्पन्नं शिल्पिभिस्सुपरीक्षितम्।
यद्वा कर्मानुरूपेण प्रतिकायं प्रकल्फयेत्॥ 32.122 ॥

स्थापयेदङ्गु रानादावर्पयित्वा शुभे दिने।
अयुग्माः पालिकाः कार्याश्शरावघटवर्जिताः॥ 32.123 ॥

अधिवासनमारभ्य पूर्ववत्कर्मपद्दतिः।
उपचारस्तथा होमः कुम्भयागश्च सेचनम्॥ 32.124 ॥

परेण ब्रह्मणा कार्यं मन्त्रैश्चान्यैन्सुपूजितैः।
तोरणादीन्यजोत्पूर्वं न वेदिकलसानपि॥ 32.125 ॥

मुहूर्ते प्रोक्षयेत्कुम्भवारिणा देशिकोत्तमः।
स्वतन्त्रे मन्दिरं कल्प्यं सिंहदिङ्गूर्तिवर्जितम्॥ 32.126 ॥

दक्षिगुरोश्च प्रतिमां स्थापयेन्मन्त्र सिद्धये।
दीक्षिणा गुरवे देया तर्पणीयाश्च भूसुराः॥ 32.127 ॥

आवर्जनीयं सर्वत्र धनैर्ब्राह्मणतोषणम्।
घण्याहवाचनं विप्रैस्स्वाध्यायाध्यायनं तथा॥ 32.128 ॥

दक्षिणा च गुरो 54 र्गुर्वी यजमानधनोचिता।
एतैर्यथोदितैर्युक्तं 55 हीनमन्येन दूष्यति॥ 32.129 ॥

स्थापनं प्रतिकायानां ब्रह्मन्नै वाऽत्र संशयः।
सत्यहं 56 चार्चनं तेषां उपचारैः पृथग्विधैः॥ 32.130 ॥

कर्तव्यमुत्सवं चाऽपि ध्वजारोहणवर्जितम्।
नपरोमो न बलि स्तीर्धं स्वातन्त्र्यै विधिरीदृशः॥ 32.131 ॥

पारतन्त्र्येतु भक्तावा मुत्सवः कमलासन।
देवस्योत्सवमध्ये च प्रक्राना वाऽथ 57 निर्मिते॥ 32.132 ॥

तस्मिन् कार्योकृते तस्मिन् प्रीयते हि जनार्धनः।
राज्ञो राष्ट्रस्य सर्वस्य ब्राह्मणानां गवामपि॥ 32.133 ॥

जायिते भुयसि सम्पदुत्सवे विहिते सति।
इति ब्रह्मन् क्रियास्सर्वाः कथिताः पृच्छतस्तव॥ 32.134 ॥

दयया परया भूयः किमन्यच्छ्रोतुमिच्छसि।
संवर्तः—-

महोपनिषदं शास्त्रं चतुर्वेद समन्वितम्।
संक्षिप्य च शताध्यायात्पद्मेन कपिलाच्छ्रुतं॥ 32.135 ॥

तदेव कण्वस्संक्षिप्य श्रिद्दधानस्य ते मया।
द्वात्रिंशदध्याययुतं 58 शुभं वै सारवत्तरम्॥ 32.136 ॥

59 पद्मात् श्रुतमिदं शास्त्रं तथा पद्माह्वयं मतम्।

इदं च देयं परमं रहस्यमनसूयवे॥ 32.137 ॥

श्रद्दधानाय भक्ताय शुचये दीक्षिताय च।
ब्रह्मणाय प्रपन्नाय श्रोत्रियाय च धीमते॥ 32.138 ॥

यद्वा ज्येष्ठाय पुत्राय न विद्यमरये वदेत्।
नमो ब्रह्मण्य देवाय श्रिधरायाव्ययात्मने॥

ऋग्यजुस्सामरुपाय शतरूपाय विष्णवे॥ 32.139 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे संवर्तप्रोक्तायां संहितायाम्

गृहार्चास्थापनविधिर्नाम

द्वात्रिंशोऽद्यायः

क्रियापादस्समाप्तः


  1. प्रतिमा ↩︎

  2. शिलाबिंबं इत्येकं अर्धं क्वचिन्न ↩︎

  3. लोहजा शत्रुविजया ↩︎

  4. राजत ↩︎

  5. सर्व ↩︎

  6. रोग्यदा ↩︎

  7. प्रदा शुभा. ↩︎

  8. वंशविच्छेदकारकं, सर्वदाभवनेऽर्चितम् ↩︎

  9. वृद्धता ↩︎

  10. पनस प्रतिबिंबं च बहुपुत्रदमर्चितम् ↩︎

  11. स्पर्शनं ↩︎

  12. त्रिमिशं धनदम् ↩︎

  13. अरतोजाति करजोजाति वृक्षश्च ↩︎

  14. कलहाय सा ↩︎

  15. प्रतिमा कमलासन ↩︎

  16. श्रियां भूमिं समभ्यर्च्य ↩︎

  17. द्भुक्ति मुक्तिकामो निकेतने ↩︎

  18. गृहे चोक्तं निरृत्यां ↩︎

  19. घृतम् ↩︎

  20. पयोमधुक्षाळनं च ↩︎

  21. दौदह ↩︎

  22. प्रार्थयीत मनीषी. ↩︎

  23. प्रार्थयीत मनीषी ↩︎

  24. भगवन् गृहाण भगवन् मदनु. ↩︎

  25. शालि तण्डुल शाटके ↩︎

  26. सर्वं ध्यात्वा. ↩︎

  27. धाज्येन. ↩︎

  28. चत्वारि. ↩︎

  29. त्सविशेत् ↩︎

  30. समन्विताम् ↩︎

  31. मणिनिर्मितम् ↩︎

  32. बहुनेह किमुक्तेन. ↩︎

  33. भद्र ↩︎

  34. चत्वार एकोग्निः कोणतस्थितः ↩︎

  35. लक्ष्मीशं ↩︎

  36. स्मृत्वा मन्त्रम्. ↩︎

  37. मध्येषु ↩︎

  38. तादृशम् ↩︎

  39. षडरावरम् ↩︎

  40. सुस्थितं गुरु ↩︎

  41. कुण्ढे वै तत्र पुरतः ↩︎

  42. शोधये ↩︎

  43. प्रतिष्ठा स्थान ↩︎

  44. देवाय ↩︎

  45. भूक्त्वा च भोगन् विपुलान् ↩︎

  46. विमलान् ↩︎

  47. स्तैस्सायुज्य मवाप्नुयात् ↩︎

  48. हुवेद्ब्रह्मसाम्ना0 ↩︎

  49. सिष्ठं ↩︎

  50. आराधनं ↩︎

  51. कारणं तथा ↩︎

  52. वान्पुनः ↩︎

  53. स्वामितन्त्रं वा ↩︎

  54. तोरणाद्यैर्यजेत्पूर्वं न वेदिकलशाष्टकं ↩︎

  55. र्विप्रxxxxनमन्यैर्न. ↩︎

  56. चार्चयेद्धमान् ↩︎

  57. निश्चिते ↩︎

  58. कथितम् ↩︎

  59. पद्मोदिततया शास्त्रमिदं पाद्मुदाहृतंxxxxxxxxxxx ↩︎