पाद्मसंहितायाम्
एकोनत्रिंशोऽध्यायः
मीनादि दशमूर्ति प्रतिष्ठा विधिः
श्रीभगवान्—
मीनादिदशमूर्तीनामधुना स्थापनं प्रति।
विशेषः कथ्यते ब्रह्मन् उपस्थानादिलक्षणः॥ 29.1 ॥
- मीनमूर्तिः*
साम्ना च वारुणेनैव सूक्तेन पुरुषात्मना।
स्थापयेन्मीनवपुषं वासुदेवमनामयम्॥ 29.2 ॥
आवह्य तस्मिन् देवेशमुपतिष्ठेत मन्त्रवित्।
मीनात्मने नमस्तुभ्यं वेदरक्षाविधायिने॥ 29.3 ॥
प्रलयार्यव दुर्वार वारिपूरविहारिणे।
वारुणेन्तेव सुक्तेन तथाष्ठाक्षरविद्यया॥ 29.4 ॥
स्थापयित्वा महाकुम्भं तस्मिन्न वाहयेद्धरिम्।
1 उपतिष्ठेत कर्मान्ते गाधया वक्ष्यमाणया॥ 29.5 ॥
तुभ्यं नमस्क्रियां कुर्मः कूर्मरूपाय वेधसे।
2 धारणा न्मन्दरस्या द्रेर्विबुधानन्ददायिने॥ 29.6 ॥
- वराहमूर्तिः*
वापयित्वा च वाहारीं मूर्तिमावहयेद्धरिम्।
क्रोडात्मने नमस्तुभ्यं 3 यज्ञरूपाय वेधसे॥ 29.7 ॥
दंष्ट्राग्र विधृता 4 शेष धारिणी धरणीधर।
- नृसिंहः*
नृसिंहरूपिणं देवं स्थापयेद्देशिकोत्तमः॥ 29.8 ॥
5 युञ्जीतेत्यनुवा केन समावाह्य जनान्दनम्।
गधामुदीरये देनां कर्मान्ते देशिकोत्तमः ॥ 29.9 ॥
निशातनखदम्भोलि दलितासुरवक्षसे।
दर्शिताश्रितवात्सल्य नृसिंहवपुषे नमः॥ 29.10 ॥
- वामनः*
युञ्जन्तीत्यनुवा केन स्थापयित्वा च वामनम्।
तस्मिन्ना वाह्य देवेशमुपतिष्ठेत देशिकः॥ 29.11 ॥
6 बलिद्विषे नमस्तुभ्यं 7 यज्ञरूपाय वेधसे।
वामनाय महामाया वञ्चिताशेष 8 मानव॥ 29.12 ॥
- जामदग्न्यः*
जामदग्न्यं नृनूक्तेन स्थापयित्वाजनार्दनम्।
गाधयाचोपतिष्ठेत प्राञ्जलिः 9 प्रणतः स्थितः॥ 2.13 ॥
त्रिस्सप्तकृत्वः क्षत्राणां निहन्त्रे तिग्मतेजसे।
नमस्तुभ्यं भववते परश्वथविधारिणे॥ 2.14 ॥
- श्री रामः*
रामं च सह वैदेह्या सहितं लक्ष्मणादिभिः।
स्थापयेत्कालभेदेन यद्वा स्थापनमाचरेत्॥ 2.15 ॥
रां पुरुषसूक्तेन स्थापयित्वा यथाविधि।
गधया चोपतिष्ठेत रामं रघुकुलोद्भनम्॥ 29.16 ॥
नमस्तुभ्यं भगवते राघुवाय महात्मने।
रावणादि जगद्वैरि निबर्हण महोजसे॥ 29.17 ॥
राममूर्तं प्रतिष्ठाप्य परिवारात्मना ततः।
10 वाय्वादि देवतनयान् हनूमत्प्रमुखान् पुनः॥ 29.18 ॥
तत्तद्देवं 11 समभ्यर्च्य स्थापयेत्तद्वदेव तान्।
विभीषणं गुहं चैव 12 पृथगेव हि देवताः॥ 29.19 ॥
स्थापयेद्विश्वमन्त्रेण रामप्रीतिक रापुभौ।
भरतं कल्पयेत्प्राच्यां दक्षिणे जानकीं पुनः॥ 29.20 ॥
प्रतीच्यां जाम्बवन्तं च उत्तरे लक्ष्मणं तथा।
सुग्रीवं चाग्निकोणे नैऋत्यां तु विभीषणम्॥ 29.21 ॥
वायव्ये तु नलं न्यस्येदैशान्ये शत्रुमर्दनम्।
13 वसिष्ठाद्यृषिमुख्यानां द्वितीयावरणे स्थितिः॥ 29.22 ॥
तृतीयावरणे पश्चाल्लोकपालान् प्रकल्पयेत्।
स्थाने खगादि राजस्य हनूमन्तं प्रकल्पयेत्॥ 29.23 ॥
विष्वक्सेनपदे नीलं गुहं वा तत्र कल्पयेत्।
राघवस्यार्चनायां तु विशेषोऽयं प्रकीर्ततः॥ 29.24 ॥
खगेशं मारुतिं वाऽपि लिखित्वा ध्वजमुद्धरेत्।
उत्सवे तु विशेषोऽयमीरितः कमलासन॥ 29.25 ॥
- बलरामः*
रामस्य रौहिणेयस्य प्रतिष्ठा च यथापुरम्।
उपस्थाने विशेषोऽस्ति श्रूयतां स च कथ्यते॥ 29.26 ॥
बलिने बलभद्राय 14 हलस्फुरित बाहवे।
तुभ्यं 15 मालेव महती भूमिर्येन सिरोद्धृता॥ 29.27 ॥
श्री कृष्णः
वसुदेवसुतस्यापि स्थापनं वासुदेववत्।
वृष्णिवर्याय कृष्णाय नमस्तुभ्यं मधुद्विषे॥ 29.28 ॥
भूभारभूतकं सादि महासुरनिघातिने।
सत्यभामादि देवीनां स्थापनोद्वाहनादिकम्॥ 29.29 ॥
श्रीभूम्योरिव कर्तव्यं विशेषोऽस्ति न कश्चन।
- कल्किः*
कल्किविष्णु प्रतिष्ठापि यथापुरमुदीरिता॥ 29.30 ॥
उपतिष्ठेत कर्मान्ते गाधया स्तुतिरूपया।
म्लेच्छानामपि संहर्त्रे साधूनां स्थितिहेतवे॥ 29.31 ॥
नमस्तुभ्यं भगवते भूसुरान्वय जन्मने।
मीनादिमूर्तीनां षोडशन्यास निषेधः
नेष्यते षोडशन्यासो मीनादि दशमूर्तिषु॥ 29.32 ॥
शिलामयादि मूर्तीनां 16 वर्णैश्चित्रविधिर्यदि।
जलाधिवासनाद्युक्तं कृत्वा सर्वमशेषतः॥ 29.33 ॥
निर्मिते 17 चित्र करणे कुर्यादावाहनादिकम्।
ध्रुवबिम्बस्थितेः पश्चात्कर्माद्यर्चास्थितिर्यदि॥ 29.34 ॥
सिद्धान्तभेदबिम्भानां पृथक्छयनमिष्यते।
अभेदे वेदिकाशय्या सहैव स्याच्चतुर्मुख॥ 29.35 ॥
नेष्यते षोडशन्यासो लोहजे जङ्गमे पुनः।
आवाहनं मूलबेरा 18 त्कर्माद्यर्चासु कल्पयेत्॥ 29.36 ॥
शयनोत्थानबिम्बं च बलिबिम्बं च दक्षिणे।
लौकिकं लोहजं बिम्बं स्थापयेदिष्टभूमिषु॥ 29.38 ॥
यद्वो 19 द्वहनबिम्बानि स्थापयेद्द्वारपार्शयोः।
मण्टपे वाऽभिषेकार्थे दक्षिणाभिमुखानि च॥ 29.39 ॥
जलाधिवासने साक्षादयोग्यानां चतुर्मुख।
चित्राभासार्ध चित्रादि प्रतिमानां यथायथम्॥ 29.40 ॥
छायाधिवासनं कुर्यात् स्नानं चादर्शमण्डले।
वेद्यां शयन 20 मन्येषां कूर्चद्वारेण कल्पयेत्॥ 29.41 ॥
अवशिष्टं यथापूर्वं सकलं परिकल्पयेत्।
नेष्यते षोडशन्यासश्चतुर्थस्नपनं तथा॥ 29.42 ॥
- वटपत्रशायी*
मायामय महावृक्षन्यग्रोध दलशायिनः।
देवस्य स्थापनविधौ विशेषः कथ्यतेऽधुना॥ 29.43 ॥
21 गर्भोदवसितद्वारि लिखित्वोपरि वारिधिम्।
तत्र न्यग्रोधवृक्षस्य दले कोमलरूपिणम्॥ 29.44 ॥
शयानं बालवपुषं श्यामलं कमलेक्षणम्।
मार्कण्डेयं महीं देवीं कारयेत्पादपार्शयोः॥ 29.45 ॥
एवं विलिखिते बाले बालपर्यङ्मशायिनि।
चित्राभासोक्तविधिना स्थापयेद्गुरुरात्मवान्॥ 29.46 ॥
देवेन देव्यौ 22 युगप त्प्रतिष्टायां यथापुरम्।
सहैव शयनं वेद्यां कालभेदे तु तत्पृथक्॥ 29.47 ॥
- कुण्डभेदाः*
कुण्डं सरसिजाकारं प्राच्यां चापं तु दक्षिणे।
वृत्तां तु पश्चिमे भागे योऽन्याकार 23 मुदक्तथा॥ 29.48 ॥
कुण्डे विशेषः कथितस्स्नपनं च तयोः पुनः।
- श्री यादयः*
श्रीसूक्तेन श्रियं देवीं भूसूक्तेन भुवं तथा॥ 29.49 ॥
स्नापयेदर्चनं चापि तयोस्ताभ्यां च शाययेत्।
प्रागादि तोरणे पूज्या बलाकि न्यधिदेवता॥ 29.50 ॥
24 नवमालालिन्यथो तत्र समाराध्य विभीषिकाम्।
शाङ्करी देवता पश्चाद्द्वारकुम्भेष्वनुक्रमात्॥ 29.51 ॥
देवताद्वन्द्वयजनं 25 प्रतिष्ठादीन् समर्चयेत्।
प्रथमं तदनु श्रद्धां कान्तिं च तदनन्तरम्॥ 29.52 ॥
26क्रियां सृष्टिं च पश्चात्तु क्षमां वृद्धिं च देवताम्।
प्राच्यादिषु पताकासु देवाताद्वन्द्वमर्चयेत्॥ 29.53 ॥
27 धृतिं च लज्जां च पुरो जयां मायाद्वयं ततः।
सावित्रीं च क्षमां च द्वे 28 शुद्धां श्रिद्धामनन्तरम्॥ 29.54 ॥
लक्ष्मीस्सरस्वती चैव पुष्टिस्तुष्टिश्च शक्तयः।
प्रागादि हौमकुण्डेषु होतव्याः प्रोक्तवर्त्मना॥ 29.55 ॥
वागीश्वरी 29 क्रिया कीर्तर्लक्ष्मीः सृष्टिस्तथैव च।
प्रह्वी सत्या तथा ब्राह्मी यष्टव्याः कलशेष्विमाः॥ 29.56 ॥
महाकुम्भे श्रियां देवीं यजेत कमलासन।
षोडशन्यासरहितं शेषं प्राग्वत्समाचरेत्॥ 29.57 ॥
अस्वाततन्त्ये विधिर्ह्येष सातन्त्ये त्वभिधीयते।
ग्रामे वा वगरे वापि पट्टणे वाऽऽलयेऽपि वा॥ 29.58 ॥
श्रियः स्थानं विधातव्यं ग्रामाद्यभिमुखं यथा।
पुष्ठिं पुष्ठिं च सावित्रीं वाग्देवीं च चतुर्मुख॥ 29.59 ॥
विमानस्य चतुर्दिषु दिङ्गूर्तीः परिकल्पयेत्।
कोणेषु वैनतेयं वा सिंहं वाऽपि यथारुचि॥ 29.60 ॥
दिव्ये भागेऽथ वा ब्रह्मे ऽ30प्रतिच्छायां शिलादिभिः।
स्थापयेत्परिवारांश्च द्वारपार्वे यथाक्रमम्॥ 29.61 ॥
चण्डीं चैव प्रचण्डीं च प्रथमद्वारपार्श्वयाः।
ततोऽर्धमण्डपद्वारे दक्षिणे च बलाकिनीम्॥ 29.62 ॥
वनमालामुदीचीने गोपुरे प्रथमे पुनः।
विभीषिकां शाङ्करीं च दक्षिणोत्तरपार्श्वयोः॥ 29.63 ॥
द्वितीये गोपुरद्वारे शङ्खपद्मनिधी उभे।
शृतीये गोपुरद्वारे नलकूबलजृम्भलौ॥ 29.64 ॥
चतुर्थे गोपुरद्वारे दक्षिणे शिबिकुण्डलौ।
उत्तरे माणिभद्रं च कल्पयेत्कमलासन॥ 29.65 ॥
जया च विजया चैव पश्चिमद्वारपालिके।
सुमुखीं स्थापयेद्विष्वक्सेनस्थाने चतुर्भुजाम्॥ 29.66 ॥
वेत्रहस्तां दक्षिणेन तर्जनीं चाऽपि कुर्वतीम्।
अपराभ्यां धारयन्तीं पद्मं पीतनिभं तथा॥ 29.67 ॥
स्थापयेद्वैनतेयं च प्रासादमुखमण्डपे।
आदिमूर्तेरिव भवेत्फरिवा प्रकल्पनम्॥ 29.68 ॥
अन्यासामपि देवीनां स्वातन्त्र्ये विधिरीदृशः।
चतुर्धस्नपनं कुर्यादुत्सवं चाऽपि देववत्॥ 29.69 ॥
देवीनां च श्रियादीनामित्थं यः स्थापको नरः।
सर्वान् कामानवाप्नोति परत्रे ह च मोदते॥ 29.70 ॥
इति श्रीपाञ्चरात्रे महोपरिषदि पाद्मसंहितायां
क्रियापादे मीनादि प्रतिष्ठाविधिर्नाम
एकोनत्रिंशोऽध्यायः
-
उपतिष्ठेति ↩︎
-
धारिणे मन्द ↩︎
-
यज्ञदेहाय ↩︎
-
शेषाधरणी, शेषधरणेः ↩︎
-
युञ्जन्तीत्य ↩︎
-
बलिद्वेषिन् ↩︎
-
परित्रातवलद्विषे ↩︎
-
वाङ्मनः ↩︎
-
प्रणमन् ↩︎
-
यद्वादिदेव ↩︎
-
समावाह्य ↩︎
-
वृधग्युगपदेव वा ↩︎
-
वसिष्ठ प्रमुखास्सर्वे द्वितीयावरणे स्थिताः वसिष्ठमृषि मुख्यानां ↩︎
-
नमश्शेषमहामते ↩︎
-
मातेव महती धरा येन शिरोधृता ↩︎
-
लावण्यैश्च ↩︎
-
करणे कुर्यादावाहनमथोदितम् ↩︎
-
त्कर्मार्चासु नकल्पयेत् ↩︎
-
त्सर्वार्थं ↩︎
-
मप्येषाम् ↩︎
-
गर्भदेशस्य तद्वारि ↩︎
-
विधिवत् ↩︎
-
मुदग्दिशि ↩︎
-
वनमालादि देवान् तान् समाराध्या भिषेकिकान् ↩︎
-
ज्येष्ठादेव्योः ↩︎
-
क्रियां शक्तिं च पश्चात्तु क्षमामूर्ति जयां तथा ↩︎
-
सृष्टिं ↩︎
-
श्रिद्धां विद्या ↩︎
-
क्रियाशक्तिः ↩︎
-
प्रतिष्ठायां ↩︎