पाद्मसंहितायाम्
अष्टाविंशोऽध्यायः
- प्रतिष्ठाविधिः*
श्रीभगवान्—
ततः प्रभाते विमले दृष्टे च रविमण्ढले।
पुण्ये मुमूर्ते पुण्यर्क्षे पुण्यवारे तथा तिधौ ॥ 28.1 ॥
कल्याणदर्शने रात्रावारभेताविचारयन्।
प्रतिष्ठां देव देवस्य दुस्स्वप्ने शान्तिमाचरेत् ॥ 28.2 ॥
एक बेरे वास्तुहोमं कुर्याद्द्वारस्य दक्षिणे।
पार्श्वे च स्थण्डिलं कृत्वा प्रविशेद्गर्भमन्दिरम् ॥ 28.3 ॥
तन्मध्ये चतुरश्रां वा वृत्तां 1 वा तच्छिलां क्षिपेत्।
हस्तमात्रायतां शुद्धां तावद्वस्तारसंयुताम् ॥ 28.4 ॥
चतुरावरणां निम्नां गायत्र्या विष्णुपूर्वया।
तयैव वास्तुहोमाग्नौ चरुसर्पिस्समिच्छतैः ॥ 28.5 ॥
जुहुयाद्रत्न विन्याससिध्यर्थं देशिकोत्तमः।
प्रधमावर्णे बीजनष्टौ गर्तेषु निक्षिपेत् ॥ 28.6 ॥
यवाश्च व्रीहयश्चैव निष्पावाश्च प्रियङ्गवः।
तिलाश्च माषाश्च तथा नीवाराश्शालयत्तथा ॥ 28.7 ॥
वज्रादीनि च रत्नानि द्वितीयवर्णे तथा।
वज्रं च मौक्तिकं चैव वैडूर्यं जलजं तथा ॥ 28.8 ॥
स्फटिकं 2 पुष्यकं चैव चन्द्रकान्तं तथा परम्।
इन्द्रनीलं च पूर्वादि 3 ष्वाशासु विनिवेषयेत् ॥ 28.9 ॥
धातून् तुतीयावणे तथैव विनिवेशयेत्।
मनश्शिलां हरीतालमञ्जनं तदनन्तरम् ॥ 28.10 ॥
श्यामं च सीसकं चैव सौ राष्ट्रं रो चनं तथा।
गैरिकं चाष्टकं लोहान् चतुर्थावर्णे पुनः ॥ 28.11 ॥
4 गर्तेषु निक्षिपेत्स्वर्णं रूप्यं ताम्रं तथैव च।
अयश्च त्रपुकं चैव मूर्मं कनकनिर्मितम् ॥ 28.12 ॥
शङ्खं चक्रं च सौवर्णं लोहन्यासोऽयमीरितः।
शालिभीजं पारदं च ब्रह्मरागं च काञ्चनम् ॥ 28.13 ॥
मध्ये न्यस्ये द्गर्तभागे ततस्त्रिशिलया दृढम्।
श्रीसूकैन पिथातव्यं सुधया दार्ढ्यमाचरेत् ॥ 28.14 ॥
पुण्याहं वाचयेत्पश्चाद्वैष्णवैर्मन्त्रवित्तमैः।
स्त्रीशिला पद्ममध्येतु प्रणवस्यसनं भवेत् ॥ 28.15 ॥
कर्णिकायां स्वरन्न्यासं व्यञ्जनन्यसनं दले।
दलेषु शक्तयश्चाष्टौ नवमी कर्णिका 5 भुवि ॥ 28.16 ॥
- विमलादि शक्तयः*
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः।
प्रह्वी सत्या तथेशानाऽनुग्रहा नवमीस्मृता ॥ 28.17 ॥
- पिण्डिकापूजनम्*
पिण्डिकां 6 पूजयेत्पश्छाद्गन्धपुष्पादिभिः क्रमात्।
अहतैश्चैव वासोभिर्लक्ष्मीरूपां च पिण्डिकाम्॥ 28.18 ॥
प्रच्छाद्य द्वारि चास्त्रस्य न्यासं कृत्वा बहिर्गुरुः।
निर्गत्यशय्या 7 वेद्यर्थं पूजयेद्रत्नवारिणा॥ 28.19 ॥
8 ध्वजतोरणकुम्भस्था देवता विसृजेत्ततः।
आरोप्य चाग्निं हृदये महाकुम्भं समुद्धरेत्॥ 28.20 ॥
मूर्तिकुम्भांस्तथा चाष्टौ मङ्गलान्यस्त्रकर्करीम्।
गृहीत्वा मूर्तिपास्सर्वे गच्छेयुर्मन्दिरं प्रति॥ 28.21 ॥
गनन्तीनिर्गल द्वारि धारया सन्ततोत्थया।
अग्रतस्सेचयेन्मार्गं ब्राह्मणानामनुज्ञया॥ 28.22 ॥
देवमुत्थाप्य 9 हस्त्यादौ प्रादक्षिण्येन मन्दिरम्।
10 आचार्यप्रमुखास्सर्वे विशेयुर्मूर्तिपा स्तथा॥ 28.23 ॥
छत्रध्वजपता काद्यैर्मङ्गलै 11 रखिलैस्सह।
तूर्यवादित्रनिर्घोषैर्ब्रह्मघोषैश्चच घोषितैः॥ 28.24 ॥
ब्राह्मणैश्चाप्यनूचानैरधीयानैश्च मूर्तपैः।
सार्धं गुरुस्स्पृशन्यासं 12 प्रविशेन्मूलमन्द्रिरम्॥ 28.25 ॥
अर्घ्यपाद्यादिभिर्देवमर्च येद्द्वारि देशिकः।
अन्तः प्रवेशयेद्देवं 13 पीठिकां च प्रदक्षिणम्॥ 28.26 ॥
गत्वा मूहुर्ते सम्प्राप्ते स्थापये 14 द्विष्णु मव्ययम्।
15 प्रतिष्ठासीति वैसाम्ना देशिको ब्रह्मण्तेस्सह॥ 28.27 ॥
आत्वाहार्षमिष्येतत्तूक्तं च सहमूर्तिपाः।
ध्रुवा द्यौरिति मन्त्रेण पठेयुर्गुर्वनुज्ञया॥ 28.28 ॥
आचार्यः पुरतः स्थित्वा सर्वेण स्थापयेद्धरिम्।
पीठमध्यगते गर्ते बिम्बशङ्गुं निवेशयते॥ 28.29 ॥
ऊर्ध्वलम्बितसूत्रेण पश्वेच्च समतां स्थितेः।
16 पीठिका नालरन्द्रं च अष्टबन्देन पूरयेत्॥ 28.30 ॥
- अष्टबन्धन द्रव्याणि *
17 लाक्षा सज्जरसं चैव गुग्गुलं च गुळं तथा।
सर्वेषामर्धतस्तैलं पाचयेन्मृदुवह्निना॥ 28.31 ॥
लाक्षासज्जरसं सिक्थिं कुरुविन्दं च गुग्गुलुम्।
गैरिकं गुडतैलं च अष्टबन्धन मिष्यते॥ इति च पाठः।.
घनचूर्णं मधूच्छिष्टं कुरुविन्दं च गैरिकम्।
एकैकं च समां शेन ग्रह्यं सज्जरसं तथा॥ 28.32 ॥
तैलेन पाचितं सार्धमष्टबन्धन मिष्यते।
18 स्थापयित्वादृढं तेन पुण्याहमपि वाचयेत्॥ 28.33 ॥
- अवाहनम्*
आवहयेत्ततो देवं तमसः परमव्ययम्।
आनन्दं सर्वगं नित्यं व्योमातीतं परात्परम्॥ 28.34 ॥
परीचि चक्रमध्यस्थं वासु देवमजं विभुम्।
मूलमन्द्रेण विश्वेशमावाह्य गुरुरात्मवान्॥ 28.35 ॥
ब्रह्मरन्द्धेण बिम्बान्तः प्रविष्टं परिचिन्तयेत्।
कुम्भस्थं परमात्मानं प्रतिमायां निवेशयेत्॥ 28.36 ॥
मन्त्रन्न्यासं ततः कुर्यान्मूलमन्त्रेण देशिकः।
या चेत देवं सान्निध्यं परिवारान् प्रकल्पयेत्॥ 28.37 ॥
समाराध्य ततो देवं पायसान्नं निवेदयेत्।
- त्र्यहं कवाटबन्धन कारमम्.*
प्रच्छाद्य नूतनैर्वस्त्रैः प्रतिमां कम्बळेन वा॥ 28.38 ॥
त्रियहं बन्धयेद्द्वारं कवाटेन सुसंवृतम्।
देवर्षिपितरस्सिद्धा 19 स्तधान्ये देवयोनयः॥ 28.39 ॥
अर्चन्ति देवं त्रियहं त्रिरात्रान्ते तु मानवाः।
ब्राह्मणां स्तोयेद्वित्तैर्भोजनैश्च गवादिभिः॥ 28.40 ॥
चतुर्थेऽहनि सम्प्राप्ते स्नपनं प्रातरिष्यते।
तद्दिने ध्वजमुत्थाप्य प्ररभेत महोत्सवम्॥ 28.41 ॥
एकबेरे विधिरियं कथितः कमालसन।
- बहुबेरविधिः*
बहुबेरविधानं चेत्कर्माद्यर्चां समुद्धरेत्॥ 28.42 ॥
महाकुम्भं च तत्ताले मङ्गलान्यष्ट देशिकः।
ऋत्विग्भिस्सह विद्वद्भिर्भक्तैर्भागवतैरपि॥ 28.43 ॥
उद्धृत्य चास्त्रकरकमग्रे गच्छेद्गुरुस्स्वयम्।
अनुधारापदेनैव देवागारं प्रवेशयेत्॥ 28.44 ॥
प्रतिमाऽचार्ययोः कश्चिन्नगच्छेदन्तरा पथि।
द्वारदेशे तु सम्प्रापै दद्यात्पाद्यं च 20 कौतुके॥ 28.45 ॥
कर्मार्चादीनां स्थाननिर्देशः
कर्मार्चामर्चनापीठे नृसूक्तेन निवेशयेत्।
21 उत्सवाद्यर्थबिम्भानि पार्श्वयोर्विनिवेशयेत्॥ 28.46 ॥
22 कर्मार्चां स्थापयेद्ब्राह्मे वामे तु मुखकौतुकम्।
तीर्धं स्नपनबिम्बं वा उत्तरे स्थापयेद्गुरुः॥ 28.47 ॥
शयनोत्थानबिम्बं च बलिबिम्बं च दक्षिणे।
लौहिकीं लोहजं बिम्बं स्थापयेदिष्टभुमिषु॥ 28.48 ॥
धारावशिष्टं यत्तोयं 23 तच्छरावे विनिक्षिपेत्।
शलाकामात्रया चैव धारयाऽ24 छ्छिद्रया पुनः॥ 28.49 ॥
परितः परिपेकं च विदध्यान्मूलविद्यया।
धान्यराशिषु कुम्भं श्च विन्यस्यावाहयेद्धरिम्॥ 28.50 ॥
आवहनं मूलबेरात्कर्माद्यर्चासु कल्पयेत्।
मुहूर्ते शोभने प्रापै देशिकः कमलासन॥ 29.51 ॥
पुरतो मूलभेरस्य बद्धपद्मासन 25 स्थितः।
प्राणानायम्य शुद्धात्मा ध्यायेद्ब्रह्म सनातनम्॥ 29.52 ॥
- ध्यानप्रकारः*
वासुदेवमजं शान्तमुज्वलं सन्ततोदितम्।
अनादिमध्यनिधन मेकं चलं स्थिरम्॥ 29.53 ॥
चिद्घनं परमानन्दं तमसः परमव्ययम्।
ज्ञानशक्तिबलैश्वर्य वीर्यतेजस्समन्वितम्॥ 29.54 ॥
अपादपाणिमस्पृश्यम चक्षु श्श्रवणादिकम्।
नर्वत्र करवाक्पादं सर्वतोक्षिशिरोमुखम्॥ 29.55 ॥
गतागतविनिर्मुक्तं रविकोटिसमप्रभम्।
चैतन्यं सर्वगं नित्यं 26 व्योमातीतं तदद्भुतम्॥ 29.56 ॥
तत्सामान्यं जगत्यस्मिम्माल 27 मन्त्रात्मकं परम्।
एवं विधं सदाविष्णुमाह्लादं प्रणवात्मकम्॥ 28.57 ॥
तं नियुज्य 28 महाविष्णुं मतं विष्णौ निवेशयेत्।
विष्णुं च हृदये पद्मे समावाह्यार्चयेत्क्रमात्॥ 28.58 ॥
समावाह्य 29 श्रिया पश्चान्मन्त्रेण पुरुषात्मना।
अञ्जलिस्थे ततः पीठे ध्यायेद्वाश्वात्मना गुरुः॥ 28.59 ॥
तेजोनिदानमध्येयं नारायणमजं विभुम्।
निवृत्तमन्त्र मुच्छार्य प्रतिमायां निवेशयेत्॥ 28.60 ॥
ब्रह्मरन्ध्रेण मार्गेण प्रविष्टं प्रतिमाकृतौ।
व्याप्य स्थातं स्म रेत्सर्वं मन्त्रेण कमलासन॥ 28.61 ॥
- कुम्भगतशक्तीनां देवे योजनम्*
महाकुम्भगतां शक्ति देवेन सहयोजयेत्।
मूर्तिकुम्भगतांश्चापि तथा बाले च कौतुके॥ 28.62 ॥
या शक्तिस्तां च देवेन योजये 30त्फ्रतिमात्मना।
ब्रह्मरन्ध्रं च ता रेण पिदध्या 31 त्फतिमात्मनः॥ 28.63 ॥
आत्मनोऽभिमुखं कुर्यात्पुण्डरी काक्षविद्यया।
प्रणम्य किञ्चिदुत्थाय दर्शयेत्स्वागतं गुरुः॥ 28.64 ॥
- न्यासविभेदः*
मन्त्रन्न्यासं ततः कुर्यान्मूलमन्त्रेण देशिकः
स्थतिन्यासः स्थितौ कार्य स्सृष्टिन्यासस्तथासने॥ 28.65 ॥
शय्यायां संहृतिन्यासस्संहारशयनं यदि।
सृष्टिन्न्यासो भवेत्सृष्टिशयने कमलासन॥ 28.66 ॥
भोगे योगे च शयने स्थितिन्यासः प्रशस्यते।
विश्वरूपे स्थितिन्यासः यानारूढे त्रयं भवेत्॥ 28.67 ॥
स्थितिन्यासोऽधवा कार्यस्सर्वत्रैवासनादिषु।
श्रियादीनां च देवीनां ब्रह्मादीनां तथैव च॥ 28.68 ॥
महाकुम्भजलेनैव 32 प्रोक्षयेत्स्वस्वविद्यया।
33 सृष्टिश्च सर्गन्यसनं न्यासो रुद्रस्य संहृतिः॥ 28.69 ॥
श्रियादीनां तथा न्येषां षडङ्गन्यासमाच रेत्।
महाकुम्भं समुद्धृत्य देशिको मूर्तिपैस्सह॥ 28.70 ॥
प्रोक्षणं तज्जलैः कुर्याच्चण्डादेरपि तत् क्षणे।
बलीठे क्षिपैत्तोयमवशिष्टं गुरुस्स्वयम्॥ 28.71 ॥
महानसाग्निगुण्डे च 34 तथाधिश्रपणेषु च।
तथा च गार्जपत्याग्निं स्थापयेच्छास्त्रवर्त्मना॥ 28.72 ॥
- सान्निध्य प्रार्थना*
देवपार्श्वं समासाद्य दण्डवत्प्रणमेत् क्षितौ।
गाधायुदीरये देनां रचि ताञ्जलि सम्पुटः॥ 28.73 ॥
यजमानेन सहितः प्रह्वस्तिष्ठन् गुरुस्स्वयम्।
भक्तवत्सल भक्तानामभिप्रेतार्थसाधक॥ 28.74 ॥
प्रार्थये त्वामहं देव मदनुग्रह काम्यया।
सन्निधस्स्व चिरं स्थाने कल्पिते श्रद्धया मया॥ 28.75 ॥
प्रसीद देव देवेश पूजामपि गृहाण मे।
ग्रामस्य राज्ञो राष्ट्रस्य प्रजानामिन्दिरा 35 वर॥ 28.76 ॥
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।
इति निज्ञाप्य देवाय 36देशिकस्तन्त्रपारगः॥ 28.77 ॥
- यजमानेन भगवते सर्वस्य समर्पणम्*
मधुपर्कोपचारान्चे गुर्वनुज्ञापुरस्सरम्।
दद्याद्गोभूसुरर्णादि यथावित्तानु सारतः॥ 28.78 ॥
देवस्य दक्षिणे हस्ते तो यपूर्वं यथाविधि।
भक्तिनम्रेण शिरसा पूजोपकरणानि च॥ 28.79 ॥
आत्मानं पुत्रपौत्रादि दारान् हस्त्यादि वाहनम्।
दासीदासं च सर्वस्वं दद्याद्देवस्य पादयोः॥ 28.80 ॥
37 जीवाजीवधनैर्देवो दत्तैराराध्यते यथा।
यजमानेन सर्वस्वैर्बगवान् पुरुषोत्तमः॥ 28.81 ॥
तथा भागवतं सर्वैर्धनैराराधयेत्सदा।
स्थापको देवदेवस्य यः पूर्वो देशिकोत्तमः॥ 28.82 ॥
तेनैवाराधनं कार्यं तद्वंशैरपि निर्गुणैः।
पूजाप्रीतिकरी सैव देवस्य कमलासन॥ 28.83 ॥
वित्तानुसारतो विद्यान्कल्पयोद्धाम सम्पदम्।
अथवा विभवेनैव यजमानः प्रकल्पयेत्॥ 28.84 ॥
38 आदौ विभूतिविस्तारो यादृशः परिक्लपितः।
सङ्कोचमन्तरेणैव कुर्यात्तादृशसम्पदम्॥ 28.85 ॥
देव 39 भूत्यनुसा रेण रक्षेद्देवोपजीविनः।
न क्लेशयेद्भागवर्तान् तथैव परिचारकान्॥ 28.86 ॥
प्रतिष्ठान्ते च देवस्य 40 तूर्यैर्नानाविधैरपि।
घोषयेत्सर्वतो दिक्षु ब्रह्मघोषैश्च घोषयेत्॥ 28.87 ॥
नृत्तैर्गेयैश्च विविर्धैस्तौत्रैर्नानाविधैरपि।
तोषयेद्देव देवेशमुपचारैः वृथग्विधैः॥ 28.88 ॥
चतुर्विधं 41 तथा वान्नं निवेद्य विधिपूर्वकम्।
42 नित्याग्निं च प्रतिष्ठाप्य कुण्डे च चतुरश्रके॥ 28.89 ॥
हुत्याग्नौ समिधाज्यान्नैर्मूलेन प्रणवादिना।
पूर्णाहुतिं ततो हुत्वा तत्तदवरणेषु च॥ 28.90 ॥
बलिपीठानि संस्कृत्य प्रतिष्ठाप्य यथाक्रमम्।
43 तेषु नित्यं बलिं दद्याद्भूतानां च यथाक्रमम्॥ 28.91 ॥
- बहुबेर विधाने कवाटबन्धन निषेधः*
बहुबेरविधाने तु कवाटं न 44 च बन्धयेत्।
45 देवर्षिपितरस्सिद्धान्तुवाना देवयोनयः॥ 28.92 ॥
अर्चन्ति देवं त्रियहं त्रिरात्रान्ते तु मानवाः।
ब्राह्माणां स्तोषयेद्वित्तैर्भोजनैश्च गवादिभिः॥ 28.93 ॥
चतुर्थे दिवसे प्राप्ते स्नपनं परिकल्पयेत्।
उत्तमत्रितयेवापि मध्यमत्रितयेन वा॥ 28.94 ॥
कलशैस्स्नापयेद्देवं 46 चतुस्थानार्चनं भवेत्।
उत्सवं कारयेदन्ते ध्वजारोहणपूर्वकम्॥ 28.95 ॥
47 आचार्यं पूजयेत्तस्निन् प्रतिष्ठादिवसे प्रभुः।
सुवर्णकुसुमैर्वस्त्रेर्नूतनैरङ्गलीयकैः॥ 28.96 ॥
केयूरहारवलयैरुपवीतो त्तरीयकैः।
48 क्षेत्रारामगृहैर्वित्तैर्जीवाजीव धनैस्तथा॥ 28.97 ॥
49 दासीदासेन चतथा हस्त्यश्वशिभिकादिभिः।
50 एवं प्रकारैरन्यैश्च तोषयेद्गुरुमात्मवान्॥ 28.98 ॥
आत्मानं प्रत्र पौत्रांश्च देवे तद्वन्नि वेदयेत्।
मातृत्वेन पितृत्वेन बन्धुत्वेन गुरूत्तमम्॥ 28.99 ॥
कखात्मत्वेन सम्भाव्य प्रणम्य च पुनः पुनः।
सहस्रं धेनवो देयाः दक्षिणा गुरुवे तदा॥ 28.100 ॥
सहस्रनिष्कमथवा दक्षिणा चोत्तमोत्तमा।
तदर्धा मध्यमा ज्ञेया तदर्धा चाधमा मता॥ 28.101 ॥
51 अथवा दक्षिणा देया शतं हेम्नामनुत्तमम्।
52 दशनिष्कमशक्तर्स्तु 53 तदर्धं पादमेव वा॥ 28.102 ॥
यथावित्तानुसारेण दक्षिणा परिकीर्तिता।
कर्मणां कर्षणादीना मङ्गत्वेन यदहृतम्॥ 28.103 ॥
तदिष्टशिष्टं सकलं गुरो रेव धनं भवेत्।
ऋत्विजामपि सर्वेषां तथाम्नायेष्वधीतिनाम्॥ 28.104 ॥
ब्राह्मणानां च विदुषां भक्तानां पुरुषोत्तमे।
तथैकायननिष्ठानां द्विषट्कनियतात्मनाम्॥ 28.105 ॥
वासुदेवैकनिष्ठानां निषन्मार्गविदामपि।
यतीनां ब्रह्मचारीणां वनस्थाश्रमवासिनाम्॥ 28.106 ॥
अन्येषां विष्णुभक्तानामस्मिन्नर्थेनुयायिनाम्।
विष्ण्वर्क्षनिरतानां च सदस्यानां च दक्षिणा॥ 28.107 ॥
देया गोभूहिरण्यादि रूपा वित्तानुसारतः।
कालाज्ञानां तथा नृत्तगीतवाद्यादि कुर्वताम्॥ 28.108 ॥
यथार्हं वित्तवासोभिः कुर्यात्तृत्पिं यथेप्सितम्।
54गुरुः पात्रं समानीय हेमादिद्रव्यनिर्मितम्॥ 28.109 ॥
प्रक्षाळ्य विष्णुगायत्र्या धान्यराशौ स्वमन्त्रतः।
देवस्य पुरतः स्थाप्य पूरयेद्गन्धवारिणा॥ 28.110 ॥
अष्ठाक्ष रेणाभिमन्त्र्य 55 षडर्णेन द्विरष्टकम्।
प़ञ्चोपनिषदैर्मन्त्रैरावाह्यात्मगतं विभुम्॥ 28.111 ॥
प्रणवेन समभ्यर्च्य गन्धपुष्पाक्षतादिभिः।
ततः कर्तारमाहूय विशुद्धं देवसन्नि धौ॥ 28.112 ॥
तं देवाभिमुखं स्थाप्य प्रणतं विनयान्वितम्।
साधितार्घ्यजलात्तस्मात्सार्घ्यतो यम्प्रसूनकम्॥ 28.113 ॥
तस्य हस्ते प्रपूर्याथ इमां गाधामूदीरयेत्।
त्वया विना न मेकिञ्चिन्मां विनातवकस्तथा॥ 28.114 ॥
तस्मान्मा मात्मसात्कर्तुं प्रसीद परमेश्वर।
भूमौ स्खलितपादानां भूमि रेवावलम्बनम्॥ 28.115 ॥
56 त्वय्येव प्रतिपन्नानां त्वमेव शरणं विभो।
इति विज्ञाप्य देवेशमाचार्य स्स्वस्थमानसः॥ 28.116 ॥
द्वादशाक्षरमुच्चार्य भगवत्पादपङ्कजे।
निवेद्य कर्तुरात्मानं सार्घ्य पुष्प पुरस्सरम्॥ 28.117 ॥
त्रिकृत्वः प्रण मेद्देवं निवेद्यात्मानमव्यये।
स तेनानुगृहीतस्सन् संयायाद्गुरुणा बहिः॥ 28.118 ॥
- गुरुपूजा*
नमस्कृत्वा गुरुं देवं कृतकृत्येन चेतसा।
तं गुरुं यानमारोप्य तुर्य घोषपुरस्सरम्॥ 28.119 ॥
नीत्वा प्रदक्षिणं ग्रमं स्वगृहे सन्निवेशयेत्।
- देवप्रतिष्ठायाः फलम्*
य इत्थं स्थापनं कुर्याद्धेव देवस्य शार्ङ्गिणः॥ 29.120 ॥
स याति 57 परमं स्थानमक्षयं कमलासन।
पुनाति वंशजांश्चैव पुरुषानेकविंशतिम्॥ 29.121 ॥
निष्कामा ये तु सदने पुरुषाः पुरुषोत्तमम्।
स्थापयन्नि फलं तेषामपुनर्भ वलक्षणम्॥ 29.122 ॥
सकामानां तु मर्त्यानां 58 पुनरावृत्तिलक्षणम्।
स्वर्गादि तत्तद्भोक्तव्यमारम्भे 59 तत्तदिष्यते॥ 29.123 ॥
ब्रह्महत्यादि पापानामन्येषां निष्कृतिर्मता।
उपकुर्वन्ति ये मर्त्याः वाङ्मनः कायकर्मभिः॥ 28.124 ॥
आवृत्तिलक्षणं तेषां फलं स्वर्गादिरिष्यते।
60 श्रियादीनां च देवीनां देवेन सह कल्पने॥ 28.125 ॥
नोद्वाहकर्म कर्तव्यं पृथक् चेत् स्थापनं तयोः।
उद्वाहकर्म शास्त्रोक्तं कुर्यादङ्गुरपूर्वकम्॥ 28.126 ॥
भक्तिशक्तिवशाद्देवं यथावित्तानुसारतः।
यथा च स्थापना भक्तैस्सास्मृता नुग्रहा इति॥ 28.127 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिष्ठाविधिर्नाम अष्टाविंशोऽध्यायः।
-
वाथ शलां ↩︎
-
पुष्यरागं च ↩︎
-
दिक्ष्वष्टसु निवेशयेत्। ↩︎
-
निघ्नेषु ↩︎
-
मपि ↩︎
-
पूरयेत् ↩︎
-
वेदिस्थं पूजयेद्यत्नवान् हरिम्॥ द्वारर्ष ↩︎
-
द्वारतोरण ↩︎
-
हस्तादौ ↩︎
-
आचार्यः प्राङ्मुखाः ↩︎
-
र्विविथैस्सह ↩︎
-
प्रविशेद्गर्भ मन्दिरम् ↩︎
-
पिण्डिकां ↩︎
-
द्देवमव्ययम् ↩︎
-
प्रतिष्ठितोऽसीति ↩︎
-
पिण्टिका. ↩︎
-
श्लक्ष्णपाषाण चूर्णं च कुरुविन्दं च माक्षिकम्। तैलेन पाचितम् इत्यादि ↩︎
-
पाचयित्वापृथक्. ↩︎
-
स्तुवाना ↩︎
-
पादुके॥ कर्मार्चनादिपीठेषु ↩︎
-
उत्सवस्याङ्ग ↩︎
-
“कर्मार्चां” इति श्लोकद्वयं केषु चिन्नदृश्यते ↩︎
-
तच्छरावेषु ↩︎
-
ऽच्छिन्नया ↩︎
-
स्थिरः ↩︎
-
व्योमातीं परात्परम् ↩︎
-
मष्टाक्षरम्. मन्त्राक्षरम् ↩︎
-
महाविष्णौ तं विष्णुम्—-तद्विष्णौ विनियोजयेत् इति च पाठः ↩︎
-
धिया ↩︎
-
त्परमात्मनाः ↩︎
-
त्परमात्मनः ↩︎
-
प्रोक्षणम् ↩︎
-
विधेश्च ↩︎
-
तथाधिश्रयणेषु ↩︎
-
वह ↩︎
-
वासु देवाय देशिकः ↩︎
-
जीवयन्दर्शर्य देवो। ↩︎
-
य आदौभूति विस्तारः ↩︎
-
भूम्यनु ↩︎
-
नानाविधरवैरपि ↩︎
-
निवेद्यान्नं ↩︎
-
“नित्याग्नि” “भूतानां च यथाक्रमम्” इत्यन्तं बहुषुन ↩︎
-
हुत्वाचानैः ↩︎
-
विमोचयेत् ↩︎
-
“देवर्षि”—–इत्यादि “स्नपनं परिकल्पयेत्” इत्यन्तं अस्मिन्नेवाध्याये 39 कमपद्यानन्तरं निरूपितं दृश्यते अत्र पुनः निरूपितं एतच्चकेषु चिदेव दृश्यते ↩︎
-
चतुस्थ्सानगतं यजेत् ↩︎
-
आचार्यः पूजयेत्तस्मिन् प्रतिष्ठादिवसे प्रभुम्॥ ↩︎
-
क्षेत्रग्राम ↩︎
-
दासीदासादिभिश्चैव ↩︎
-
“आत्माना” इत्यादि पद्यद्वयं क्वचिन्न ↩︎
-
“अथवा” इत्यार्धं क्वचिन्नस्ति ↩︎
-
शतनिष्क ↩︎
-
तदर्धं वार्धमेववा ↩︎
-
" गुरुः" इत्यादि " कृत्येन चेतसा" इत्यन्तं क्वचिन्न ↩︎
-
द्विषडर्णेन मन्त्रकम् ↩︎
-
त्वयिविप्रतिपन्नानां ↩︎
-
ब्रह्मणः ↩︎
-
फलमावृत्तिलक्षणम् ↩︎
-
यद्यदि ↩︎
-
श्रियादिषु च देवीषु देवी च परिकल्प्यते। उद्वाहकर्म शास्त्रोक्तं कुर्यादङ्कुरपूर्वकम्॥ भक्ति. ↩︎