पाद्मसंहितायाम्.
सप्तविंशोऽध्यायः
श्रीभगवान्—-
- प्रतिष्ठाविधिशेषः*
प्रतिमामधिवास्येवमप्सु पूर्वोक्त वर्त्मना।
अपरेद्युः प्रभातायां शर्वर्यां मण्टपादिके॥ 27.1 ॥
शेधिते रथकारेण शोभिते च यथातथम्।
तोषिते रथकारे तु मनः प्रह्मादनैर्धनैः॥ 27.2 ॥
आचार्यो 1 मूर्ति पाश्चैव कृतकृत्या जितेन्द्रियाः।
सवाम्बरधरास्सर्वे धृतफञ्चाङ्ग भूषणाः॥ 27.3 ॥
गन्धमाल्यधरा भद्रास्सोत्तरीय 2 परिच्चदाः।
धृतोर्ध्वपूण्ड्ररचनास्सोष्णीषा मृष्टकुण्डलाः॥ 27.4 ॥
आदिष्टा यजमानेन जीवाजीवात्मकैर्धनैः।
- वास्तुपुरुषनिरूपणम्*
वास्तुहोमं प्रकुर्वीरन् कर्म दैवं यथाभवेत्॥ 27.5 ॥
वास्तु र्नाम चतुर्वक्त्रभार्गव स्स्वेदसम्भवः।
अभ्यद्रवत्सुरान् हन्तुमात्मनो बलदर्पितः॥ 27.6 ॥
सदेवैस्ताडितस्तूर्ण मपितद्भूवि विह्वालः।
विस्तस्ताङ्गस्स च प्राणान् धारयत्येव वास्तुकः॥ 27.7 ॥
3 अधोमुखं प्राक्छिरसं विन्यसेद्वास्तुपूरुषम्।
4 प्रसार्य पाणिपादौ द्वौ कोणभूमिप्रकल्पितौ॥ 27.8 ॥
तमर्चयेत्प्रयत्नेन कर्म दैवं यथा भवेत्।
अनर्चिते वास्तुदेवे कृतं कर्मासुरं भवेत्॥ 27.9 ॥
मण्टपे दक्षिणे पार्श्वे वास्तुदेवं लिखेद्भुवि।
सप्तदर्भ 5 युतं कूर्चं कृत्वा तत्र विनिक्षिपेत्॥ 27.10 ॥
तत्रार्च येद्वास्तुनाथं गन्धपुष्पादिभिः क्रमात्।
वास्तुदेवस्य शिरसि पूजयेदंशुमालिनम्॥ 27.11 ॥
झुषध्वजं बाहुमूले कुमारं कूर्परे तथा।
हस्ते विनायकं पादयुगले चाश्विदेवते॥ 27.12 ॥
मध्ये चन्द्रं तथा वार्ष्ण्योः दुर्गां मातॄंश्चर्परे।
बाहुमूले तथा स्थाणुं हृदये मामवस्थितम्॥ 27.13 ॥
ब्रह्माणं नाभिदेशे च दिक्पालान् स्वासु दिक्षु च।
क्षेत्रेशमुत्तरे पार्श्वे वास्तु 6 देवस्य पूजयेत्॥ 27.14 ॥
पश्चिमे वास्तुनाथस्य देशे च जुहुयाद्गुरुः।
पञ्चोपनिषदा सर्पिस्सहस्रं शतमेव वा॥ 27.15 ॥
शम्यपामार्गखदिरसमिद्भिर्जुहुयात्ततः।
मूलमन्त्रेण तस्मन्त्रवर्णसङ्ख्याभिरात्मवान्॥ 27.16 ॥
चरुं पुरुषसू क्तेन जुहुयात् षोदशाहुतीः।
चरुणा वास्तुदेवानां जुहुयाच्च सकृत्सकृत्॥ 27.17 ॥
बलिं च दत्वा देवेभ्यो क्षेत्राधिपतये तथा।
कर्मारम्भे प्रतिष्ठायां मण्टपे सदने तथा॥ 27.18 ॥
वास्तुयाग क्रमः प्रोक्तस्सर्वत्र कमलासन।
मार्जनं गोमयालेवः प्रोक्षणं मण्टपे भवेत्॥ 27.19 ॥
सुधाचूर्णैरक्षतैश्च मण्डयित्वा भुवस्थलम्।
सिद्धार्थान् विकिरेद्दिक्षु अस्त्रमन्त्राभिमन्त्रितान्॥ 27.20 ॥
- सन्निध्यनर्हाः जनाः*
नास्तिकान् भिन्नमर्यादान् देवब्राह्मण 7 निन्दकान्।
पापरोगयुतान् मर्त्यान् नि न्दितान् पिशुनां स्तथा॥ 27.21 ॥
पाषण्डिनो हीनवृत्तीन् प्रतिलोमान् समत्सरान्।
लुद्भान्मूर्खानविदुषो बहिर्निर्वासये 8 त्तदा॥ 27.22 ॥
स्थूणांश्च मण्टपे तस्मिन् वासोभिर्वेष्टयेन्नवैः।
वितानयेच्छुभेर्वस्त्रैः पताकाभिश्च भूषयेत्॥ 27.23 ॥
मुक्तादामभिरन्यैश्च फलैः पुष्पैश्च 9 पल्लवैः।
परितो दर्भमालाभिर्मणिकाञ्चनभूषणैः॥ 27.24 ॥
शोभयेन्मण्टपं सर्वं यथावित्तानुसारतः।
खात्या द्वितालमवटं तोरणानि 10 चतुर्दिशं॥ 27.25 ॥
स्थापयेद्वारदेशेषु 11 पूर्वादिषु यथाक्रमम्।
अश्वत्थतोरणं प्राच्यां औदुम्बरमनन्तरम्॥ 27.26 ॥
नैय्यद्रोधं च पाश्चात्यं प्लाक्षं च तदनन्तरम्।
सर्तकैर्गायकैश्चैव वैणिकै र्वंशकैस्तथा॥ 27.27 ॥
वादित्रकुशलैश्चान्यैस्तथा वादविचक्षणैः।
12 शोभितं सर्वतोदिक्षुब्रह्मघोषैश्च नादितम्॥ 27.28 ॥
दीपैस्तथा 13 पालिकाभिस्साङ्कु राभिश्च सर्वतः।
चन्दनागरुर्पूर 14 धूपैः परिमलीकृतम्॥ 27.29 ॥
कृत्वैवं मण्टपं सम्यगपराह्णे गुरुस्स्वयम्।
उत्थाप्य बिम्बमुदकात्कुम्भं च कलशान पि॥ 27.30 ॥
15 उद्वास्य देवता 16 स्तस्मात्तद्बिम्बं तीरविष्टरे।
प्राङ्मुखं समवस्थाप्य वारिभः क्षालये 17त्तदा॥ 27.31 ॥
लोहजं चेद्विशुध्यर्थं तिन्त्रिणी फलवारिणा।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य मनोहरैः॥ 27. 32 ॥
यानमारोप्य तद्बिम्बं यथा 18 पूर्वमशेषतः।
कृत्वा मङ्गुलतुर्यादि गमयेद्यागमण्टपम्॥ 27.33 ॥
मण्टपस्योत्तरेभागे विष्टरे 19 विनिवेशयेत्।
आचर्यो मूर्तिपैस्सार्धं प्रविशेद्गर्भमन्द्रिरम्॥ 27.34 ॥
बहुबेरविधानं चेद्विधिरेष विधीयते।
प्राक्चाधिवासितं कूर्चं जलात्तस्मात्समुद्धरेत्॥ 27.35 ॥
बिम्बाच्चवस्त्राभरणमाल्यान्यपनयेद्गुरुः।
नयनोन्मीलनं कृत्वाध्रु वबेरस्य शास्त्रतः॥ 27.36 ॥
दर्शयेदष्टधान्यानि गाश्चकन्यास्सलक्षणाः।
उन्मीलनं श्रियादीनामेव शास्त्रोक्तवर्त्मना॥ 27.37 ॥
कलशैस्सप्तदशभिर्घृतादि द्रव्यसंयुतैः।
छायास्नपनमादर्शे सकूर्चे कल्पयेद्गुरुः॥ 27.38 ॥
पृथक्छ्रियाधि देवीनां स्नपनं नवभिर्घटैः।
ब्रह्मेशौ सप्तकलशैः ऋषीणामपि पञ्चभिः॥ 27.39 ॥
त्रिभिश्च देवतानां स्यादेकेन कलशेन वा।
नीराजना न्तैर्वस्त्राद्यैरुपचारैस्समर्चयेत्॥ 27.40 ॥
ध्रुवबेरस्य हृदये तस्य दीपमणि प्रभम्।
विन्यस्य मन्त्रमाचार्यो द्वादशाक्षरसञ्ज्ञितम्॥ 27.41 ॥
बिम्बमाच्छादयेद्वस्त्रैः कम्बलैर्वा समन्ततः।
एवं कुर्याच्छ्रि यादीनां ततो निर्गत्य मन्दिरात्॥ 27.42 ॥
मण्टपस्थां प्रतिकृतिं छादयेत्कम्बलादिभिः।
रैमयं राजतं वापि पात्रमाढकपूरितम्॥ 27.43 ॥
धान्यराशौ निधायाग्रे पूरयेत्तद्यथाक्रमम्।
मधुना सर्पिषा चैव पूरयेच्छादयेत्ततः॥ 27.44 ॥
वाससा परिशुद्धेन 20 प्रात्रयोच्छ तयोः पुनः।
अर्चयेद्भास्करं पूर्वे पश्चिमे शशिनं तथा॥ 27.45 ॥
मन्त्रेण मधुवातेति सर्पिराद्यभिमन्त्रयेत्।
अष्टाङ्गुला शलाकास्याद्रै मयी चाथ राजती॥ 27.46 ॥
अष्टधान्यानि परितः पात्रेषु विनिवेशयेत्।
गाः कन्यकाश्च रुचिराः भूषणैश्चापि भूषिताः॥ 27.47 ॥
आनीय स्थापयेत्पार्श्वे ब्रह्मघोषैश्च घोषयेत्।
मध्वक्तमुखया नेत्रं रैमय्या च शलाकया॥ 27.48 ॥
दक्षिणं प्रोल्लिखेद्वामं सर्पिषाक्तशलाकया।
राजत्या विलिखेन्नेत्रं तच्चक्षुरिति सम्पठन्॥ 27.49 ॥
व्यपोह्याच्छादनपटं दर्शयेन्मधुसर्पिषी।
अष्टधान्यानि गाश्चैव कन्यकाः पुरत स्थिताः॥ 27.50 ॥
गुरवे गाः प्रयच्छेत गोविन्दः प्रीयतामिति।
पात्रयुग्मं शलाके च दद्याद्धान्याष्टकं तथा॥ 27.51 ॥
नेत्रोन्मीलनवेलायां वाद्यघोषेण घोषयेत्।
गुरवे दक्षिणां दद्वाज्जीवाजीवधनात्मिकाम्॥ 27.52 ॥
कौतुकं बन्धयेद्बिम्बे स्नपनार्थं यथाविधि।
मूलमन्त्रेण तद्बिम्बं समुत्थाप्य नयेत्ततः॥ 27.53 ॥
ऋत्विग्भिः श्शाकुनं सूक्तमधीयानैश्च भूसुरैः।
स्नानमण्टपभूभागे तत्रोदुम्बरविष्टरे॥ 27.54 ॥
क्षौमास्तरणसंयुक्ते स्थापयेत्प्रत्य 21 गाननम्।
भद्रादि मन्त्रमाचार्यास्स्वयमुच्चार्य मन्त्रवित्॥ 27.55 ॥
विंशत्येकोनमृद्भिस्तु पुण्यक्षेत्रादि जन्मभिः।
उदङ्मुखः स्थितो मृद्भिरालिप्य प्रतिमां ततः॥ 27.56 ॥
मूर्धानं दिव इत्येतामृचमुच्चारयेच्छुभैः।
जलैरिमं मे वरुण इत्युच्चार्य समूर्तिपः॥ 27.57 ॥
क्षालयेत्कौतुकं सर्वं कलशैस्नापयेद्गुरुः।
देवस्य पुरतः स्थाप्य सूत्रवस्त्रादि वेष्टितान्॥ 27.58 ॥
22 सकूर्चान् पल्लवैर्युक्तान् कलशान् धान्यराशिषु।
पाद्याभिषेचनं कुर्यादिदं विष्णुरितीरयन्॥ 27.59 ॥
23 आपोहिष्ठेति मन्त्रेति तथार्घ्येणाभि 24 षेचनम्।
25 इमम्मे वरुण इत्येव तथा ऽऽचमनवारिणा॥ 27.60 ॥
पवित्रं तेति मन्त्रेण पञ्चगव्याभिषेचनम्।
26 घृतस्नातेति साम्ना च घृतेवै वाभिषेचयेत्॥ 27.61 ॥
दधिक्राव्णेति मन्त्रेण दधिस्नपनमाचरेत्।
प्रयोव्रतेन साम्ना च पयसा स्नपनं भवेत्॥ 27.62 ॥
मधुवा तेति मन्त्रेण 27मधुना स्नपयेद्गुरुः.
यज्ञायज्ञेति मन्त्रेण कषायाम्भोभि 28 षेचनम्॥ 27.63 ॥
मानस्तोके त्र्यिचा 29 तोयैरुष्णैश्चै 30 वाभिषेचनम्।
वषट् ते विष्णवित्यादिमन्त्रेण मणिवारिणा॥ 27.64 ॥
फलनीत्यनुवाकेन 31 स्नापयेत्तु फलाम्भसा।
हिरण्यगर्भमन्त्रेण 32 स्नापयेल्लोहवारिणा॥ 27.65 ॥
33 शन्नो देवीरिति स्नानं मन्त्रितैर्मार्जनाम्भुभिः।
गन्धद्वारेति मन्त्रेण दन्धाम्बकलशेन तु॥ 27.66 ॥
त्रातारमिति साम्ना च भवेदक्षतवारिणा।
यवाम्बुकल शेन स्यादिदं विष्णुरिति त्यृचा॥ 27.67 ॥
वृसूक्तेन च शुद्धाभिरद्भिरन्तेऽभिषेचयेत्।
उपचारैश्च वस्त्रादिप्रदानाद्यैस्समर्चयेत्॥ 28.68 ॥
पूर्वे वा दक्षिणेभागे शय्यां वेद्यां प्रकल्पयेत्।
प्रोक्षयेद्वेदिकां पूर्वं द्वादशाक्षरविद्यया॥ 28.69 ॥
प्रागग्रानुदग ग्रान्वा दर्भान् सम्प्तीर्यषुष्कलान्।
शालीनां 34 पञ्चभाराणि तण्डुलानर्धसम्मितान्॥ 27.70 ॥
35 उपरिष्टात् क्षिपेत्तेषां तिलानुपरि निक्षिपेत्।
36 तदर्धान् चतुरश्रान्वा वृत्तान्वा तान्विकीर्य च॥ 27.71 ॥
चर्म वैर्याघ्रमुपरि 37 तिलानामपि निक्षिपेत्।
तूलिकां निक्षीपेत्तस्मिन् मृद्वास्तरणभूषिताम्॥ 27.72 ॥
कम्बलानुपरिष्टाच्च क्षौमं तदुपरि क्षिपेत्।
चित्राणि वस्त्राणि तथा शुक्लानि च तथोपरि॥ 28.73 ॥
38 काष्ठजं सुदृढं स्निग्धं चतुर्हस्तसमन्वितम्।
चतुष्पादसमायुक्तं चतुरश्रायतं ततः॥ 28.74 ॥
खट्वासञ्ज्ञितपर्यङ्कं तदूर्ध्पे स्थापयेत्ततः।
दुकूलं मृदुतल्पं च विन्यसेत्सोपरिच्छदम्॥ 27.75 ॥
39 उपधानानि चित्राणि शयनाङ्गानि कल्पयेत्।
कस्तूरिकादिगन्धैश्च सुगन्धैरधिवासिताम्॥ 27.76 ॥
सुदन्धपुष्पास्तरणां नानालह्गारशोभिताम्।
शय्यां कृत्वैवमेतस्यां देवमानीय साययेत्॥ 27.77 ॥
सूक्तानि पौरुषादीनि प्रशस्तानि यथातथम्।
40 अधीयानैर्विप्र 41 वर्यैस्सार्धमन्यैश्च 42 मङ्गुलैः॥ 27.78 ॥
तूर्यशब्दैर्यथापूर्वं मूर्तिपाश्चगुरुस्स्वयम्।
उत्तिष्ठे त्यादिमन्त्रेण समुत्थाप्य च कौतुकम्॥ 27.79 ॥
शय्यावेदिभुवं निन्युर्बहिः कुण्डं यथातथम्।
प्रादक्षिण्येन 43 शनकै श्चय्यायां शाययेद्गुरुः॥ 27.80 ॥
44 इदं विष्णुरिति प्रोच्य विश्वतश्चक्षुरित्यपि।
प्राक्छिरो दक्षिणावक्त्रं यद्वा स्यान्मन्दिराननम्॥ 27.81 ॥
शिरो वा दक्षिणाशायामित्थं शयन कल्पनम्।
कम्बलेनाथवा वस्त्रैश्चादयेत्प्रतिमामपि॥ 27.82 ॥
युवासुवासा इत्यादि ब्रुवन्विष्वक्चतुर्मुख।
अश्वत्थतोरणं प्राच्यां यजेत तदनन्तरम्॥ 27.83 ॥
45 ऋग्रूपमिन्द्रदैवत्यं सुशोभनसमाह्वयम्।
याम्ये त्वौदुम्बरं 46 स्यात्तु याजुषं यमदैवतम्॥ 27.84 ॥
नाम्ना सुभद्रं वारुण्यां न्यग्रोधं 47 सोमवारुणम्।
48 नुदन्धसञ्ज्ञङ्कौबेर्यां प्लक्षं नाम्ना सुहोत्रकम्॥ 27.85 ॥
सोमदैवत्यमुद्दिष्टं यजेदाथर्वणं गुरुः।
ध्वजद्वयं द्वारपार्श्व स्थितं रत्नसमाह्वयम्॥ 27.86 ॥
49 दौवारिकान्महाभागान् यजेत कमलासन।
कुमुदः कुमुदाक्षश्च द्वारपालौ पुरः स्मृतौ॥ 27.87 ॥
दक्षिणस्यां ध्वजौ पीतौ 50 पुण्ढरीकाक्षवामनौ।
द्वार्स्थौ प्रतीच्यां नीलभौ ध्वजौ दौवारिकौ पुनः॥ 27.88 ॥
शङ्कुकर्णस्सर्वनेत्रस्तथोदक्पाण्डारौ ध्वजौ।
सुमुखं सुप्रतिष्ठं च द्वार्स्थौ ध्यायोद्ध्वजांशुते॥ 27.89 ॥
अष्टौ कुम्भंश्च पूर्वादिद्वारेषु विनिवेशयतेत्।
द्वौ द्वौ सवस्तान् साश्वत्थपल्लवान् 51 सपिधानकान्॥ 28.90 ॥
धन्यराशिषु मन्त्रेण इदंविष्णुरिति स्वयम्।
नामानि तेषां क्रमशः कथ्यं ते तानि संशृणु॥ 28.91 ॥
पूर्णश्च पुष्करश्चैव स्यातामानन्दनन्दनौ।
रसेनस्सु षेणश्च सम्भवः प्रभवस्तथा॥ 28.92 ॥
रत्नानि चाष्टौ क्रमशः कुम्भेषु विनिवेशयेत्।
पद्मरागं प्रवालं च 52 वज्रं वैडूर्यमेव च॥ 27.93 ॥
पुष्यरागं तथानीलमणिं मरतकं तथा।
मुक्तास्फटिकमुद्दिष्टं सर्वं मन्त्रेण निक्षिपेत्॥ 27.94 ॥
53 तोरणध्वज कुम्भादीन् पूर्वोक्तान् वृथगर्चयेत्।
तोरणानि च वासोभिः नवैराच्छादयेत्पृथक्॥ 27.95 ॥
पूर्वादौ वलजे विप्रान् बह्वृचाध्वर्यु सामगान्।
अथर्वाङ्गिरसाभिज्ञान् 54 अपरान्वेदपारगान्॥ 27.96 ॥
तत्तद्वेदारदीयानान् 55 तत्तद्दिक्षु निवेशयेत्।
आचार्यो हृदये देवमच्युतं सुसमाहितः॥ 27.97 ॥
ध्यायेत्तूर्यादि घोषैशअच परितः परिघोषयत्।
मूर्तिकुम्भांश्च परितस्सपिधानान् नवस्त्रकान्॥ 27.98 ॥
अष्टौ प्रागादिकाष्ठासु धान्यराशिषु पूरितान्।
अद्भिश्शुद्धाभिरश्वत्थपत्रयुक्तान् 56 सरत्नकान्॥ 27.99 ॥
तेषु शङ्खं च चक्रं च गदां पद्मं ध्वजं तथा।
श्रीवत्सं गरुडं कूर्मं जाम्बुनदमयं क्षिपेत्॥ 27.100 ॥
मध्ये मध्ये च कुम्भानां श्रिवत्साद्यष्टमङ्गलम्।
पालिकास्साङ्कुरा वेदिं परितः स्थापयेत्ततः॥ 27.101 ॥
विष्ण्वादिमूर्तीरष्टौ च कुम्भे57 ष्वावाह्य पूजयेत्।
58 महाकुम्भं च देवस्य निक्षिपेत्पश्चिमोत्तरे॥ 27.102 ॥
धान्यराशौ सापिधानं द्रोणं गन्धाम्बुपूरितम्।
हेमरत्नादिकं युग्मवस्त्रेणाच्छादितं पुनः॥। 27.103 ॥
सकूर्चपिप्फलदलां पार्श्वे तस्य गळन्तिकाम्।
ससूत्रवस्त्रसञ्छन्नां कूर्चयुक्तां निवेशयेत्॥ 27.104 ॥
सापिधानां शिवाम्भोभिः पूरितां निगमादिना।
पायसान्नेन च तथा ब्राह्मणान् भगवन्मयान्॥ 27.105 ॥
भोजयेद्द्वादशमितानधिकान्वा यथावसु।
तिलान् वासांसि सूक्ष्माणि सुवर्णं गाश्च दक्षिणाः॥ 27.106 ॥
तेभ्यो दद्याद्भुक्तवद्भ्यो यजमानस्समाहीतः।
आरभेयुस्ततो होमं ऋत्विजो गुर्वनुज्ञया॥ 27.107 ॥
अश्वत्थाच्छ शमीगर्भादरणी महरेत्ततः।
मथित्वाग्नि मुपादाय सूर्यकान्ताश्मनो पि वा॥ 17.108 ॥
लौकिकं वाग्नि 59 मादाय द्वादशाक्षरविद्यया।
प्रोक्ष्य ध्यात्वा च दव्याग्निं प्रत्यक्कुण्डे समिन्धयेत्॥ 17.109 ॥
पर्यग्निकरणं कुर्यात्कुण्डानां दर्भमुष्टिभिः।
60 कुण्डेष्वन्येषु दहनं प्रत्यक्कुण्डात्समुद्धरेत्॥ 27.110 ॥
अग्रे संस्कृत्य दहनमन्यकुण्डे विहायन् च।
अग्नि मध्यस्थपद्मस्थं तं तं देवमनुस्म रेत्॥ 27.111 ॥
वसुदेवं चतुष्कोणे चापे सङ्कर्षणं तथा।
वृतौ प्रद्युम्न नामानमनिरुद्धं त्रिकोणके॥ 27.112 ॥
इतोऽधिकेषु कुण्डेषु कल्पितेषु यथातथम्।
मुग्मेष्वयुग्मेषु तथा देवताः पूर्वमीरिताः॥ 27.113 ॥
प्रागादिषु च कुण्डेषु क्रमेण समिधः स्मृताः।
पालाशदूर्वखदिरबिल्वौदुम्बरभूरुहाम्॥ 27.114 ॥
आग्नेयादि विधिक्षु स्युः पिप्पलप्लक्षसम्भवाः।
न्यग्रोधप्रभवाश्चैव काश्मर्यप्रभवान्तथा॥ 27.115 ॥
पालाशसमिधोऽन्यत्र भूयसां 61 पलिक्पने।
उक्ताभावे तु सर्वत्र पालाश समिदो मताः॥ 27.116 ॥
चतस्रो धेनवस्थ्साप्याः दक्षिणद्वार्युदङ्मुखाः।
गङ्गा सरस्वती गोदा यमुना 62 रूपधारिणी॥ 27.117 ॥
दुग्धैस्तदीयैश्श्रपणं चरूणामहुतीस्तथा।
श्रपयेत्पयसा पूर्वं शालितण्डुलमाढकम्॥ 27.118 ॥
कृसरैर्दाक्षिणात्याग्नौ पाश्चात्ये गुडमिश्रितम्।
उदीच्याग्नौ हरिद्रन्नं दुग्धान्न मितराग्निषु॥ 27.119 ॥
समिद्भिराज्यैश्च रुभिर्बिजैर्होमः क्रमात् स्मृतः।
प्रत्येकं शतमष्टौ च होमस्स्यात्समिधादिभिः॥ 27.120 ॥
तिलशालियवा वेणु होमबीजान्यनुक्रमात्।
तिलैरितरकुण्डेषु तैर्वा सर्वत्र पद्मजः॥ 27.121 ॥
होतार 63 श्चसमासीनास्सोत्तरीयास्वलङ्कृताः।
प्राङ्गुखा जुहुयुस्सर्वे गुर्वादिष्टेन वर्त्मना। 27.122 ॥
तेषु 64 जुह्वत्सु ऋत्विक्षु यजेत गुरुरात्मवान्।
महाकुम्भे परं ज्योतिश्चेतस्य घनमक्षरम्॥ 27.123 ॥
सर्वगं मूलमन्त्रेण समावाह्याच्युतं हरिम्।
सकलीकृत्य चार्घ्याद्यैरर्चयेन्निगमादिना॥ 27.124 ॥
सुदर्शनं च करके सहस्रादित्यसन्निभम्।
सहस्रारं सहस्रेण ज्वालाभिरभिवेष्टितम्॥ 27.125 ॥
आवह्य स्वेन मन्त्रेण पूजयेत्कमलासन।
स्वस्ति कासनमाबध्य शयानां प्रतिमामनु॥ 27.126 ॥
आसीत देशिकस्सृष्टिसंहारक्रमवित्तमः।
आर्चां च तां भूतमयां 65 मंहारक्रममास्थितः॥ 27.127 ॥
पुनस्सृष्टिक्रमेणैव सृजेत्तद्ध्यानमास्थितः।
प्राचिनकुण्डे जुहुयात्तत्त्वानि कपिलाघृतैः॥ 27.128 ॥
प्रत्येकमष्टोत्तरशतं तत्त्वेश्वाहुतयः स्मृताः।
अष्टोत्तरा विंशतिवान् यद्वाष्टौ शक्त्यपेक्षया॥ 27.129 ॥
जीवादिकः तत्त्वहोम स्स्वाहान्तैस्स्वस्वनामभिः।
मकारं स्फटिकाभासं जीवं व्यापकम्मादितः॥ 27.130 ॥
आहुत्यन्ते प्रतिकृतौ विन्यसे 66 त्प्रणवं ततः।
जीवो पाधिं भकारं तु सितं न्यस्येद्यधापुरम्॥ 27.131 ॥
बकारं स्फटिकाभासं 67 बुद्धितत्वमनन्तरम्।
अहङ्कारं पाटलाभं फकारं हृदि विन्यसेत्॥ 27.132 ॥
मनस्सिता सितनिभं पकारं हृदये तथा।
नकारं शब्दतन्मात्रं श्रोत्रे शुक्लनिभं तथा॥ 27.133 ॥
धकारं लोहितं स्पर्श तन्मात्रं प्रतिमात्वचि।
दकारं रूपतन्मात्रं दृशोर्ज्योतिर्मयं तथा॥ 27.134 ॥
थकारं रसतन्मात्रं पाण्डराभं च तालुनि।
तकारं गन्धतन्मात्रं नासिकायां तथासितम्॥ 27.135 ॥
णकारं पालनिभं श्रोत्रात्मानं च कर्णयोः।
ढकारं हेमतुल्याभं त्वगात्मानं तथा त्वचि॥ 27.136 ॥
डकारं नेत्रयोः कृष्णं नेत्रात्मानमनन्तरम्।
गौरं ठकारं जिह्वायां जिह्वात्मानं चतुर्मुख॥ 27.137 ॥
ट कारमसितं घ्रूण रूपं घ्राणेन्द्रि 68 यं तधा।
सितं ञकारं वाग्रूपं नागाधारे निवेशयेत्॥ 27.138 ॥
रक्तं झकारं करयोः कर्मात्मानं 69 निवेशयेत्।
रक्तं जकारं पदयोः पदात्मानं निवेशयेत्॥ 27.139 ॥
छकारस्य चरक्तस्य 70 न्यासः पायौ तदात्मनः।
चकारं मेहने हेमवर्णं मोहनरूपिणम्॥ 27.140 ॥
ङकारं पृधिवीतत्वं पीताभां चतुरश्रकम्।
पादेच जानुपर्यन्ते हुत्वान्ते विनिवेशयेत्॥ 27.141 ॥
घकार मर्ध 71 शीतांशुं तुल्याकारं जलात्मकम्।
स्फटिकाभं तदूर्ध्वेतु गुह्यान्ते विनिवेशयेत्॥ 27.142 ॥
गकारं लोहितं कोणैस्त्रिभिर्युक्तमुषर्बुधम्।
गुह्यात्प्रभृतिनाभ्यन्तं विन्यसेद्देशिकोत्तमः॥ 27.143 ॥
खकारं वेदिकाकारं धूम्राभं श्वसनात्मकम्।
नभेरुपरिघोणान्तं हुत्वान्ते विनिवेशयेत्॥ 27.144 ॥
72 निराकारं ककारं च नभोञ्जनशीला 73 मयम्।
नासिकोपरि मूर्धान्तमाहुत्यन्ते निवेशयेत्॥ 27.145 ॥
तत्वहोमं च तन्न्यासं कृत्वैवं तदनन्तरम्।
प्राणादि दशवायूनां 74 न्यसनं स्यादिडादिषु॥ 27.146 ॥
75 ब्रह्मादि परिवारेषु देवीषु कमलादिषु।
सुषुम्ना पिङ्गला पूषा हस्ति जिह्वा शयस्विनी।
अलम्बुसेडा गान्धारी कौशिक्यपि कुहूरपि॥
प्राणोपानस्समानश्च व्यानोदान ध्नञ्जयाः।
कृकरो देवदत्तोऽथ नागकूर्यौ धशानिलाः॥
इद मेव पद्यद्वयं अन्येषु कोशेषु उत्तरत्र (159 श्लो
अक्षरन्यास विधानानस्तरं निविष्टं दृश्यते.)
तत्वन्यासो यथोक्तेन मार्गेण स्याच्चतुर्मुख॥ 27.147 ॥
सुदर्शनाद्यायुधानि वनमालादि कान्यपि।
न्यस्येद्यथायथं 76 मन्त्रेः प्रतिकार्येषु शार्ङ्गिणः॥ 27.148 ॥
न जङ्गमेषु बिम्बेषु षोदशन्यासमाचरेत्।
प्रणवस्य व्याहृतीनामकाराद्यक्षरस्यच॥ 27.149॥
ऋक्षाणामपि कालस्य 77 वासराद्ययनस्य च।
ब्रह्मणा देश्चवर्णस्य तोयस्य निगमस्य च॥ 27.150 ॥
देवतानां विराजश्च क्रतूनां च गुणस्य च।
78 सत्वादेश्चैव मूर्तीनां शक्तीनां षुड्गुणस्य च॥ 27.151 ॥
लोकानां न्यसनं कुर्यात् षोडशानामिति क्रमात्।
79 अकाराद्यात्मकं हुत्वाप्रवं तदनन्तरं॥ 27.152 ॥
अकारं हृदये विष्णो 80 र्न्यस्येद्भागे तु दक्षिणे।
उकारं ब्रह्मणो रूपं वामे 81 न्त्यं शङ्करात्मकम्॥ 27.153 ॥
होमेन तर्पयित्वास्ते प्रणवं विनिवेशयेत्।
व्याहृतीनां 82 च तिसृणां पादेहृदि शिरस्यपि॥ 27.154 ॥
न्यासं कुर्या दकारादिस्वरान्न्यस्येत्क्रमाद्गुरुः।
रसनायां मुखे दृष्ट्योश्श्रोत्रयो 83 र्नासिकापुटे॥ 27.155 ॥
दन्तपङ्त्कौ तथाचोष्ठद्वये चास्ये ललाटके।
तालुन्यथ यकारा देर्न्यासं कुर्यादतन्द्रितः॥ 27.156 ॥
त्वचि दृष्ट्योर्नासिकायां दशनाग्रे तथा श्रुतौ।
उदरे चतथा कट्यां हृदये नाभिमण्डले॥ 27.157 ॥
मेहने तर्पयित्वान्ते होमेन स्यास इष्यते।
पञ्च 84 वारान् ककारादीन् अङ्गुलीषु च जङ्घयोः॥ 27.158 ॥
भुजयोर्न्यसनं कुर्यादक्षरन्यास ईदृशः।
85 सुषुम्ना पिङ्गुला पूषा हस्ति जिह्वा यशस्विनी॥ 27.159 ॥
अलम्भुसैव गान्धारी काशिनी च कुहूरपि।
प्राणापानसमानाश्च व्यानोदनौ च पायवः॥ 27.160 ॥
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः।
अथना मातृका न्यासमेव मेव समाचरेत्॥ 27.161 ॥
अकारं तालुनि न्यस्य मुखे चाकारमेव च।
इ ई लोचनयोर्न्स्यस्य उ ऊ श्रवण योस्तथा॥ 27.162 ॥
ए ओ दशनपङ्त्कौ च ओऔ ओष्ठगतौ स्मरेत्।
अ मित्येव ललाटे तु अः कारं रसने तथा॥ 27.163 ॥
यकारं त्वग्गतं न्यस्य रेफं चक्षुषि विन्यसेत्।
लकारं नासिकायां तु वकारं दशनाग्रतः॥ 27.164 ॥
श्रोत्रे शकारं विन्यस्य षकारमुदरे तथा।
सकारं कटिदेशेतु हकारं हृदये तथा॥ 27.165 ॥
क्षकारं नाभिदेशे तु विन्यसेद्ध्विजसत्तमः।
पवर्गो बाहुरेकस्तु तवर्गस्तु द्वितीयकः॥ 27.166 ॥
टर्गश्च टवर्गश्च जङ्घौद्वयमुदाहृतम्।
कनर्गोऽङ्गुलयस्सर्वा विज्ञातव्या द्विजोत्तम॥ 27.167 ॥
ऋक्षाणि रोहिण्यादीनि न्यसेदेषु यथाक्रमम्।
हृदये मून्ध्निकेषेषु ललाटे वदने तथा॥ 27.168 ॥
नासिकायां च दन्तेषु श्रोत्रे बाह्वोः करद्वये।
स्तनयोरुदरे कट्यां मोहने वृषणे तथा॥ 27.169 ॥
पायापूर्वो र्जङ्घयोश्च पादयोरग्रपादयोः।
सूर्यादयो ग्रहाश्चान्ये तथा सप्तर्षयोध्रुवः॥ 27.170 ॥
एताश्च व्योमनि यथा तथा देवे निवेशयेत्।
त्रुट्यादि कल्फपर्यन्ताः कालभेदाश्चतुर्मुख॥ 27.171 ॥
स्थूलसूक्ष्मा यथायोगं न्यसनीयास्सुमेधसा।
मुख बाहुरु पादेषु देवस्य ब्राह्मणादयः॥ 27.172 ॥
न्यसनीयास्सरित्कूपवापीतो यादि निर्घराः।
निवेशनीया देवस्य देहे वेदा ऋगादयः॥ 27.173 ॥
अङ्गानि च तदर्थानि शास्त्राणि विविधानि च।
द्रेवतानि तथा न्यानि चतुर्मुख मुखानि च॥ 27.174 ॥
ऋषीनपि तथा मुख्यानन्यच्चापि विभूतिमत्।
86 देवे विनेशयेत्सर्वं त्रैलोक्य सचराचरम्॥ 27.175 ॥
न्वर्लोकं शिरसि न्यस्येन्येत्रयोश्चन्द्रभास्करौ।
नासिकायां तथावायुं दिशो भाहुषु हृद्गतान्॥ 27.176 ॥
ऋषींश्च 87 व्योमच वपुष्यन्तरात्मनि देवताः।
मेघाश्च केशा विज्ञेयाः नक्षत्राणि च भूषणम्॥ 27.177 ॥
मुखमग्निस्तथा वाणी शुद्धवर्णा सरस्वती।
वैराजन्या स इत्येषः कथितः कमलासन॥ 27.178 ॥
अश्वमेधादयस्सर्वे क्रतवश्च यथातथम्।
सर्वाङ्गेषु निधात्व्यास्तस्मिन् क्रतुमयेऽच्युते॥ 27.179 ॥
सत्त्वं रजस्तमश्चेति न्यसनीयं गुणत्रयम्।
मत्स्यादि दशमूर्तीनां न्यसनं तदनन्तरम्॥ 27.180 ॥
देवीनां च श्रियादीनां न्यासः कार्यो यथाक्रमम्।
विज्ञानादि गुणाष्षट्च विनिवेश्यास्समाधिना॥ 27.181 ॥
लोकाश्चतुर्दश तथा पादादिषु यथाक्रमम्।
मूर्ध पर्यन्तमङ्गेषु देवदेहे 88 यथाविधि॥ 27.182 ॥
न्यसनीयाश्चतुर्वक्त्रगुरुणा शास्त्रचक्षुषा।
कृत्वैवं षोडशन्यासं शान्तिहोमं समाचरेत्॥ 27.183 ॥
मधुना भूरिति प्राच्ये कुण्डे हुत्वा शताहुतीः।
सम्पातेनस्पृशेत्पादौ देवस्य भुव इत्यतः॥ 27.184 ॥
दक्षिणाग्नौ तथा हूत्वा पयसा जठरं स्पृशेत्।
दध्नातु पश्चिमे कुण्डे हुत्वा स्वरिति संस्फृशेत्॥ 27.185 ॥
वक्त्रं समसैनाज्येन हुत्वोदीचीनपावके।
शीरस्फृशेच्च सम्पातैरङ्गं च सकलं हरेः॥ 27.186 ॥
गुडेवाह्येन मधुवा कुण्डे तस्मिन् गुरुस्स्वयम्।
हुत्वा च विष्णुगायत्र्या सम्पातेन मुखं स्फृशेत्॥ 27.187 ॥
पालाश खादिराश्वत्थबिल्वशाखाभिरम्बुभिः।
सिञ्छेयुर्मूर्तपा 89 स्सम्यग्वेदीदिक्कलशस्थितैः॥ 27.188 ॥
अभिङ्गैः पावनै
90 कुर्याद्यधाक्रमं मन्त्रैर्ब्राह्मणाः प्रयतव्रताः।
त्रातारमित्ययाश्चाग्ने यतुलूक इति क्रमात्॥ 27.191 ॥
91 आसनस्तेति च तथा इमं मे त्यादिवारुणैः।
92 अनोनियुद्भिरिति च मन्त्रस्सनै पयागेंसि च॥ 27.192 ॥
तमीशानमिति 93 तैस्तैर्मन्त्रै रिन्द्रादि दैवताः।
जुहुयः परिवारार्थां ब्रह्मणांश्चापि तोषयोत्॥ 27.193 ॥
पिण्ढिकामधिवास्थाथ वेष्टयेन्नववाससा।
निक्षिप्य भाजने लोहान् सरत्नान् धातुबीजकान्॥ 27.194 ॥
भाजनं वाससा वेष्ट्य धान्यराशिषु निक्षिषेत्।
बिम्बानि गरुडादीनां 94 स्नापयेन्न ववाससा॥ 27.195 ॥
आच्छादयेद्धान्यराशौ शाययेच्च यथापुरम्।
दिग्देवतानां पीठानि 95 बल्यर्थान्यधिवासयेत्॥ 27.196 ॥
96 शयनां प्रतिमां वेद्यामुत्थाप्याधिनि केतनम्।
अर्चयेत्पायनद्यन्नं सन्नि वेद्य चतुर्विधम्॥ 27.197 ॥
निवेद्य च महाकुम्भे दिक्षु दद्याद्भलिं ततः।
पललं रजनीचूर्णं सलाजं दधि सक्तुकम्॥ 27.198 ॥
बल्यन्न मेतैस्संयोज्य बलिगाधा इमाः पठेत्।
आद्याश्च 97 कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः॥ 27.199 ॥
प्रसन्नाः परितुष्टास्ते गुह्णं तु बलि काङ्क्षिणः।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः॥ 27.200 ॥
भूमौ व्योम्नि स्थिता ये च बलिं गृह्णन्तु तेऽपि च।
वैनायकाः क्षेत्रपालाः ये चान्ये बलिकाङ्क्षिणः॥ 27.201 ॥
पूषाद्याः पार्षदाश्चैव प्रतिगृह्ण न्त्विमं बलिम्।
चण्डाद्याः कुमुदाद्याश्च ये भूता 98 स्सर्वदिक् स्थताः॥ 27.202 ॥
आगच्छन्तु पदे गृह्णन्तु त 99 इमे बलिम्।
स्वप्नाधिपति मन्त्रेण हुत्वा चाष्टोत्तरं शतम्॥ 27.203 ॥
हेमसूत्रं प्रतिसरं प्रतिष्ठाविधि स्धिये।
पुण्याहपूर्वं बध्नी याद्धस्ते देवस्य दक्षिणे।
बालबिम्बं तु सम्पूज्य तच्छक्तिमपि देशिकः॥ 27.204 ॥
समावाह्य महाकुम्भे धान्यराशिषु निक्षिपेत्।
पूर्णाहुतिं च जुहुयुः कुण्डे कुण्डे च मूर्तिपाः॥ 27.205 ॥
पद्मोत्पलवदामेदो दूमो हुतभुजो यदि।
रक्तश्वेतस्तथा 100 पीतो धुमस्स्या च्छुभदो भवेत्॥ 27.206 ॥
ज्वालाश्च दक्षिणावर्वाश्शुभं शंसन्ति निश्चितम्।
तुर्यमङ्गलसन्नादैर्ब्रह्मघोषैश्च 101 घोषितैः॥ 27.207 ॥
102 स्वापयेत्तां निशां सर्वां यजमानो गुरुश्च तौ।
स्वप्नार्धं दर्भशय्यायां 103 शयीरन्मूर्तिपाश्चते॥ 27.208 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे शयनादिवासादि विधानादयोनम
सप्तविंशोऽध्यायः।
-
मूर्तपालाश्च ↩︎
-
परिष्कृताः ↩︎
-
अधो मुखं—-इति पद्यं क्वचिन्न. ↩︎
-
प्रसाध्य ↩︎
-
कृतम् ↩︎
-
नाथस्य ↩︎
-
दूषकान् ↩︎
-
ततः ↩︎
-
पुल्लकैः ↩︎
-
र्दिशि. ↩︎
-
धर्मा ↩︎
-
शोधितं सर्वतो दिक्षु शोभयेन्मण्डपं दिक्षु ↩︎
-
मालिकाभिः ↩︎
-
पूरैः ↩︎
-
उद्धाप्य ↩︎
-
स्तत् स्थाः ↩︎
-
सर्व ↩︎
-
नर्व ↩︎
-
सन्नि ↩︎
-
पात्रयोच्छादयेत् ↩︎
-
गासनम्. ↩︎
-
सकूर्चमल्लकै ↩︎
-
आपोवा इतिमन्त्रेण—आप इत्वेतिमन्त्रेण ↩︎
-
षेचयेत् ↩︎
-
इयनै वरुण इत्येव मन्त्रेणाचाम ↩︎
-
घृतवत्येति ↩︎
-
मधुस्न पनमाचरेत् ↩︎
-
षेचयेत् ↩︎
-
नीरै. ↩︎
-
वाभिषेचयेत् ↩︎
-
स्नानं युत्तुफलाबुना. ↩︎
-
कलशैः ↩︎
-
शन्नोदेवीतिमन्त्रेब मार्जनं चाभिषेचयेत् ↩︎
-
नवभाराणि. नवभाराणां इति च. ↩︎
-
उपरिष्टाच्चतेषां तु ↩︎
-
तदर्धं चतुरश्रं वा वृत्तं वा. ↩︎
-
तिलानुपरि ↩︎
-
" काष्ठ" इत्यादि" परिच्छदम्" इत्यन्तं केषु चित्को शेषु नास्ति ↩︎
-
सोपधानानि. ↩︎
-
" अधीयानैः—-यथातथम् इदमपि श्लोकद्वयं क्वचिन्न दृश्यते ↩︎
-
वर्गैः ↩︎
-
भूनुरैः ↩︎
-
कलशम्. ↩︎
-
यद्वैष्टपमिति ↩︎
-
ऋग्वेदमिन्द. ↩︎
-
श्राद्धदैवतं यजुषा स्थितम्. याज्यं ↩︎
-
सुबन्धुसौख्यम्. सुगन्धसञ्ज्ञम् ↩︎
-
दौवारिकात्मना ध्यायन् ↩︎
-
दौवारिकात्मना ध्यायन् ↩︎
-
पुण्डरीकाख्य ↩︎
-
साक्षतोदकान् ↩︎
-
वालवायजमेव च. ↩︎
-
पूर्वोक्तान्गन्धपुष्पाद्यै पृथगभ्यर्चयोद्गुरुः ) ↩︎
-
स्त्र्यवरा ↩︎
-
निशायां वि. ↩︎
-
सवस्त्रकान् ↩︎
-
ष्वष्टसु. ↩︎
-
महाकुम्भस्थ देवस्य ↩︎
-
मानीय. ↩︎
-
कुण्डेष्वेतेषु ↩︎
-
परिकल्पयेत् ↩︎
-
नामः ↩︎
-
श्चासना ↩︎
-
कुण्डेषु ↩︎
-
संहत्य ↩︎
-
त्प्राणमन्ततः ↩︎
-
मति ↩︎
-
ये न्यसेत् ↩︎
-
चतुर्मुख ↩︎
-
न्यासोऽपासे. ↩︎
-
शीतांशुसाम्या ↩︎
-
ककारमञ्चननिभं निराकारं नभात्मकम् ↩︎
-
निभम् ↩︎
-
सुषुम्नादिष्वथन्यसेत्। ↩︎
-
अत्रश्लोकद्वयमधिकं लिखितं क्वचित्कोशे दृश्यते तद्यथाः—- ↩︎
-
मन्त्री ↩︎
-
वत्सराद्यात्मन स्तथा. ↩︎
-
मत्स्यादेश्चैव शक्तीनान्तत्वादेः श्चैवमूर्तीनां ↩︎
-
ककाराण्यात्मनां ↩︎
-
र्न्यासो ↩︎
-
शान्यङ्करा ↩︎
-
चतसॄणां ↩︎
-
र्नासिकाद्वये ↩︎
-
वर्गान् ककारादेः ↩︎
-
“सुषुम्ना” इत्यादि “द्विजोत्तमैः” इत्यन्तसार्धसप्तपद्यानि केवलं क्वचित्कोसेदृश्यनै ↩︎
-
देहे ↩︎
-
व्योम्नि चरतः पुरुहूतादिदेवताः। ↩︎
-
यथाक्रमम् ↩︎
-
स्सर्वेवेदिका कलशस्थितैः—-वेदिकां ↩︎
-
जुहुयुर्यथा ↩︎
-
अनून्यनेति असून् पचेतिच. असुन्वन्तेतिच. ↩︎
-
अनूनयुग्भि ↩︎
-
स्वेस्स्वै ↩︎
-
स्थापये. ↩︎
-
बल्यक्षा ↩︎
-
शयनात्प्रतिमां ↩︎
-
पूज्याश्च ↩︎
-
स्सर्वतः ↩︎
-
मिमं बलिम् ↩︎
-
नीलो ↩︎
-
मङ्गलैः ↩︎
-
यापयेत् ↩︎
-
शयेयुः ↩︎