षड्विंशोऽध्यायः
- प्रतिष्ठाविधिः*
ब्रह्माः—
व्यापिवो देवदेवस्य प्रतिष्ठा कीदृशी मता।
भगवन् संशयानस्य मम 1 निश्चयतो वद॥ 26.1 ॥
श्रीभगवान्—
2 सर्वस्य भूतजातस्य हरिरात्मास्थितोऽपि नन्।
मन्त्र वीर्याच्च माहात्म्यात् स्थापकस्य गुरोस्तथा॥ 26.2 ॥
प्रतिमायां प्रकर्षेण सन्निधत्ते हरिस्स्वयम्।
कामानशेषांस्तत्रै व हरिमर्थयते जनः॥ 26.3 ॥
तेन प्रतिष्ठा ना मेदमन्वर्धं वर्तते भुवि।
यथा च वह्निर्दहनो न दहन्व्याप्य तिष्ठति॥ 26.4 ॥
अरणीमथनाद्भूयो जायमानः प्रदुश्यते।
दहनादीनि कर्माणि करोति च यथातथम्॥ 26.5 ॥
तथा सर्वगतो विष्णुरदृश्यः प्राकृतैर्जनैः।
दृश्यते च प्रतिकृतौ मन्त्रिणो मन्त्रगौरवात्॥ 26.6 ॥
तस्मात्सर्वात्मना विष्णुं प्रतिष्ठाप्याभिपूजयेत्।
शिल्पिभिर्निर्मिते बिम्बे शास्त्रदृष्टेन वर्तना॥ 26.7 ॥
कर्मार्चा पीठिकायां च रत्नादिन्यसने कृते।
उद्घाटिते नयने यथार्हं सर्वशान्तिदे॥ 26.8 ॥
स्थूलसूक्ष्मेषु चान्येषु प्रतिमाङ्गेषु 3 सर्वतः।
सुकृतेषु यथाशास्त्रं कर्मान्ते देशिकोत्तमः॥ 26.9 ॥
रथकारेण विदुषा सुनिरूप्य निरूपकः।
धनैश्च कर्मानुगुणं स्थपतीन् परितोष्यच॥ 26.10 ॥
रथकारं च 4 विविधैर्मनः प्रीतिविवर्धनैः।
गतेषु शिल्पिषु तथा रथकारे च निर्गते॥ 26.11 ॥
अन्तर्बहिश्च सदने शोधिते मार्जनादिना।
प्रज्वालितैर्दर्भपुं जैः पर्यग्निकरणे कृते॥ 26.12 ॥
प्राकारे मण्डपे धाम्नि गोपुरे मार्जनादिना।
शुद्धीकृते तथा गव्यैः पञ्चभिः प्रोक्षिते सति॥ 26.13 ॥
पुण्याहं वाचयित्वाथ ब्रह्मणै 5 र्मन्त्रवित्तमैः।
अब्लिङ्गा भिश्च भूयोपि गर्भगेहं बहिस्तथा॥ 26.14 ॥
ऋग्भिस्तम्प्रोभयेत्सर्वमाचार्यस्स 6 र्वभूसुरैः।
प्रदीपितै र्गोघृतैश्च प्रदीपै र्बजुभिस्तथा॥ 26.15 ॥
सर्वतो दीपिते धाम्नि कालागुरुमुखै स्तथा।
गन्दद्रव्यैर्धूपयित्वा सुधाचूर्णै स्तथाक्षतैः॥ 26.16 ॥
पुष्पैर्दूर्वाङ्कुरैश्चापि सर्वतो धाम्निभूषिते।
ततोऽपराह्णसमये शान्तिहोमं समाचरेत्॥ 26.17 ॥
मानोन्मानप्रमाणादेर्हानिर्वा वृद्धिरेव वा।
दुर्वज्ञेयं तदखलं होमाच्छाम्यति निश्चयम्॥ 26.18 ॥
शमीपल्लव 7 संयुक्ता नक्षतान् देशिकस्स्वयम्।
सप्तव्याहृतिभिश्चैवप्रत्येकं जुहुयाच्छतम्॥ 26.19 ॥
चरुं नृसूक्तेन तथा जुहुयात् षोडशाहुतीः।
पञ्चोपनिषदा चैव सर्पिषा जुहुयाच्छतम्॥ 26.20 ॥
प्रतिमासन्निधावेनं हुत्वा पूर्णावसानिकम्।
उपतिष्ठेत तदनु मन्त्रेणानेव देशिकः॥ 26.21 ॥
नमस्तुभ्यं भगवते जातवेदस्स्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथातथम्॥ 26.22 ॥
8 हर्त्रे यष्टव्यदेवानामात्मने परमात्मने।
सन्निधत्स्वचिरं देव प्रतिमायां हितायनः॥ 26.23 ॥
विज्ञाप्याधोक्षजं देवमेवं प्राञ्जलिरानतः।
सदर्भं नववस्त्रेण प्रतिमां मूलविद्यया॥ 26.24 ॥
आच्छादयेदुत्तरीय 9 मपिदध्यात्तथा गुरुः।
अर्घ्यं पाद्यं तथाचामं गन्धं 10 धूपं तथैव च॥ 26.25 ॥
दीपं सुमनसस्सर्वं गायत्र्या विष्णुपूर्वया।
दद्याच्छ्रीयादिदेवीनामुक्तं सर्वस्वविद्यया॥ 26.26 ॥
ब्रह्मादिपरिवाराणामन्येषां च स्वविद्यया।
11 कौतुकं दक्षिणे हस्ते बध्नीयान्मूलविद्यया॥ 26.27 ॥
तयैव विद्यया सप्त वारान् 12 कृत्वाभिमन्त्रणम्।
बध्वा समर्चयेद्देवं पुण्टरीकाक्षविद्यया॥ 26.28 ॥
छायाधिवाससिध्यर्थं देवस्य पुरतस्ततः।
जलद्रोणीं कटाहां वा स्थापयेल्लोहनिर्मितम्॥ 26.29 ॥
मृण्मयं वा यथालाभं भाजनं धान्यसञ्चये।
पूरयेद्गन्धतो योन शुद्धस्फटिकवर्चसा॥ 26.30 ॥
जले च निक्षिपेत्कूर्च मष्टाविंशतिदर्भकम्।
अर्चयेच्च हरिं कूर्चे भावयेन्मूल विद्यया॥ 26.31 ॥
संहारक्तममाचार्याः स्मृत्वा कुर्चं जले स्वयम्।
शाययित्वा प्राक्छिरसं चक्रमुद्रां प्रदर्शयेत्॥ 26.32 ॥
कूर्चं श्रीधरयोर्द र्भैस्त्रिभिस्स्याद्रुद्रवेधसोः।
पञ्चविंशतिभिः कार्यं द्वाभ्यामन्यामृताशिनां॥ 26.33 ॥
रक्षाकुम्भं च तत्रैव यमस्य दिशी कल्पयेत्।
संवेष्ट्य नववस्त्राभ्यामेकेन करकं तथा॥ 26.34 ॥
ब्रह्माणं पूजयेत्कुम्भे करके च सुदर्शनम्॥
परितः कलशानष्टौ निदध्याद्वस्त्रवेष्टितान्॥ 26.35 ॥
सापिधानान् 13 सवस्त्रांश्च 14सरत्नान् कूर्चसं 15 यतान्।
इन्द्रादि दिक्पतीन् 16 तेषु पूजयेदष्ट चाष्टसु॥ 26.36 ॥
सर्वार्घीणेन वस्त्रेण नवेन प्रतिमां 17 तदा।
छादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत्क्षितौ॥ 26.37 ॥
रक्षोहणेति मन्त्रेण रक्षां मुर्यात्समन्ततः।
आरोपयेदनिर्वाणान् प्रदीपान्बहुवर्चनः॥ 26.38 ॥
प्रवर्तयेत्त्र यीघोषं ब्रह्मणै र्वेदपारगैः।
चक्रमन्त्रं च वलजे विन्यस्याभ्यर्चयेद्गुरुः॥ 26.39 ॥
प्रादक्षिण्येन सदनात् निष्क्रमेत्सहमूर्तिपैः।
यस्याः प्रतिकृतेस्साक्षान्नाधिवासो जले भवेत्॥ 26.40 ॥
तस्याश्छा याधिवासो यं कथितः कमलासन।
दारुलोह शिलामय्यः प्रतिमा याः पृथग्विधाः॥ 26.41 ॥
तासां जलाधिवसनं साक्षादेवं विधीयते।
लोहजप्रतिमानां तु पूर्वं वार्यधिवासनात्॥ 26.42 ॥
कृत्वा सरो 18 जलं खात मधिवासं समाचरेत्।
वृत्ताकारं शालिभारं निधायोपरि तण्डुलान्॥ 26.43 ॥
तदर्धमुपरिष्टाच्च तण्डुलार्धं तिलान् क्षिपेत्।
तिलेषु पद्मविन्यासं कृत्वास्तीर्य कुशान् पुनः॥ 26.44 ॥
प्रागग्रं नूतनपटं तेषामुपरि निक्षिपेत्।
सपद्मं केवलं वापि 19 पीठं विन्यस्य तत्र तु॥ 26.45 ॥
रत्नान्यपि च 20 लोहानि गायत्र्या विष्णुपूर्वया।
विव्यस्य जुहुयादग्नौ सर्पिषाष्टोत्रं शतम्॥ 26.46 ॥
नृसूक्तेन चरुं चैव पुण्याहं चैव वाचयेत्।
देवमारोपयेत्तस्मिन् पीठे मन्त्रमुदीरयेत्॥ 26.47 ॥
सुप्रतिष्ठेन मनसा गुरुर्ध्यायेज्जगद्गुरुम्।
21 प्रतिष्ठितोऽसीति साम पठेच्च तदनन्तरम्॥ 26.48 ॥
दृढबन्धं स्थपतिना कारयेत्कमलासन।
उद्घाटयेच्च नयने प्रतिमायाः यथाविधिः॥ 26.49 ॥
22 तोषयेद्रथाकारादीन् धनेन महता पुनः।
शमीपत्राक्षतैर्होमं कृत्वाभ्यज्य च पर्पिपा॥ 26.50 ॥
23 घृतस्नानेति मन्त्रेण चूर्णै 24 श्चोद्वृर्त्य सर्वतः।
प्रक्षाल्यवारिभिश्चोष्णैः कुशैर्नुतनवाससा॥ 26.51 ॥
संवेष्टयेत्प्रतिकृतिं यथापूर्वमनुक्रमात्।
उपवीतोत्तरीयादिप्रदानानि यथापुरम्॥ 26.52 ॥
25 आचम्य च प्रतिसरं 26 बन्धयित्वा च मङ्गलम्।
ततो रथादिके याने 27 समारोप्य च मूर्तिपाः॥ 26.53 ॥
पठेयुस्साम 28 गानज्ञैस्सार्धमन्यैश्च भूसुरैः।
रथन्तरादिकं श्रेष्ठं पौरुषं सूक्तमुक्तमम्॥ 26.54 ॥
नारायणानुवाकं च सूक्तं शाकुनमेव च।
आमनेयः प्रतिदिशं सूक्तं रक्षोघ्नमेव च॥ 26.55 ॥
पाण्डरेणातपत्रेण चामरेण सितेन च।
चीनांशुकमयै 29 श्छत्रैर्ध्वजैर्बर्हमयैस्तथा॥ 26.56 ॥
व्यजनैरपि कल्याणैर्ध्वजैर्नानाविधैरपि।
तूर्यै र्बहुविधैर्नृत्तैर्गेयैश्चापि समन्ततः॥ 26.57 ॥
महता जनसङ्घेन ब्राह्मणानामितस्ततः।
30 नृपोपचारैरपरै 31 रुपचर्य यथाविधि॥ 26.58 ॥
प्रतिमां ग्रामधामादि प्रादक्षिण्येन चानयेत्।
- जलाधिवासविधिः*
जलाधिवासदेशान्तमासाद्य शिबिकादिकात्॥ 26.59 ॥
अवरोप्य जलाभ्यर्णे प्रपायां सिह्मविष्टरे।
प्राङ्मुखं समवस्थाप्य यद्वा स्थाप्य उदङ्मुखम्॥ 26.60 ॥
नदीषु दीर्घिकायां वा तटाके निर्झरेऽपि वा।
जलाधिवासनं कुर्यात्प्रसन्ने सलिलेऽपि वा॥ 26.61 ॥
अल्पतोये स्मशानान्ते लवणो 32 दकदूषिते!
कषाये कटुके चैव तिक्ते फेनैश्च दुषिते॥ 26.62 ॥
चैत्यवृक्षसमीपे च नीचैरध्यासिते तथा।
ऊषरे शैवलयुते वर्णान्तरयुते तथा॥ 26.63 ॥
एवमादिषु दुष्टेषु प्रतिमां नाधिवासयेत्।
जलमध्ये प्रपां कुर्याद्बहुस्तम्भसमन्विताम्॥ 26.64 ॥
चतुर्द्वारसमोपेतां चतुस्तोरणभूषिताम्।
वितानध्वजसंयुक्तां दर्भमालापरिष्कृताम्॥ 26.65 ॥
मुक्तादामसमायुक्तां स्रग्विणीं 33 दीपदीपिताम्।
फलैर्नानादिधैर्युक्तां तत्राधिवसनं चरेत्॥ 26.66 ॥
पुण्याहव च 34 नं पूर्वं 35 पुवर्नद्वादिषु स्थिता।
36 आपः पुरुषमन्त्रेण 37 संशोष्य गुरुरात्मवान्॥ 26.67 ॥न
अग्निमन्त्रेण दग्ध्वा च चन्द्रकोटिसमप्रभम्।
निवृत्ति मन्त्रं तद्ध्यायेत्तस्माद्ध्यानाद्विनिर्गतैः॥ 26.68 ॥
जलैरमृतकल्पैश्च पुवर्वद्यादि पूरयेत्।
तस्मिन् जले महापीठं चतुरश्रं समायतम्॥ 26.69 ॥
विन्यस्यास्तरणोपेतं सोपधानं नवं शुभं।
प्रकल्पयेद्योगपीठं तस्योपरि यथाक्रमम्॥ 26.70 ॥
गन्धपुष्पादिना पीठमर्चयित्वा समाहितः।
द्वारतोरणकुम्भादि यष्टव्यं तदन न्तरम्॥ 26.71 ॥
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैस्सहमूर्तिपैः।
आदाय प्रतिमां पश्चादाचार्यस्तीरदेशतः॥ 26.72 ॥
संहारक्रममाचार्यः स्मृत्वा तोये प्रवेशयेत्।
उदङ्गुखं प्राक्छिरसं प्रतिमां शाययेत्ततः॥ 26.73 ॥
वेष्टितां नववस्त्रेणं 38आपादतलमस्तकम्।
स्थापितान् पूर्ववर्तीरे कुम्भादीवपि पूजितान्॥ 26.74 ॥
जले निवेशयेत्तद्वर्दीरे तद्वद्यथाक्रमम्।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां च दर्शयेत्॥ 26.75 ॥
तीरे चतुर्विधं वाद्यं वादयेत्सर्व तोदितम्।
ऋचो यजूंषि सामानि पुराणानि च भूसुराः॥ 26.76 ॥
आमनेयुरनिर्वाणान् 39 प्रदीपानपि कारयेत्।
स्नासपानादिकं सर्वं ततः प्रभृति नाचरेत्॥ 26.77 ॥
एकरात्रं त्रिरात्रं वा जलमध्येऽधिवासयेत्।
40 यामं यामार्धकं वापि जलवासं समाचरेत्॥ 26.78 ॥
गृहार्चास्थापने काले सद्य एव समाचरेत्।
जलाधिवसने चैव तथा नयनमोक्षणे॥ 26.79 ॥
शयने वेदिकायां च न कालः कमलासन।
प्रदोषेष्वधिवान स्याच्छयनं च महानिशि॥ 26.80 ॥
प्रतिष्ठां च दिवा कुर्यान्मुहूर्ते शास्त्रचोदिते।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत्॥ 26.81 ॥
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम्।
यथासम्भवमन्यस्मिन् मृण्ययादौ [^41] विधीयते॥ 26.82 ॥
सद्यो वा तोयवासं स्यात्पूरस्तादधिवासनात्॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे जलाधिवासविधिर्नाम
षड्विंशोऽध्यायः
-
निश्चयदो भव. ↩︎
-
सर्वभूतस्य जातस्य ↩︎
-
सर्वदा—-सर्वशः ↩︎
-
विभवैः ↩︎
-
र्वेदवित्तमैः ↩︎
-
स्सह ↩︎
-
संयुक्तानक्षतानि गुरुः ↩︎
-
होत्रे. ↩︎
-
मर्घ्यं दद्या. ↩︎
-
पुष्पं च दीपकम्. ↩︎
-
कौतुक’ मित्यादिसार्धं पद्यं क्वचिन्न. ↩︎
-
सूत्राभिमन्त्रतम्. ↩︎
-
सरत्नांश्च ↩︎
-
सलोहान् ↩︎
-
सलोहान्. ↩︎
-
चैव. ↩︎
-
ततः ↩︎
-
जसङ्घूतम्. ↩︎
-
तेषामुपरि निक्षिपेत्। सरत्नं केवलं वस्त्रं पीठं विन्यस्य तत्र तु. इति च ↩︎
-
लोहदीन् ↩︎
-
प्रतिष्ठासीतिवैसाम. ↩︎
-
तोषितं स्थिपतिं कृत्वा. ↩︎
-
घृतवत्येति. ↩︎
-
श्चोद्धृत्य. ↩︎
-
अबध्यच प्रतिसरं बध्वा सिद्धार्ध मङ्गुलम्. ↩︎
-
बन्दयित्वार्धङ्गुलम्. ↩︎
-
मूर्तिमारोप्य. ↩︎
-
सामज्ञैः ↩︎
-
श्चित्रैश्छत्रैर्बर्ह. ↩︎
-
महोपचारै ↩︎
-
रुपचारैस्तथाविधैः ↩︎
-
दधि ↩︎
-
धूप ↩︎
-
नात्पूर्वं ↩︎
-
पूर्वान्न. ↩︎
-
आपः पुनस्तु ↩︎
-
संशोध्य ↩︎
-
महता पादमप्तकम्. ↩︎
-
प्रदीपान् धूपदीपाकाः प्रदीपानपि दीपितान् ↩︎
-
यामं—-इत्यादि पद्यं स्वचिन्न. ↩︎