पाद्मसंहितायाम्
पंचविंशोऽध्यायः
- प्रतिष्ठोपकरणानि*
श्रीभगवान्—
अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्।
- मुख्यकालनिरूपणम्*
अयनं चोत्तरं मुख्यं जघन्यं दक्षिणायनम्॥ 25.1 ॥
स्थापनं द्रुवबेरस्य मुख्य एव सदेष्यते।
जङ्गमस्थापने मुख्ये जघन्ये 1 चापि वा भवेत्॥ 25.2 ॥
माघमासे भाद्रपदे प्रतिष्ठं मासि वर्जयेत्।
गुरावस्तं गते शुक्रे व्यतिपाते च वर्जयेत्॥ 25.3 ॥
सङ्क्रान्तौ दुर्दिनेचैव ग्रहणे सोमसूर्ययोः।
पारस्ताच्च पुरस्ताच्च षोडशाहानि वर्जयेत्॥ 25.4 ॥
अतिचारे तथा मासे पर्वयुग्मयुते तथा।
अप्रशस्तेषु योगेषु काणस्थूणान्धभेषु च॥ 25.5 ॥
एवमादिषुचान्येषु गर्हितेषु न तल्पयेत्।
राज्ञो राष्ट्रस्यचान्यस्य ग्रामस्य च गुरोस्तथा॥ 25.6 ॥
यजमानस्य धिष्ण्यस्य शुभेष्वनुगुणेषु च।
तिथिनक्षत्र वारेषु मुहूर्तेषु शुभेषु च॥ 25.7 ॥
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशि।
तृतीया सप्तमी षष्ठीद्वादश्यैकादशी तथा॥ 25.8 ॥
दशमीपूर्णिमासी च शुक्लपक्षे शुभास्त्विमाः।
कृष्णे तु पञ्चिमीयावत्तिथयप्संप्रकीर्तिताः॥ 25.9 ॥
त्रिषूत्तरेषु रेवत्यामश्विन्यां रोहिणीषु च।
पुष्येपुनर्वसौ चापि हस्ते च श्रवणे तथा॥ 25.10 ॥
देवस्य स्थापनं कुर्याद्विष्णोरभ्युदया वहम्।
सोमे बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा॥ 25.11 ॥
एते सौम्यग्रहाः प्रोक्ताः प्रशस्ताः स्थापनं प्रति।
सैंहिके 2 यार्क वाराश्चरिक्तो वा स्थापने परे॥ 25.12 ॥
राशौ तृतीये षष्ठे वा स्थिताश्चेत् शुभशंसिनः।
द्वितीये च तृतीये च तथा पञ्चमषष्ठयोः॥ 25.13 ॥
सप्तमे नवमे चैव राशौ चै कादशे पुनः।
स्थितस्सुखकरश्चन्द्रः षट्सप्तदशमस्थितः॥ 25.14 ॥
भयकृद्भार्गवो ज्ञेयश्चन्द्रः क्रूरैर्निरीक्षितः।
अतिथौ वान्यकालेषु न 3 प्रशस्तश्चतुर्मुख॥ 25.15 ॥
बहुनात्र किमुक्तेन सह मौहूर्तिकैर्गुरुः।
स्थापनं देवदेवस्य कुर्यात्कालेऽभिपूजिते॥ 25.16 ॥
- अधिवासमण्डपस्थानम्*
प्रासादस्याग्रतः कुर्यादधिवासन मण्टपम्।
प्रथमावरणे कुर्याते द्वितीयावरणेपि वा॥ 25.17 ॥
तृतीयावर्णे वापि देशे योग्यावकाशके।
4 आशास्वष्टास्वभिमते देशे मण्टपकल्पनम्॥ 25.18 ॥
विस्तीर्णं दशभिर्हस्तैस्तावद्भिश्चायतं करैः।
चतुर्दिक्षुचतुर्द्वारं मण्डपं परिकल्पयेत्॥ 25.19 ॥
- कुण्डकल्पनम्*
तन्मध्ये पञ्चहस्ता स्याद्वेदी हस्त 5 समुच्छृता।
चतुरश्रेष्टकचिता कुण्डानि परितस्ततः॥ 25.20 ॥
देविकायास्त्रिताले समानि विषमाणि वा।
चतुरश्रं चतुर्विंशदङ्गुलं भुतलं खनेत्॥ 25.21 ॥
विस्तारायामसदृशं परितः खातभूतलम्।
द्व्यंगुलं तद्बहिः कल्प्यं मेखलात्रयमैष्टकम्॥ 25.22 ॥
6 कुण्डस्य प्रकृतेरर्वाक् चत्वारो मेखलास्तु वा।
कुण्डव्रकृतिरुच्छ्रायमंगुलानां च विंशतिः॥ 25.23 ॥
अधस्तादुन्नता तस्य षोडशांगुलमेखला।
तालोत्सेधमितापूर्वा मध्यमाष्टांगुलोन्नता॥ 25.24 ॥
तदन्धेनोच्छृता चान्या विस्तारश्चतुरंगुलः।
सर्वासां सात्विकी चाद्या मध्यमा राजसी मता॥ 25.25 ॥
7 अन्या च तामसी ज्ञेया तदन्या त्रिगुणात्मिका।
पश्चिमे प्रकृते रूर्ध्वेयोनिः पञ्चदशांगुला॥ 25.26 ॥
आयता मूलमारभ्य विस्तीर्णा क्रमशो भवेत्।
8 अङ्गुलैर्दशभिष्षड्भिश्चतुर्भिर्द्व्यङ्गुलेन च॥ 25.27 ॥
एकेन चाग्रे 9 कल्प्यै व मेखलोपरि शोभना।
योनिवत्सन्नि वेशेन पिप्पलच्छदवद्भवेत्॥ 25.28 ॥
क्रमेण निम्ना प्रत्यक्स्था कुण्डस्याग्रे निवेशिता।
अग्रेच योने र्नालंस्यात् चतुरंगुलमायतम्॥ 25.29 ॥
त्र्यङ्गुलं नहनं मूले मुखे चैव षडङ्गुलम्।
काहलाकारवत्कुर्याद्यमस्य दिशि वा भवेत्॥ 25.30 ॥
योनि र्होता यदि भवेदुदीचीन मुखस्स्वयम्।
विना वा जुहुयाद्योनि मोक्षाय त्वरते यदि॥ 25.31 ॥
कुण्डमाने द्विहस्तादौ 10 मेखलादि च तादृशम्।
यद्वैकमेखलं कुण्डं 11 कर्ता सत्वरितो यदि॥ 25.32 ॥
कुण्डार्धं कोणभागार्धं द्वयं तेनैव संमितम्।
सूत्रमारभ्य कुण्डस्य मध्यं दक्षिणतो दिशि॥ 25.33 ॥
स्थापयित्वा पुरः पश्चात्सूत्तार्धं भ्रामयेत्ततः।
अर्थचन्द्रवदेतेन कुण्डमाविष्कृतं भवेत्॥ 25.34 ॥
कुण्डार्थादवशिष्टं यत्कोणे तस्यार्धमेव च।
कुण्डार्धं च द्वयं तेन संमितं सूत्रमायतम्॥ 25.35 ॥
12 तत्कुण्डमध्ये संस्थाप्य स्थापयेद्दिषु सर्वतः।
वृत्तकुण्डं भवेत्तेन सन्निविष्टं सरोजवत्॥ 25.36 ॥
दलानि मेखलास्थाने कल्पयेद्वादशाष्ट वा।
विभज्य पञ्चधा कुण्डं बहिर्भागं द्वयायतम्॥ 25.37 ॥
सूत्रं कुण्डस्य मध्ये तु स्थापयित्वा थपार्श्वयोः।
गमयेत्सूत्र 13 पा तान्तं त्रिकोणं तेन कल्पयेत्॥ 25.38 ॥
संविभज्याष्टधा कुण्डं भागेनै केन वर्धयेत्।
उभाभ्यामपि भागभ्यां तस्मान्मध्यं प्रगृह्य च॥ 25.39 ॥
लाञ्छयेत् 14 षट्सु कोणेषु तत्र षट्सूत्रपातलनम्।
कृत्वा तत्र भवेत्कुण्डं षट्कोणं कमलासन॥ 25. 40 ॥
चतुर्विंशति 15भागं तु कृत्वा क्षेत्रं 16 पुरोदितम्।
एकभागं बहिः पश्चात् सर्वत्रैव निवेशयेत्॥ 25.41 ॥
मध्यात्कोणाद्गृहीत्वैवं पश्चात्तद्दिक्षु लाञ्चयेत्।
ततस्तत्सूत्र संयोगादष्टकोणं भवेत् स्फुटम्॥ 25.42 ॥
पञ्चकोण विभागेन सूत्रपातो विधीयते।
17 पञ्चादशांगुलं सूत्रं कोणे कोणे तु पातयेत्॥ 25.43 ॥
कोणान्तराणि कुर्वीत अष्टादशभिरङ्गुलैः।
18 सूत्रयेत्पूर्वदिक्सूत्रं पंचकोणेतु पातयेत्॥ 25. 44 ॥
दशाङ्गुलं मध्यमं तु भ्रामयेत्समसूत्रकम्।
दशांङ्गुलं तथायोनिं कुर्यादश्वत्थपत्रवत्॥ 25.45 ॥
यादृग्विधं भवेत्कुण्डं तादृगेव तु मेखला।
योनिं कुण्डेषु सर्वेषु कल्पयेत्कमलासन॥ 25.46 ॥
योनिकुण्डेन योनिस्स्यात्पद्मकुण्डेन पङ्कजम्।
पद्मं कुण्डेषु सर्वेषु खातमध्ये प्रकल्पयेत्॥ 25.47 ॥
19 पूर्वोक्तेतुदलस्थाने अराणि परिकल्पयेत्।
चक्रकुण्टं भवेत्तेन पद्मकुण्डं तदेव तु॥ 25.48 ॥
ततोऽगुलिवशाद्वद्वा कुर्यात्कुण्डानि पद्मज।
20 पूर्वदिक्चापकुण्डं च पश्चिमे ज्यां प्रकल्पयेत्॥ 25.49 ॥
चतुर्विंशाङ्गुलं सूत्रं विस्तारायाम 21 संयुतम्।
चतुरश्रसमायुक्तं चतुरश्रं विधीयते॥ 25.50 ॥
षष्ट्यङ्गुलं भवेच्चापं 22 ज्यातु षट्त्रिंशदंगुला।
चापकुण्डं भवेदेवं 23 द्वात्रिंशत्वङ्गुलं पुनः॥ 25.51 ॥
पातयोत्त्रिगुणे नत३ त्रिकोणं 24 विद्यते स्फुटम्।
पञ्चादशांगुलं सूत्रं मध्यतो भ्रामयेत्ततः॥ 25.52 ॥
वृत्तकुण्डं भवेदेवं पद्मकुण्डं तदेव तु।
पद्मं पद्म 25 समाकारं कर्णकादलसंयुतम्॥ 25.53 ॥
यथा वृत्तप्रमाणं हि तथा पद्मस्य लक्षणम्।
- चतुष्कण्डादिविधिः*
चतुरश्रं भवेत्कुण्डं वेद्याः प्राचिनभुतले॥ 25.54 ॥
कुण्डं दक्षिणतो विद्यादर्धचन्द्रसमाकृति।
वृत्तं तु पश्चिमे देशे उत्तरे कमलाकृति॥ 25.55 ॥
यद्वा त्रिकोणं तत्र स्या 26 च्चतुष्कुंडं प्रकल्पयेत्।
इन्द्रेशानास्तरे पद्मं यद्वा च चतुरश्रकम्॥ 25.56 ॥
27 प्राक्प्रत्यक्कमलं कुण्डं पञ्चकुंड विधौ भवेत्।
दिश्यग्नेर्योनिकुंण्डं स्यात्रिकोणं तु त्रिचक्षुषः॥ 25.57 ॥
सप्तकुण्डविधानोऽयं प्रकारः कमलासन!
चतुरश्रं भवेत्प्राच्यामग्नेर्दिशि भगाकृति॥ 25.58 ॥
चापाकृति यमस्य स्यात् षडश्रं निरृतेर्भवेत्।
वरुणस्य भवेद्वृत्तं पञ्चाशं 28 मातरिश्वनः॥ 25.59 ॥
त्रिकोणं नरवाहस्य ईशानस्याष्टकोणकम्।
चतुरश्रस्य कुण्डस्य प्राग्देशे कमलाकृति॥ 25.60 ॥
नवकुण्डविदौ 29 क्ल्प्तिरियं विषयम वह्निषु।
समवर्ह्निषु पूर्वादि दिक्षु कुण्डं क्रमाद्भवेत्॥ 25.61 ॥
चतुरश्रं 30 ततश्चापं वृत्तं कोणत्रयान्वितम्।
चतुष्कुण्डविधाने स्यात् षट्कुण्डे तूच्यते विधिः॥ 25.62 ॥
चत्वारि पूर्ववत्कृत्वा दिश्यग्नेर्योनिकल्पनम्।
षडश्रं 31 दिशि कुण्डं स्यात्षडर्धनयनस्य तु॥ 25.63 ॥
अष्टकुण्डे त्वष्टदिक्षु 32 कुण्डान्यष्टौ यथाक्रमम्।
चतुरश्रं भगाकारं चापाकारं षडश्रकम्॥ 25.64 ॥
वृत्तं पञ्चाश्रमुदितं त्रिकोणं चाष्टकोणकम्।
त्रीणि त्रीणि च कुण्डानि यद्वा दिषु प्रकल्पयेत्॥ 25.65 ॥
कमलं चत्रिकोणं च दिक्षु कुण्डस्य पार्श्वयोः।
कल्पयेच्च चतुर्दिक्षु द्विषट्केऽग्निविभिर्भवेत्॥ 25.66 ॥
- मूर्तिसङ्ख्यानुगुणमग्निकल्पनम्*
पञ्चमूर्ति प्रतिष्ठायां नवाग्निं परिकल्पयेत्।
पंचवासप्तवा वह्निं चतुर्मूतौ तु कल्पयेत्॥ 25.67 ॥
अष्टषड्वाथ 33 चतुरः कल्पयेज्जातवेदसः।
अथवा द्वादशाप्यर्ग्नी कल्पयेत्कमलासन॥ 25.68 ॥
एकमूर्तौ वीतिहोत्राः युग्मास्युरथ 34 वेतरे।
- प्रपानिर्माणम्*
प्रपायां वेदिमथवा महत्यां कमलासन॥ 25.69 ॥
षोडशप्तम्भ 35 परमां प्रपां यद्वा प्रकल्पयेत्।
द्वाराणि दिक्षु चत्वारि प्रपायाः परिकल्पयेत्॥ 25.70 ॥
तिरस्करिण्या परितश्छादयेन्मण्डपा 36 न्तरम्।
स्नानमण्डपमैशान्यां दिशि तस्य प्रकल्पयेत्॥ 25.71 ॥
स्नानवेदी च तत्र स्यात्प्राग्भागे हस्तसंमिता।
द्विहस्ता वा त्रिहस्ता वा ह स्तमात्रसमुच्छ्रया॥ 25.72 ॥
यद्वा तालसमुत्सेधा चतुर्शा मनोहरा।
दिग्भागे जलकुल्या तु सौम्ये निम्ना मनोहरा॥ 25.73 ॥
- होमसाधनानि*
स्रुक्स्रवौ लक्षणोपेतौ होमार्थं परिकल्पयेत्।
पालाशीं खादिरीं वापि स्रुचं यद्वाऽव्यवृक्षजाम्॥ 25.74 ॥
याज्ञीयां कल्पयेच्छिल्पी बाहुदण्डसमायताम्।
37हेमादिलोहजं वापि दारुजां वापि भूषिताम्॥ 25.75 ॥
द्वितालसंमितां वापि सांगुलां कमलासन।
त्रिथा विधायतां भूयस्तृतीयेऽम्शे द्विधा कृते॥ 25.76 ॥
उपर्यंशं पुनः कुर्यात् पञ्चधा चतुरंशकैः।
भवेत्स्रुचोऽग्रं तन्मूलं विस्तारेण षडंगुलं॥ 25.77 ॥
अग्रमेकांगुलं क्रोडवक्त्र वत्परिकल्पयेत्।
पंचां शेनवशिष्टेन भागेन गलकल्पनम्॥ 25.78 ॥
गलं द्व्यंगुलविप्तारमुभयोस्तस्य पार्श्वयोः।
अर्धांगुलं भवेन्निम्नं विस्तारायामतत्समम्॥ 25.79 ॥
38 त्यजेदंशमशेषेण सूत्रपाताद्बहिः स्थितम्।
गलस्याधोऽवशिष्टांशो वृत्तौ वा चतुरश्रकः॥ 25.80 ॥
विस्तारायामसदृशं स्याद्गर्थं तस्य मध्यतः।
वृत्तं तृतीयभागेन संमितं शोभनाकृति॥ 25.81 ॥
गधां विस्तारसदृशं गर्तस्य परिकीर्त्यते।
गर्तभाह्यं त्रिधा कृत्वा प्रथमेऽष्टदलस्थिति॥ 25.82 ॥
मध्यमेंशे चतुर्धा तु 39 विभजेन्नाभिमण्डलम्।
प्रथमे परिकल्प्यं स्यादम्भोरुह 40 निकेतन॥ 25.83 ॥
द्वाभ्यां तु मध्यमांशाभ्यां षडरं द्विगुणं तु वा।
अवशिष्टेन भागेन नेमिमण्डलकल्पनम्॥ 25.84 ॥
41 शङ्खांश्चतुर्षु कोणेषु 42 चतुरश्र प्रकल्पने।
यवोन्नता बहिः कार्या मेखला च चतुर्य वा॥ 25.85 ॥
आरभ्य गर्थमग्रान्तं विवरं सर्पिषो भवेत्।
सरोजवृष्ठसमं पृष्ठभागं प्रकल्पयेत्॥ 25.86 ॥
कूर्मपृष्ठसमं यद्वा चतुरश्रं सपीठिका।
अधस्थाद्विगुणस्तस्य दण्डायामं प्रचक्षते॥ 25.87 ॥
तद्दण्डमष्टधा कृत्वा मूलभागेन कल्पयेत्।
अधस्तात्कुम्भमर्धेन 43 शिष्टेनोपरि पंकजम्॥ 25.88 ॥
मूलं प्रकल्पयेदेवं पद्मे दण्डः प्रतिष्ठितः।
आधारं वा विना दण्डो वलयैस्त्रिभिरङ्कितः॥ 25.89 ॥
वृत्तोऽथवा तदर्धाश्रस्तदग्रमपि पङ्कजम्।
त्रिभिर्वा वलयैर्युक्तं नाहनं 44 चांगुलं भवेत्॥ 25.90 ॥
स्रुवं च हस्तमानं स्यात्तदग्रं द्व्यंगुलं भवेत्।
वासंकापुटवद्गर्तद्वययुक्तं सुवृत्तकम्॥ 25.91 ॥
गर्तमर्धांगुलं निम्नं विस्तीर्णं चार्धमङ्गुलं।
अंगुलेनावशिष्टेन परितो 45 गोलकल्पनम्॥ 25.92 ॥
बिलयोः पृष्ठभागेतु मध्युरेखा यवोन्नता।
अयुग्मवलयं कण्ठे यवमात्रोन्नतं शुभम्॥ 25.93 ॥
दण्डं च परिशिष्टेन गोलाङ्गूलाकृतिर्भवेत्।
मूलं द्व्यंगुलविस्त्रीर्णं लोहजो दारुजोपिवा॥ 25.94 ॥
- स्रुक्सुवाद्यर्थे वर्ज्यंदारु *
स्फूटितं 46 सक्तिमिं भिन्नमूर्ध्वशुष्कं सकोटरम्।
स्वयं निपतितं वृक्षं स्रुक्स्रुवार्थे परित्यजेत्॥ 25.95 ॥
स्वीकुर्याच्चे त्प्रमादेन भूयान् दोषः प्रसज्यते।
- मंटपद्वाराद्यलंकारः*
द्वारेषु मण्डपस्य स्यात्तोरणानां चतुष्टयम्॥ 25.96 ॥
अश्वत्थो दुम्भरवटक्लक्षैः प्रागादि तोरणाः।
ए केनवा47 यथोक्तेनअलाभेचन्दनद्रुमः॥25.97 ॥
48 सप्तहस्तायताः पादाः पञ्चहस्तायतापि वा।
अयुग्मैरायताः पादाः 49 हस्तेनार्धेन पट्टिका॥ 25.98 ॥
त्रीणि त्रीणि च शूलानि तोलणं तोलरणं प्रति।
शूलानि च द्वितालानि नहश्चाष्टांगुलो भवेत्॥ 25.99 ॥
पट्टिका पादनहनं द्वाविंशत्यंगुलं भवेत्।
वृत्तान्वा चतुरश्रान्वा पादांश्च परिकल्पयेत्॥ 25.100 ॥
कलशं दक्षिणावर्तं शङ्खं चक्रं ध्वजं तथा।
पटहं कार्मुकं नागं तेषु पादेषु कल्पयेत्॥ 25.101 ॥
कारयेन्मङ्गलान्यष्टौ फलकेषु यथातथम्।
लोहजेष्वथवा यज्ञवृक्षजेषु यथावसु॥ 25.102 ॥
द्वाविंशत्यंगुलायामं तदर्धेन च विस्तृतम्।
फलकं द्व्यंगुलघनं पिठे पिठे प्रतिष्ठितम्॥ 25.103 ॥
50 फलके षु 51 लिखेत्तत्र श्रीवत्साद्यष्टमङ्गुलम्।
श्रीवत्सं पूर्णकुम्भं च भेरीं दर्पणमण्डलम्॥ 25.104 ॥
मत्स्ययुग्मं च शङ्खं च चक्रं काश्यपनन्दनम्।
पद्मासनस्थितं सौम्यं द्वादशांगुलमायतम्॥ 25.105 ॥
तत्तद्रूपानुसारेण विस्तीर्णं पार्श्वयोर्द्वयोः।
प्रदीपं चामरं मूर्ध्न छत्रं च परिकल्पयेत्॥ 25.106 ॥
बिम्बप्रमाणानुगुणं स्नानपीठमुदुम्बरम्।
52 दृङ्मोक्षपीठं च तथा जलाधि 53 वसनस्य च॥ 25.107 ॥
पीठं बिम्भनुगुण्येन कल्पयेदविचारयन्।
ऋत्विजां च तथापीठमाचार्यस्य च कल्पयेत्॥ 25.108 ॥
पातुके पादसदुशे यज्ञवृक्षेण कल्पयेत्।
54 उपकुम्भं च कलशं करकं मणिकं तथा॥ 25.109 ॥
दीपस्तम्भान् घृतादीनि स्नान द्रव्याण्यशेषतः।
55 चन्दनानि सुगन्धानि वस्त्राणि विविधानि च॥ 25.110 ॥
समित्पुष्पकुशादीनि ध्यान्यानि विविधानि च।
सुवर्ण रत्नलोहानि गास्सवत्सा मनोहराः॥ 25.111 ॥
सम्भारानेवमन्यांश्च सम्भृत्याव्यग्रमानसः।
आरभेत यथाशास्त्रं प्रतिष्ठां देशिकोत्तमः॥ 25.112 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिष्ठोपकरणं नाम
पञ्चविंशोऽध्यायः।
-
जघन्ये वायुने. ↩︎
-
नार्कसौराश्च. ↩︎
-
न प्रशस्तानि पद्मज. ↩︎
-
अष्टास्वभिमते देशे दिषु मण्डपकल्पनं ↩︎
-
समुच्छ्रया. ↩︎
-
“कुण्डस्य” इति पद्यं क्वचिन्न. ↩︎
-
आन्त्या ↩︎
-
“अङ्गुलैः—वद्भवेत्” इति पद्यं केषु चिन्नास्ति. ↩︎
-
कल्प्यैवम्. ↩︎
-
मेबलाद्यपि ↩︎
-
कर्तास्य त्वरितो ↩︎
-
कुण्डमध्ये तु संस्थाप्यभ्रामयेत्. ↩︎
-
पातं तु. ↩︎
-
सर्व. ↩︎
-
भागान्तम् ↩︎
-
पुरस्कृतम्. ↩︎
-
सप्तादशा. ↩︎
-
सूत्रयेदष्टदिक्सूत्रं ↩︎
-
" पूर्वोकै—-तदेवतु" इदं पद्यं क्वचिन्नस्ति ↩︎
-
" पूर्व—-प्रकल्पयेत्" इदमर्धं केषु चिन्नदृश्यते. ↩︎
-
तस्समम् ↩︎
-
सज्यंषट्त्रिंशदंगुलं ↩︎
-
पञ्चत्रिंशाङ्गुलं ↩︎
-
विन्यसेत्. ↩︎
-
समं कार्यम्. ↩︎
-
चतुष्कुंडप्रकल्पने ↩︎
-
प्राग्भवेत्कमलम् ↩︎
-
मरुतो दिशि. ↩︎
-
क्लप्तिस्तिर्यग्निषमवृत्तिषु. ↩︎
-
च तच्छापम्. ↩︎
-
योनि ↩︎
-
कुर्यादष्टौ. ↩︎
-
चत्वारि. ↩︎
-
वा भवेत्. ↩︎
-
मपरं ↩︎
-
दिकम् ↩︎
-
स्वर्णादि ↩︎
-
त्यजेदन्य. ↩︎
-
विहिते. ↩︎
-
निकेतनम्. ↩︎
-
शङ्खाश्चतुर्षु कोणेषु. ↩︎
-
चतुरश्रं प्रकल्पयेत्. ↩︎
-
इष्टेनो. ↩︎
-
च षदंगुलं ↩︎
-
गल ↩︎
-
क्रिमभिर्भग्नम्. ↩︎
-
यथोक्तानालाभे चन्दनस्रुचः ↩︎
-
" सप्त—-पट्टिका" इदं पद्यं केषु चिन्नाप्ति. ↩︎
-
पादेनार्धेन. ↩︎
-
पादेनार्धेन. ↩︎
-
फलके विविधा तत्र श्रीलत्साद्यष्टकं लिखेत् ↩︎
-
विधौ तत्र ↩︎
-
वृक्षं च फीठं ↩︎
-
नुधाकुम्भं ↩︎
-
चन्दनादीनि च द्यव्याण्यन्यानि. ↩︎