२४

पाद्मसंहितायाम्

चतुर्विंशोऽद्यायः

  • आचार्यलक्षणाङ्गुरार्पणादि*

श्रीभागवान्—-

आचार्यलक्षणं ब्रह्मन् कथयामि यथातथाम्।
1 आदौ तु ब्राह्मणो विद्वान् पञ्चरात्रपरायणः॥ 24.1 ॥

सर्वदोषविनिर्मुक्तमशेषगुणभाजनम्।
आचार्यं वरयेत्पूर्वं तदधीना हिसिद्धयः॥ 24.2 ॥

न्यूनातिरेकनिर्मुक्तकल्याणावयवश्शुचिः।
कल्याणहस्तश्श्रुतवान् वृत्तवान् शीलवानपि॥ 24.3 ॥

आम्नायेचन्दसि तथा ब्राह्मणो धर्मवत्सलः।
पञ्च कालविधानज्ञस्तकत्कर्मनियतः क्षमीः॥ 24.4 ॥

जितेन्द्रियः 2 प्रश्श्रीमानुहापोहविचक्षणः।
षट्कर्मकृत् षडध्वज्षञ्षडङ्गविदलोलुपः॥ 24.5 ॥

षोडशन्याचतुरस्सौम्यस्तिद्धान्तभेदवित्।
ऋजुर्दयावान् 3 ब्रह्मज्ञत्सत्यवाक् शिष्टसम्मतः॥ 24.6 ॥

व्याख्याता धृतिमानार्यः पूर्वभाषी प्रियंवदः।
स्मितपूर्वाभिभाषी च सात्विको न्यायवित्तमः॥ 24.7 ॥

दर्शनीयो युवा वादि वा देषु च विचक्षणः।
कुशाग्रीयमतिश्शान्तः 4 नीतिज्ञोदेशकालवित्॥ 24.8 ॥

अनसूयो जितद्वन्द्वस्समस्सर्वेषु जन्तुषु।
व्यसनाभ्युदये शश्वदेकरूपस्सदव्ययः॥ 24.9 ॥

मितभाषी ध्यानपरो द्वादशाक्षरचिन्तकः।
मानसाराधनपरः पञ्चरात्रपरायणः॥ 24.10 ॥

स्वतन्त्रो वृद्धसेवी च 5 रूपवानपि चास्तिकः।
अब्रह्मनिन्दकस्सर्वस्मृतिमान् कीर्तिमानपि॥ 24.11 ॥

सर्वापवादनिर्मक्तस्सर्वकल्याणलक्षणः।
6 सर्वशास्त्रार्थवेत्ता च दीक्षितश्चक्रमण्डले॥ 24.12 ॥

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा भवेत्।
अधिकारी भवेदेष यथोक्तगुणभाजनम्॥ 24.13 ॥

आचार्यत्वे तथार्त्विह्ये तादृशानेव भूसुरान्।
गुणैस्सर्वैस्समुदितान् कर्मनिर्वहणक्षमान्॥ 24.14 ॥

वरयेद्गुरुणा 7 सार्धं यजमानः प्रयत्नवान्।
8 वटुर्युवा समोवृद्धश्चतुर्थापरिकथ्यते॥ 24.15 ॥

द्वयोर्विभागितस्सम्यक्सविभागश्च कथ्यते।
वर्षात् षोडशकादर्वाक् वटुरित्यभिधीयते॥ 24.16 ॥

वटुर्यावा समो वृद्धो योग्यो नित्यार्चनाविधौ।
नै मित्तिके साङ्गुरे तु समश्श्रेष्ठतमेनवा॥ 24.17 ॥

समये जमानस्तु गां भुवं काञ्चनं तथा।
नालिकेरं च कर्मादवाचार्याय प्रदापयेत्॥ 24.18 ॥

ऋत्विजष्षोडश ब्रह्मन् यद्वाष्टौ चतुरोपि वा।
आचार्योणय थोकैन ऋत्विग्भिश्च यथोदितैः॥ 24.19 ॥

स्थापयेन्मन्दिरे विष्णु यजमानः प्रयत्नवान्।
सर्वान् कामानवाप्नोति नात्रिकार्या विचारणा॥ 24.20 ॥

अन्यथा चेद्धरिं धाम्निस्थापयेन्मूढचेतनः।
नै वेष्टं फलमाप्नोति म्रियते चा चिरात्स्वयम्॥ 24.21 ॥

न च धाम चिरस्थायि न च राष्ट्रं नराधिपः।
नसन्निधतै भगवान् न च प्रीणाति चेज्यया॥ 24.22 ॥

नै वाधिकारी नस्यापी ब्राह्मणो प्युक्तलक्षणः।
इतरेपि त्रयोवर्णाः यजने वाधिकारिणः॥ 24.23 ॥

न कुण्‍ड गोलौ नै वान्ये भवेयुरनुलोमजाः।
कर्माधिकारिणो नैव व्रात्या वै ब्रह्मयोनयः॥ 24.24 ॥

नै तेषामदिकारोऽस्ति सूतादीनां चतुर्मुख।

  • अङ्गुरार्पणम्*

प्रतिष्ठा कर्मणः पूर्व मङ्कुरारोपणं भवेत्॥ 24.25 ॥

न कर्मफलदं ब्रह्मन् अङ्कररोपणं विना।
तस्मादारभ्यमाणेषु 9 प्रतिष्ठादिषु कर्मसु॥ 24.26 ॥

प्रागेव वापयेद्बीजान् अङ्कुरार्थं यथाविधि।
द्वादशाहे नवाहे वा सस्ताहे पञ्चमेऽहनि॥ 24.27 ॥

तृतीयेऽहनि वा कुर्यात्कर्मारम्भदिनं प्रति।
पालिकसु शरावेषु घटिकासु च वापयेत्॥ 24.28 ॥

अङ्गुराणि प्रशस्तानि पात्रेषु त्रिविधेष्वपि।
साङ्गुलं हस्तमुत्सेधं पालिकानामथाननम्॥ 24.29 ॥

षोडशाङ्गुलविस्तारं बिलं सप्ताङ्गुलं भवेत्॥

पादपीठस्य विस्तार 10 मधश्चैवाङ्गुलं भवेत्॥ 24.30 ॥

उन्मत्तकुसुमाकारं वक्त्रमम्बोजसन्निभम्।
द्वाविंशाङ्गुल 11 मायामो घटिकानाम्प्रकीर्तितः॥ 24.31 ॥

घटिकाः पञ्चवक्त्रास्स्युस्तन्मध्ये तु घुटाकृतिः।
षडङ्गुलं च विस्तिर्णं एतानां मध्यमं मुखम्॥ 24.32 ॥

चतुष्टयं चतुर्दिक्षु चतुरङ्गुलमाननम्।
विंशत्यङ्गुलमुत्सेधं विस्तारं द्वादशाङ्गुलम्॥ 24.33 ॥

शरावेषु विजानीयाद्यद्वा मानं यथावसु।
12 हेमादि लोहजास्सर्वाः मृण्मया वा यथावसु॥ 24.34 ॥

षट्त्रिंशत्पालिकाश्चैव षट्त्रिंशद्घटि कास्तथा।
शरावाश्चापि षट्त्रिंशदेवमष्टोत्तरं शतम्॥ 24.35 ॥

उत्तमा क्ल् प्तिरुदिता जघन्या क्ल् प्तिरुच्यते।
प्रत्येकं षोडश ग्राह्या भवेयुर्द्वादशापि वा॥ 24.36 ॥

अष्टौ वा स्युश्चतस्रो वा शरावघटपालिकाः।
सर्वार्थे पालिका यद्वाषोडशाष्टौ यथाबलम्॥ 24.37 ॥

चतस्रो वा ततस्तासु मङ्गलाङ्गुलकल्पना।
अयुग्मा मानुषे कार्या दैवेयुग्मास्तु पालिकाः॥ 24.38 ॥

अङ्गुलावापनस्ताने मण्डपं परिकल्पयेत्।
शुभे विविक्तेऽभिमते देशे वै देशि कोत्तमः॥ 24.39 ॥

चतुर्दिक्षु चतुर्द्वारं चतुर्वदनमालिकम्‌।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम्॥ 24.40 ॥

13 वितानक्षौमविस्तारं गोमयालिप्तभूतलं।
प्रदीपमालाविततमक्षतैश्चापिनर्वतः॥ 24.41 ॥

सुधाचूर्णैश्च धवलै श्चित्रिताभ्यन्तरस्थलम्।
मण्डपं कल्पयित्वैवं गृह्णियात्तत्रमृत्तिकाम्॥ 24.42 ॥

खनित्रं क्षालयित्वाद्भिराच्छाद्य नववाससा।
14 विष्वक्सेनमथो वापि वैनतेयमथापिवा॥ 24.43 ॥

सुमनोभिरलङ्कृत्य ऋत्विग्भिर्वाहयेद्गुरुः।
गजस्कन्धं रथं वाश्व मारूढो वाहको नयेत्॥ 24.44 ॥

छत्रध्वजपताकाभिस्सार्ध मङ्गुरभाजनैः।
त्रिविधैर्मङ्गलैस्तूर्यैं रपिचोद्घोष्यसर्वतः॥ 24.45 ॥

भक्तैर्भागवतैस्सार्धं यतिभिर्मुनिभिस्तथा।
निष्क्रम्य शाकुनं सूक्तं पाठयन् भह्वृचानपि॥ 24.46 ॥

प्राचीमुदीचीं वा दूरां दिशङ्गत्वा मनोहरे।
शुचौ देशे मृदं शुद्धां खनित्रेण समुद्धरेत्॥ 24.47 ॥

अस्त्रमन्त्रेण धरणीं सम्प्रोक्ष्य प्रथमं गुरुः।
महीसूक्तेन संस्पृश्य धायन्ने काग्रचेतसा॥ 24.48 ॥

मूर्तिं देवस्य वाराहीं अभ्यर्च कुसुमैर्भुवम्।
15 अस्त्राम्बुना प्रौक्षितेन पुष्पेरभ्यर्चितेन च॥ 24.49 ॥

खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडविद्यया।

लोहजे भाजने मृत्स्नां वेत्रजे वाथ भाजने॥ 24.50 ॥

गृहीत्वा मुलमन्त्रेण वेष्टयित्वा च वाससा।
प्रत्यग्रेण तथा नद्या वालुकान् गोमयां स्तथा॥ 24.51 ॥

गोकुलात्पूर्वनत्पात्रे गृहीत्वा च्छाद्य चांशुकैः।
याने 16हये गजे वापि समारोप्य गुरुस्प्वयम्॥ 24.52 ॥

ऋत्विग्भिस्सहितैस्तूक्तमधीयानैश्च शाकुलम्।

श्रीसूक्तं भूमिसूक्तं च तूर्याण्यपि च घोषयेत्॥ 24.53 ॥

गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः।
आचार्यामूर्तिपाश्चैव 17 नूतनक्षौमवाससः॥ 24.54 ॥

सोत्तरीयास्स्वलङ्कारास्सोष्णीषास्साङ्गुलीयकाः।
सुरभीकृतसर्वाङ्गास्स्रग्विणो मृष्टकुण्टलाः॥ 24.55 ॥

18 श्वेतया मृत्स्नया सम्यक्परिक्षिप्तोर्ध्वपुण्ड्रकाः।
19 पवित्रपाणयस्स्नाताः प्राणायामपरायणाः॥ 24.56 ॥

कृताचामाः कृतन्यासाः जप्तमन्त्रा 20 यथातथम्।
21 तदर्थमर्थयित्वा तु यजमानसमन्विताः॥ 24.57 ॥

भगवन्तं जगद्वोनिं पूजयित्वा विधनतः।
सम्प्रोक्ष्य पालिकाक्षेत्र मद्भिशुद्धाभिरञ्जसा॥ 24.58 ॥

चन्दनार्दाणि सूत्राणि स्फालयेयुरनुक्रमात्।
प्रागायतानि प्रथमं ऋजूनि द्वादश स्फुटम्॥ 24.59 ॥

तथोदगायताग्राणि दश पञ्च च कल्पयेत्।
आशास्वष्टासु मध्येच शरवघटपालिकाः॥ 24.60 ॥

द्वादश द्वादश स्थाप्याश्शतमष्टोत्तरं तथा।
आग्नेये नैऋते भागे तथा यम्ये च पालिकाः॥ 24.61 ॥

घटिका वारुणे ब्राह्मे तथा पौरन्दरे पि च।
शरा वा मारुते सौम्येरौद्रे चापि यथाविधि॥ 24.62 ॥

प्राग्रायतानि नव वा सूत्राणि परिकल्पयेत्।
22 द्वादशैवेतराणु स्युश्शरावघटपालिकाः॥ 24.63 ॥

अष्टौ च चत्वारिंशच्च यद्वा सूत्राणि कल्पयेत्।
नवैव द्विप्रकाराणि षट् त्रिंशत्पालिकादयः॥ 24.64 ॥

प्रागायतानि नव वा उधीचीनायतानि षट्।
चतुर्विंशतिपात्राणि यद्वा प्रागयतानि च॥ 24.65 ॥

चत्वारि सूत्राण्यन्यानि पञ्च द्वादश कल्पने।
सर्वार्थपक्षे प्रथमे पञ्चैव द्पिविधान्यपि॥ 24.66 ॥

यद्वेन्दुकुम्भं परितः पालिकाष्षोडशस्थिताः।
23 द्वादशापि तथैवाष्टौ चतस्रो 24 वा दिशं प्रति॥ 24.67 ॥

सूत्रपात्रेषु सर्वत्र प्रत्यक्सोमघटस्थितिः।
शक्त्यपेक्षं पालिकानां पक्षभेदः प्रदर्शितः॥ 24.68 ॥

प्रक्षाल्य विष्णुगायत्र्या शरवघटपालिकाः।
सहदेवी च दूर्वा च सार्धमश्वत्थपल्लवैः॥ 24.69 ॥

कण्ठेषु पालिकादीनां बन्दनीयाश्चतुर्मुख।
कुशकाशतृणै सैषां बिलमूलानि पूरयेत्॥ 24.70 ॥

बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम्।
करीषचूर्णैरुपरि समृद्धं पूरयेद्बिलम्॥ 24.71 ॥

पादेषु पालिकादीनां शालिन्व्रीहीनथापि वा।
आढकं वा तदर्धं वा प्रस्थं वा तिलतण्डुलान्॥ 24.72 ॥

प्रतिपादं विनिक्षिप्य चतुरश्रमथापि वा।
वृत्तं विस्तारयेत्पूर्वं पालिकार्दीन् ततः क्रमात्॥ 24.73 ॥

न्यसेत्पादेषु धान्येषु मन्त्रैरेतै 25 र्यथाक्रमम्।
स्थाने यथोकै घटिकाः पारमेष्ठ्या तु विद्यया॥ 24.74 ॥

26 पुरुषाख्येन मन्त्रेण पालिकास्तदनन्तरम्।
शरावान्विश्वमन्त्रेण पाङ्मुखो वाप्युमङ्मुखः॥ 24.75 ॥

ब्रह्मादीशानपर्यन्तं न्याससैषामनु क्रमात्।
वासोभिर्वेष्टयेत्सर्वान् प्रत्येकं मूलविद्यया॥ 24.76 ॥

प्रतिव्यूहं तु वा शक्तौ छादयेद्वाससोपरि।
स्थाने पश्चात्तु सर्वेषां 27 सोमकुम्भं निवेशयेत्॥ 24.77 ॥

धान्यराशौ यथापूर्वमावेष्ट्य नवाससा।
गन्धोदकेन सम्पूर्णेतस्मिन् 28 रत्नानि 29 विन्यतेत्॥ 24.78 ॥

नीवाराश्शालयो मुद्गाश्श्यामाकाश्च प्रियङ्गवः।
यवास्तिलाश्च गोधूमाः येचान्ये याज्ञिका मताः॥ 24.79 ॥

तेशां भीजानि निक्षिप्य पात्रे महति नुतने।
तत्पात्रं मूर्ध्नि विन्यस्य तूर्यघोषपुरस्सरम्॥ 24.80 ॥

परीत्य मन्दिरं पात्र शालि 30 द्रोणार्धशोभिते।
पाग्देशे पालिकादीनां निवेश्य सुसमाहितः॥ 24.81 ॥

पयोभिः क्षालयेद्धान्यभीजानि विविधानि च।
प्रच्छाद्यनववस्त्रेण पुर्णाहं कारये31 त्पुनः॥ 24.82 ॥

32 शङ्खभेर्यादिनादेन वादयित्वा दिशोदश।
ध्यात्या च पालिकादीनामधिदेवाननुक्रमात्॥ 24.83 ॥

घटिकानां विधातारं पालिकानां जनार्धनम्।
ईशानं च शरावाणां 33 द्यात्वाभ्यर्च्य यथाविधि॥ 24.84 ॥

तोरणानि ध्वजांश्चैव द्वारकुम्भांश्च देशिकः।
कुमुदादि गणांश्चैव समभ्यर्चयथाविधि॥ 24.85 ॥

र्चयेत्पालिकादीनामधि देवाननुक्रमात्।
सोमकुम्भे ततस्सोमं यजेदावाह्य च स्वयम्॥ 24.86 ॥

34 निवेद्य पायसं हव्यं जुहुयात्सर्पिषाशतम्।
चतस्रस्समिधश्चैन मूलमन्त्रेण मन्त्रवित्॥ 24.87 ॥

चरुं पुरुषसूकैन पूर्णाहुत्यन्तमाचरेत्।
घृतेन सोममन्त्रेण जुहुयाच्छतमाहुतीः॥ 24.88 ॥

सम्पाताज्येन संस्पर्श्य स्पर्शमन्त्रेण पालिकाः।
सम्पाताज्याव शेषं च बीजपात्रे विनिक्षिपेत्॥ 24.89 ॥

सोममन्त्रं शतं वारान् जप्त्वा विप्राभ्यसुज्ञया।
मुहूर्तेशोभने भीजान् वापयेत्पालिकादिषु॥ 24.90 ॥

ब्रह्मादीशानपर्यन्तं द्वादशाक्षरविद्यया।
आचार्यानुमता 35 श्चान्येवैष्णवा 36 ध्यानमास्थाताः॥ 24.91 ॥

आवपेयुरमी तूर्ष्णीं सिञ्चेत्कुम्भस्थवारिभिः।
37 पिधानैश्चादयेत्सर्वं दद्याद्दिक्षु 38 बलिन्ततः॥ 24.92 ॥

रक्षिभ्यः कुमुदादिभ्यो बलिं दद्याद्दिवानिशम्।
39 यजेत सोमं तत्कुम्भे पायसेन दिवानिशम्॥ 24.93 ॥

दीपांश्चारोपितान्रक्षेदनिर्वाणां यथा तथा।
द्विजेन्द्रांस्तोषयेदिष्टैस्ताम्बूलैस्सुमनः फलैः॥ 24.94 ॥

गुरुं च तोषयेद्वत्तैर्यजमानः प्रयत्नवान्।
सद्यो वा धान्यभीजानि यथोक्तविधिना वपेत्॥ 24.95 ॥

हरिद्रा वारिभिस्सिञ्चेदङ्कुराण्यभि वृद्धये।
40 सोमकुम्भजलेनापि नित्यं सिञ्चेतपालिकाः॥ 24.96 ॥

अङ्गुरेषु च पीतेषु शुक्लेषु च तथा 41 शुभम्।
विद्यादृजुं प्ररूढेषु विपरीतेषु चाशुभम्॥ 24.97 ॥

कर्मार्थमङ्कु राण्यादौ यस्समारोपयेद्गुरुः।
स एव कर्मकार्त्स्न्येन कुर्यात्प्राज्ञोऽपि नेतरः॥ 24.98 ॥

अनुज्ञया वा तत्पुत्रश्शिष्यो वा तत्समाचरेत्।
ऋत्विजो वापितत्कर्म यद्यशक्तोगुरुर्भवेत्॥ 24.99 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि

क्रियापादे आचार्यलक्षणाङ्कुरार्पण विधिर्नाम

चतुर्विंशोऽध्याय।


  1. इतमर्धङ्क्वचिन्न. ↩︎

  2. प्रभुर्दीमान्. ↩︎

  3. धर्मज्ञस्सत्यवागिष्ट कर्मकृत्. ↩︎

  4. कृतज्ञः कालदेशवित्. ↩︎

  5. त्रपावानपि. ↩︎

  6. सर्वव्यादिविनिर्मुक्तः ↩︎

  7. सर्वं यजमानस्सभजयन् ↩︎

  8. “वटुर्यवा”—-" प्रदापयेत्" इत्यन्तं क्वचिन्न ↩︎

  9. कर्षणादिषु. ↩︎

  10. मधश्चाष्टाङ्गुलम्. ↩︎

  11. मुत्सेधं ↩︎

  12. " हेमादि—यथावनु" इत्वर्धङ्क्वचिन्न ↩︎

  13. वितत. ↩︎

  14. “विष्वक्सेन—-मथापिवा” इत्यर्धङ्क्वचिन्न दृश्यते. ↩︎

  15. अस्त्रा–र्चितेन च" इदमप्यर्धं कोशान्तरेनास्ति. ↩︎

  16. गजेरथे ↩︎

  17. कृतन्नानः कृताह्निकः ↩︎

  18. श्वेत—-काः इदमर्धं क्वचिन्न ↩︎

  19. पवित्रपाणिर्नियताः ↩︎

  20. यथायथम् ↩︎

  21. “तदर्ध—-विधाइति मेकं पद्यं केषुचिन्नलभ्यते. ↩︎

  22. द्वादशैतेतराणि ↩︎

  23. पालिकापि ↩︎

  24. विदिशं प्रति. ↩︎

  25. यथातथम्. ↩︎

  26. पुरुषाह्वय. ↩︎

  27. सोदकुम्भं निवेदयेत्. ↩︎

  28. वृत्तानि पूरयेत्—निक्षिपेत् ↩︎

  29. वृत्तानि. ↩︎

  30. द्रोणार्धतण्डुले ↩︎

  31. त्ततः ↩︎

  32. शङ्खतूर्यादि. ↩︎

  33. फृतारोपणमाचरेत् ↩︎

  34. निवेद्यपायसान्नं वा सुद्धान्नं वा यथारुचि। जीजानां साधनर्थं तु जुहुयात्सर्पिषा शतम्. तत्सङ्ख्यास्समिधश्चेति मूल. ↩︎

  35. स्सर्वे. ↩︎

  36. स्थानमास्थिताः ↩︎

  37. पिधायच्छादयेद्वस्त्रैः ↩︎

  38. समं ततः ↩︎

  39. इदं पद्यं क्वचिन्न. ↩︎

  40. इदमर्धं क्वचिदधिकमस्ति. ↩︎

  41. यजुम् विद्याच्छुभम्. ↩︎