पाद्मसंहितायाम्.
एकविंशोऽध्यायः
श्रीभगवान्—-
- श्रीयादिदेवीमूर्तिमानम्*
अथ श्रियादि देवीनां 1 निर्माणविधिरुच्यते।
दशतालादिना येन तालमानेन 2 कल्प्यते॥ 21.1 ॥
देवो देव्यश्श्रियाद्यास्तु कल्पनीया 3 श्चतुर्मुख।
तदनन्तरतालेन नाधिकेन समेन वा॥ 21.2 ॥
यावन्त्यो याश्च यन्माना श्श्रियादेश्शूलयष्टयः।
तन्मानास्ताश्च तावत्यः कथ्यन्ते संप्रति क्रमात्॥ 21.3 ॥
पञ्चतालमितायामा वंशयष्टिश्चतुर्मुख।
विस्तारस्त्र्यङ्गुलो मूले 4 सह षड्भिर्यवैरपि॥ 21.4 ॥
मध्यतस्त्र्यंगुल 5 स्सार्धस्त्र्यङ्गुलः पुनरग्रतः।
चतुर्दशांगुलो मध्ये मूले पञ्चदशांगुलः॥ 21.5 ॥
नाहोग्रे वंशयष्टेस्स्यात्सार्धं सत्रिदशांगुलम्।
चतुरश्रस्सुवृत्तो वा दण्डः कल्प्यश्च शिल्पिभिः॥ 21.6 ॥
अङ्गुलैस्सप्तविंशत्या वक्षोदण्डस्समायतः।
विस्तारो मध्यमस्तस्य त्र्यङ्गुलष्षड्यवाधिकः॥ 21.7 ॥
अंगुलैर्दशभिर्नाह 6 स्सह पञ्चभिरंगुलैः।
किंशुकस्येव मुकुलं तस्याग्रे द्वे प्रकल्पयेत्॥ 21.8 ॥
बाहुमूलं चतुर्विंशत्यंगुलायाममिष्यते।
7 त्र्यंगुलार्धादिको मूलविस्तारस्तस्य कल्प्यते॥ 21.9 ॥
8 त्र्यंगुलो मध्यविस्तारस्तस्याग्रं द्व्यगुलं भवेत्।
अष्टादशांगुलायामः प्रकोष्ठस्तस्य मूलतः॥ 21.10 ॥
विस्तारस्त्र्यंगुलो मध्ये द्व्यंगुलस्सचतुर्यवः।
9 द्व्यंगुलोग्रे तयोर्मूलशूलयोस्सुषिरं भवेत्॥ 21.11 ॥
आयामः कटिदण्डस्य भवेत्पञ्चदशांगुलः।
विस्तारो मध्यमस्तस्य त्र्यंगुलस्सहषड्यवः॥ 21.12 ॥
नहनं मध्यतस्तस्य 10 भवेत्पञ्चदशांगुलम्।
षडंगुलः पार्श्वयष्टेः परिणाहः प्रकीर्तितः॥ 21.13 ॥
पार्श्वदण्डौ कटिवक्षश्शू लयोर्विनियोजयेत्।
षड्विंशत्यंगुलायाममुरश्शूलमुदाहृतम्॥ 21.14 ॥
त्र्यंगुलो मूलविस्तारस्तस्याग्रं द्व्यंगुलं भवेत्।
विस्तीर्णं द्व्यंगुलं 11 मध्यं शूलस्य च चतुर्यवम्॥ 21.15 ॥
पूरुशूलसमायामं जङ्घा शूलं प्रकल्पयेत्।
सुषिरं च तयोर्मूलमग्रं मिथुनमेतयोः॥ 21.16 ॥
अनुक्त परिणाहानां त्रिगुणं नहनं मतम्।
त्रयोदशविधं शूलं कृत्वा पूर्वोक्तमानकम्॥ 21.17 ॥
जलाधिवासाद्यखिलं12 कुर्यार्च्छ्रीस्थापने यथा।
स्वातन्य्रैच पारतन्य्रै रत्नन्यासफुरस्सरम्॥ 21.18 ॥
शूलादिस्थापयेद्रज्जुवेष्टनादि यथापुरम्।
कुर्यादावर्णलेपान्तं मानाग्यथ निदर्श्यते॥ 21.19 ॥
उत्सेधमंगुलशतं विंशमास्थाय कथ्यते।
उष्णीषमङ्गुलमितं त्र्यंगुलं च शिरोभवेत्॥ 21.20 ॥
सार्धं त्रिभिर्यवैरक्षिसूत्रान्तं चतुरंगुलम्।
सङ्गमात्पुटसूत्रान्तं तद्वदम्भोरुहासन॥ 21.21 ॥
चिबुकान्तं पुटादर्वाक्सपादचतुरंगुलम्।
चतुरङ्गुलमानास्याद्ग्रीवा हिक्का 13 गुणात्ततः॥ 21.22 ॥
त्रयोदशांगुलमितं स्तनसूत्रान्तमीरितम्।
अतोनु नाभिसीमास्तं भवेत्पंचदशाङ्गुलम्॥ 21.23 ॥
श्रोणी षडंगुलायामा योनिस्सार्धाङ्गुलित्रयम्।
कटिमानं भवेत्सार्धं त्र्यङ्गुलं 14 चोरुरायता॥ 21.24 ॥
अङ्गुलैः पंचविंशत्या सार्धैर्जङ्घा च तत्समा।
15 सार्धं च त्र्यङ्गुलं जानुस्तद्वदक्षतलावधि॥ 21.25 ॥
विस्तारोऽष्टाङ्गुलस्तस्य द्वादशांगुलमायतम्।
प्रदक्षिणावर्तयुतं ज्वालाग्रं शङ्खचक्रयोः॥ 21.26 ॥
केशान्तेन समा यद्वा यद्वा सूत्रेण तत्समम्।
सार्धान्तरांशुना पूर्वा गुञ्जानि द्व्यङ्गुलान्तरे॥ 21.27 ॥
जङ्घयोर्विंशतियवमन्तरालं प्रचक्षते।
अक्षयोस्त्र्यंगुलं मध्यं स्तनयोस्सप्तमांगुलम्॥ 21.28 ॥
चरणांगुष्ठयोर्मध्यं नवांगुलमुदाहृतम्।
अक्षात्परतरं तालमंगुष्ठं त्रिभिरंगुलैः॥ 21.29 ॥
अर्धेन 16 चायतं ध्वे च तर्जनी स्याद्यवाधिका।
यवोना मध्यमान्ये द्वे यवहीने यथाक्रमम्॥ 21.30 ॥
पार्ष्णिपार्श्वपरिच्छोदो भवेच्च चतुरंगुलः।
गुल्फं तथापरिमितं तद्विंशत्यंगुलायतम्॥ 21.31 ॥
17 हिक्कां तयोरधो बाहुस्सहार्धैकोनविंशतिः।
अंगलानि प्रकोष्ठं स्यात्तदायामष्षडंगुलः॥ 21.32 ॥
तद्वच्च मध्यमा शिष्टा सार्धपंच दशांगुला।
दशांगुलं शिरोमानं विस्तारोऽष्टागुंलो भवेत्॥ 21.33 ॥
ललाटस्य पुरोनु स्यादशीतियवसंमितम्।
अष्टाशीतियवं मानं तदनन्तरमिष्यते॥ 21.34 ॥
आयामश्श्रवणस्य स्याद्द्वात्रिंशद्यवसंमितः।
नालायामस्त थाचोर्ध्वं पिप्पल्या द्वियवो मतः॥ 21.35 ॥
नालस्य मूलविस्तारष्षड्यवैस्तुलितो भवेत्।
अग्रं चतुर्यावं ग्रीवा मूलं चैव ष़ंगुलम्॥ 21.36 ॥
सार्धं पञ्चांगु 18 लार्धाग्रं स्कंधं च द्व्यंगुल भवेत्।
हिक्कान्तयोरधो बाह्वोर्मूलं द्वात्रिंशदंगुलम्॥ 21.37 ॥
अष्टादशांगुलमुरस्तनयोरपि मण्डलम्।
अंगुलैः पञ्चदशभिः परिच्छिन्नं यथातथम्॥ 21.38 ॥
नवांगुलं च विस्तार उत्सेधश्चापि तादृशः।
द्वादशांगुलविस्तारस्तनयोर्मध्यमिष्यते॥ 21.39 ॥
कृष्णमण्डलविस्तारो द्व्यंगुलं चतुरानन।
नाहस्तु कुक्षिमध्यस्य स्यात्त्रयस्त्रिंशदंगुलः॥ 21.40 ॥
श्रोणीमध्यपरीणाह 19 स्सप्तपंचदशांगुलः।
कटिमध्यपरीणाहो विंशत्या 20 सैकयांगुलैः॥ 21.41 ॥
षट्त्रिंशदंगुलो नाहस्तथा स्यादूरुमूलयोः।
त्रिंशदंगुलनाहस्तु भवेदूर्वोस्तु मध्यमः॥ 21.42 ॥
चतुर्भिस्सह विंशत्या जानुनाहस्तथांगुलैः।
सहनं जङ्घयोरेकविंशत्यंगुलमिष्यते॥ 21.43 ॥
द्वाविंशत्यंगुलस्सार्धो नाहमध्ये च जङ्घयोः।
सहनं जङ्घयोरग्रं भवेदेकादशांगुलम्॥ 21.44 ॥
एकादशांगुलं चाक्षवृत्त 21 मण्डलनाहनम्।
22 एकांगुलं चाक्षवृत्तं मध्यमं नहनं मतम्॥ 21.45 ॥
ष़डंगुलं तलाग्रं स्यादुत्सेधश्चतुरंगुलः।
द्व्यंगुलोऽङ्गुष्ठविस्तारस्तर्ज 23 न्येकांगुला भवेत्॥ 21.46 ॥
मध्यमादितरांगुल्यो यवहीनाः क्रमात्पूनः।
अंगुष्ठनखविस्तारस्त्र्यंगुलः परिकीर्ततः॥ 21.47 ॥
तर्जनी पादहीना न्यात्क्रमादन्या 24 यवोन्नताः।
अष्टादशाङ्गुलं मध्यं मूलां बाह्वोस्त्रयाधिकं॥ 21.48 ॥
प्रकोष्ठमूलनहनं भवेत्पंचदशांगुलम्।
द्वादशांगुलमध्यान्तं मणिबन्धो नवांगुलः॥ 21.49 ॥
विस्तीर्णं 25 तालमध्यर्धं चतुरंगुलमिष्यते।
अंगुष्ठमूल 26 मध्यर्धमंगुलं नखमङ्गुलम्॥ 21.50 ॥
निस्सृतं त्रियवं प्रोक्तं पर्वद्वयसमन्वितम्।
तर्जन्यंगुलविस्तारस्सहाष्ठांशांगुलो भवेत्॥ 21.51 ॥
सपादाङ्गुलविस्तारा मध्यमाङ्गुलिरिष्यते।
अष्टसप्तयवैश्शिष्टेस्त्रिपर्वा च चतुष्टयी॥ 21.52 ॥
पार्श्वे केशान्तमुष्णिषादारभ्य स्याद्दशांगुलम्।
आरभ्य पार्श्व केशांतात्स पाद द्व्यङ्गुले भ्रुवौ॥ 21.53 ॥
ष़डंगुला यथा भ्रूस्स्याद्यवमध्याग्र 26 यूकका।
अन्तरालं नवयवं भ्रुवो 27 स्त्र्यंगुलमीक्षणम्॥ 21.54 ॥
अंगुलायामविस्तारा वेदितव्या कनीनिका।
यवोनमंगुलं कृष्णज्योतिर्यूक प्रमाणकम्॥ 21.55 ॥
परितः कृष्णबिम्बस्य अंगुलं श्वेतमण्डलम्।
मध्यतोंगुलविस्तारं नयनं शूर्पमीनवत्॥ 21.56 ॥
ऊर्ध्वपक्ष्मायतासार्धत्र्यंगुलापादविस्तरा।
त्र्यंगुलायाममितरद्विस्तारो यवसंमितः॥ 21.57 ॥
अशीतः पक्ष्मरोमाणि शतानि कुटिलानि च।
द्व्यंगुलं चक्षुषोर्मध्यं नासिकामूलमंगुलम्॥ 21.58 ॥
विस्तीर्णमुन्नतं वापि मध्यमध्यर्धमंगुलम्।
28 अग्रं द्व्यङ्गुलमध्यर्धं षड्यवं शुषिरं भवेत्॥
आपाङ्गात्कर्णमूलान्तं चत्वारिंशद्यवं मतम्॥ 21.59 ॥
द्व्यङ्गुलः कर्णविस्तारो विवरं च चतुर्यवम्।
चतुरङ्गुलमद्धर्धमोष्ठमुत्तरमायतम्॥ 21.60 ॥
यवविस्तारमधरमेकांगुलसमायतम्।
द्व्यङ्गुलं चैव विस्तारं चिबुकं द्व्यंगुलायतम्॥ 21.61 ॥
29 आपीडा नासिकायुक्ता करण्डमुकुटान्विता।
कर्णिका 30 मणिकेयूर कटकत्रयहारिणी॥ 21.62 ॥
रत्नकूर्पासरशना पुष्पाम्बरपरिष्कृताः।
स्तनबन्धतुलाकोटी सर्वाभरणभूषिता॥ 21.63 ॥
लज्जाभङ्गेन देवस्य पार्श्वे वामेतरे स्थिता।
हस्तेव वाहिजं पुल्लं वामेन किल बिभ्रती॥ 21.64 ॥
ऊरुप्रदेशविश्रान्तसव्येतरकराम्बुजा।
यद्वा स्यथाहस्तयोस्यान्निष्टप्तकनकप्रभा॥ 21.65 ॥
31 आसनेऽभयदो हस्तो दक्षिणो वरदोऽपरः।
दक्षिणे पद्ममथवा सव्यः कटकमुद्रितः॥ 21.66 ॥
पारतन्त्ये विधिरयं स्वातन्त्यैतूच्यते यथा।
32 चतुर्भुजां जघन्याभ्यां हस्ताभ्यामज्जधारिणीं॥ 21.67 ॥
शङ्खचक्रधरां 33 वापि मुख्याभ्यां वरदायिनीम्।
अभीतिदां च कोटीरधारिणीं भयवर्जिताम्॥ 21.68 ॥
वसुन्धराह्वयां देवीं द्विहस्तां कनकप्रभाम्।
दक्षिणाभयदामन्यहस्तेन वसुदायिनीम्॥
गुहीतदाडिमफलां यद्वा वामकरेण वा॥ 21.69 ॥
चिन्तारत्नं धारयन्तीं हेमसिंहासने स्थिताम्।
वामपादेन संस्पृष्टनिधिकुम्भामलंकृताम्॥ 21.70 ॥
कल्पकानोकहच्छायां समाश्रित्य स्थितां तथा।
वामे पार्श्वे महीं देवीं द्विहस्तां श्यामलंप्रभाम्॥ 21.71 ॥
स्तनबन्ध 34 विहीनां वा कुण्डलापीडवर्जिताम्।
सुस्थितां सव्यपादेन चान्येन प्तोककुञ्चिताम्॥ 21.72 ॥
पुष्पं दक्षिणहस्तेव धारयन्तीं शुचिस्मिताम्।
ऊरुप्रदेशविश्रान्तवामहस्ता मलंकृताम्॥ 21.73 ॥
सोत्तरीयां यथायोगं स्वातन्त्र्ये श्रीरुदाहृता।
35 योगलक्ष्मीस्तु श्रीवत्सं भोगलक्ष्मी र्द्विपार्श्वयो॥
वीरलक्ष्मीस्तु वै शेषं पृथग्भवनकल्पनम्॥ 21.74 ॥
रतिस्सरस्वती तुष्टिर्देव्यो देवस्य दक्षिणे।
36 रतिस्सिस्धूर सज्काशा स्फटिकाभा सरस्वती॥ 21.75 ॥
हरितालनिभा 37 तुष्टिश्श्रीवदभरणादयः।
पारतन्य्रे विधिरयं स्वातंत्र्ये तूच्यते विधिः॥ 21.76 ॥
रत्यादयश्च तुर्हस्ता मुख्यौ स्यातां रतेः करौ।
वरदाभयदावन्यौ पाशाङ्गुशधरौ पुनः॥ 21.77 ॥
मुख्यौ हस्तौ सरस्वत्या दक्षिणो ज्ञानमुद्रितः।
विज्ञानपुस्तकं वामे जघन्ये दक्षिणेकरे॥ 21.78 ॥
अक्षसूत्र 38 धरं वामे सर्वे वज्रादयः स्थिताः।
तुष्टेश्च पूर्ववन्मुख्यौ जघन्यौ शङ्खमम्बुजम्॥ 21.79 ॥
कीर्तः प्रीतिश्च शान्तिश्च वामे देवस्य संस्थिताः।
वामाङ्घ्रयस्सुस्थितास्स्यरीषदन्येन कुञ्चिताः॥ 21.80 ॥
ऊरुप्रदेशविश्रान्ता वामाः पुष्पधराः परे।
कीर्तस्स्फटिकवर्णाभा नीलाभा प्रीतिरिष्यते॥ 21.81 ॥
शान्तिश्श्यामनिभा चैव सर्वालङ्कार शोभिता।
पारतन्त्र्ये विधिरयं स्वातन्त्र्
पाद्मसंहितायाम्.
द्वाविंशोध्यायः
- परिवाराणां रूपवर्णादिनिरूपणम्*
श्रीभगवान्—
रूपं वर्णं तथाकल्पं हस्तमुद्रां तथैव च।
हस्तसङ्ख्यां यथा योगमव्यच्चापि चतुर्मुख॥ 22.1 ॥
अधुना परिवाराणां प्रवक्ष्यामि यथातथम्।
- हयग्रीवः*
हयग्रीवं चतुर्बाहुं शुद्धस्फटिकसन्निभम्॥ 22.2 ॥
अश्ववक्त्रं मुकुटिनं धौतवस्त्रौत्तरीयकम्।
मुख्येनै केन वरदं दक्षिणेनेतरेण तु॥ 22.3 ॥
विज्ञानपुस्तकधरं जघन्ये च करद्वये।
1 अक्ष सूत्रं च शङ्खं च बिभ्राणं सुपरिष्कृतम्॥ 22.4 ॥
2 कल्पयेत्पुरुषाकार 3 मनन्तरं च किरीटिनम्।
भोगिभोगे सुखासीनां पृष्ठतः फणमण्डलैः॥ 22.5 ॥
उन्नमद्भिः कृतच्छायं चतुर्हस्तं सितप्रभम्।
यद्वा तु श्यामलो वर्णं अनव्तस्य प्रकीर्त्यते॥ 22.6 ॥
प्रकल्पये न्मुख्यहास्तं 4 वरदं वामहस्तकम्।
गदाधारं कटीदेशमनलंब्याथ वा स्थितम्॥ 22.7 ॥
जघन्याभ्यां च हस्साभ्यां शङ्ख चक्रधरो भवेत्।
- गरुडः*
गरुडं कनकप्रख्यं नीलनासाग्रसंयुतम्॥ 22.8 ॥
दक्षिणेतरविस्तीर्णं विचित्रपृथुवक्षसम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटीलेक्षणम्॥ 22.9 ॥
करण्डिका मुकुटिनां सर्वाभरण भूषितम्।
विचित्रकञ्चुकधरं भुजगेंद्रै रलंकृतम्॥ 22.10 ॥
हृदिपुष्पांजलिधरं स्थितमासीन मेव वा।
दक्षिणेतरयोरेक पादयोः कुञ्चितं भवेत्॥ 22.11 ॥
पृष्ठतोऽन्यो यथायोगं यद्वा पद्मासनं भवेत्।
- सूर्यः*
मार्ताण्डं द्विभुजं रक्तं रक्ताम्बरधरं स्थितम्॥ 22.12 ॥
पृष्ठभागे शिरश्चक्रं स्थाने विपुलमण्डलम्॥
बिभ्राणं कमलद्वन्द्वं हस्ताभ्यां च किरीटिनम्॥ 22.13 ॥
उरः प्रदेशे विपुले स्यमन्तकमहामणिम्।
आसीनां वा सुखं बिम्बेपद्मेऽष्टदलसंयुते॥ 22.14 ॥
- सोमः*
पूर्वादौ वारिजदले मेषप्रभृतिराशिभिः।
सेवितं कल्पये 5 त्सोमं द्वाभ्यां कुमुदधारिणम्॥ 22.15 ॥
- कामः*
कामं रक्तनिभं रक्तप्रसवाम्बरधारिणम्।
हस्ताभ्यामैक्षं चापं बिभ्राणं सुमनश्शरान्॥ 22.16 ॥
चतुर्भुजं चतुर्वक्त्रं जटामुकुटधारिणम्।
वराभयप्रदं मुख्यहस्ताभ्यामन्यहस्तयोः॥ 22.17 ॥
कुण्डिकामक्षसूत्रं च बिभ्राणं च सुखासनम्।
- गजाननः*
गजाननं चतुर्भाहुं लम्बकुक्षिं सितप्रभम्॥ 22.18 ॥
करण्डिका मुकुटिनं लम्बयज्ञोपवीतिनम्।
वामहस्तेन मुख्येन संगृहीतमहाफलम्॥ 22.19 ॥
इतरेण तु हस्तेन भग्नदसन्तपरिग्रहम्।
अपराभ्यां च हस्ताभ्यां पाशाङ्गुश6 धरं प्रभुम्॥ 22.20 ॥
- षण्मुखः*
षण्मुखं च चतुर्बाहुं दाडिमीकुसुमप्रभम्।
वराभयप्रदौ मख्यौ जघन्यौ शक्तितो मरौ॥ 22.21 ॥
कल्पयेच्छ्यामलां 7 कात्यां चतुर्भिर्बाहुभिः क्रमात्।
गदाधरामभयदां शङ्खचक्रवरायुधां॥ 22.22 ॥
हारकेयूर 8मुकुटनूपुरादिविभूषिताम्।
अथवाष्टभुजां गुर्गां दक्षिणे दोश्चतुष्टये॥ 22.23 ॥
अभीतिशरविस्त्रिंश चक्रमण्डलमण्डिताम्।
वामे गदा धनुः खड्गशङ्खयुध धरां वरां॥ 22.24 ॥
अथवा द्वादशभुजां विशेषस्समुदीर्यते।
दक्षिणे परशुं शूलं वामे पाशाङ्गुशौ तथा॥ 22.25 ॥
घण्टेति पञ्च पूर्वाणि यद्वा 9 द्वादशबाहुकाम्।
अनुक्तमायुधं कल्प्यं भुजे न्यस्मिन् चतुष्टये॥ 22.26 ॥
द्वात्रिंशदपि वा हस्ता 10 शस्त्रमूह्यं तु चोदितम्।
- धनदः*
लम्बोदरं महाकायं कल्पयेद्धनदं ततः॥ 22.27 ॥
निष्टप्तकनकप्रख्यं वरदं दण्डिनं तथा।
- धनदस्यपरिवारः*
तस्यदक्षिणतः पार्श्वे जृम्भलो माणिभ्रद्रकः॥ 22.28 ॥
कल्प्यश्शङ्खनिधिंचैव वामेपार्श्वे तु कल्पयेत्।
नलकूबरमम्भेजनिधिं च शिबिकुण्डलम्॥ 22.29 ॥
11 जृम्भलो हेमवर्णाभो मणिभद्रो मणिप्रभः।
नलकूबरनामा तु श्याम वर्णः प्रकीर्तितः॥ 22.30 ॥
शिबिः कुण्डलवान् रक्तस्सर्वे भीतिवरप्रदाः।
- रुद्रः*
रुद्रं त्रिनेत्रमरुणं जटामुकुटधारिणम्॥ 22.31 ॥
चतुर्भुजं नीलकण्ठमिन्दु रेखा 12 विभूषितम्।
वै य्याघ्र चर्मवसनं सर्वाभरणभूषितं॥ 22.32 ॥
कराभ्यामपि मुख्याभ्यां वरदाभयदं स्थितम्।
अपराभ्यां च हस्ताभ्यां भिभ्राणं परशुं मृगम्॥ 22.33 ॥
- क्षेत्रपालः*
क्षेत्रपालं चतुर्भाहुं करण्डिमुकुटोज्वलम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्॥ 22.34 ॥
वामे करे दण्डधरं मुख्ये वामेतरेकरे।
दधानं तर्जनीमुद्रां पाशाङ्गुशममुख्योः॥ 22.35 ॥
- विष्वक्सेनः*
विष्वक्सेनं चतुर्बाहुं श्यामवर्णं किरीटिनम्।
लम्बोदरं च मुख्येन करेणाभयदायिनम्॥ 22.36 ॥
दक्षिणेन प्रसर्व्येन समालम्ब्य कटिं स्थितम्।
आसीनमपराभ्यां च हस्ताभ्यां शङ्खचक्रिणम्॥ 22.37 ॥
अथवा पूर्वकरयोर्गदामेकत्र कल्पयेत्।
अन्यत्र तर्जनीमुद्रां यद्वा दक्षिणहस्तयोः॥ 22.38 ॥
मुख्येऽभीतिरमुख्ये तु चक्रमन्यत्र हस्तयोः।
गदां मुख्ये जघन्ये तु शङ्खं च प्रिकल्पयेत्॥ 22.39 ॥
शङ्खचक्रधरं यद्वा स्थितं मुख्ये करद्वये।
बिब्राणं क्षुरिकां वेत्रं कृताञ्जलिपुटं स्थितम्॥ 22.40 ॥
?* विष्वक्सेनमहिषी*
देवीं च विष्वक्सेनस्य वामपार्श्वे प्रतिष्ठिताम्।
नाम्ना 13 पुष्पधरां कुर्यात्कमलामिव लक्षिताम्॥ 22.41 ॥
- ब्राह्म्यदिमूर्तयः*
ब्राह्म्यदि मातरस्सर्वा ब्रह्माद्यात्मीयशक्तयः।
रूपवर्णायुधादीनि ब्रह्मादीनां भजन्ति ताः॥ 22.42 ॥
- वीरभद्रः*
रुद्ररूपी वीरभद्रस्तासां पश्चात् स्थितो भवेत्।
- विनायकः*
प्राग्भागे विघ्नराट् तासा 14 मग्रं चापि भुजद्वयम्॥ 22.43 ॥
पार्श्वतः स्थितयोस्सख्योर्न्यस्य स्कन्धे स्थितंभवेत्।
- अजामुखाः*
15 आसन्न प्रसवापार्श्वे ऽजामुखाः पुरुषाः स्थिताः॥ 22.44 ॥
दिव्यायुधधरा ह्यष्टौ स्वचिह्नाङ्कितमस्तकाः।
चक्री मुसलवान् शङ्खी खीड्गी चैव गदाधरः॥ 22.45 ॥
शार्ङ्गी पद्वी तथावज्री 16 नराकारा द्विपाणयः।
दक्षिणे तर्ङनीमुद्रा वा मः कट्यवलम्बतः॥ 22.46 ॥
- आदित्याः*
आदित्या द्वादश तथा तद्रूपादि दिनेशवत्।
द्विहस्ता वसवस्सर्वेकरण्डमुकुटान्विताः॥ 22.47 ॥
- पितरः*
दण्डिनस्तोमरधराः पितरश्च द्विपाणयः।
17 दण्डायुधा वामहस्ते दक्षिणाभयदाश्च ते॥ 22.48 ॥
- विश्वेदेवाः*
करण्डीकामुकुटिनो विश्वेदवाश्च तादृशाः।
- सप्तर्षयः*
अत्रिर्भृगुश्च कुत्सश्च वसिष्ठो गौतमस्तथा॥ 22.49 ॥
काश्यपश्चाङ्गिराश्चैव एते सप्तर्षयः स्मृताः।
सप्तर्षयः करे सर्वे बिभ्राणा ज्ञानपुस्तकम्॥ 22.50 ॥
विज्ञानमुद्रामन्य त्र जटामुकुटधारिणः।
लक्ष्म्या विराजिता ब्राह्म्या
- रुद्रपारिषदाः*
रुद्रास्वैकादश 18 स्मृताः॥ रुद्रवत् ॥ 22.51 ॥
- विष्णु पारिषदाः*
कुमुदाद्यास्तु विष्णुपारिषदेश्वराः।
करैश्चतुर्भिर्भिभ्राणाश्शङ्खचक्रगदा स्तथा॥ 22.52 ॥
दक्षिणे तर्जनीमुद्रा पीतवस्त्राः किरीटिनः।
- उपेंद्रादयः*
उपेन्द्राद्यष्टकां चापि द्विहस्तमरिशङ्खगम्॥ 22.53 ॥
विश्वादयश्च द्विभुजा गदाखड्गास्त्रधारिणः।
करण्जिकामुकुटिनस्सर्वाभरणभूषिताः॥ 22.54 ॥
- अश्विनौ*
अश्विनौ सदृशौ रक्तौ सुधाकलशधारिणौ।
करण्डिकामुकुटिनौ द्विहस्तौ भुषितौ भृशम्॥ 22.55 ॥
- इंद्रा दि दिक्पालाः*
श्यामः किरीटी द्विभुजो वासवो वज्रिदक्षिणः।
वामावलम्भितकटि स्सर्वाकल्प परिष्कृतः॥ 22.56 ॥
ज्वालामण्डलमध्यस्थो ज्वालनो द्विभुजो भवेत्।
वरदश्शक्तिहस्तश्च करण्डिमुकुटोज्वलः॥ 22.57 ॥
वै वस्वतश्च द्विभुजः किरीटि 19 मेचकच्छविः।
दक्षिणा भयदो दण्डी 20 निरृतिर्भीमदर्शनः॥ 22.58 ॥
दंष्ट्राकरालवदनो भ्रुकुटी कुटिलेक्षणः।
21 दक्षिणो भीतिरुत्खड्गो करण्डिमुकुटोज्वलः॥ 22.59 ॥
वरुणश्श्यामलः पाशहस्तो वामेऽभयप्रदः।
करंडिमुकुटश्चैव वायुर्धूम्रो 22 द्विबाहुकः॥ 22.60 ॥
अङ्गुणो दक्षिणे हस्ते वामः कट्यवलम्बनः।
मरुतो वायुना तुल्यास्सोमस्पोमवदिष्यते॥ 22.61 ॥
ईशानो रुद्रवत्कल्प्यस्तेषां वाहनमुच्यते।
- ब्रह्मादीनां वाहनानि.*
हंसो विधारू रुद्रस्य वृषस्सूर्यस्यघोटकः॥ 22.63 ॥
मकरश्शूर्पकारातेश्शक्तपाणेश्च बर्हिणः।
दुर्गायाः केसरी प्रोक्तो विघ्नराजस्य मूषकः॥ 22.64 ॥
नरो यक्षाधिराजस्य शुनापीरस्य कुंजरः।
अघ्नेर्मेषः कृतां तस्य लुलायो वाहनं भवेत्॥ 22.65 ॥
पिशाचो निरृतेर्यानं मकरो वरुणस्य तु।
प्राणस्य हरिणः प्रोक्तस्स एव मरुतामपि॥ 22.66 ॥
- मूलपरिवारबेरयोर्मानभेदः*
उच्छ्रायं मूलबेरस्य चतुर्धा विभजेत्ततः।
23 तत्रैकभागमुच्छ्रायं परिवारेषु कल्पयेत्॥ 22.67 ॥
24 मानाङ्गुलेन वा यद्वा देहलब्धाङ्गुलेन वा।
अष्टाङ्गुल समुच्छ्रायं द्वादशाङ्गुलमेव वा॥ 22.68 ॥
द्विगुणं वा यथायोगमुच्छ्रायं परिकल्पयेत्।
स्थाने मूलप्रतिकृतेः परिवाराश्च ते स्थिताः॥ 22.69 ॥
आसीनाश्चासने तस्य शय्यायां शयनं वाना।
असीना वा स्थिता वापि 25 कामचाराश्चतुर्मुख॥ 22.70 ॥
प्रलम्बफलकायाम घनविस्तार 26 निर्णयम्।
कथ्यते पंचतालस्यादायामो घनमङ्गुलम्॥ 22.71 ॥
अर्धायामं च विस्तारं कुर्या त्तत्सुकृतं यथा।
प्रतिमास्तदङ्गानां कौटिल्यार्जवसिद्धये॥ 22.72 ॥
लम्बमानं यदुच्छिष्टं तदर्धं कमलासन।
शिखामण्यादिसुषिरमनेकं तत्रकल्पयेत्॥ 22.73 ॥
सूत्राणि सुषिरैस्तैस्तैर्लम्बयेच्च 27 पृथक्स्वयम्।
जानीयादार्जवं तेन प्रत्यङ्गमविचारयन्॥ 22.74 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे परिवार 28 विधिर्नाम
द्वाविंशोऽध्यायः