विंशोऽध्यायः
श्रीभगवान्—
- प्रतिमामानविधिः*
अतः परं प्रवक्ष्यामि प्रतिमामानमुत्तमम्।
मानं प्रमाणमुन्मानं 1 इति मानं त्रिधा भावेत्॥ 20.1 ॥
मानमुत्सेधमानं स्यादुन्मानं नहनं मतम्।
मानं च तिर्यगूर्ध्वं यत्तत्प्रमाणमिहोच्यते॥ 20.2 ॥
2 तत्र प्रतिकृतेस्तावत्तदङ्गानां कथ्यते।
उत्सेधमानं मूर्धादि पादान्तमनुपूर्वशः॥ 20.3 ॥
3 लद्धानां देहतस्तावदङ्गुलीनां शतेन तु।
4 चतुर्विंशतिमानेन प्रतिमां परिकल्पयेत्॥ 20.4 ॥
उष्णीषमङ्गुलमितं केशान्तं त्र्यङ्गुलं मतम्।
5 दृक्सूत्रान्तं तदारभ्यषट्त्रिंशद्यवसम्मितम्॥ 20.5 ॥
तद्वन्नासापुटान्तं स्यात्तद्वच्च चिबुकावधि।
तेन केशान्तमारभ्य मुखमानं चतुर्मुख॥ 20.6 ॥
अष्टोत्तरं यवशतं चिबुकावयवावधि।
गलमर्धाङ्गुलं सार्धं त्र्यंगुलं 6 कण्ठमिष्यते॥ 20.7 ॥
हिक्कासूत्रं समारभ्य हृदयान्तं 7 मुखे स्थितम्।
ततः प्रभृति नाभ्यन्तं सार्धं सत्रिदशाङ्गुलम्॥ 20.8 ॥
ततः प्रभृति मेढ्रान्तं तद्वदुत्सेधमिष्यते।
तन्मूलाज्जानुपर्यन्तं त्रिन्यूनं त्रिदशांगुलम्॥ 20.9 ॥
चतुरङ्गुलमुत्सेधं जानुमण्डलमिष्यते।
अक्षान्तं जानुनोऽधन्तादूरुतुल्यमितीरितम्॥ 20.10 ॥
ततस्तालान्तमुत्सेधं चतुरंगुलसंमितम्।
देहाङ्गुलानि यावन्ति दश तालेऽभिपूजिते॥ 20.11 ॥
विभज्य तावन्त्युक्तानि मध्यमे श्रूयतां क्रमः।
त्रयोदशांगुलं वक्त्रं त्रिस्थानं च तदंगुलम्॥ 20.12 ॥
षड्विंशत्यंगुलोत्सेधमुरुमानमुदाहृतम्।
तद्वज्जङ्घासमुत्सेधं उत्तरेणेतरत्समम्॥ 20.13 ॥
अधमे दशताले तु मुखं शतयवं मतम्।
त्रिस्थानं 8 तावदेवस्यादूरुर्यवशतद्वयम्॥ 20.14 ॥
जङ्घा च तत्समोत्सोधा मुख्येनान्यत्समं मतम्।
विंशद्यवशतं पादद्राघिमा कमलासन॥ 20.15 ॥
9 अङ्गुष्ठं वेदमात्रं स्यात्तदायामा च तर्जनी।
एकत्रिंशद्यवायामा मध्यमाङ्गुलिरिष्यते॥ 20.16 ॥
त्रिंशद्यवाऽनामिकास्यात्कनिष्ठा त्र्यंगुलापि च।
यवैश्च पञ्चभिर्यक्ता पार्ष्णी च चतुरङ्गुला॥ 20.17 ॥
10 हिक्का तयोरधो बाहुरङ्गुली सप्तविंशतिः।
ततश्च मणिबन्धान्तं षड्विंशत्यंगुलायतम्॥ 20.18 ॥
यवद्वयेन च युतं मणिबन्धात्तलं पुनः।
मध्यमांगुलमूलान्तं पञ्चाशद्यवसंमितम्॥ 20.19 ॥
पञ्चांगुलमथांङ्गुष्ठं तर्जनी तद्वदायता।
षड्यवै श्चाधिकायामा मध्यमा तु ष़डंगुला॥ 20.20 ॥
आयता षड्यवै श्चापि तत्समानामिका मता।
कनिष्ठाङ्गुष्ठतुलिता मांपलग्नवखावधि॥ 20.21 ॥
एकाङ्गुला सखायामा 11 शिष्टा षड्यवसंमिता।
बाहुवच्चोपबाहुस्स्याच्चतुरङ्गुलमायतः॥ 20.22 ॥
चतुर्यपं चोर्ध्व 12 कणं नालं चञ्चाङ्गुलायतम्।
लिङ्गं पञ्चाङ्गुलायामं मुष्कं तु चतुरङ्गुलम्॥ 20.23 ॥
सार्धाष्टाङ्गुलिविस्तारं ललाटं तदनन्तरम्।
द्वादशांगुलविस्तारं बालचन्द्रसमा 13 कृति॥ 20.24 ॥
ततस्तु कर्णयोर्मध्यं सार्धं सत्रिदशांगुलम्।
दशांगुलमधस्तस्य विस्तारं चिबुकस्य तु॥ 20.25 ॥
सपादं द्व्यंगुलं पूर्णं चापतुल्याकृतिर्भवेत्।
मूलमध्याग्रविस्तारः ग्रीवायाः क्रमशो भवेत्॥ 20.26 ॥
14 नवांगुलं तथैकोनं सार्धं सप्तांगुलि स्तथा।
15 हिक्कान्ततो रथो बाहुमूलयोरन्तरं भवेत्॥ 20.27 ॥
यवैश्चतुर्भिर्विस्तीर्णं सचत्वारिंशदंगुलम्।
कक्षयोर्मध्यविस्तारस्त्र्यंगुलस्सार्धविंशतिः॥ 20.28 ॥
अष्टा16 दशांगुलं मानं स्तनयोरपि चान्तरम्।
षोडशांगुविलस्तारं तुन्दमध्यमुदाहृतम्॥ 20.29 ॥
अष्टादशांगुला श्रोणी रधरोदर? मिष्यते।
कटिप्रदेशविस्तारस्त्र्याङ्गुलस्तार्धविंशतिः॥ 20.30 ॥
ऊरुमूलस्य विस्तारस्सार्धं सत्रिदशाङ्गुलम्।
अग्रमेकांगुलं सार्धद्व्यंगुलं मध्यमिष्यते॥ 20.31 ॥
द्व्यंगुलो मूलविस्तारो लिङ्गस्य समुदाहृतः।
विस्तीर्णं त्र्यंगुलं मूलं मध्यमर्थाधिकं पुनः।
विस्तीर्णमग्रमुष्कस्य द्वात्रिंशद्यवसंमितम्॥ 20.32 ॥
विस्तीर्णमेकादशभिरंगुलै रूरुमध्यमम्।
अग्रं दशभि 17 रेतस्य विस्तीर्णं कमलासन॥ 20.33 ॥
सवांगुलं जानुचक्रं पार्श्वमर्धेन्दुसन्निभम्।
मूलं नवाष्टौ मध्यं स्याज्जङ्घाग्रं सार्धसप्तकम्।
18 विस्तीर्णो नलकाभागः सार्धैश्च चतुरंगुलैः॥ 20.34 ॥
अङ्घ्रिमूलस्य विस्तारस्त्र्यंगुलस्सचतुर्यवः।
सार्धपञ्चांगुलं मध्यमग्रं सार्धषडंगुलम्॥ 20.35 ॥
सार्धमष्टांगुलं मूलं बाहू सप्तांगुलौ पुनः।
मध्याग्रे तुल्यविस्तारे प्रकोष्ठावयवः पुनः॥ 20.36 ॥
सार्धेन सप्तभिर्मूले विस्तीर्णं सार्धपञ्चभिः।
मध्ये चतुर्भिरग्रे स्यान्मणिबन्धस्य तूच्यते॥ 20.37 ॥
पंचागुलार्धसहितः तद्वत्करतलं स्मृतम्।
अंगुष्ठे मूलविस्तारो द्व्यंगुलो मध्यमांगुलिः॥ 20.38 ॥
19 सषड्यवं तु मुष्ट्यग्रमंगुलेनैव संमितम्॥
तर्जन्यामूलविस्तारो नवभिस्पंमितो यवैः॥ 20.39 ॥
मध्य मेकांगुलं सप्तयवमग्रमुदाहृतम्।
मूलं दशयवं मध्मं मध्यमाया यवा नव॥ 20.40 ॥
अग्रमेकांगुलं प्रोक्तमितरा तर्जनीसमा।
मूलमष्टौ कनिष्ठायाः 20 यवास्सप्तैकमध्यमा॥ 20.41 ॥
21 षड्यवांगुलमग्रेभ्यः पादोना सखविस्तृतिः।
मध्ये करतले रेखा मध्यमामूलमुत्थिता॥ 20.42 ॥
कनिष्ठामूलमारभ्य रेखा मध्यमगा भवेत्।
मध्यमांगुलितर्जन्योर्निर्मातव्या विचक्षणैः॥ 20.43 ॥
अंगुष्ठमूलमारभ्य 22 तर्जन्यन्तश्च मध्यमा।
तयोश्च रेखयोर्मध्ये तर्जनीमूलगामिनी॥ 20.44 ॥
रेखा कल्प्या यथाशास्त्रं शास्त्राभिज्ञेन शिल्पिना।
ललाटस्य च विस्तारस्सपादद्व्यंगुलो भवेत्॥ 20.45 ॥
तस्याधस्ताद्भ्रुवौ कल्प्यौ चत्वारिंशद्यवायतौ।
मध्ये यवेन विस्तीर्णे यूकाग्रे चापसन्निभे॥ 20.46 ॥
तयोर्मध्यं नवयवं अष्टादशयवायतम्।
चक्षुः नीनिकायामो विस्तारश्च यनः स्मृतः॥ 20.47 ॥
अंगुलं श्वेतबिम्बस्य विस्तारं कृष्टमण्डलम्।
यवोनमंगुलं ज्योतिस्तन्मध्ये यवसंमितम्॥ 20.48 ॥
याकमाना तु तन्मध्ये दृष्टिः पक्ष्मावली पुनः।
ऊर्ध्वा समन्विता सार्धत्र्यंगुला दशभिर्यवैः॥ 20.49 ॥
विस्तीर्णातु 23 यवायामा विस्तारस्तु तदर्धकः।
अशीतिः पक्ष्मरोमाणि वक्राग्राण्यसितानि च॥ 20.50 ॥
द्व्यंगुलं चक्षुषोर्मध्यं मध्यं च श्रुत्यपाङ्गयोः।
चत्वारिंशद्यवं 24 कर्णविस्तारो द्व्यङ्गुलो भवेत्॥ 20.51 ॥
ऊर्ध्वं कर्णस्य चायामस्सहार्धचतुरंगुलः।
नालं पञ्चांगुलमितं विस्तारष्षड्यवः पुनः॥ 20.52 ॥
पश्चाच्चतुर्यवा नाली नालतुल्यं चतुर्मुख।
श्रमणस्य 25 च पिप्पल्याः मध्यगर्तं चतुर्यवम्॥ 20.53 ॥
26 त्रिवक्त्रकर्णपिप्पल्या गल्लपात्रमिव स्थितम्।
बन्दनं त्र्यंगुलं रन्ध्रं नेत्रसूत्र 27 समुन्नतम्॥ 20.54 ॥
नासिकामूलमध्याग्रविस्तारः कथ्यते क्रमात्।
अंगुलं 28 चांगुलं सार्धद्व्यंगुलं सचतुर्यवम्॥ 20.55 ॥
अंगुलेनोन्नतं मूलं तेन सार्धेन मध्यमम्।
द्वाभ्यां यवाभ्यां मूलेन द्व्यंगुलेनाग्रमुन्नतम्॥ 20.56 ॥
षड्यवं सुषिरं तस्य पुटमध्यं चतुर्यवम्।
पुटपार्श्वस्य विस्तारो द्वियवः परिकीर्तितः॥ 20.57 ॥
उत्सेधोऽर्धांगुलस्तस्य नासिका तिलपुष्पवत्।
उत्तरोष्ठायतं सार्धं चतुरंगुलमिष्यते॥ 20.58 ॥
विस्तारोऽर्धांगुलस्तस्य परं सार्धांगुलायतम्।
विस्तीर्णमंगुलं तस्य पाली चैकयवा मता॥ 20.59 ॥
29 चिबुकोष्ठौ दशयवौ विस्तारायामसंमितौ।
30 गुल्फं पादाङ्गुलोत्सेधं दर्पणोदरसन्निभम्॥ 20.60 ॥
विस्तीर्णावयवौ तुल्यौ राजदन्तौ चतुर्यवौ।
द्वात्त्रिंशद्दशनाः कल्प्याः यथाशास्त्रोक्तवर्त्मना॥ 20.61 ॥
जिह्वा षडङ्गुलायामा विस्तीर्णा त्र्यङ्गुला भवेत्।
रेखात्रयाङ्किता 31 ग्रीवा हिक्का 32 सूत्रात् स्तनस्थिति॥ 20.62 ॥
एकादशांगुलं वृत्तं द्व्यंगुलं स्तवमण्डलम्।
चतुर्यवं चूचुकं स्यात् स्तनमण्डलमध्यगम्॥ 20.63 ॥
चतुर्यवं नाभिगर्तं दक्षिणावर्तमिष्यते।
अध्यर्धमंगुलं वृत्त मक्षमर्धांगुलोन्नतम्॥ 20.64 ॥
उष्णीषात्पृष्ठकेशान्तमेकादिकदशांगुलम्।
उष्णीषात्पर्श्वकेशान्तं द्वादशांगुलमानकम्॥ 20.65 ॥
कर्णयोरन्तरं विद्यात् सार्धं सत्रिदशाङ्गुलम्।
मुलमध्याग्रभागेषु पृष्ठग्रीवा यथाक्रमम्॥ 20.66 ॥
विस्तीर्णा नवभिस्तार्धेनंगुलैर्नवभिस्तथा।
अष्टाभिश्च भवेत्तस्या अधस्तात्क कुदस्थितिः॥ 20.67 ॥
आयामोत्सेधविस्तारैः ककुदं तच्चतुर्यवम्।
षट्त्रिंशदंगुलं बाह्वो र्मध्यं विस्तारपृष्ठतः॥ 20.68 ॥
षड्विंशतिश्चांगुलानां कक्षयोरन्तरं भवेत्।
पृष्ठमध्यस्य विस्तरो ब्रह्मन् सप्तदशांगुलः॥ 20.69 ॥
विस्तीर्णा पञ्चविंशत्या श्रोणी पार्श्वौ तथांगुलैः।
कटिप्रदेशविस्तारष्षड्विंशत्यंगुलो भवेत्॥ 20.70 ॥
षट्त्रिंशदङ्गुलं मध्ये ककुदस्य कटेस्तथा।
33 द्व्यंगुलोन्नतमेतस्य स्फिचौ तन्मध्यमंगुलम्॥ 20.71 ॥
34 अङ्गुलं स्तनयोर्मूलं मध्यं सप्ताङ्गुलं भवेत्।
अग्रं त्र्यंगुलविस्तारमूर्वोर्मूलादिषु त्रिषु॥ 20.72 ॥
भवेत्क्रमेण विस्तारस्सार्धस्सत्रिदशांगुलः।
द्वादशांगुलयुक्तस्यात्तथैव द्वादशांगुलः।
जान्वष्टांगुलविस्तारं सार्धमष्टांगुलं भवेत्॥ 20.73 ॥
जङ्घामध्यं सुविस्तीर्णं 35 नालिका चतुरंगुला।
चतुर्यवाधिका चैव गुल्फश्च चतुरङ्गुलः॥ 20.74 ॥
विस्तारमानं त्रिगुणं सर्वेषां नहनं मतम्।
अभितिदो वा वरदो मुख्यो वामेतरः करः॥ 20.75 ॥
स्तनसूत्रसमं कार्यं अङ्गुलाग्रं करस्य तु।
तयोर्भवेदन्तरालं द्वादशाङ्गुलमब्जज॥ 20.76 ॥
अंगुष्ठतर्जनीमध्ये सनालं कमलं भवेत्।
वरदे कमलाकारं लिखेत्करतलोदरे॥ 20.77 ॥
अधोमुखे वामहस्ते मुख्ये कुर्याद्गदां शुभाम्।
चतुस्तालायतां मूले स्थूलामग्रे कृशामृजुम्॥ 20.78 ॥
त्र्यंगुलं मूलनहनमग्रे सहनमंगुलम्।
द्व्यंगुलं सार्धमितरद्गदामध्यं चतुर्मुख॥ 20.79 ॥
कटिप्रसव्यं करयोरन्तरं द्व्यङ्गुलं भवेत्।
कटिस्पृशं करं कुर्यात्प्र सव्यं गदया विना॥ 20.80 ॥
उद्धरेद्बाहुसीमान्तमूर्ध्वहस्तौ धृतायुधौ।
बाहुप्रकोष्ठयोर्मध्यं मूलमष्टांगुलं भवेत्॥ 20.81 ॥
मध्यं दशांगुलमितमग्रमानं मुखं स्मृतम्।
ऊर्ध्वे हस्तद्वयाङ्गुष्ठो सहानामिकया नतम्॥ 20.82 ॥
तर्भनीमध्यमाभ्यां तु 36 धारयन्तं तथाम्बुजम्।
चक्रं सुदर्शनं वृत्तं द्वादशाङ्गुलमानकम्॥ 20.83 ॥
अष्टांगुलमरक्षेत्रं द्व्यंगुला चक्रपिण्डिका।
तद्वत्स्यान्नेमिवलयं चतुर्ज्वालासमन्वितम्॥ 20.84 ॥
37 नाभापुभयतो ज्वाला त्रिशिखावर्तशोभिता।
अध्यर्धद्व्यङ्गुलोत्सेधा विस्तीर्णार्धादिकांगुला॥ 20.85 ॥
अराणि यवतुल्यानि नेत्रतुल्यानि वा पुनः।
अष्टौ द्वादश वा षड्वा षड्ज्वालं शङ्खमिष्यते॥ 20.86 ॥
विस्तारोऽष्टांगुलस्तस्य द्वादशांगुलमायतम्।
प्रदक्षिणावर्तयुतं ज्वालाग्रं शङ्खचक्रयोः॥ 20.87 ॥
केशान्तेन समं यद्वा नेत्रसूत्रेण तत्सम्।
सार्धांगुलान्तरादूर्ध्वं जानुनी द्व्यंगुलान्तरे॥ 20.88 ॥
जङ्घयोर्वंशतियवमन्तरालं प्रशस्यते।
अक्षयोस्त्र्यंगुलं 38 मध्यं तयोस्सप्तांगुलं भवेत्॥ 20.89 ॥
चरणांगुष्ठयोर्मध्यं नवांगुलमुदाहृतम्।
ऋजुस्थितस्य चरणं शय्यायां ऋजु दक्षिणम्॥ 20.99 ॥
इतरत्कुंचितं सप्तविंशत्यंगुलमन्तरम्।
अंगुष्ठयोर्गुल्फमध्यं चतुरंगुल मिष्यते॥ 20.91 ॥
जान्वन्तरालमुदितं सार्धं सत्रिदशांगुलम्।
सव्येतरकरं मौलेरग्रान्तं विनिवेशयेत्॥ 20.92 ॥
प्रसारयेद्वामहस्तं आजानुकमलासन।
दक्षिणे कमलं वामे गदां हस्ते प्रकल्पयेत्॥ 20.93 ॥
भिध्यते प्रतिमाभंगैस्त्रिभिरेतैश्चतुर्मुख।
अभङ्गसमभङ्गाभ्यामतिभङ्गेन चैव हि।
शिरोमध्ये नासिकाग्रे आस्यमध्ये गलस्य च॥ 20.94 ॥
मध्ये च हृदये नाभौ मध्ये लिङ्गस्य 39 वामतः।
भागेषडङ्गुले चोरौ वामे मध्ये च गुल्फयोः॥ 20.95 ॥
लम्बयेत्सुत्रमाभङ्गं भिन्ना च प्रतिमा मता।
यथोक्त प्रतिमामाना 40 दूना वा त्रिभिरङ्गुलैः॥ 20.96 ॥
शिखामणिगतं सूत्रं वाम 41 पूरिगमध्यगम्।
वामे ललाटे मकरे वामे वामे च चक्षुषी॥ 20.97 ॥
नाभौ मध्ये 42 नलकयोर्मध्ये च यदि लम्बयेत्।
समभङ्गविशिष्ठा सा न्यूनैषा चतुरङ्गुलैः॥ 20.98 ॥
मूर्ध्नि वामे ललाटे च वामनेत्रस्य मध्यगम्।
आस्यमध्ये तथा नाभौ दक्षिणे गुल्फमध्यगम्॥ 20.99 ॥
सूत्रं प्रलम्बयेदेवं अतिभङ्गा तु सा मता।
न्यूना पञ्चाङ्गुलै रेषा प्रतिमा पूर्वमा नतः॥ 20.100 ॥
43 अतिभङ्गश्शयानायाः प्रशस्तोरामकृष्णयोः।
- किरीटादीनांमानम्.*
44 सहजानां भूषणादिकिरीटानां चतुर्मुख॥ 20.101 ॥
वक्ष्यामि मानमधुना यथातथमनुक्रमात्।
चतुर्विंशाङ्गुलायामं 45 यद्वा पञ्चदशाङ्गुलम्॥ 20.102 ॥
मूलमध्याग्रनहनं किरीटस्य यथाक्रमम्।
त्रिंशता सप्तभिर्द्वाभ्यां एकेनापि तथाङ्गुलैः॥ 20.103 ॥
तस्य मध्ये चतुर्दिक्षु पूरितानि तथाङ्गुलैः।
तस्य मध्ये चतुर्धिक्षु पूरितानि प्रकल्पयेत्।
शोभयेच्च महारत्नै 46 रग्रे चैकशिखा मणिं॥ 20.104 ॥
चतुर्दशाङ्गुलोत्सेधं कल्पयेत्केशबन्धनम्।
मूलपट्टं किरीटस्य विस्तीर्णं द्व्यंगुलं भवेत्।
एकांगुलममूष्याग्रं त्र्यंगुलं च शिखामणिः॥ 20.105 ॥
पद्ममष्टदलं कुर्यादधस्ताच्च शिखामणेः।
द्विगोलकायतं चित्रैरन्यैरपिच शोभयेत्॥ 20.106 ॥
शिरसः पृष्ठभागे स्याच्छिरश्चक्रं तु चक्रवत्।
विनाकृतं तु ज्वालाभिः पद्मं यद्वा यथारुचि॥ 20.107 ॥
प्रकल्प्यं मध्यतो दाम 47 चक्रे गोलकमायतम्।
नहसं 48 द्व्यंगुलं तस्य नालं स्याद्गोलकायतम्॥ 20.108 ॥
मकरं गोलकोत्सेधं कुर्या दष्ठाङ्गुलायतम्।
तद्वक्त्रात्सुमनोदाम निस्सृतं बालचन्द्रवत्॥ 20.109 ॥
द्व्यङ्गुलं कर्णसुमनः कर्णदाम च लम्बयेत्।
हारं त्र्यंगुलविस्तारमग्रयोर्नेत्रबन्धनम्॥ 20.110 ॥
मूक्ताविभूषितं मध्ये 49 महारत्नपरिष्कृतम्।
कुर्याच्च दक्षिणे वक्षस्थसले श्रीवत्समङ्गुलम्॥ 20.111 ॥
अर्धाधिकं त्रिकोणं च तन्मध्ये कमलालयाम्।
द्विहस्तामुद्यदम्भेजधारिणीं श्रियमद्भुताम्॥ 20.112 ॥
अपराभ्यां च हस्ताभ्यां वराभयसमन्विताम्।
किरीटहारकेयुरसर्वाभरणभूषिताम्॥ 20.113 ॥
कुर्याद्गोलकविस्तारं मुखे पञ्चाङ्गुलायतम्॥
त्रिगुणं ब्रह्मसूत्रं स्यान्नाभेश्चापि प्रदक्षिणम्॥ 20.114 ॥
एकांगुलं चोत्तरीयं नेत्रबन्धेन बन्धयेत्।
विस्तीर्णं द्व्यङ्गुलं मध्ये त्वग्रमेकाङ्गुलं भवेत्॥ 20.115 ॥
मुक्तादामपरिष्कारं सर्वाभरणभूषितम्।
कुक्षिबन्धनमाश्चर्यं नेत्रबन्धेन योजयेत्॥ 20.116 ॥
50 मुक्तादाम च केयूरं कुर्यात्पूरितसन्निभम्।
सप्ताङ्गुलैश्च विस्तीर्णं नानारत्नपरिष्कृतम्॥ 20.117 ॥
गुलिकांगुलविस्तीर्णा आयताद्व्यंगुलेन च।
गुलिकानां त्रयं कुर्यान्नेत्रबन्धेन बन्धयेत्॥ 20.118 ॥
सर्वरत्नपरिष्कारान् वलयां स्त्रीन् प्रकल्पयेत्।
एकाङ्गुलपरीणाहान् कटकैश्चोपशोभितान्॥ 20.119 ॥
सौवर्णान्यंगुलीयानि बन्धानेकमणीनि च।
परिणाहो भवेतैषां द्वियवस्त्रियवो पि वा॥ 20.120 ॥
51 मध्यमामङ्गुलिं नैव मण्डयेदङ्गुलीयकैः।
त्र्यंगुलः कटिसूत्रस्य विस्तारो रत्नशोभितः॥ 20.121 ॥
तन्मध्ये 52 मकरी चैव पञ्चांगुलसमायता।
चुतुरंगुलविस्तारा दंष्ट्राकुटिलमाननम्॥ 20.122 ॥
वृत्ताक्षं भ्रुकुटीयुक्तमास्यनिस्सृतमौक्तिकम्।
कुर्यान्मौक्तिकदामानि त्रीण्यागुल्फं प्रकल्पयेत्॥ 20.123 ॥
पादाकल्पं त्रिकटकं द्व्यंगुलं परिणाहतः।
नूपुरं च तथा कुर्यात्किङ्किणीजालमण्डितम्॥ 20.124 ॥
वस्त्रं च पीतपूर्वं तदागुल्फं पार्श्वलम्बितम्।
कल्पयेद्वनमालां तु नानापुष्पसमुज्ज्वलाम्॥ 20.125 ॥
नानारत्नमयीं वापि यद्वा केवलपङ्कजाम्।
कर्णतश्चरणं यावल्लम्बयेदद्भुताकृतिम्॥ 20.126 ॥
अथवा 53 वल्लिकाकारां नाहतश्चतुरङ्गुलाम्।
प्रद्योतनसहस्राभं द्योतमानं च कौस्तुभम्॥ 20.127 ॥
54 लम्बयेदुरसि स्वच्छमिन्दिरासोदरं मणिम्।
रूपस्या 55 भरणानां च नियमस्संप्रदर्शितः॥ 20.128 ॥
56 न ह्यशेषेण रूपं मे प्रतिकर्माणि वा पुनः।
निर्मातुं भवता शक्यं किमुतान्यैः कुशिल्पिभिः॥ 20.129 ॥
तथापि शास्त्राण्यालोच्य तत् ज्ञैश्शास्त्रं विमृश्यच।
न्यूनातिरेकरहितं बिम्बं कुर्याद्यथातथम्॥ 20.130 ॥
न्यूनातिरेके वा दोषो 57 महान् वक्तुं न शक्यते।
इति श्रीपाञ्चारात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिमामान 58 विधिर्वाम
विंशोऽध्यायः
-
परिमाणोप मानकम्। लंबामानं षडेतानि मानानि कथयाम्यहम्। इति केषुचित्कोशेषु पाठोदृश्यते. ↩︎
-
तस्याः ↩︎
-
लब्धोनदेहीनां तावत्। लब्धानां देहिनाम्. ↩︎
-
चतुर्वंशेन. ↩︎
-
उत्सूत्रान्तम्. ↩︎
-
कर्ण. ↩︎
-
मुखोन्नतं ↩︎
-
त्रिस्थानस्य तदेव स्यात्. ↩︎
-
अंगुष्ठे त्र्यंगुलायामं ↩︎
-
हिक्कान्तयेरधो. ↩︎
-
शिखा. ↩︎
-
कर्णम्. ↩︎
-
कुलम्. ↩︎
-
नवाङ्गुलस्तथैकोनः साधन सस्ताङ्गुलिः ↩︎
-
हिक्कान्ततोरधो’ इत्येव लेखनसरणिरस्तिक्वचित् क्वचित् हिक्कान्तयोरित्यस्ति. ↩︎
-
दशाङ्गुलमितम्. ↩︎
-
रेवस्यात्. ↩︎
-
विस्तीर्णनवकाभोगः ↩︎
-
सष्डयवममुष्याग्रमङ्गनमन्वितम्. ↩︎
-
यवास्सप्तैन मध्यमम्. ↩︎
-
षड्यवान्वतमग्रं स्यात्. ↩︎
-
तर्जिन्याङ्गुष्ठमध्यगा. ↩︎
-
तदयामा. ↩︎
-
श्रोत्र. ↩︎
-
हि वैपुल्यं ↩︎
-
श्री वत्सं कर्णपिप्पल्या भल्लपात्रमव गल्लपत्र. ↩︎
-
समं मतम्. ↩︎
-
द्व्यङ्गुलं यद्वा ↩︎
-
चिबुकोष्टादशयवौ. ↩︎
-
गण्डम्. ↩︎
-
लीढा ↩︎
-
सूत्रसमस्थितिः. ↩︎
-
द्व्यङ्गुलौ शतमेतस्य. ↩︎
-
अष्टांगुलस्त. ↩︎
-
नलका. ↩︎
-
धारयोच्चक्रमंबुजम्. ↩︎
-
नासा ह्युभयते. तासामुभय नासामुखं यतो. ↩︎
-
मध्ये स्तनयोस्सप्तचाङ्गुलम्. ↩︎
-
मानतः ↩︎
-
दूनैव. ↩︎
-
पूरित. ↩︎
-
नालगयोः ↩︎
-
अति भङ्गश्शयानस्य. ↩︎
-
भङ्गानां तु किरीटादिभूषणां तथैव च। ↩︎
-
करिटमथवा भवेत् अष्टा दशाङ्गुलायामं यद्वा पंचदशाङ्गुलम् ↩︎
-
रग्रेर्धेश्च महामणिः ↩︎
-
चक्रगोलक. ↩︎
-
त्र्यंगुलं ↩︎
-
हारन्त्र परिष्कृतम्. ↩︎
-
मूखायामं च केयूरं कुर्यात्तत्र पृथादरम्. ↩︎
-
मध्यमङ्गुलिकम् ↩︎
-
त्रिवली. ↩︎
-
वल्कलाकाराम्. ↩︎
-
कल्फयेदुरसि. ↩︎
-
भरणादीनाम्. ↩︎
-
तेनेहशेष रूपं मे. ↩︎
-
मयावेत्तुम्. ↩︎
-
प्रतिमालक्षण भुषण लक्षणं नाम. ↩︎