पाद्मसंहितायाम्.
एकोनविंशोऽध्यायः
- कर्माध्यर्चामूर्तिमानविधिः *
तत्रबहुबेरमानम्.
श्रीभगवान्—-
कर्मार्चादिप्रकृतिप्रकारः कथ्यतेऽधुना।
कर्मार्चा चोत्सवार्चा च बल्यर्चा च तथैव च॥ 19.1 ॥
स्नानतीर्थोभयार्चा च स्वापोत्थानार्चया सह।
प्रतिमाष्षड्विधातव्याः पूजायामुत्तमा भवेत्॥ 19.2 ॥
तिसृभिर्मध्यमा ज्ञेया 1 आद्या या चरमा भवेत्।
बहुबेरे विधिरयं कथितः कमलसन॥ 19.3 ॥
- एकबरमानम्*
एकबेरे तु कर्मार्चास्नपनार्चा च नेष्यते।
ध्रुवबेरसमुच्छ्राये विभक्ते दशदा सति॥ 19.4 ॥
एकां शेन प्रतिकृतेः कर्मार्चायास्समुच्छ्रयः।
द्वादशां शेन यद्वा स्यात् षोडशां शेन वा भवेत्॥ 19.5 ॥
यद्वाऽष्टादशभागेन चतुर्विंशांशमेव वा।
महाबेराङ्गुलापेक्ष्या यद्वा तस्यास्समुन्नतिः॥ 19.6 ॥
चतुर्विंशाङ्गुला यद्वा भवेदष्टादशाङ्गुला।
षोडशाङ्गुलमाना वा यद्वा स्याद्द्वादशाङ्गुला॥ 19.7 ॥
अष्टाङ्गुलाऽथवा यद्वा षडंगुलसमुच्छ्रया।
चतुरङ्गुलमाना वा यद्वामानांगुलेन तु॥ 19.8 ॥
पूर्वोक्तांगुलमानानि कर्तव्यानि यथारुचि।
- बल्यादि मूर्तिमानम्*
बलितीर्थप्रतिकृतिश्शयनोत्थानकौतुकम्॥ 19.9 ॥
कर्मार्चासंमितोत्सेधः कथितः कमलासन।
कर्मबिम्बसमुत्सेधस्त्रिगुणः परिशिष्टयोः॥ 19.10 ॥
स्नपनोत्सवकार्यार्थं बिम्बयोरुभयोरपि।
भङ्क्त्वा तिधा चतुर्धा वा ध्रुवबेरसमुच्छ्रयम्॥ 10.11 ॥
एकभागे नलोत्सेधं कुर्यादुत्सवकौतुके।
उत्सवार्चातृतीयांशं तुर्यांशं वाम्बुजासन॥ 10.12 ॥
कर्मकौतुकमानं स्याद्बह्वर्चा 1 देरयं क्रमः।
एकबेरे तदर्धा तु तत्तु 2 र्यांशकमेव वा॥ 10.13 ॥
उत्सवार्चातृतीर्यांशसमुत्सेधौऽथवा भवेत्।
- स्थानयानासनबिंबवदेवकर्मार्चा*
स्थानयानासनविधौ ध्रुवबिम्बं यथाकृतम्॥ 19.14 ॥
कर्मार्चादीनि तद्वत्स्यात् ध्रुवे तु शयिते पुनः।
तिष्ठेद्वासीत वा कामं कर्माद्यर्चा चतुर्मुख॥ 19.15 ॥
- नित्योत्सवप्रतिकृतिस्सर्वत्रैव स्थिता भवेत्*
अर्चायामं त्रिधा कृत्वा 3 पद्मेमेकेन कल्पयेत्॥ 19.16 ॥
उपानहादिपञ्चाङ्गयुक्तं वृत्तं सुखावहम्।
चतुरश्रं मनोहारि विस्तारतुलितायति॥ 19.17 ॥
तृतीयभागविहितप्रभशङ्कुद्वयाङ्कितम्।
पीठोत्सेधं तिधा कृत्वा पद्ममे केन कल्पयेत्॥ 19.18 ॥
तलैर्द्वादशभिर्युक्तमष्टाभिवान् यथारुचि।
तावदूर्ध्वदलोपेतं मध्ये विपुलकर्णिकम्॥ 19.19 ॥
उपच्छदसमायुक्तिमीषत्फाम्भुजाकृति।
पादमानं दलायामं केवलं वा सरोरुहम्॥ 19.20 ॥
पीठं वा 4 केवलं वापि सुषिरं नैवकारयेत्।
स्थितस्य कौतुकस्येदं पीठनिर्माणमीरितम्॥ 19.21 ॥
- आसीनपीठिमानम्.*
आसीनस्यायतं वृत्तं चतुरश्रं यदायतम्।
प्रतिमार्धसमुत्सेधं तत्त्रतीयांशमेव वा॥ 19.22 ॥
5 पद्मं बहुदलोपेतं मध्ये विपुलकर्णिकम्।
सकुञ्चितप्रसव्याङ्घ्रिरधस्ताल्लम्बितेतरः॥ 19.23 ॥
अध्यासीतासनं देवो यथोक्तं कमलासन।
लम्बमानपदाधारं कमलं परिकल्पयेत्॥ 19.24 ॥
- श्रीभूम्योस्सन्निवेशः*
श्रीर्दक्षिणे धरा वामे देव्यौ देवस्य कल्पयेत्।
कर्मादिभिम्बषट्कं स्याच्छ्रीभूमिसहितं सदा॥ 19.25 ॥
- श्रीदरादेव्योरासनस्थितिविकल्पः*
एकस्मिन्विष्टरे स्यातां वृथग्वा वल्लभे उभे।
वामं सञ्क्षिप्य चरणमितरं लम्बयेदधः॥ 19.26 ॥
श्रीर्धरा त्वव्यथा 6 सीना स्थिते देवे तथा स्थिता।
- प्रभायाः मानादि*
वृत्तां वृत्तायतां वापि प्रभां बिम्बानुसारतः॥ 19.27 ॥
कृर्यान्मनोहरां यस्मात्तेजोराशिः प्रभा मता।
द्व्यङ्गुलं काण्डमानं स्यात्पुष्पक्षेत्रं तदर्धकम्॥ 19.28 ॥
अर्धाङ्गुलं भवेत्क्षेत्रं काण्डं तदनुपूर्ववत्
वेत्रं तदनु भूयोऽपि ज्वालामालोपरिस्थिता॥ 19.29 ॥
अर्धाङ्गुलान्तरालास्स्युर्ह्वालाः पञ्चशिखास्तथा।
त्रिशिखा वा यथायोगं दक्षिणावर्तशोभिताः॥ 19.30 ॥
- प्रभायांमीनादिमूर्तिकल्पनम्*
युग्मा वा स्युरयुग्मा वा काण्डे काण्डे प्रकल्पयेत्।
दशावतारमूर्तीर्वा मीनाद्याः केशवादिकाः॥ 19.31 ॥
प्रभायाः पार्श्वयोः पृष्ठे शङ्कुनालं प्रकल्पयेत्।
- तोरणप्रभा*
बिम्बे यानाधिरूढे कर्तव्या तोरणप्रभा॥ 19.32 ॥
अन्तर्बहिश्च दाड्यार्थमायसं तु निवेशयेत्।
- बिंबप्रभासनानिलोहजान्येव.*
बिम्बं प्रभामासनं वा लोहजं पलिकल्पयेत्॥ 19.33 ॥
- लोहमूर्ति निर्माणक्रमः*
द्वावयित्वा मधूच्छिष्टं प्रतिमां तेन कल्पयेत्।
धान्याराशिं विनिक्षिप्य तदूर्ध्वे तिलतण्डुलम्॥ 19.34 ॥
चक्राब्जं तु लिखेत्तस्मिन्प्रागग्रान्निक्षिपेत्कुशान्।
वस्त्रं च नूतलनं तस्मिन्विस्तीर्य प्रतिमां क्षिपेत्॥ 19.35 ॥
प्राचीनशिरसं पश्चाज्जुहुयादनले गुरुः।
पुष्पैस्समिद्भिर्लाजैश्च सर्पिषाष्टोत्तरं शतं॥ 19.36 ॥
जुहुयान्मूलमन्त्रेण नृसूक्तेन चरुं पुनः।
हुत्वैवं विधिनाचार्यस्स्रग्वी कनकभूषणः॥ 19.37 ॥
संपाताज्येन संसिच्येत्प्रतिमां तत्त्वपद्धतिम्।
ध्यायेत्तत्र शुभे लग्ने पूजयेन्मूलविद्यया॥ 19.38 ॥
यजमानो गुरुं पूह्य बहुभिस्तोषयोद्धनैः।
ब्राह्मणान् विदुषो वित्तैर्बहुभिः परितोषयेत्॥ 19.39 ॥
स्थिपतिः प्रतिमां कुर्याद्रथकाराभ्यनुज्ञया।
मानोन्मानप्रमाणैस्तां प्रतिमां कारयेच्छुभाम्॥ 19.40 ॥
मृदा लेपं ततः कुर्याच्छिल्पशास्त्रानुसारतः।
- लोहविकल्पः*
सुवर्णं रजतं ताम्रं विशुद्धं लोहमुत्तमम्॥ 19.41 ॥
आधय धान्य 7 राश्यां तु पूर्ववन्न्यासकल्पनम्।
पूर्ववच्चैव जुहुयादाचार्याश्चोदितक्रमात्॥ 19.42 ॥
द्रावयित्वा ततश्शुद्धं लोहं न्यायसमार्जितम्।
स्थपतिः प्रतिमां तेन कुर्याच्छास्त्रोक्तवर्त्मना॥ 19.43 ॥
लोहजां प्रतिमां चैवं कल्पयेत्परमात्मनः।
स याति परमं स्थानं पुनरावृत्तिवर्जितम्॥ 19.44 ॥
- प्रतिमायाहस्तादि वैकल्येशान्ति*
प्रतिमाहस्तपादादिवैकल्ये शान्तिमाचरेत्।
आचार्यो दनहूमाद्यैस्ततश्शान्तिर्भविष्यति॥ 19.45 ॥
समादध्यादवयवान् विकलान् स्थपतिः पुनः।
- चित्रार्ध चित्र चित्राभासादि निरूपणम्*
चित्रं चाप्यर्धचित्रं च चित्राभासमिति त्रिधा॥ 19.46 ॥
कौतुकं तत्र दृश्यन्ते यस्मिन्नवयवास्स्फुटम्।
सर्वे समन्ताच्चित्रं तु तद्विज्ञेयं चतुर्मुख॥ 19.47 ॥
हस्ताद्यवयवा यस्मिन्पुरोभागे समीक्षितुम्।
शक्यं नापरभागे तु तदर्धं चित्रमिष्यते॥ 19.48 ॥
रूपिता प्रतिमा या तु वर्णैरेव सितादिभिः।
कुड्यादौ चित्रमाभासं तत्कौतुकमुदाहृतम्॥ 19.49 ॥
चित्रमुत्कृष्टमित्युक्त मर्धं मध्यममुच्यते।
आभासमधमं विद्धि मन्दिरे वाथ वेश्मनि॥ 19.50 ॥
स्थापयेद्ध्रुवभिम्भार्थं पूर्वालाभे यथोत्तरम्।
- प्रतिमानां तालादिमानम्*
अतः परं प्रवक्ष्यामि प्रतिमामानलक्षणम्॥ 19.51 ॥
ए कादिदशपर्यन्तं सङ्ख्ययोपेयुषां भिदाम।
तालानामुत्तमादीनां रूपाविष्कृतिपूर्वकम्॥ 19.52 ॥
यत्किञ्चित्प्रतिमामानं विभज्य दशदा पुनः।
एकं द्वादशदा भङ्त्क्र तत्रैकांशोऽङ्गुलः स्मृतः॥ 19.53 ॥
अङ्गुलं चाष्टधा कुत्वा तत्रैकांशो यवः स्मृतः।
तेनै वाङ्गुलमानेन अङ्गप्रत्यङ्गकल्पना॥ 19.54 ॥
द्वादशाङ्गुलकं मानं तालाख्यमिह कथ्यते।
द्वादशाङ्गुलकस्तालो मुख्यश्चेति प्रतीर्तितः॥ 19.55 ॥
द्व्यङ्गुलं गोलकं ज्ञेयं कलेति व्यपदिश्यते।
एकाङ्गुलं भवेन्मात्रा भागो मात्राचतुष्टयम्॥ 19.56 ॥
उत्तमाधममध्यानि तालानि कमलासन।
एकादिदशपर्यन्तं सङ्ख्यया च्छेदयन्ति च ॥ 19.57 ॥
मीयते दशतालेन वासुदेवस्सनातनः।
सवार्धतालौ ब्रह्मेशौ नवतालेन देवताः॥ 19.58 ॥
अष्टार्धतालौ द्वारस्थाः कुमुदादिगणास्तथा।
आष्टतालांश्च मनुजान् पिशाचादींश्च सप्तकान्॥ 19.59 ॥
षट्तालान् कुब्जकान् विद्धि पंचतालांस्तु वामनान्।
चतुस्तालानि भूतानि तितालाः किन्नरास्तथा॥ 19.60 ॥
मत्स्या द्वितालका ज्ञेयास्तालेनै केन पन्नगाः।
दशतालं चतुर्विंशदङ्गुलीनां शतं भवेत्॥ 19.61 ॥
उत्तमं मध्यमं विंशत्कनिष्ठं षोडश स्मृतम्।
नवतालं तु तच्छ्रेष्ठं यच्छतं द्वादशाधिकम्॥ 19.62 ॥
अष्टाधिकं शतं मध्यं कनीयश्चतुरुत्तमम्।
अष्टतालां शतं श्रेष्ठं मध्यमं षण्णवत्यपि॥ 19.63 ॥
8 चतुर्थहीनमधममष्टतालं प्रकीर्तितम्।
उत्तमादिक्रमोऽन्येषु सप्ततालादिषूह्यते॥ 19.64 ॥
चतुश्चतुर्विहीनां चेत्क्रमादङ्गुलिभिर्भवेत्।
पूर्वं पूर्वं यथोक्तं तत्त्रैविध्यमवगम्यताम्॥ 19.65 ॥
9 त्रयोदशार्धाङ्गुलिकं दशतालोत्तमे मुखम्।
अर्धेनाङ्गुलिना पीनं मध्यमं संप्रचक्षते॥ 19.66 ॥
अर्धेनाङ्गुलिना हीनमेकैकमितरेष्वपि।
ध्रुवायामुत्तमं तालमर्चायां मध्यमं भवेत्॥ 19.67 ॥
अधमं परिवाराणां सर्वेषां कमलासन।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे लोहजप्रतिमा निर्याण तालविभागो नाम
एकोनविंशोऽध्यायः