१८

पाद्मसंहितायाम्.

अष्टादशोऽध्यायः।

  • श्री कृष्णमूर्तिः*

श्रीभगवान्—–

यादवस्याथ कृष्णस्य निर्माणमधुनोच्यते।
कल्याणलक्षणयुतं त्रिभङ्गं सिंहविष्टरे॥ 18.1 ॥

तिष्ठन्तं रुक्मिणीतस्यभामाभ्यां सहितं प्रभुम्।
ईषत्कुञ्चितवामाङ्घ्रिं सुस्थितेतरमद्भुतम्॥ 18.2 ॥

मेघश्यामं विशालाक्षं पीतवस्त्रं चतुर्भुजम्।
1 देवीसव्यभुजन्यस्तवामहस्तसरोरुहम्॥ 18.3 ॥

अधोमुखं तु हस्ताग्रं नाभिसूत्रसमन्वितम्।
वामेतरकरस्पृष्टक्रीडायष्टिमनोहरम्॥ 18.4 ॥

तत्करं कटिसूत्रान्त 2 मुदस्ते तु करद्वयम्।
शङ्खचक्रधरं कुर्याद्द्विभुजं वा यथोदितम्॥ 18.5 ॥

श्रीवत्साङ्कं प्रसन्नाभं वरेण्यं मुकुटोज्वलम्।
बद्धालकभरं वापि भागे दिव्ये प्रकल्पयेत्॥ 18.6 ॥

रुक्मिणीं दक्षिणे पार्श्वे सत्यभामामथोत्तरे।
विनतानन्दनं वापि सत्यास्थाने प्रकल्पयेत्॥ 18.7 ॥

आसीनं वा सुखं सार्धं देवीभ्यां सह विष्टरे।
वाहस्तेन वरदं दक्षिणेनाभयप्रदम्॥ 18.8 ॥

यद्वा शयीत नृपवत्पर्यङ्के शोभिते भृशम्।
भोगीन्द्रशयने वापि महापर्यङ्कमण्डिते॥ 18.9 ॥

पृष्ठतो मौलिपार्श्व तु रुक्मिणीं कारयेत्सुधीः।
सत्यभामा भवेत्पादसंवाहनसमुद्यता॥ 18.10 ॥

संवहयंत्यौ वा देव्यौ हस्ताभ्यां पादपङ्कजम्।
तार्क्ष्यारूढं चतुर्बाहुं बिभ्राणं शरकार्मुकम्॥ 18.11 ॥

मुख्याभ्यामपराभ्यां च शङ्खं चक्रं चतुर्मुख।
आरोप्य सत्यभामां वा वामोत्सङ्गे चतुर्भुजम्॥ 18.12 ॥

आरुह्य यान्तं पक्षीन्द्रं द्विभुजं वा यथारुचि।
यद्वाऽर्जुनस्य सारथ्यं कुर्वाणं परिकल्पयेत्॥ 18.13 ॥

रथस्थितं चतुर्बाहुं प्रतोदप्रग्रहौ दधत्।
वामहस्तेन मुख्येन दक्षिणेन करेण तु॥ 18.14 ॥

कपिध्वजाय प्रह्वाय परविद्यामुदीरयन्।
अपराभ्यां च हस्ताभ्यां शङ्खचक्रधरं प्रभुम्॥ 18.15 ॥

किरीटिनं विशालाक्षं श्रीवत्साङ्कितवक्षनम्।
द्विभुजं बद्धकेशं वा कुर्यात्कमलसम्भव॥ 18.16 ॥

पार्थं च प्रांजलिं प्रह्वं सेषुं सेषुधिकार्मुकम्।
किरीटिनं श्यामवर्णं कल्पयेत्स्यन्धनस्थितम्॥ 18.17 ॥

विश्वरूपं तु वा कुर्यात्केशवं केशिसूदनम्।
बृन्दावनगतं कृष्णं गवामनुचरं प्रभुम्॥ 18.18 ॥

ईषत्कुञ्चितवामाङ्घ्रिमितरेण ऋजु स्थितम्।
गच्छन्तमपि गायन्तं वंशेन परमाद्भुतम्॥ 18.19 ॥

ईक्षमाणं मनाक्सव्ये पार्श्वे पुष्पावतंसितम्।
विचित्रपुष्पग्रथितवनमालाविभूषितम्॥ 18.20 ॥

बर्हिबर्हैश्च रुचिरैर्वत्सदामविभूषणैः।
भूषितं देवगन्धर्वसिद्धचारणसेवितम्॥ 18.21 ॥

कदम्बमूले वा मध्यंदिने कृत्वा प्रतिष्ठितम्।
व्यत्यासेन स्थितं पद्भ्यां वामेन ऋजुना स्थितम्॥ 18.22 ॥

दक्षिणप्रपदे 3 नान्यपृष्ठभागस्पृशा स्थितम्।
गोभिस्सवत्सैर्हरिणैः पक्षिभिश्च समावृतम्॥ 18.23 ॥

ऋषिभिर्देवगन्धर्वैः किन्नराद्यैश्च सेवितम्।
फणीन्द्रं कालियं यद्वा फणापञ्चकसंयुतम्॥ 18.24 ॥

पुरतः परुषाकारं नागाकारं च पृष्ठतः।
कृताञ्जलिं दुराधर्षमाक्रम्य शिरसि स्थितम्॥ 18.25 ॥

वामपादेन गृह्णन्तं पुच्छं वामेन पाणिना।
4 दक्षिणाभयदं हस्तं नृत्यन्तं कारयेद्बुधः॥ 18.26 ॥

5 अथवा कृतताटंकं कुर्वाणं नाट्यमद्भुतम्।
महिषीतं नागराजस्य 6 भिक्षमाणां स्वकं पतिम्॥ 18.27 ॥

कृताञ्जलिपुटां देवीं तत्पार्श्वे वेपितां स्थिताम्।
रासमण्डलमध्यस्थं यद्वाकुर्याज्जगद्गुरुम्॥ 18.28 ॥

7 देव्योर्गृहीत्वा हस्ताभ्यां कराग्रं मध्यतः स्थितम्।
नृत्यन्तं बहुसाहप्रगोपकन्याभिरावृतम्॥ 18.29 ॥

नवनीताय नृत्यन्तं सर्वेन ऋजुना स्थितम्।
उद्धृत्य दक्षिणं पादं विपरीतमथापि वा॥ 18.30 ॥

8 कारयेद्वामहस्तं तु चुबुकान्तसमुच्छ्रयम्।
अभीतिदं दक्षिणेन वरदं वा यथारुचि॥ 18.31 ॥

मध्यतः स्तननाभ्योश्छ वरदो हस्त इष्यते।
यादवेन्द्रेण कृष्णेन क्रिडया यद्यथाश्रितम्॥ 18.32 ॥

कल्पयित्वा वपुन्तत्तदाराध्यां विभवार्थिभिः।
एकबेरविभानां चेत् स्थापयेद्ब्रह्मणः पदे॥ 18.33 ॥

कर्मार्चादीनि बिम्बानि कल्पयेद्रघुवीरवत्।
रुक्मिणीस्यभामाभ्यां सह पीठे प्रकल्पयेत्॥ 18.34 ॥

रुक्मिणी कनकप्रख्या 9 सत्याऽन्या श्यामला भवेत्।
करण्डिकामकुटिनी यद्वा धम्मिल्लधारिणी॥ 18.35 ॥

सत्यभामा करे पद्मं धारयेद्दक्षिणे परम्।
ऊरौ विश्रामयेदन्यं धारयेदन्यथाऽथवा॥ 18.36 ॥

यथोक्ततरविन्यासकल्पनं कमलासन।
बाल्येऽपि या या देवी स्यात्या सा कल्प्या यथाविधि॥ 18.37 ॥

  • कल्पिमूर्तिः*

निर्माणमधुना वक्ष्ये कल्कि विष्णोर्महात्मनः।
पिङ्गश्मश्रुं विवृत्ताक्षं रक्ताभं हयवहनम्॥ 18.38 ॥

द्विभुजं चर्मवसनं खड्गखेटकधारिणम्।
जटामुकुटसंयुक्तं ब्रह्मलक्ष्म्या विराजितम्॥ 18.39 ॥

पैशाचे यानकं कुर्याद्दिव्ये भागे स्थितिर्भवेत्।
यद्वा चतुर्भुजं कुर्यान्मुख्याभ्यां खड्गखेटकौ॥ 18.40 ॥

अपराभ्यां शङ्खचक्रं हस्ताभ्यां दधतं हरिम्।
आसने खेटकं ख़ड्गं न कुर्वीत कदाचन॥ 18.41 ॥

अभयं वरदं चैव करयुग्मं प्रकल्पयेत्।
शयनं नेष्यते तन्य कल्पिविष्णो र्महात्मनः॥ 18.42 ॥

एकबेरविधानं चेत्कल्पयेद्ब्रह्मणः पदे।
आसीनां स्थानकं चैव भागे दिव्ये प्रकल्पयेत्॥ 18.43 ॥

तस्य दक्षिणपार्श्वे तु याज्ञवल्क्यं पुरोहितम्।
नारदं दक्षिणे 10 पार्श्वे भित्तिभूमिषु देवताः॥ 18.44 ॥

कल्पयेज्जङ्गमान् बिम्बान् द्विजान्वा चतुर्भुजान्।
अभयं वरदं चैव द्वौ भूजौ परिकल्पयेत्॥ 18.45 ॥

चतुर्भुजे शङ्खचक्रे द्वयोरपरयोर्भवेत्।

  • कर्मबिंबसामान्यलक्षणम्.*

श्रीवत्सेवाङ्कितोरस्कान् जटामुकुटसंयुतान्॥ 18.46 ॥

किरीटिनो वा कुर्वीत कर्मबिम्बांश्च लोहजान्।
विष्णोरंशावताराणां कमान् 11 र्चाद्यास्तु कौतुकाः॥ 18.47 ॥

कल्पनीयाश्चतुर्हस्ताः द्विभुजा वा यथारुचि।
दशतालेन मीयन्तेवराहाद्याश्चमूर्तयः॥ 18.48 ॥

बाह्यांश्चाभ्यन्तरांश्चैव परिवारान् प्रकल्पयेत्।
आदिमूर्तेर्यथा तद्वत् न विशेषोस्तिकश्चन॥ 18.49 ॥

  • लक्ष्मीनारायणमूर्तिः*

लक्ष्मीनारायणं कुर्याद्भुजाष्टकसमन्वितम्।
यद्वा चतुर्भुजं शङ्खचक्राद्यायुधभूषितम्॥ 18.50 ॥

वामभागे तु हस्ताभ्यां वरदं पङ्कजं तु वा।
इतराभ्यां च हस्ताभ्यामभयं चक्रमेव वा॥ 18.51 ॥

  • अभिन्नालक्ष्मिनारायणमूर्तिः*

वपुषो 12 दक्षिणे भागे विष्णुर्वामे सरोरुहा 13
पीनस्तनतटो वामश्श्री वत्साङ्कस्तथेतरः॥ 18.52 ॥

वामो हेमनिभश्श्यामो दक्षिणो भाग इष्यते।
आसीनं वा शयानं वा गरुडारूढमेव वा॥ 18.53 ॥

  • यज्ञमूर्तिः*

स्थितं वा कल्पयेद्धेवं यज्ञमूर्तिमतश्शृणु।
14 तिशीर्षं च त्रिपादं च चतुश्शृङ्गं चतुर्मुख॥ 18.54 ॥

सप्तहस्तं जपा 15 तुल्यं वनमालाविभूषितम्।
अभीतिदो मुख्यहस्तो दक्षिणोऽन्यो वरप्रदः॥ 18.55 ॥

पञ्चौतरकराश्च स्रुक्स्रुवाद्यायुधभूषिताः।

  • एकद्वित्य्रादिमूर्तिभेदः*

एकमूर्तिर्वासुद्वे लक्ष्मीना?रायणः परः॥ 18.56 ॥

तौ द्विमूर्तिस्त्रिमूर्तिस्तु सत्यश्चाच्युतपूरुषौ।
चतुर्मुर्तिर्वासुदेवो भवेत्सङ्कर्षण स्तथा॥ 18.57 ॥

प्रद्युम्नश्चानिरुद्धश्च पञ्चमूर्तिमतश्शृणु।
सत्याच्युतौ तथानन्तः वासुदेवश्च पूरुषः॥ 18.58 ॥

षण्मूर्तिरन्नाधिपतिश्शक्तीशः कालनेमिजित्।
त्रैलोक्यमोहनो यज्ञवराहा श्चेति पंचमः॥ 18.59 ॥

शङ्खोदरो नृसिंहश्च सप्तमूर्तिरथोच्यते।
चतस्रो वासुदेवादि मूर्तयः पूर्वमीरिताः॥ 18.60 ॥

पूषादयस्तथा तिस्रस्सप्तमूर्तिरुदाहृता।
हयग्रीवो मुकुन्दश्च बभ्रुश्चैव वृषाकपिः॥ 18.61 ॥

शौरिश्च 16 दाशार्हश्चैव वैकुण्ठः पुरुषस्तथा।
अष्टमूर्तिरिति प्रोक्तोनवमूर्तरथौच्यते॥ 18.62 ॥

चतस्रः कथिताः पूर्वं वासुदेवादय स्तथा।
नारायणो हयग्रीवो विष्णुर्वृहरिसूकरौ॥ 18.63 ॥

ष़डन्नेशादयः प्रोक्ताः वासुदेवादिमूर्तयः।
चतस्रो दशमूर्तिस्स्यादादिमूर्तिरिमा दशः॥ 18.64 ॥

स्यादेकादशमूर्तिस्स्यात्प्रोक्ता द्वादशमूर्तयः।
चतस्रो विंशतिश्चैव मूर्तयः पूर्वमीनिताः॥ 18.65 ॥

  • पञ्चमूर्तिप्रतिष्ठाविधिः*

पंचमूर्ति 17 (******?) समुदीर्यते।
स्थापयेद्वासुदेवाभ्यां मूर्तिं गर्भं गृहे सुधीः॥ 18.66 ॥

दिव्ये भागेथवा ब्राह्मे बहिः प्राग्दिशि पूरुषम्।
सत्यमूर्तिं दक्षिणस्यां प्रतीच्यामच्युतं यथा॥ 18.67 ॥

अनन्ताख्यमुतीचीने चलां वा यतिवाऽचलाम्।
धाम्नेऽन्तर्वासुदेवस्स्याच्चतुर्मूर्तिषु पूर्ववत्॥ 18.68 ॥

सङ्कर्षणं दक्षिणस्यां बहिर्दिशि निवेशयेत्।
प्रद्युम्नं च प्रतीचीने कौबेर्यामनिरुद्धकम्॥ 18.69 ॥

यां यां दिशमधिष्ठाय स्थिताः पूर्वो क्तमूर्तयः।
तत्तद्दिगाभिमुख्येन कल्पयेत्कमलासन॥ 18.70 ॥

द्वारं वातायनं वापि कुर्याद्भित्तिंन [^18] कल्पयेत्।
शङ्खचक्रगदायुक्ता मुख्यैरभयदा करैः॥ 18.71 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादो मूर्तिबेद कथनं नाम

अष्टादशोऽध्यायः


  1. देवीभ्यां द्विभुजन्यस्त. ↩︎

  2. मुद्धृते च करद्वये. ↩︎

  3. नाङ्घ्रि. ↩︎

  4. दक्षिणेनाप्यभयदम्. ↩︎

  5. अथवेत्यर्धं बहुषु न दृश्यते. ↩︎

  6. वीक्षमाणाम्. ↩︎

  7. देव्यौ गृहीत्वा. ↩︎

  8. प्रसारयेद्वामहस्तं ↩︎

  9. सत्याख्या ↩︎

  10. भागे. ↩︎

  11. द्यर्थाश्च. ↩︎

  12. दक्षिणो भागो विष्णोर्वामः ↩︎

  13. सरोरुहा—-लक्ष्मीः ↩︎

  14. द्विशीर्षंचतिपादं च चतुरङ्गम्. ↩︎

  15. साम्यम्. ↩︎

  16. दाळहश्चैव. ↩︎

  17. प्रतिष्ठाया. ↩︎