पाद्मसंहितायाम्.
सप्तदशोऽध्यायः
- मत्स्यादिमूर्तिनिरूपणम्*
श्रीभगवान्—-
मत्स्यातिदशमूर्तिनां लक्षणं कथ्यतेऽधुना।
ईषद्वैस्थूल 1 चित्राणि तैस्तैर्व क्त्रैर्युतानि च ॥ 17.1 ॥
- मत्स्यमूर्ति)*
तत्र मत्स्यस्य कायश्च दैर्घ्याद्वै षोडशाङ्गुलम्।
दशाङ्गुलं तु वैपुल्यान्मीनाख्यं परिकल्पयेत्॥ 17.2 ॥
2 शूलं मत्स्याकृतिं कृत्वा शिलामृत्काष्ठजं तु वा।
अर्धचित्रेण वाकुर्याच्चित्राभासेन वा पुनः॥ 17.3 ॥
समुद्रंतु लिखेद्भित्तौ 3 पद्मस्योपरि कल्पयेत्।
पञ्चायुधान् लिखेद्भित्तौ 4 छत्रादीन्परिकल्पयेत्॥ 17.4 ॥
नारदेनापि मनुना समभ्यर्चितमादरात्।
5 कर्मार्चादीनि बिंबानि सौम्यवक्त्राश्चतुर्भुजाः॥ 17.5 ॥
आसीवा वा स्थिता वापि शंखचक्रगदाधराः।
- कूर्ममूर्तिः*
कूर्मवत्कूर्म6 मूर्तिं तु कल्पयेत्कमलासन॥ 17.6 ॥
तपनीयनिभं कूर्मं विस्तारं द्वादशाङ्गुलम्।
शिलामृत्काष्ठजं पद्मपीठे संस्थापयेत्प्रभुम्॥ 17.7 ॥
आभासे वार्धचित्रे वा क्षीरोदमथनं लिखेत्।
कच्छपेन्द्रस्य पृष्ठो तु मन्दरं पर्वतो तमम्॥ 17.8 ॥
तस्य दक्षिणपार्श्वे तु वासुदेवं सनातनम्।
मन्दरस्य गिरेरग्रे न्यस्तहस्तं जगद्गुरुम्॥ 17.9 ॥
वामपार्श्व गिरेस्तस्य ब्रह्माणं सह शङ्करम्।
वासु केः पूर्वभागं तु गृह्णन्त्य 7 सुरराक्षसाः॥ 17.10 ॥
पुच्छभागं तु गृह्णन्ति वाकेर्देवतागणाः।
[^8] कर्मार्चादीनि बिम्बानि सौम्यवक्त्राश्चतुर्भुजाः॥ 17.11 ॥
[^8] कर्मार्चादिषु बिम्बस्य.)
- वराहमूर्तिः*
विष्णोर्महावराहस्य निर्माणमधुनोच्यते।
नरवत्कण्ठपर्यन्तं वक्त्रसृष्ठिर्वराहवत्॥ 17.12 ॥
चतुर्भुजं शङ्खचक्रधारिणं स्फटिकप्रभम्।
पीतवस्त्रं मुकुटिनं श्यामलाकृतिमेव वा॥ 17.13 ॥
8 सतिर्यक्संस्थितं सूत्रे दैविके स्थापयेत्पदे।
शयनं यानकं चैव वराहस्य तु नेष्यते॥ 17.14 ॥
स्थापयेदेकबेरं तु शङ्कचक्रगदाधारम्।
आसनेऽपि तथा रूपं ब्रह्मस्थाने ऋजुर्भवेत्॥ 17.15 ॥
दिव्ये तु स्थानके चैव ऋज्वङ्गं नैव कारयेत्।
उद्धृत्य धरणीं देवीं वावहस्तस्य कूर्परे॥ 17.16 ॥
कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु।
जिघ्रन् 9 देव्याः स्तनं देवश्श्रीवत्साङ्कः किरीटवान्॥ 17.17 ॥
कृताञ्जलिपुटा देवी श्यामवर्णा सुमध्यमा।
कल्पनीया मही देवी देवे तिष्ठति पद्मज॥ 17.18 ॥
आसीने तु तथासीना पुष्पहस्ता वसुन्धरा।
वामे पार्श्वे प्रतिष्ठाप्या वराहवपुषो हरेः॥ 17.19 ॥
आरोपितव्या देवस्य वामोत्सङ्गे वसुन्धरा।
आलिङ्गिता च हस्तेन वामेन प्रेक्षितानना॥ 17.20 ॥
कर्मार्चनादिप्रतिमा आसीना वा स्थितापि वा।
देव्या सह क्रोडवक्त्रा 10 सौम्यवक्त्रा चतुर्भुजा॥ 17.21 ॥
- नृसिंहमूर्तिः*
नृसिंहामूर्तिर्बहुधा तत्र काचित्प्र 11 दर्श्यते।
वक्तं केसरिणो वक्त्रं व्यात्तास्यं दंष्ट्रया युतम्॥ 17.22 ॥
भ्रुकुटीकुटिलं भीमं त्रिणेत्रं मुकुटोज्ज्वलम्।
अङ्गान्तरं नरस्येव चतुर्भुजमुदा 12 युधम्॥ 17.23 ॥
रक्तकञ्चुकसंयुक्तं श्रीवत्साङ्कविराजितम्।
शुद्धस्फटिकसंकाशं शङ्खचक्रविराजितम्॥ 17.24 ॥
पर्यङ्कबन्दसंयुक्तमासीनं सम्यगासने।
प्रसार्य जानुनोर्हस्तौ मुख्यौ विस्तारिताङ्गुली॥ 17.25 ॥
दम्भोलिभीमनखिनौ भागे दिव्ये प्रतिष्टितम्॥
एकभेरविधानं चेदासीनो वा स्थितोऽपि वा॥ 17.26 ॥
शङ्खचक्रगदापाणिः स्थित श्चेत्कमलासन।
अथवा दैविके भागे सिंहविष्टरविष्ठितम्॥ 17.27 ॥
श्रीभीमिभ्यां सहासीनां बद्धपर्यङ्कबन्दनम्।
यद्वा भूमितले पादमेकं संस्थाप्यदक्षिणम्॥ 17.28 ॥
अपरेण सुखासीनो विष्टरे विपुले दृढम्।
यद्वा 13 प्रसार्य जानूर्ध्वमुत्क्षिप्योपरि जानुनः॥ 17.29 ॥
वाहस्तं प्रसार्यान्यहस्तं कृत्वाऽभयप्रदम्।
दक्षिणं 14 जानुनोऽधस्तात् स्थापयित्वा तथासने॥ 17.30 ॥
श्रीभूमिसहितो दिव्ये तिर्ष्ठभागे यथापुरम्।
यद्वाष्टभूजसंयुक्तं नृसिंहं 15 परिकल्पयेत्॥ 17.31 ॥
चक्रं खड्गं च बाणं च अभयं दक्षिणे भुजे।
पाञ्चजन्यं गदां शार्ङ्गं वाम 16 बाहृषु कारयेत्॥ 17.32 ॥
जानूपरि तथा वामं हस्तमेकं प्रसारयेत्।
यद्वा भुजयुगं जानुद्वयस्योपरि कल्पयेत्॥ 17.33 ॥
अथवा सोडशभुजो नरसिंहः प्रशस्यते।
चक्रं खड्गं सपरशुरं शूलं बाणं तथाङ्कुशम्॥ 17.34 ॥
वज्रं च दक्षिणभुजप्रदेशेष्वितपेष्वपि।
शङ्खं चर्म गदां शक्तिं शार्ङ्गं पाशं च तोमरम्॥ 17.35 ॥
शिष्टौ करौ यथापूर्वं स्थापयेज्जानुनोर्द्वयोः।
वाम 17 जानूर्ध्वकं कुर्यादधस्तादितरं पुनः॥ 17.36 ॥
उत्सङ्गे देवदेवस्य हिरण्यकशिपुं रिपुम्।
नखैर्विदारितोरस्कं स्रवद्रुधिर 18 पङ्किलम्.। 17.37 ॥
19 रुधिरस्तोमसंभूत 20 सिराणां ग्रामसङ्कुलम्।
कुर्याच्च दक्षिणे पार्श्वे विधिमन्यत्र शङ्करम्॥ 17.38 ॥
प्रह्लादं गरुडं चापि पार्श्वयो स्तत्र कारयेत्।
स्वतन्त्रे नरसिंहे तु कर्मबिम्बानि कारयेत्॥ 17.39 ॥
चतुर्भुजं वा सर्वत्र चासीनां सुस्थितं तु वा।
श्रीभूमिसहितं वापि[^22] रहितं वापि कारयेत्॥ 17.40 ॥
- नृसिंहां तत्र.)
21 कर्मार्चनादिप्रतिमां सौम्यवक्त्रां चतुर्भिजां।
- वामनमूर्तिः*
वामनस्य हरेर्मूर्तं बहुधा संप्रचक्षते॥ 17.41 ॥
वामनं वामनाकारं श्यामलं दण्डधारिणम्।
द्विभुजं मेखलादामशोभितं शोभनाकृतिम्॥ 17.42 ॥
कौपीनाच्छादनधरं मृगाजिनधरं विभुम्।
यज्ञोपवीतिनं काकपक्ष 22 संयुतकुन्तलम्॥ 17.43 ॥
ईषत्कुञ्चितसव्याङ्घ्रिं 23 दक्षिणेन ऋजु स्थितम्।
दक्षिणेन तु हस्तेन याचमानं वस्तुन्धराम्॥ 17.44 ॥
शोभितं शोभनाकारं स्थितं वा शयनासनम्।
24 अथवा गरुडारूढं कल्पयेत्कमलासन॥ 17.45 ॥
एकबेरविधानं चेत् स्थापयेद्ब्रह्मणः पदे।
बहुबेरविधानं तु त्रैलोक्याक्रमणोद्यतम्॥ 17.46 ॥
विष्णुं प्रकल्पयेद्दिव्ये भागेऽष्टभुजसंयुतम्
चतुर्भुजं वा बहुभिर्बाहुभिर्वा समन्वितम्॥ 17.47 ॥
तस्य दक्षिणपार्श्वे तु वामनं वामनाकृतिम्।
तस्यापसव्ये दै त्येन्द्रं बलिं करकधारिणम्॥ 17.48 ॥
भुवनत्रयदातारं सभार्यं सपुरोहितम्।
वामपार्श्वे तु पक्षीन्द्रं मुष्टिना शुक्रघातिनम्॥ 17.49 ॥
वामभित्तौ विधातार मुपरिष्टादवस्थितम्।
क्रममाणस्य देवस्य सव्याङ्घ्रिक्षालनोद्यतम्॥ 17.50 ॥
पादोदकसमुद्भूतां गङ्गामाकाशगामिनीम्।
तर्जन्या वामया चापि निर्दिशन्तं समुद्धृतम्॥ 17.51 ॥
चरणं सव्यमत्युच्चैश्श्यामलं पीतवासनम्।
शङ्खचक्रगदा 25 खड्गधनुः पाशादिधारिणम्॥ 17.52 ॥
जाम्बवन्तं च भित्तौ तु भेरीताडनतत्परम्।
देवर्षिगणसङ्घातान् कृताञ्जलिपुटान् स्थितान्॥ 17.53 ॥
भित्तौ कृत्वाततः कर्माद्यर्चां चैव चतुर्भुजाम्।
- भार्गवराममूर्तिः*
कुर्याद्भार्गवरामस्य निर्माणमधुनोच्यते।
आसीनं द्विभूजं शान्तं जटामुकुटधारिणम्॥ 17.54 ॥
परशुं सशरं चापं दक्षिणेतरहस्तयोः।
धारयन्तं सुवर्णाभं ब्राह्म्या लक्ष्म्या विराजितम्॥ 17.55 ॥
श्रीवत्सेनाङ्कितोरस्कं सोपवीतो त्तरीयकम्।
स्थितं वा कल्पयेद्देवमेकबेरं विधेः पदे॥ 17.56 ॥
बहुबेरे पदे दिव्ये देवीं वामे प्रकल्पयेत्।
चतुर्भुजा च कमार्चा जामदग्न्येन वासमा॥ 17.57 ॥
भङ्गत्रयसमेपेतं त्रयस्त्रिंशत्सुलक्षणम्।
यद्वा चतुर्भुजं कुर्याज्जामदग्न्यं चतुर्मुख॥ 17.58 ॥
शङ्खचक्रधरं शार्ङ्गशरहस्तं यथापुरम्।
- श्री राममूर्तिः*
रामस्य राघवस्याथ लक्षणं वक्ष्यतेऽधुना॥ 17.59 ॥
त्रिभङ्गं द्विभुजं रम्य श्यामवर्णं किरीटिनम्।
श्रीवत्साङ्कं प्रसन्नाभं यद्वा रामं चतुर्भुजम्॥ 17.60 ॥
ऋजु स्थितं दक्षिणेन चरणेनेतरेण तु।
कुञ्चितेनाङ्घ्रिणा स्तोकं शरशार्ङ्गधनुर्धरम्॥ 17.61 ॥
उद्धरेच्च ललाटान्तं वामहस्तं धनुर्धरम्।
अन्तरालं मुखमितं शरहस्तं तु दक्षिणम्॥ 17.62 ॥
कटिसूत्रसमं कुर्यास्मुखमानं सगोलकम्।
अन्तरालं भवेस्मुष्टेः कटिसूत्रस्य च द्वयोः॥ 17.63 ॥
अपराभ्यां च हस्ताभ्यां शङ्खं चक्रं च धारयेत्।
मुखं दक्षिणतो भङ्गं मध्यकायं तु वामतः॥ 17.64 ॥
कट्यां दक्षिणतो भङ्गः किञ्चिद्भङ्गत्रयं मतम्।
कम्बुग्रीवं महूरस्कं त्रयस्त्रिंशत्सुलक्षणम्॥ 17.65 ॥
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम्।
सप्तरक्तं त्रिगम्भीरं त्रिविस्तीर्णं 26 प्रशस्यते॥ 17.66 ॥
बाहू नेत्रान्तरं चैव हनुर्नासा तथैव च।
स्तनयोरन्तरं चैव पंचदीर्घं प्रशस्यते॥ 17.67 ॥
ग्रीवा प्रजननं पृष्ठं ह्रस्वे जङ्घ च पूज्यते।
सूक्ष्माण्यङ्गुलिपर्वाणि केशदन्तनखत्वचः॥ 17.68 ॥
इमानि पंच सूक्ष्माणि कथितानि मयाऽनघ।
कक्षः कूक्षिश्च वक्षश्च घ्रूणं स्कन्धो ललाटिका॥ 17.69 ॥
षडुन्नतमिदं प्रोक्तं सप्तरक्तमतः शृणु।
27 पाणिपादतलं रक्तं नेत्राद्यन्तं नखानि च॥ 17.70 ॥
तालुजिह्वाऽधरेष्ठं च सप्तरक्ता इमे स्मृताः।
स्वरस्सत्वं च नाभिश्च त्रिगम्भीरं प्रशस्यते॥ 17.71 ॥
उरश्शिरो ललाटश्च त्रिविस्थिणं प्रकीर्ततम्।
एवं लक्षणसंयुक्तं सर्वलोकसुखावहम्॥ 17.72 ॥
कुर्याद्धाशरथिं रामं मानादित्रयसंयुतम्।
- लक्ष्मणादीनांस्थितिः*
लक्ष्मणं कारयोद्वामे तथा लक्षणलक्षितम्॥ 17.73 ॥
जानकीं दक्षिणे पार्श्वे देवीं 28 वेदिसमुस्थिताम्।
भरतं दक्षिणे भित्तौ ससुग्रीवविभीषण्॥ 17.74 ॥
शत्रुघ्नं चाङ्गदं चैव हनूमन्तं च वामतः।
दिव्ये भागे स्थितस्येव परिवारादिकल्पनम्॥ 17.75 ॥
भद्रासने 29 समासीनं त्यक्त्वा तत्सशरं धनुः।
अभयो दक्षिणो हस्तो वामस्तु वरदो भवेत्॥ 17.76 ॥
जानकी तु सूखासीना भवेद्दक्षिणपार्श्वतः।
लक्ष्मणो वामपार्श्वे तु स्थितश्च रचिताञ्जलिः॥ 17.77 ॥
यद्वा महार्हशयने 30 शयानं परिकल्पयेत्।
31 पृष्ठतो मौलिपार्श्व तु जानकी स्यात्सुखासना॥ 17.78 ॥
कुड्यस्थाः पूर्ववत्सर्वे कर्तव्या लक्ष्मणादयः।
पवनात्मजमारूढो यानं वा सशरासनः॥ 17.79 ॥
एकबेरविधाने तु राघवो ब्रह्मणः पदे।
शरचापधरं कुर्यात् स्थितं लक्षणलक्षितम्॥ 17.80 ॥
अथवाऽभयदं हस्तं [^34] दक्षिणं दक्षिणेतरम्।
कटिस्पृशं करं कुर्याद्वरदं वा यथारुचि॥ 17.81 ॥
दक्षिणोत्तरयोर्भित्त्यौः परिवारा यथापुरम्।
रामस्य भ्रूप्रदेशान्तं भरतं परिकल्पयेत्॥ 17.82 ॥
लक्ष्मणं च कपोलान्तं चुबुकान्तमथापि वा।
शत्रुघ्नं कण्ठमध्यान्तं सर्वे चापशरान्विताः॥ 17.83 ॥
भङ्गादयश्च तद्वत्स्युः केश 32 बन्धसन्विताः।
मुखद्विगुणा 33 याममध्यर्धं वा समुन्नतम्॥ 17.84 ॥
केशबन्धो भवेदेषां श्रीवत्सरहिता स्तथा।
वामं यष्टिधरं हस्तं दक्षिणं भरतस्य वा॥ 17.85 ॥
वामं देव्या भुजे न्यस्तं स्वातन्त्ये परिकल्पयेत्।
शत्रुघ्नो लक्ष्मणश्छापि स्वातन्य्रै भरतो यथा॥ 17.86 ॥
भरतश्श्यामलाकारो लक्ष्मणः कनकप्रभः।
शत्रुघ्नो रक्तवर्णाभश्श्रीमल्लक्षणसंयुतः॥ 17.87 ॥
माण्डवी भरतस्य स्यादूर्मिला लक्ष्मणस्य तु।
श्रुतकिर्तिर्भवेद्धेवी शत्रुघ्नस्याम्बुजासन॥ 17.88 ॥
सीता श्रीरिव कर्तव्या कल्याणबहुलक्षणा।
करण्डिकामौलिधरा 34 कबरीवालकै र्युता॥ 17.89 ॥
बिभ्राणा वामहस्तेन नरसीरुहकुट्मलम्।
ऊरुप्रदेशविश्रान्तवामेतरभुजाऽथवा॥ 17.90 ॥
35 ऊरुप्रदेशविश्रान्तसव्यहस्तसरोरुह।
सव्येत रेण बिब्राणा 36 रक्तकञ्चुकबन्धना॥ 17.91 ॥
हिरण्यवर्णा सीता स्यान्माण्डवी पाटलप्रभा।
ऊर्मिला श्यामवर्णाभा श्रुतकीर्तस्सितप्रभा॥ 17.92 ॥
37 धम्मिल्लसंयुता देव्यो 38 भरतादेश्चतुर्मुख।
हनूमान्वारनाकारः कर्तव्यो हेवसन्निभः॥ 17.93 ॥
कुञ्चिताग्रमहावालं प्रह्वकायमवस्थितम्।
आस्यं पिधाय हस्तेन दक्षिणेनेतरेण तु॥ 17.94 ॥
वस्त्रप्रदेशमाच्छाद्य विनीतपदवस्थितम्।
केशबन्धयुतं कुर्यादुच्छ्रायस्तस्य वक्ष्यते॥ 17.95 ॥
रामस्य बाहुपर्यान्त 39 मुन्मानं त्य्रंशमेव वा।
अर्धं वा पादमथवा यथाविभवमुन्नतिः॥ 17.96 ॥
सुग्रीवं वानराकारं रामबाहुसमुच्छ्रयम्।
40 प्राञ्जलिं वेत्रसहितं स्थितं मुकुटधारिणम्॥ 17.97 ॥
हारादिभूषणै र्युक्तं कुर्यात्कनकपिङ्गलम्।
अङ्गदं वानराकारं राममानार्धमुन्नतम्॥ 17.98 ॥
कृताञ्जलिपुटं वेत्रक्षुरिकामौलिधारिणम्।
केशबन्धयुतं वापि बन्धुजीवसमद्युतिम्॥ 17.99 ॥
विभीषणं महाकायं घोरं कालायसप्रभं।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्॥ 17.100 ॥
रक्ताक्षं मुकुटोपेतं कृताञ्जलिपुटं स्थितम्।
रामस्य बाहुपर्यन्तं समुच्छ्रायं प्रकल्पयेत्॥ 17.101 ॥
कृतांजलिपुटं सौम्यं निषादाधिपतिं गुहम्।
नील 41 नीरद सङ्काशं राममानार्धमुन्नतम्॥ 17.102 ॥
स्वातन्त्य्रं पारतन्त्य्रं च रघवस्योभयं भवेत्।
दिव्ये भागेऽथवा ब्राह्मे गर्भगेहे स्थितो यदि॥ 17.103 ॥
स्वतन्त्रो राघवः प्रोक्तः पदे पूर्वोदिते यदि।
चतुर्भुजो गर्बगेहे 42 कल्पितः कमलासन॥ 17.104 ॥
पश्चाद्विमानशोभार्थं कल्पितः परवानयम्।
स्वतन्त्रे राघवे भिम्भान् कर्माद्यर्थं प्रकल्पयेत्॥ 17.105 ॥
अन्यांस्तत्सदृशं रामं लक्ष्मणं जनकत्मजाम्।
सिंहासने सहैकस्मिन् प्रभया च 43 परिष्कृतान्॥ 17.108 ॥
यद्वा चतुर्भुजान्कुर्या 44 त्कर्माद्यर्चां चतुर्मु।
दौवारिकांश्च स्वातन्य्रै कल्पयेद्द्वारपार्श्वयोः॥ 17.109 ॥
नलं च दक्षिणे पार्श्वे जाम्बवन्तं तथोत्तरे।
जाम्बवान् स्वर्णवर्णाभो नलश्शुक्लसमप्रभः॥ 17.110 ॥
क्षुरिकावेत्रहस्तौ च बद्धनल्याणकञ्चुकौ।
नीलं 45 सेनापतिं कृत्वा विष्वक्सेनपदे न्यसेत्॥ 17.120 ॥
गुहो वा तत्र संस्थाप्यो विष्वक्सेनोऽथवा स्वयम्।
रामस्य पुरतः कल्प्यः मारुतिर्मुखमण्डपे॥ 17.121 ॥
गरुडो वा यथापूर्वं परिवारान् प्रकल्पयेत्।
रामस्य बलभद्रस्य लक्षणं वक्ष्यतेऽधुना॥ 17.122 ॥
द्विभुजं धवलं दिव्ये भागेऽथ परिकल्पयेत्।
मुसलं लाङ्गलं चैव प्रसव्येतरहस्तयोः॥ 17.123 ॥
बिभ्राणमथवा न्यस्तवामहस्तं कटिस्थले।
दक्षिणाभयदं यद्वा चतुर्भुजमुदायुधम्॥ 17.124 ॥
हलं च दक्षिणे हस्ते वामे च मुसलायुधम्।
धारयन्तं विभुं निलवसनं शङ्खचक्रिणम्॥ 17.125 ॥
किरीटिनं बद्धकेशमथवा वामपार्श्वतः।
रेवतीं कल्पयेद्देवीं दक्षिणे वा यथारुचि॥ 17.126 ॥
करण्डिकामकुटिनीमथवा कबरीधराम्।
असितां पारतन्त्र्य च स्वातन्त्र्य च यथापुरम्॥ 17.127 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे मत्स्यादिमुर्ति लक्षणं नाम
सप्तदशोध्यायः
-
गात्राणि. ↩︎
-
शूर्पम्. ↩︎
-
पद्मं चोपरि. ↩︎
-
पञ्चायुदानि च लिखेच्चक्रादीन् कल्पयेत्पुनः। ↩︎
-
कर्मार्चादिषु बिम्बस्य. ↩︎
-
रूपं ↩︎
-
गृह्णन्त्व. ↩︎
-
पीतिवत्. ↩︎
-
भूम्याः ↩︎
-
सौम्या वा स्यात्. इतिक्वचित्. ↩︎
-
शस्यते. ↩︎
-
हृतम्. ↩︎
-
प्रसव्य. ↩︎
-
जानु चाधस्तात् ↩︎
-
संप्रकल्पयेत्. ↩︎
-
बाहौ तु. ↩︎
-
जानुयुगम्. ↩︎
-
पिङ्गलम्. ↩︎
-
कुरते प्रेतकार्याणि एतं प्रा स्य सर्वशः। मदङ्गस्पर्शनेनाङ्गलोकान् पश्यति सुप्रजाः॥ इदं पद्मं क्वचित्कोशे पङ्ङिलम्—-रुधिरस्तोम इत्यनयोर्मध्ये दृश्यते. कुत एतदत्राक्षिप्तमि तिन ज्ञायते. ↩︎
-
हिरण्य. ↩︎
-
कर्मार्चाश्चाथवा कुर्यात्. ↩︎
-
मं ↩︎
-
दक्षिणे ऋज संस्थितम्. ↩︎
-
स्थितं शयानमासीनमथवा गरुडण स्थितम् ↩︎
-
शार्ङ्गधनुः पाशादि ↩︎
-
यथातथा ↩︎
-
पाणिपादतले रक्ते. ↩︎
-
वेदसमाश्रिताम्. ↩︎
-
सुखासीनम् ↩︎
-
शयितम्. ↩︎
-
तत्पृष्ठतो वामपार्श्व. ↩︎
-
वर्म. ↩︎
-
यामं मध्यं भाह्वोः ↩︎
-
कबलीजालकै ↩︎
-
जानुप्रदेश. ↩︎
-
रक्तपज्कजकुट्मलम्. ↩︎
-
संपूल्लसंयुता देव्यो रक्तवेषाः ↩︎
-
रक्तदेहाः। ↩︎
-
मुपानत्त्य्रंश ↩︎
-
साञ्जलिं वस्त्रं ↩︎
-
जीमूत. ↩︎
-
विशेषात्. ↩︎
-
विशेषात्. ↩︎
-
परिष्कृतम्. ↩︎
-
सेनापतिं चापि. ↩︎