१६

पाद्मसंहितायाम्.

षोडशोऽध्यायः।

  • यानारूढमूर्तिलक्षणम् तत्र उत्तमम्*

श्रीभगवान्—-

यानारूडस्य भोदोऽयं अधुना संप्रदर्श्यते।
वैन तेयं सुवर्णाभं पक्षमण्डलमण्डितम्॥ 16.1 ॥

1 नीलाग्रनासासंयुक्तं नागेन्द्राभरणै र्युतम्।
स्कन्धे 2 चारुह्या चरणं वाममाकुञ्च्य दक्षिणम्॥ 16.2 ॥

प्रसार्य चरणं देवो भुजाष्टकसमन्वितः।
चक्रपद्मासिविशिखान् धारयन् दणिणैः 3 करैः॥ 16.3 ॥

शङ्खं कौमोदकीं चर्म चापमन्यैः करैर्दधत्।
पृष्ठतो भित्तिपार्श्वे तु आतपत्रं सुरद्रुमम्॥ 16.4 ॥

सवन्दसनकौ भित्तौ पार्श्वयोश्चन्द्रभास्करौ।
यथा 4 स्वावाहने देवस्समारुह्य स्थिता यदि॥ 16.5 ॥

अर्चनापीठिकापार्श्वे श्रीमह्यौ तु कृतांजली।
सुरासुरमुनीन् नागान् सिद्धविद्याधरां स्तथा॥ 16.6 ॥

गन्दर्वाप्सरसो मेघान् कारयोद्भित्तिभूमिषु।
सर्वे चित्रेण संयुक्ता यानारोहणमुत्तमम्॥ 16.7 ॥

  • मध्यमामूर्तिः*

देवं चतुर्भुजं कृत्वा शङ्खचक्रगदाधरम्।
वामोत्सङ्गे समारोप्य रतिं दाडिमसन्निभाम्॥ 16.8 ॥

पाशाङ्गुशधरां देवीं कामविह्वललोचनाम्।
अर्चनापीठिकापार्श्वे श्रियं भूमिं च कारयेत्॥ 16.9 ॥

नारदश्च भृगुश्चैव कृड्ये चामरधारिणौ।
प्रीतं सरस्वतीं शान्तिं कल्पयेत् 5 याम्यभूमिषु॥ 16.10 ॥

पुष्ठिं तुष्टिं च कीर्तं च कुड्ये वामे च कारयेत्।
पुष्पमञ्जरिहस्ताशअच सितचामरवीजनाः॥ 16.11 ॥

अर्धचित्रेण वा सर्वे आभासेनैव वा विधिः।
6 मध्यमो वाहनारोहश्शृणुनीचं चतुर्मुख॥ 16.12 ॥

  • जघन्यामूर्तिः*

चतुर्भुजं विशालाक्षं भिन्नाञ्जनचयप्रभम्।
मुख्याभ्यां चैव हस्ताभ्यां शार्ङ्खपञ्चशरानपि॥ 16.13 ॥

ऊर्ध्वाभ्यामितराभ्यां च शङ्गं चक्रं च धारयन्।
7 निष्टप्तकनकप्रख्यां वामोत्सङ्गसमर्पिताम्॥ 16.14 ॥

लावण्यामृततोयेन सिञ्चन्तीमिव सर्वतः।
दक्षिणं पुष्पहस्तं वा वामहस्तं वसुप्रदम्॥ 16.15 ॥

अर्चनापीठिकापार्श्वे रतिं शान्तिं च कारयेत्।
चित्राभासेन कुड्यस्थाः नीचं यानाधिरोहणम्॥ 16.16 ॥

  • विश्वरूपमूर्तिः तत्र उत्तमा*

विश्वरूपं प्रवक्ष्यामि शृणु पङ्कजसम्भव ।
द्विपादमेककण्ठं च चतुर्दिक्षु चतुर्मुखम्॥ 16.17 ॥

वासुदेवमुखादूर्ध्वं सर्वदेवमुखानि तु।
सङ्कर्षणमुखादूर्ध्वं सर्वर्षीणां मुखानि च॥ 16.18 ॥

प्रद्युम्नस्य मुखादूर्ध्वं दै त्यदानवरक्षसाम्।
अनिरुद्धमुखादूर्ध्वं नागगन्धर्वकिन्नराः॥ 16.19 ॥

मुखान्येतानि चान्यानि 8 यथाविभवमादरात्।
कर्तव्यानि चतुर्वक्त्र 9 समर्थानि विचक्षणैः॥ 16.20 ॥

उपरिष्टाच्च वक्त्राणां किरीटमतिशोभनम्।
कुर्याद्युगपदुद्भूतं सहस्रादित्यवर्चसम्॥ 16.21 ॥

अनेकभुजसंयुक्तं अनेकायुधभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां भित्तिभूमिषु देवताः॥ 16.22 ॥

चित्रेण सर्वे विहिताः विश्वरूपस्स उत्तमः।

  • मध्यमामूर्तिः*

सर्वे यथोक्ताः कुड्यस्थाः अर्धचित्रेण चेत्कृताः॥ 16.23 ॥

सवन्दसनकौ कुर्यात्पूजापिठस्य पार्श्वयोः।
मध्यमा विश्वमूर्तस्स्यात्

  • जघन्या विश्वमूर्तः*

जघन्यामपिसंशृणु॥ 16.24 ॥

आभासेनैव कुड्यस्थाः देव्यौ पूजासने स्थिते।
चतुर्भिर्बाहुभिर्युक्तः वासुदेवश्च शाश्वतः॥ 16.25 ॥

मुख्याभ्यां धारयन् सर्वदक्षिणाभ्यां गदाम्बुजे।
ऊर्ध्वाभ्यामितराभ्यां तु शङ्खचक्रे यथारथम्॥ 16.26 ॥

अथवा दक्षिणो हस्तः परदोऽभयदोपि वा।
गदां विना वामहस्तः कटिदेशावलम्बितः॥ 16.27 ॥

द्विभुजो वा बहुभुजो युक्तो नेकै स्तथाननैः।
10 एकेन वा सितो वर्णे वासुदेवस्सनातनः॥ 16.28 ॥

एवं नारायणोऽ11नादिर्नीलनीरदसन्निभः।

  • चतुर्वंशतिमूर्तिलक्षणम्*

चतुर्विंशतिमूर्तीनां लक्षणं वक्ष्यतेऽधुना॥ 16.29 ॥

केशवस्याम्बुजं शङ्खं चक्रं दण्डस्तथायुधम्।
प्रादक्षिण्येन बाहूनामन्येषामुच्यते क्रमात्॥ 16.30 ॥

नारायणश्शङ्खपद्मगदाचक्रधरः स्मृतः।
मधवो गदया सार्धं चक्रशङ्खम्बुजायुधः॥ 16.31 ॥

गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत्।
विष्णुर्गदाब्जशङ्खारिधरस्स्यान्मधुसूदनः॥ 16.32 ॥

चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः।
12 पद्मदण्डारिशङ्खास्त्रो वामनश्शङ्खचक्रधृक्॥ 16.33 ॥

गदाब्जपाणिश्चतथा श्रीधरो धृतवारिजः।
सार्धं चक्रगदाशङ्खैः हृषीकेशमतश्शृणु॥ 16.34 ॥

गाचक्राब्जशङ्खास्त्रधरः पङ्कज 13 नाभकः।
14 पद्मचक्राम्बुजगदाधरो दामोदरः स्मृतः॥ 16.35 ॥

अब्जशङ्खगदाचक्रधरो द्वादशमूर्तयः।
एताः कौमोदकीशङ्खचक्राम्भोजधराः स्मृताः॥ 16.36 ॥

वासुदेवो जगद्वोनिस्सङ्कर्षणमतश्शृणु।
गदाशङ्खाब्जचक्राणि धारयन्तं चतुर्भुजम्॥ 16.37 ॥

प्रद्युम्नश्चक्रशङ्खाभ्यां सह दण्डसरोजवान्।
अनिरुद्धो।़रिदण्डाब्ज 15 पद्मपाणिश्चतुर्भुजः॥ 16.38 ॥

16 चक्रमद्माम्बुजैस्सार्धं गदावान् पुरुषोत्तमः।
अधोक्षजः पद्मदण्डशङ्खचक्रधरः स्मृतः॥ 16.39 ॥

नृसिंहश्चक्रजलजगदशङ्खधरः स्मृतः।
अच्युतो दण्डपद्मारिशंखहस्तश्चतुर्भुजः॥ 16.40 ॥

जनार्दनः पद्मचक्रशंखदण्डश्चतुर्भुजः।
उपेन्द्र 17 श्शङ्खदण्डारिपद्मायुधविभूषितः॥ 16.41 ॥

शंखचक्राब्जदण्डास्त्रः हरिस्स्यत्कमलासन।
कृष्णश्शंखगदापद्मचक्रपाणिश्चतुर्भुजः॥ 16.42 ॥

दक्षिणं हस्तमारभ्य पादक्षिण्येन कारयेत्।
मूर्तिचिह्नानि शंखादीन्यायुधानि विचक्षणः॥ 16.43 ॥

वासुदेवः पद्मनाभः नारायणजनार्दनौ।
एतेषां वर्णभेतोऽस्ति न विशेषोस्ति चायुधैः॥ 16.44 ॥

पीताम्बुरधरास्सर्वाश्चतुर्विंशतिमूर्तयः।
श्रीवत्सकौस्तुभाकल्पवनमालाविभूषिताः॥ 16.45 ॥

भोगार्थिन श्चेद्भित्तिस्थान्18 देवीभ्यां स्थापयेत्सह।
विना ताभ्यां मोक्षकामाः स्थापयेयुर्यथा 19 विधि॥ 16.46 ॥

आसनस्थानशयनयानादिषु यथाविधि।

  • ब्रह्मादिमूर्त्यष्टकम्*

अष्टौ वक्ष्ये परा यूर्तीस्तानु ब्राह्मी प्रशस्यते॥ 16.47 ॥

प्राजापत्या द्वितीया तु तृतीया वैष्णवी मता।
दैवी चतुर्थी तदनु मूर्तरार्षीचतुर्मुख॥ 16.48 ॥

षष्ठी तु मानुषी ज्ञेया सप्तमी मूर्तरासुरी।
पै शाची मूर्तरन्या स्यात्तासां लक्षणमुच्यते॥ 16.49 ॥

  • ब्राह्मी*

प्रथमाष्टभुजा तप्ततपनीयसमद्युतिः।
भुजेषु मुख्यो वरदो दक्षिणेष्वितरेत्रयः॥ 16.50 ॥

चक्रासिभाणैस्संयुक्तो वामे हस्तचतुष्टये।
शङ्खं गदां तथा चर्म शार्ङ्गं कुर्याच्चतुर्मुख॥ 16.51 ॥

पीताम्बरधरो देवः वनमालाविभूषितः।
मरीचिना च भृगुणा पूजितश्च महर्षिणा॥ 16.52 ॥

  • प्राजापत्या*

शंखकुन्देन्दुवर्णाभः पीतवासाश्चतुर्भुजः।
शंखचक्रगदापाणिरभयेन विराजितः॥ 16.53 ॥

वनमालाधरस्सौम्यस्सनकेन 20 सुपूजितः।
सनत्कुमारेण तथा मूर्तिरेषा प्रजापतेः॥ 16.54 ॥

  • वैष्णवी?*

भिन्नाञ्जनचयस्सौम्यश्शंखचक्रगदाधरः।
पीताम्बरधरो देवो वनमालाविभूषितः॥ 16.55 ॥

वरदो दक्षिणो हस्तस्स्वागता 21 भयतोऽपि वा।
वामेन स्पृष्टकटाभूश्श्रीभूमिभ्यां सह स्थितः॥ 116.56 ॥

नारदेनापि भृगुणा वैष्णवी मूर्तिरर्चिता।

  • दैवी*

शंखचक्रगदापद्मं धारयन्तं चतुर्भुजम्॥ 16.57 ॥

श्यामलं पीतवसनं वनमालाविभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां दैवी मूर्तरसौ भवेत्॥ 16.58 ॥

  • आर्षी*

शुद्धस्फटिकसङ्काशा पीतवस्त्रा चतुर्भुजा।
दक्षिणे ज्ञानमुद्रा च शंखचक्रगदाधरा॥ 15.59 ॥

श्रीवत्साङ्का प्रसन्नस्या वनमालाविभूषिता।
सनन्दसनकाभ्यां च पूजिता मूर्तिराऋषी॥ 15.60 ॥

  • मानुषीमूर्तिः*

मानुषी मूर्तिरधुना 22 कथ्य ते कमलासन।
चतुरश्रायते धाम्नि दिव्ये भागे भुजद्वयम्॥ 15.61 ॥

शंखचक्रधरं सौम्यं स्थापयेन्मुकुटोज्वलम्।
देवस्य दक्षिणे पार्श्वे श्रियं देवीं प्रकल्पयेत्॥ 15.62 ॥

तस्या दक्षिण 23 तो भागे बलभद्रं तु कारयेत्।
दक्षिणे बलभद्रस्य प्रद्युम्नमपि कारयेत्॥ 16.63 ॥

देवस्य वामपार्श्वे तु अनिरुद्धं प्रकल्पयेत्।
तस्य पार्श्वे तु वामे तु साम्भं कुर्याच्चतुर्मुख॥ 16.64 ॥

ब्रह्माणं दक्षिणे कुड्ये सर्वे तु विनतात्मजम्।
स्थानके स्थानकाः प्रोक्ता आसीनेऽपि तथा भवेत्॥ 16.65 ॥

चतुर्भुजा तु कर्मार्चा द्विभुजा वापि सा भवेत्।
24 उत्सर्वार्चा प्रतिकृतिस्सर्वाचैव चतुर्भुजा॥ 16.66 ॥

25 मानुष्यं वासुदेवस्य प्रोक्तं सज्क्षेपतो विधिः।

  • आसुरी*

आसुरी मूर्तिरसिता एकवक्त्रा चतुर्भुजा॥ 16.67 ॥

दंष्ट्राकरालवदना भ्रुकुटी कुटिलेक्षणा।
मुख्ये करद्वये भाणं धनुरुध्येऽरिशंखकम्॥ 16.68 ॥

शार्ङ्गहस्तं ललाटान्त 26 मुद्धरेद्भाणहस्तकम्।
नाभ्यन्तं कटिसूत्रान्तं भङ्गत्रयसमन्वितम्॥ 16.69 ॥

  • पैशाची*

पैशाचीमूर्तिराद्या तु खड्गकौमोदकी 27 तथा।
वरदाभयदं मुख्यं कालवर्णं करद्वयम्॥ 16.70 ॥

दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।
अष्टौ च मूर्तयस्सर्वास्सर्वाभरणभूषिताः॥ 16.71 ॥

श्रीवस्सकौस्तभोरस्काः वनमाला विभूषिताः।

  • आसां प्रतिष्ठायाः फलम्*

28 स्थापिता ब्रह्मणोमूर्तिः ब्रह्मभूयाय कल्पते॥ 16.72 ॥

प्राजापत्य प्रतिष्ठायां प्रजाभिर्वर्धते भृशम्।
अन्ते प्रजापतिपदं लभते नात्र संशयः॥ 16.73 ॥

स्थापिता वैष्यवीमूर्तिरचिरान्मोक्षदा भवेत्।
दैवी देवत्वफलदा सर्वकामसमृद्धिदा॥ 16.74 ॥

आर्षी मूर्तर्महर्षित्व प्राप्तये भवति ध्रुवम्।
शापानुग्रहसामर्ध्यमपि तस्य भविष्यति॥ 16.75 ॥

मानुषी मूर्तिरचुराद्यशसे महते भवेत्।
त्रैलोक्यैश्वर्यसम्पच्च सर्वकालं भविष्यति॥ 16.76 ॥

आसुरीं मूर्तिमाराध्य रक्षसां दितिजन्मनाम्।
भूतादीनां च सर्वेषां आधिपत्यं समश्नुते॥ 16.77 ॥

पैशाचमूर्तयजने पिशाचासुरराक्षसाः।
वश्या भवन्ति सर्वे च सर्वकामसमृद्धिदाः॥ 16.78 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम्

क्रियापादे 29 यानारूढ विश्वरूपादिलक्षणं नाम

षोदशोऽध्यायः


  1. नीलनासाग्र. ↩︎

  2. चारोप्य. ↩︎

  3. भुजैः ↩︎

  4. नृवाहने. ↩︎

  5. द्यस्य. ↩︎

  6. मध्यमं यानमारोहं. ↩︎

  7. निष्टप्तकाञ्चन. ↩︎

  8. मुखान्येतानि चेन्द्रादि. ↩︎

  9. समुस्थानि. ↩︎

  10. एकोन. ↩︎

  11. नामनीलजीमूत. ↩︎

  12. मद्मशङ्खापिदण्डास्त्रः ↩︎

  13. नाभिधृक्. ↩︎

  14. शङ्खचक्राब्जदण्डास्त्रधरो. ↩︎

  15. अनिरुद्धोऽरिदण्डास्त्रशङ्ख. ↩︎

  16. चक्रपद्मधरश्शङ्ख. ↩︎

  17. पद्मदण्डादिशङ्खायुध। ↩︎

  18. स्थं ↩︎

  19. रुचि. ↩︎

  20. समन्वितः ↩︎

  21. स्वागतोऽभय ↩︎

  22. वक्ष्यते. ↩︎

  23. दिग्भागे. ↩︎

  24. उत्सवार्था. ↩︎

  25. मानुष्यो वासुदेवस्य प्रोक्तः मानस्य वासुदेवस्य इति च क्वचित्. ↩︎

  26. न्तं दक्षिणं भाण भाणषस्तकम्. दक्षिणं वासु. ↩︎

  27. धरा. ↩︎

  28. स्थापयित्वा ब्रह्ममूर्तिम्. ↩︎

  29. चतुर्विंशाष्ट मूर्तिलक्षणं नाम. चतुर्विंशतिमूर्तिलक्षणं नाम. ↩︎