१५

पाद्मसंहितायाम्.

पंचदशोध्यायः

  • स्थितादिमूर्तिनिर्धेशः*

श्रीभगवान्—-

भेदनथातो वक्ष्यामि प्रतिमानु स्थितादिषु।
स्थिता मूर्ति स्तथासीना यानारूढा तथैव च॥ 15.1 ॥

ताप्तिस्रो द्विविधाः प्रोक्ता भोगयेगप्रभेदतः।
शयानस्य तु पूर्वोक्तौ 1 सर्गसंहारकारिणौ॥ 15.2 ॥

द्वौ चापरौ चतुर्भेदश्शयानः कमलासन।
एकैका द्वित्रिधा भेदा उत्तमाधममध्यमाः॥ 15.3 ॥

  • भोगमूर्तिः तत्र उत्तमा*

दिव्ये भोगे स्थितं देवं शङ्खचक्रगदाधरम्।
श्रीभूमिसहितं युक्तमर्चना पीठपर्श्वयोः॥ 15.4 ॥

सनन्दसनकर्षिभ्यं कृताञ्जलिपुटौ स्थितौ।
उत्थितौ वामजानुभ्यामितराभ्यां प्रतिष्ठितौ॥ 15.5 ॥

पादयोरुभयो 2 रुग्रे तवुभौ कारयेत्सुधीः।
अर्चनापीठिका 3 पार्श्वभूतलेष्वेवमासनम्॥ 15.6 ॥

दक्षिणोत्तरयोर्भित्ति पाश्वयोर्ब्रह्मशङ्करौ।
वृषतः पुष्पवन्तौतौ दक्षिणोत्तरपार्श्वयोः॥ 15.7 ॥

भित्तिं समाश्रितौ कुर्यात्सवन्दसनकौ तथा।
बालवेषधरौ वामं प्रसार्य चरणं स्थितौ॥ 15.8 ॥

निकुञ्च्य दक्षिणं पादं दक्षिणं करमुत्क्षिपन्।
सनालमम्बुजं फूल्लं वामहस्ततले दधत्॥ 15.9 ॥

सनकर्षिस्सनन्दस्तु यथोक्तादन्यथास्थितिः।
सूर्याचन्द्रमसौ चापि करपादक्रमात्तथा॥ 15.10 ॥

चामरव्यजने भित्तौ श्वेतच्छत्रे च मौक्तिके।
भित्तिपार्श्वे प्रभां कुर्याद्यथालक्षणसंयुताम्॥ 15.11 ॥

कल्पकानोकहं वृष्ठे भित्तिपार्श्वे प्रकल्पयेत्।
भित्तिपार्श्व तु पुरतो रतिशान्ती प्रकल्पयेत्॥ 15.12 ॥

संवीजयन्त्यौ तं देवं चामराभ्यां चतुर्मुख।
हाहाहूहूश्च 4 गन्धर्वौ गरुदो नारदस्तथा॥ 15.13 ॥

देवताश्चापि मुनयस्सन्ति यत्र निकेतने।
भोगस्थानं तु तद्विद्यादुत्तमं कमलासन॥ 15.14 ॥

  • मध्यमाभोगमूर्तिः*

महीस्थाने पतत्त्रीन्द्रं महीं च सनकासने।
मार्कण्डेयासनान्तेतु 5 आभेसौ ब्रह्मशङ्करौ॥ 15.15 ॥

अन्ये च यत्र पूर्वोक्ताः भोगस्थाने स मद्यमः।

  • जघन्याभोगमुर्तिः*

देवश्चतुर्भुजस्सार्धं श्रीधराभ्यामवस्थितः॥ 15.16 ॥

6 दक्षिणे वरदं वामं सिंहकर्णमथापि वा।
ऊरुमूलाश्रितं वापि शङ्खचक्रधरौ परौ॥ 15.17 ॥

ब्रह्मेशानौ तु साभासौ सर्वमन्यद्यथोदितम्।
भोगस्थाने यत्र भवेज्जघन्यं तत्प्रचक्षते॥ 15.18 ॥

  • योगस्थानमूर्तलक्षणम्. तत्र उत्तमम्*

श्रीभूमिसहितो देवश्शङ्कचक्रगदाधरः।
अर्चनापीठिकापार्श्वे मार्चण्डेयो भृगुस्तथा॥ 15.19 ॥

सर्वमन्यद्यथोक्तं 7 च योगस्थानं तदुत्तमम्।

  • मध्यमायोगमूर्तिः*

नारदो द्रुहिणस्थाने शिवस्थाने खगेश्वरः॥ 15.20 ॥

अर्चनापीठपार्श्वेतु ब्रह्मेशानौ कृताञ्जली।
यथो क्तमन्यत्सर्वं च योगस्थाने स मध्यमः॥ 15.21 ॥

  • जघन्यायोगमूर्तिः*

देवश्चतुर्भुजो दिव्ये भागे ब्राह्मेऽथवा यदि।
8 अभयं दक्षिणं हस्तं वरदं स्वागतं तु वा॥ 15.22 ॥

ऊरुमूलाश्रयं वामं सपल्लवमथापि वा।
गदामुद्रमथो वापि शङ्खचक्रधरौ परौ॥ 15.23 ॥

9 ब्रह्मेशानादिरहितं नीच सा योगसंस्थितिः।

  • भोगासने तु असीना मूर्तिः तत्र उत्तमा*

10 स्थानप्रभेदः कथितस्संप्रत्यासीन उच्यते॥ 15.24 ॥

11 श्रीभूमिभ्यां सहासीवस्सिंहविष्टरमाश्रितः।
ब्रह्मेशानौ भित्तपार्श्वे स्थितौ यद्वा सुखासनौ॥ 15.25 ॥

12 भुगुं च नारदं च द्वौ भित्तिपार्श्वे समाचरेत्।

आर्चनापीठिकापार्श्वे रतिशान्ती कृताञ्जली॥ 15.26 ॥

वृष्ठतश्चन्द्रसूर्यादि सर्वमन्यद्यथोदितम्।
भोगसनं तदुच्चैस्स्या

  • आसीनामध्यमा*

दासीनस्सिंहविष्टरे॥ 15.27 ॥

वामोत्सङ्गे श्रियं देवीं समारोप्य चतुर्भुजः।
वामहस्तेन चाश्लिष्य यद्वा भूमिं यथो13 दितम्॥ 15.28 ॥

साभासावर्धचित्रौ वा ब्रह्मेशौ भित्तिपार्श्वयोः।
पूजासिकामुभयतः कार्यौ च भृगुलारदौ॥ 15.29 ॥

दक्षश्चैव मनुश्चौबौ सचामरकरौ स्थितौ।
पृष्ठतश्चन्द्रसूर्यादि भोगे मध्यममासनम्॥ 15.30 ॥

  • आसीनाजघन्या*

आसीनस्सहदेवीभ्यां ब्रह्मेशौ भित्तिपार्श्वयोः।
भित्तिपार्श्वे रतिश्शान्तिस्सवालव्यजने स्थिते॥ 15.31 ॥

भोगासनं तदधमं

  • आसीनेयोगासनम् तत्र उत्तमम्*

योगासनमथोच्यते।
सिंहासने सुखासीनं ब्रह्मेशौ भित्तिर्श्वयोः॥ 15.32 ॥

रतिस्सरस्वती च द्वे सितवालधिवीजने।
अर्चनापीठिकापार्श्वे 14 श्रीभूमी च कृताञ्जली॥ 15.33 ॥

पृष्ठतश्चन्द्रसूर्यादि यागासनमिदं वरम्।

  • आसिनेयोगेमध्यमम्*

सिंहासने सुखासीनां ब्रह्मेशौ भित्तिपार्श्वयोः॥ 15.34 ॥

आशीने श्री महीदेव्यौ सचामरकरेस्थिते।
अर्चनापीठिकापार्श्वे15 श्रीभूम्यौ च कृताञ्जली॥ 15.35 ॥

दक्षश्चैव मनुश्चैव भित्तिपार्श्वे कृताञ्जली।
पृष्ठतश्चन्द्रसूर्यादि 16 योगे तन्मध्यमासनम्॥ 15.36 ॥

  • जघन्यमासनम्*

सिंहासने सुखासीनो देव एकश्चतुर्भुजः।
त्यक्त्वासर्वं परिकरं चन्द्रसूर्यादि वृष्ठतः॥ 15.37 ॥

दिव्ये ब्राह्मेऽथवा भागे योगे तन्नीचमासनम्।

  • शेषासनम्. तत्रोत्तमम्*

शोषासनमथो वक्ष्ये यथावदवधारय॥ 15.38 ॥

सुवृत्तं भोगिनो भोगं मण्डलेन स्थितं त्रिवृत्।
कीञ्चिद्वृत्तायतं वा तु समुन्नम्य 17 स्थितं शिरः॥ 15.39 ॥

तत्र श्रीभूमिसहितो विष्टरे तु सुखसनः।
रतिस्सरस्वती च द्वे पूजाविष्टरपार्श्वयोः।
देवै र्देवगणैश्चैव ऋषिभिर्भित्तिपार्श्वयो॥15.40 ॥

कृताञ्जलिपुटास्सर्वे शेषासनमिदं परम्।

  • शेषासनेमध्यमम्*

देवश्चतुर्भुजासीनः वामोत्सङ्गार्पितप्रियः॥ 15.41 ॥

मार्कण्डेयो मही चैव पूजा18 विष्टरपार्श्वयोः।
भृगुश्च नारदश्चैव तिष्ठतस्तितचामरौ॥ 15.42 ॥

पृष्ठतश्चन्द्रसूर्यादि शेषे तन्मध्यमासनम्।

  • जघन्यंशेषासनम्*

श्रिया देव्य समासीनः पूजापीठस्य पार्श्वयोः॥ 15.43 ॥

ब्रह्मा च वसुधा चैव धर्मो 19 देवो वृषद्धजः।

देवस्य पुरश्श्रीमान् मार्कण्डेयः कृताञ्जलिः॥ 15.44 ॥

पृष्ठतश्चन्द्रसुर्यादि शेषे तन्नीचमासनम्।

  • शयनासने उत्तमम्*

स्थित्यासनभिदः प्रोक्ताः शयनस्य भिदां शृणु॥ 15.45 ॥

अनन्तभोगशयने मृद्वास्तरणकल्पिते।
सोपधाने शिरः पार्श्वे पादपार्श्व तथैव च॥ 15.46 ॥

शीर्षेऽस्मिन्भोगमास्थाय परमात्मा सनातनः।
देव्योरुत्सङ्गयोः पादौ प्रसार्य सुखवाहनौ॥ 15.47 ॥

देव्यौ देवस्य वक्ताब्जं वीक्षमाणे सुखासने।
अर्चनापीठपार्श्वे तु रतिशान्ती कुतांजली॥ 15.48 ॥

इन्द्रादीन् पादपर्श्वे तु भित्तौ च परिकल्पयेत्।
पृष्ठतो भित्तिपार्श्वे तु शङ्खार्दिन् देहसंयुतान्॥ 15.49 ॥

देवस्य मौलिपार्श्वे तु भित्तौ ब्रह्मादिमूर्तयः।
सनन्दसनकाद्यन्यान् यथापूर्वं प्रकल्पयेत्॥ 15.50 ॥

देवस्य पुरतो भित्तौ हाहाहूहूस्तथैव च।
चित्रसेनश्चत्ररथो नृत्तगीतक्रियापरौ॥ 15.51 ॥

विष्णुलोकोद्भवाः कन्याः ब्रह्मलोकसमुद्भवाः।
रुद्रादिलोकजः कन्या नानाविभ्रमसंयुताः॥ 15.52 ॥

तुम्भुरुर्नरदश्चैव गरुडः किन्नरस्तथा।
वीणादिभिर्वादयन्तस्तथोपरिमाहर्षयः॥ 15.53 ॥

चित्ररूपेण सर्वे स्युश्शयने भगमुत्तमम्।

  • शयनेमध्यमम्*

श्रि मह्यौ मूर्न्ध पार्श्वे तु बाह्वूर्मूलं समाश्रिते॥ 15.54 ॥

पादपार्श्वे रतिश्शान्तः पादस्पृष्टे सुखासने।
सनत्कुमारसनकौ अर्चनापीठपार्श्वयोः॥ 15.55 ॥

अर्धचित्रेण भित्तिस्थौ भागशय्या तु मध्यमा।

  • जघन्यंशयनासनम्*

श्रीः पादपद्मयुगलं कराभ्यां वाहयेत्सुखम्॥ 15.56 ॥

अर्चनापीठिकापार्श्वे रतिश्चैव वसुन्धरा।
चित्राभासेन कुड्यस्थे भोगशय्याऽधमाभवेत्॥ 15.57 ॥

  • शयनेयोगासनम् तत्र उत्तमम्*

अनन्तभोगशयने त्यक्तसर्वपरिग्रहः।
योगमास्थाय शयितस्स्वयमेव परः पुमान्॥ 15.58 ॥

श्रीवत्साङ्कः प्रसन्नास्यः निलजीमूतसन्निभः।
द्विभुजो येगशयनमुत्तमं समुदाहृतम्॥ 15.59 ॥

  • योगशयनेमध्यमम्*

सेवितो वैनतेयेन सन्निविष्टेन पार्श्वतः।
चतुर्भुजः परिकरैरन्यैस्सर्वैर्विवर्जितः॥ 15.60 ॥

मध्यमं योगशयनमुच्यते तच्चतुर्मुख।

  • जघन्यं योगशयनम्*

द्वाभ्यां भुजाभ्यां सहितस्त्यक्तसर्वपरिग्रहः॥ 15.61 ॥

अर्चनापीठिकापार्श्वे श्रीभूमी तु कृतांजली।
अधमं योगशयनं संहारशयनं शृणु॥ 15.62 ॥

  • संहारशयने उत्तमम्*

अनन्तभोगशयने अनन्तफणमण्डिते।
शयितोऽष्टभुजो देवः भ्रुकुटीकटिलाननः॥ 15.63 ॥

दंष्ट्राकरालं बिभ्राणो मुखमेकं 20 भयानकम्।
[^21] प्रलयाम्भोधिनिर्घोषगभीरभयदध्वनिम्॥ 15.64 ॥

वमन्तमान्तरं वह्निं मुखवायुसमीरितम्।
संहारशयनं श्रेष्ठमिदमाहुर्मनीषिणः॥ 15.65 ॥

    * संहारशयनेमध्यमम्*

दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।
चतुर्भुजं 21 गदाखड्गशङ्खमद्मविभूषितम्॥ 15.66 ॥

अर्चनापीठिकापार्श्वे श्रीखगौन्द्रौ कृतांजली।
मध्यमा संहृतौ शय्या कनिष्ठं शयनं शृणु॥ 15.67 ॥

  • कनिष्ठासंहारशयनम्*

केशैरलकसङ्घैश्च विराजितशुभाननम्।
नीलजीमूतसङ्काशं 22 मध्ये हरितपङ्कजम्॥ 15.68 ॥

सर्गशय्या चतुर्दिक्षु भित्तौ वारिनिधं लिखेत्।
ब्रह्माणं च चतुस्ताले शयनाद्भित्तिपार्श्वतः॥ 15.69 ॥

उपरिष्ठादभिमुखं नाभेर्नारायणस्य च।
चतुर्मुखं चतुर्बाहुं 23 जटामुकुटसंयुतम्॥ 15.70 ॥

द्वाभ्यां कराभ्यां मुख्याभ्यां कृतांजलिपुटं स्थितम्।
दर्शयन्तं कराभ्यां वा योगमुद्रां चतुर्मुख॥ 15.71 ॥

उत्तराभ्यामुदस्ताभ्या मक्षमालां सकुण्डिकाम्।
धारयन्तं सरसिजे स्वस्तिकासनबन्धनम्॥ 15.72 ॥

देवस्य शिरसः 24 पृष्ठे श्रियं तस्याक्षिलक्षिकाम्।
वामजानुं समुन्नम्य दक्षिणेन प्रतिष्ठिताम्॥ 15.73 ॥

दक्षिणं पुष्पहस्तं तु वामहस्तं वसुप्रदम्।
25 अनन्तशयनेऽधस्तात्पूजापीठस्य पार्श्वयोः॥ 15.74 ॥

नारदं सनकं चैव मानुषे तु कृतांजली।
पादपार्श्वे महीं देवीं पादस्पृष्टां तु कारयेत्॥ 15.75 ॥

उपरिष्टात्समुद्राणां शङ्खादीन् देहसंयुतान्।
देवस्य पृष्ठभित्तौ तु देहलब्धाङ्गुलेन च॥ 15.76 ॥

चतुर्विंशाङ्गुलोत्सेधान् शङ्खाद्यायुधधारिणः।
शङ्खचक्रगदाखड्गधनुः पञ्चायुधानि च॥ 15.77 ॥

द्विहस्तान् पुरुषाकारान् स्वचिह्नाङ्कितमस्तकान्।
शङ्काधारं प्रकुर्वीत 26 लम्बकुखिं सितप्रभम्॥ 15.78 ॥

रक्तवर्णं विवृत्ताक्षं कुर्याच्चक्रधरं 27 परम्।
गदाधारं महाकायं वृत्ताक्षं पीतलप्रभम्॥ 15.79 ॥

स्त्रीवेषा खड्गधारी तु सुस्तवा श्यामलप्रभा।
शार्ङ्गधृग्घेमवर्णाभः महाकायो महोदरः॥ 15.80 ॥

वैन तेयस्सुवर्णाभः पक्षमण्डलमण्डितः।
नानाकञ्चुक 28 संयुक्ताः नानाम्बरधरा इमे॥ 15.81 ॥

दंष्ट्राकरालवदनाः भ्रुकुटीकुटिलेक्षणाः।
करण्डिकामुकुटिनस्सर्वाभरणभूषिताः॥ 15.82 ॥

वामैः करैस्तर्जयन्तः इतरैर्बद्धमुष्टयः।
धावन्तोऽभिमुखं सर्वे मधुकैटभयोर्दयोः॥ 15.83 ॥

अधस्तात्पादयोः पार्श्वे कारयेन्मधुकैटभौ।
मधुश्यामौ महाकायौ करण्डिमुकुटोज्ज्वलौ॥ 15.84 ॥

जानुमात्रं समुद्रस्थौ खण्डदण्डायुधोद्यतौ।
दंष्ट्राकरालवदनौ भ्रुकुटीकटिलेक्षणौ॥ 15.85 ॥

अनन्तफणिवक्त्राग्निज्वालाभिः परि 29 तापितौ।
30 भीतौ पलायितौ वज्रकल्पैर्मुष्ठिभिराहतौ॥ 15.86 ॥

देवस्य पूर्वभित्तौ तु प्रादुर्भावन्प्रकल्पयेत्।
पुष्टिस्तुष्ठिस्तथा कीर्ती रतिश्शान्तस्सरस्वती॥ 15.87 ॥

प्रसूनमञ्जरीहस्तास्तितचामरवीजनाः।
सर्वेषामुपरिष्ठात्तु कुर्याज्जलदपद्धतिम्॥ 15.88 ॥

उपरिष्ठाच्च मेघानां देवाश्च ऋषयस्तथा।
इन्द्रायदश्च दिक्पालाः ऋषय31 स्सप्तदण्डिनः॥ 15.89 ॥

सोत्तरीयाश्च सर्वे ते रचितांजलयः स्थिताः।
मूर्न्धि पार्श्वे च विष्णुश्च रुद्रश्चैव चतुर्भुजौ॥ 15.90 ॥

देवस्य पुरतो भित्तौ कुर्यान्मेघ 32 पथोपरि।
हाहाहूहूश्च 33 गन्धर्वौ किन्नरस्तुम्बुरुस्तथा॥ 15.91 ॥

34 सर्वे चाप्सरसङ्घाता नृत्तगीतरतास्सदा।
अनन्तशयने रम्ये पूर्ववत्तत्र कल्पिते॥ 15.92 ॥

चतुर्भुजश्श्यामवर्णश्शङ्खचक्रगदाधारः।
पीताम्बरधस्सौम्यः कर्णान्तायतलोचनः॥ 15.93 ॥

दक्षिणे च भुजे मौलिं प्रसारिततलाङ्गुलौ।
निधाय मौलिपट्टान्तं प्रसारितभुजेतरः॥ 15.94 ॥

शयितो राजवद्धेवः किञ्चिद्द्वारनिरीक्षकः।
सर्वे चित्रेण रूपेण भित्तिस्थाः पूर्वमीरिताः॥ 15.95 ॥

35 उत्तमं सृष्टिशयनमेतदाहुर्मनीषिणः।

  • मध्यमासृष्चिशय्या*

बाहुद्वयसमोपेतश्श्यामलः कोमलाकृतिः॥ 15.96 ॥

पृष्ठतस्स्कन्धपार्श्वे तु 36 प्राक्च पद्मा प्रतिष्ठिता।
ब्रह्माणं भित्तिपार्श्वे तु 37 चित्रेणैव प्रकल्पयेत्॥ 15.97 ॥

38 सनकं च महीं चैव पूजापीठिस्य पार्श्वयोः।
अर्धचित्रेण शेषास्स्युस्सृष्टिशय्या तु मध्यमा॥ 15.98 ॥

  • कनीयसिसर्गशय्या*

शिय्रं महीमधस्ताच्च भूतले पीठपार्श्वयोः।
ब्रह्माणं भित्तिपार्श्वे तु चित्राभासेन कल्पयेत्॥ 15.99 ॥

भजद्वयसमोपेतः पद्मनाभश्चतुर्मुख।
प्रलयोदधिमध्यस्थश्शयिता विश्वकारणम्॥ 15.100 ॥

अभासेनै व कुड्यस्था 39 सर्गशय्या कनीयसी॥

इति श्रीपाञ्चारात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे स्थित्यासनादि भेधनिर्णयो नाम

पंचदशोऽध्यायः.


  1. सर्व. ↩︎

  2. रग्रं संयुक्तम्. ↩︎

  3. पार्श्वे भूतलेष्वेकमासनम् ↩︎

  4. गन्धर्वो. ↩︎

  5. भानयेद्ब्रह्मशङ्करौ. ↩︎

  6. “दक्षिणे” इदं पद्मंक्वचिन्न. ↩︎

  7. ते तद्योगस्थानमुत्तमम्. ↩︎

  8. अभयमित्यर्धं क्वचिन्न. ↩︎

  9. ब्रह्मेशाभ्यां च. ↩︎

  10. स्थितेः प्रभेदः ↩︎

  11. श्रीधराभ्यम्. ↩︎

  12. भृगुश्चनारदश्चैव भित्ति पार्श्वे समाचरौ. ↩︎

  13. चितम्. ↩︎

  14. श्री भूम्यौ. श्रीमह्यौ. ↩︎

  15. रतिशान्ति कृतांजली. ↩︎

  16. यौगिकं मध्यमासनम्. ↩︎

  17. समुन्नाह्य. ↩︎

  18. पूजापीठस्य. ↩︎

  19. यमो देवो. यद्वादेवो. ↩︎

  20. भयङ्करम्। [^21] प्रलयाम्भुदनिर्घोषं गम्भीर) ↩︎

  21. गदाशङ्कचक्रचाप ↩︎

  22. मध्येभरित; पद्मजः मध्येवारीनिधेऽब्जज. इति च कोशान्तरे. ↩︎

  23. जटाजूट समन्वितम्. ↩︎

  24. पुरतः पृष्ठे. ↩︎

  25. आनन्तशयनाधस्तादर्चनापीठ। ↩︎

  26. नीलं कुक्षीं ↩︎

  27. हारिम्. ↩︎

  28. नानानाटक. ↩︎

  29. परितो वृतो ↩︎

  30. भित्तौ भितौ पलामन्तौ वज्रमुष्टिभिराजातौ ↩︎

  31. स्सप्तवर्दनाः ↩︎

  32. पयोवहान्. ↩︎

  33. गरुडः ↩︎

  34. सर्वाश्चाप्सरस्सङ्घौः ↩︎

  35. उत्तमं सर्गशयनम्. इत्थं श्रीसृष्टि इति च. ↩︎

  36. प्राग्वत्पद्मा प्रकीर्तता. ↩︎

  37. चित्राभासेन. ↩︎

  38. सनक इत्यादि पद्यद्वयं क्वचिन्न. ↩︎

  39. स्सर्वे. ↩︎