१३

पाद्मसंहितायाम्.

त्रयोदशोऽध्यायः

श्रीभगवान्—-

  • शूलस्थापनविधिः*

अथातत्संप्रवक्ष्यामि शूलस्य स्थापनाविधिम्।
सजातीयविजातीय शूलाकारप्रमाणादिविधिः

स्थिराणि चन्दनादीनि दारूणि घनवन्ति च॥ 13.1 ॥

अधिवास्य यथापूर्वं गृयाह्णीद्देशिकोत्तमः।
1 वृक्षजातीयया व्यक्त्या शूलं यद्येकया भवेत्॥ 13.2 ॥

उत्तमं तद्विजानीयात् 2 पर्वभिर्यदि मध्यमम्।
नानाजातीयया तच्छेदधमं कमलासन॥ 13.3 ॥

शिल्पिभिस्तक्षयित्वा तु असारं व्यवनीय तु।
सारेण कारयेच्छूलं प्रामाणं तस्य कथ्य ते॥ 13.4 ॥

अङ्गुलीनां चतुर्विंशच्छतं कौतुकमुन्न तम्।
द्व्यधिका षष्टिरायामो वंशदण्‍डस्य कथ्य ते॥ 13.5 ॥

तस्य मूलाग्रमध्यानि विस्तीर्णानि यथाक्रमम्।
तस्यार्यङ्गुलमानानि सार्धानि त्रीणि तानि च॥ 13.6 ॥

यवाष्षट्च तथा नाहष्षोदशाङ्गुलसमितः।
मूलस्य स्यात्तथा मध्ये नाहः पञ्चदशाङ्गुलः॥ 13.7 ॥

चतुर्दशाङ्गुलो नहस्तदग्रे कमलासन।
वक्षोदण्डश्चतुस्त्रिंशदङ्गुलस्यत्समायतः॥ 13.8 ॥

चतुरङ्गुलविस्तारष्षोदशाङ्गुलमानतः।
द्विशिखं त्रिशिखं वापि शिखा किंशुककुट्मलः॥ 13.9 ॥

आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत्।
सार्धं त्यङ्गुलकं मूलं विस्तीर्णं तस्य मध्यमम्॥ 13.10 ॥

द्व्यंगुलं त्र्यंगुलं सर्धमग्रं तस्य चतुर्मुख।
प्रकोष्ठमायतं विंशत्यंगुलं द्वियवाधिकम्॥ 13.11 ॥

मूलमध्याग्रविस्तारः द्व्यंगुलस्त्र्यंगुलोऽपि वा।
सार्धस्तथांगुलानि स्युस्त्रीणि विद्याद्यथाक्रमम्॥ 13.12 ॥

सुषिरं बाहुमूलं स्यादग्रं बाहुप्रकोष्ठयोः।
विथुनं कल्पनीयं स्यान्नी चबाहुरपीदृशः॥ 13.13 ॥

आयामः कल्पदण्डस्य षोदशांगुलसम्मितः।
विस्तारस्तस्य मद्ये स्याच्चतुरंगुलसंमितः॥ 13.14 ॥

षोडशांगुलनाहश्च तस्य मध्यः प्रकीर्तितः

आयामः पार्श्पदण्डस्य कार्यो द्वात्त्रिंशदंगुलः॥ 13.15 ॥

पार्श्वदण्डपरीणाहश्चतुरङ्गुलसंमितः।
द्विशिखश्च कटीदण्डो वक्षोदण्‍डो नियोगतः॥ 13.16 ॥

दण्डयोः पार्श्वयोस्सम्यगूर्ध्वदण्डस्य चायतिः।
3एकविंशांगुलो दण्डो जङ्घादण्डसमो भवेत्॥ 13.17 ॥

मध्याग्रमूलविस्तारः क्रमेण परिपठ्यते।
त्र्यंगुलोऽर्धाधिकस्सार्धो द्व्यंगुलश्चतुरंगुलः॥ 13.18 ॥

जङ्घायास्त्र्यंगुलं मूलं सार्धद्व्यंगुलमन्तरम्।
अर्धं च द्व्यगुलं तत्र त्रिगुणं सहनं मतम्॥ 13.19 ॥

ऊरुमूलं च सुषिरं द्व्यंगुलं षड्यवाधिकम्।
ऊरुजङ्घाग्रयोरन्ते मिथुनं परिकल्पयेत्॥ 13.20 ॥

वंशदण्डमुरः कट्याः मध्ये निम्ने निवेशयेत्।
शूलप्रमाणमुदितं शूलसङ्ख्याधुनोच्यते॥ 13.21 ॥

  • शूलानांशङ्या*

वंशदण्डः कटीदण्डो वक्षोदण्डस्तथैव च।
4 बाहुदण्डाश्च चत्वारः प्रकोष्ठेन तथा विधः॥ 13.22 ॥

जङ्घादण्डश्च इत्येते शूलदण्डास्त्रयोदश।
श्लेषयेत्तद्यथायेगं सुषिरं नैवकारयेत्॥ 13.23 ॥

न च कीलं विधतव्यं शिल्पिभिश्शूलकर्मणि।
वंशदण्डं किरीटान्तं मूर्धान्तं वा प्रचक्षते॥ 13.24 ॥

पादान्तं वा यथास्थैर्यं तथा कुर्याद्विलक्षणः।
लोहपट्टेन सनीनां बन्धनं दृढमाचरेत्॥ 13.25 ॥

  • शूलदण्डस्यलोहादिभेदः *

लोहजाश्शूलदल्‍डास्युरथवा विभवे सति।
वंशमूलं चतुष्कोणमष्टाश्रं मध्यमिष्यते॥ 13.26 ॥

अग्रं मुवृत्तं शूलानि वृत्तान्यन्यानि वा व्यथा।
5 वंशदण्‍डजमानस्य गनादर्वागृजुर्भवेत्॥ 13.27 ॥

उपरिष्टाद्यथायोगं किञ्चिद्भुग्नं चतुर्मुख।
प्रतिमानां यथाभागं वंशदण्डस्थितिर्भवेत्॥ 13.28 ॥

वक्षोदण्डः कटीदण्डः किञ्चिद्भुग्नशिखो भवेत्।
भुजोरुदण्डयोर्मूलं निम्नं कृत्या यथा शिखम्॥ 13.29 ॥

मुखं सार्थं किरीटस्य शूलद्विगुणमेव वा॥

6 मौलिमूलस्य विस्तारस्त्र्यङ्गुलं वा यवत्रयम्॥ 13.30 ॥

त्रियवं त्र्यंगुलं मध्यं सार्धत्र्यंगुलसम्मितम्।
बाह्वन्तमूलबेरस्य देवीनां शयने सति॥ 13.31 ॥

शूलमन्यत्र यानादौ नासिकान्तमथापि वा।
चिबुकान्तं यथोच्च्रायं ब्रह्मणश्शयने सति॥ 13.32 ॥

शूलं जान्वन्तमन्यत्र बहुसीमान्तमिष्यते।
भृग्वादिपरिवाराणां बाहुसीमान्तमुच्यते॥ 13.33 ॥

  • शूलानांजलाधिवासादि*

जलाधिवासनं चैव स्थापनं मण्डपे तथा।
होमं कुम्भार्चनं द्वारपूजा ब्राह्मणतर्पणम्॥ 13.34 ॥

शुद्धिश्च शोष णादीनि शूलानां बिम्बवत् स्मृतम्।
न दिवा पिण्डिकां रात्रौ अधिवास्य समाहितः॥ 13.35 ॥

श्वोभूते वास्तुना होमं दद्याद्वास्तुबलिं तथा।

  • गर्भगेहशोधनम्*

शोधयेर्गर्भगेहं च मार्जनालेपनादिभिः॥ 13.36 ॥

सूत्रं चन्दनतो योन सिक्तमास्फालयेत्क्रमात्।
सूत्राण्युदङ्गुखान्यस्टौ प्राङ्गुखानि तथैव च॥ 13.37 ॥

कोष्ठान्येकोनपञ्चाशन्न्यूनाधिकविवर्जिताः।

  • बाह्मणादिसंज्ञकभगविधिः *

ब्राह्मणो मध्यमो भागः दैविकस्तु तदन्तरः॥ 13.38 ॥

त्रतीये मानुषस्तुर्यः पै शाचो भाग इष्यते।
अर्चनापीठिका ब्राह्मे भागे धैवे स्थितिर्भवेत्॥ 13.39 ॥

मानुषे परिवारास्स्युरायुधानि चतुर्थके।
किञ्चिन्मानुषमाश्रित्य दैवे स्यादासनं भवेत्॥ 13.40 ॥

दिव्यमानुषयेश्शय्या पै शाचे यानमिष्यते।

&दैवे देव्यस्थ्सिता वास्त्युरासने तस्य पार्श्वतः॥ 13.42 ॥

शयने ऽपि यथायोगं यानारूढेऽपि वै तथा।

  • सूत्राणामुङ्मुखता*

उदङ्मुखानि सूत्राणि दश तावन्निपातयेत्॥ 13. 43 ॥

पाङ्मुखान्यपि कोष्ठानामेकाशीतिर्भवेत्ततः॥

मध्यमो ब्रह्मणो भागः दैवस्स्यात्तदनन्तरः॥ 13.44 ॥

तृतीयः पैतृकस्तुर्यो मानुषः पञ्चमः पुनः।
पैशाच इति वा भागान् कल्पयेद्गर्भमन्दिरे॥ 13.45 ॥

  • एकबेर बहुबरादीनां ब्राह्मादिभागभेदः*

एकबेरविधिर्ब्राह्मे बहुभेरं तु दैविके।
दैवे च मानुषे भागे द्वयोरासनमिष्यते॥ 13.46 ॥

दैवमानुषपित्य्रेषु शयनं त्रिषु कारयेत्।
पैशाचे मानुषे चैव द्वयोर्यानं विधीयते॥ 13.47 ॥

  • उक्तस्थानविपर्यासे अनिष्टफलं*

उक्तस्थानविपर्यासे राजा राष्ट्रं च नश्यति।
तस्माद्यथोक्तभेगे स्युस्थ्साप्या ऋद्धिमभीप्पुभिः॥ 13.48 ॥

  • कामनानुगुणं स्थापनाभूमिः*

7 चतस्रः स्थापनाभूमि कृत्वा 8 मध्ये पदे पुनः।
मुक्तिकामोऽर्चयेद्धेवं पदे तु तदनन्तरे॥ 13.49 ॥

दिव्ये भोगाभिलाषश्चेत्सन्नानार्धी तु मानुषे।
पश्वादिकामः पै शाचे पदेष्वेवं यथाक्रमम्॥ 13.50 ॥

  • प्रासादद्वारविस्तारमानम्.*

प्रासादद्वारविस्तारं त्रिभागीकृत्य मध्यमम्।
भागं तु सप्तधा कृत्वा पञ्चभागांस्तु दक्षिणे॥ 13.51 ॥

अपोह्यानन्तरे भागे ब्राह्मे सूत्रमुदाहृतम्।

  • ब्राह्मभागेभित्तिस्तं भादिनिषेदः *

न कुर्याद्ब्रह्मणस्सूत्रे भित्तस्तंभादिकं सुदीः॥ 13.52 ॥

आज्ञानाद्यदि कुर्वीत प्रत्यवायो महान् भवेत्।
एकभेरं भवेत्तत्र ब्रह्मसूत्रे शिलामयम्॥ 13.53 ॥

रत्नलोह शिलाकाष्ठमृद्भिस्तद्वा त्रिवस्तुभिः।
बहुबेरं भवेदर्दचित्रं साभासमिष्यते॥ 13.54 ॥

स्थितासीनशयानानां द्रव्यैरत्नादिभिर्भवेत्।
निर्माणं सर्वमुर्तीनां ऋद्धिकृन्नैव दोषकृते॥ 13.54 ॥

  • गर्भगेहेखातेगर्भन्यासविधिः *

गर्भगेहे ततो भागे यथोक्तधरणीं खनेत्।
हस्तमात्रेण तत्त्रेव नपुंसकशिलां क्षिपेत्॥ 13.55 ॥

शिलायां तत्र रत्नानि लोहैर्भीजैश्च धातुभिः।
सह वा तैर्वना वापि निक्षिपेच्चोदितः क्रमात्॥ 13.56 ॥

पिधाय योषिच्छिलया दृढं कुर्यात्सुधादिभिः।
मञ्जूषां लोहजां कृत्वा यद्वा रत्नानि निक्षिपेत्॥ 13.57 ॥

रत्नन्यासस्थितस्सैषः पादमूले विधीयते।
अन्येषां पृष्ठतः कुर्याद्रत्नन्यासं विचक्षणः॥ 13.58 ॥

  • पादपीठस्याकारभेदः*

वृत्तं वा चतुरश्रं वा पादपीठं तु तद्भवेत्।
प्रतिमायां शिलामय्यां शिलायां च स्थितिर्भवेत्॥ 13.60 ॥

स्थाने पादशिलायां च शूलार्धं सुषिरद्वयम्।
इष्टकाभिस्तथा कुर्यात्पीठिकां च शिलोपरि॥ 13.61 ॥

उत्सेधश्चापि चायामो भूमिभागप्रमाणतः।
द्वारष्टभागमथवा पादाष्टकमथापि वा॥ 13.62 ॥

प्रतिमाष्टांशमथवा पादफीठप्रमाणकम्।
वृत्तं वा चतुरश्रं वा पादपीठं यथाभवेत्॥ 13.63 ॥

वृतै च चतुरश्रे च पद्मं चोपरि कल्पयेत्।
स्थानकेषु विधिर्ह्येष आसीने द्विगुणं भवेत्॥ 13.64 ॥

शयने तावदुत्सेधं प्रतिमायामसम्मितम्।
पद्मादिपीठमथवा देहलब्धाङ्गुलैः पुनः॥ 13.65 ॥

कुर्याद्द्वादशभिः प्रांशुं विस्तीर्णं द्विगुणाङ्गुलैः।
पञ्चविंशद्दलयुतं यद्वा षोडश 9 भिर्युतम्॥ 13.66 ॥

दलैर्द्वादशभिर्यद्वा युक्तमष्टभिरेव वा।
अङ्घ्रिमानवशेनैव दलानां द्राघिमा भवेत्॥ 13.67 ॥

ऊर्ध्वच्छदमुयुक्तं(?) ततोऽल्पदलसंयुतम्।
मध्ये कर्णिकया युक्तं किञ्चित्फुल्लाम्बुबजाकुतिम्॥ 13.68 ॥

दिव्ये भागेस्थितस्यैष 10 विष्टरस्समुदीरितः।

  • एकबेरादिभेदेन वेदि कामानम्*

एकबेरे तदायामं त्रिधा कृत्यैकभागिकाम्॥ 13.69 ॥

वेदिं कुर्याच्चतुर्था वा तुर्यां शेन प्रकल्पयेत्।
उत्सेधोऽयं स्नानवेदेर्वृत्ता वृत्तायता तुवा॥ 13.70 ॥

चतुरशायता वापि ष़डशाष्टाश्रिकापि वा।
11 उपानकटिसंयुक्ता कर्तव्या द्वादशांगुला॥ 13.71 ॥

आयतं नालमेतस्य चतुर्भिरथवाङ्गुलैः।
विंशत्या चायतं तस्य मुखं मकरवक्त्रवत्॥ 13.72 ॥

किञ्चिन्निम्नं य थातस्मान्नालं तिर्यगथोस्थितम्।
उपरिष्टाच्च तद्वेदेर्वलयं च तुरङ्गुलम्॥ 13.73 ॥

उन्नतं कारयेत्तावद्विस्तारं कमलासन।
वेदिकानुगुणं यद्वा पद्ममेवाखिलं भवेत्॥ 13.74 ॥

  • देवमुखादिभेदेन जलप्रणालीभेदः*

प्रत्यङ्मुखस्य देवस्य प्राङ्मुखस्य तथा भवेत्।
प्रणाल्युदङ्मुखा कार्यादक्षिणेदङ्मुखस्य तु॥ 13.75 ॥

प्रणाली प्राङ्मखा कार्या नान्यत्र विधिरिष्यते।

  • दाराकुल्याविधिः*

धारारुल्या च कर्तव्या 12 यावच्छिद्रं13 बहिस्थितम्॥ 13.76 ॥

हस्तिहस्तादिभिश्श्वभ्रे जलधारां निपातयेत्।
वृत्तं वा चतुरश्रं वा श्वभ्रं कुर्याच्छिलादिभिः॥ 13.77 ॥

मनोहरमगाधं च बहि स्तद्धेवतालयात्।

  • आसीनमूर्तिविधिः*

आसीनस्याभिधास्यामि प्रमाणं सिंहविष्टरे॥ 13.78 ॥

देहलब्धंगुलैष्षड्भिरुत्सेधं त्रिंशतापि च।
द्विगुणै रायतं तस्य सिंहैरष्टाभिरासनम्॥ 13.79 ॥

ध्रियमाणं चतुर्भिर्वा तेषां वक्त्राणि संहिनत्।
शिष्टं वपुः पुरुषवच्चतुर्भर्बहुभिर्युतम्॥ 13.80 ॥

बिभ्राणौ विष्टरं द्वाभ्यां द्वाभ्यांबध्वा जलं हृदि।
रत्नैः परिष्कृतं पीठं सिंहैर्वा केवलै र्युतम्॥ 13.81 ॥

गजाङ्घ्रिभिर्वा तद्युक्तं कुर्यान्नैवान्यथा विधिः।

  • भोगशय्याविधिः*

भोगशय्याशयानस्य वक्ष्यामि कमलासन॥ 13.82 ॥

वृत्तायतं यथायोगं तथा त्रिर्मण्डलीकृतम्।
प्रादक्षिण्येन वलयैः पञ्चभिर्वाध सप्तभिः॥ 13.83 ॥

देहाङ्गलैश्चतुस्तालमुत्सेधं भेगमण्डलम्।
मध्यतः पादतः प्रोक्तं मूर्धन्यधिकमंगुलैः॥ 13.84 ॥

त्रिभिर्दिगुणितैर्यद्वा वलयास्ते यथोदिताः।
पश्चात्प्रभृति चैकैकं किञ्चित्किञ्चित्समुन्नतम्॥ 13.85 ॥

फणैरयुग्मैर्नवभिस्सप्तभिर्वाथ पंचभिः।
उपेतमुत्तमं मध्यमधमं संप्रचक्षते॥ 13.86 ॥

त्रितालमुन्नतं षड्भिरंगुलै र्मध्यमं फणम्।
अष्टांगुलं फणानां स्युरन्तरालं फणास्तु ते॥ 13.87 ॥

निम्नाः क्रमेण कर्तव्याः न्यूनाः पञ्चचतुस्त्रीभिः।
अंगुलैः क्रमशस्तेषां वास्तारो मध्यमः फणाः॥ 13.88 ॥

द्वात्रिंशदंगुला स्तस्य फणाः पार्श्वे चतुर्मुख।
विंशत्पं च चतुर्भिश्च विस्तीर्णं द्व्यंगुलैरपि॥ 13.89 ॥

विंशत्यंगुलविस्तारौ शेषौ द्वौ फणिनः पणौ।
इतरेष्वपि सर्वेषु हानिरूह्या यथाक्रमम्॥ 13.90 ॥

बिदालवक्त्रवद्वक्त्रं दंष्ट्रया परिशोभितम्।
मीर्ध्निन्यस्तमहारत्नं तीक्ष्णशृङ्गसमन्वितम्॥ 13.91 ॥

शनैश्शनैरधो वक्तं यावन्मौल्यग्रमानकम्।
सर्पकण्ठात्फणोत्सेधं चतुस्तालं दशांगुलम्॥ 13.92 ॥

अथवा शयनोत्सेधं दादुशं संप्रचक्षते।
कोतुकद्वारचरणसमुत्सेधे त्रिधा कृते॥ 13.93 ॥

एकां शेन समुत्सेधं भोगमण्डलमिष्यते।
चतुर्थां शेन वा कुर्याध्भेगिनो भोगमण्डलम्॥ 13.94 ॥

भोगपनसमुत्सेधो भोगशय्यावदिष्यते।
सुवृत्तं देवदेवस्य वृष्ठभेगे समुन्नतम्॥ 13.95 ॥

फणानां मण्डलं यद्वच्छत्रं तद्वच्च शोभनम्।
देवस्य यौलेरुपरि विंशत्यंगुलमुन्नतम्॥ 13.96 ॥

चतुरश्रायतं पीठमथवा शयनंभवेत्॥

प्रागुक्तैश्चरणै र्यक्तं उपधानादिसंमितम्॥ 13.97 ॥

आसनं पद्ममात्रंतु विश्वमूर्तेर्विधीयते।

  • यानासनमूर्तनिरूपणम्*

याने गरुत्मतोऽधन्तात्पद्ममासनमिष्यते।
तस्मिन्विदध्यात्पक्षीन्द्रं देवयामार्धसंयुतम्॥ 13.98 ॥

बृहद्भुजं गरुत्मन्तमारुह्य स्थितमच्युतं।
कुर्याद्देवं स्थितादीनामासनानि प्रकल्पयेत्॥ 13.99 ॥

  • अधिवासितशूलस्थापनविधिः*

ततो मूहूर्ते संप्रापै शोभने देशिकोत्तमः।
अधिवासितशूलानि ह्युद्धृत्याध्यर्युभिस्सह॥ 13.100 ॥

धम प्रदक्षीणीकृत्य तूर्यघोषमुदीर्य च।
शूलानि स्थापयेच्छ्वभ्रे रत्नन्यासे यथोदिते॥ 13.101 ॥

  • प्रतिष्ठापञ्चकविधिः*

स्थानास्थापने चैव तथासंस्थापनाऽपि च।
प्रस्थापना प्रतिष्ठा च प्रतिष्ठा पंचकं स्मृतम्॥ 13.102 ॥

या प्रतिष्ठा भवेत् स्थाने स्थापना सा प्रकीर्तता।
या प्रतिष्ठासने प्रोक्ता सा चास्थापनसंज्ञिता॥ 13.103 ॥

शयने या प्रतिष्ठा च सा च संस्थापना मता।
याने च या प्रतिष्ठा सा नाम्ना प्रस्थापना भवेत्॥ 13.104 ॥

प्रतिमा याऽर्चना पीठे कर्मार्चेति प्रकीर्तिता।
तस्यां या च क्रिया प्रोक्ता साप्रतिष्ठेति कीर्तिता॥ 13.105 ॥

  • परिमोष्ट्व्यादिभेद्रेन आनीनादिशूलस्थापनम्*

आचार्यस्थ्सापयेच्छूलं स्थानकं परमेष्ठिनः।
असीनंस्थापयेत्पुंसा विश्वेन शयितं तथा॥ 13.106 ॥

सर्वेण विश्वरूपं तु निवृत्या यानकं भवेत्।
देवीशूलं तथा स्थाप्य रत्नन्यासोपरि क्रमात्॥ 13.107 ॥

ब्रह्मादि देवतानां तु शूलान्यात्मीयविद्यया।

  • भित्तिशूलस्थानम्*

एवं संस्थाप्य शूलानि भित्तिशूलं विनिक्षिपेत्॥ 13.108 ॥

ककुदे वृष्ठपार्श्वे तु स्थानकस्य समाचरेत्।
आसीनस्य तथा कृत्वा शयावस्योच्यतेऽधुना॥ 13.109 ॥

शयानाधारशूले वै कुर्याधूर्ध्वमुखे स्थिते।
दिव्यमानुषयोर्मध्ये वंशदण्डं निधापयेत्॥ 13.110 ॥

वृष्ठपार्श्वे तु ककुदे शयनाधारशूलकम्।
शयनाधार शूलेद्वे कुर्यादूर्ध्व मुखेस्थिते॥ 13.111 ॥

दिव्यमानुषयोर्मध्ये शयिताधारशूलकम्।
आधारशूलं शयने स्थले कुर्याद्विचक्षणः॥ 13.112 ॥

आधारशूलमन्येषां भित्तिसंस्थं च कारयेत्।

  • आधारशूलरहितेदेवस्यसान्निध्यातिशयः*

आधारशूलरहिते सर्वत्र स्थापने कृते॥ 13.113 ॥

वरप्रधानं सान्निध्यमधिकं भवति ध्रुवम्।

  • महाकुम्भादिप्रोक्षणं*

महाकुम्भादि कुम्भानां वारिभिर्मूलविद्यया॥ 13.114 ॥

प्रोक्षयेद्दर्भकूर्येन शूलानि स्थापितान्यथ।

  • गुरुदक्षिणा*

दक्षिणां गुरवेदद्याद्यथा तुष्टिर्भवेद्गुरोः॥ 13.115 ॥

दश निष्कं सुवर्णं तु तस्यार्धं वा प्रदापयेत्।
ऋत्विजामपि सर्वेषां दशनिष्कं प्रदापयेत्॥ 13.116 ॥

काले तस्मिन् समाहूय रथकारं द्विजोत्तमः।
प्रेषयोत्तोषयेच्चापि यजमानो धनैर्भृ शम्॥ 13.117 ॥

  • कुलालनियोगः*

कुलालं कुशलं शान्तं व्याधिहीनमदूषितम्।
रथकारो नियुञ्जित शास्त्रोक्ते सर्वकर्मणि॥ 13.118 ॥

तदभावे पारशवं यावन्नयनमोक्षणम्।
रथकारो क्तविधिना कुशलस्सर्वमाचरेत्॥ 13.119 ॥

  • स्थापितशूलेद्धारेदोषः *

स्थापितं नोर्धरेच्छूलं समुद्धारे महद्भयम्।
कर्तुः कारयितुश्चापि भवत्येव स संशयः॥ 13.120 ॥

अङ्गभेदेऽङ्गहानिस्स्याद्यजमानस्य निश्चितम्।

  • शूलस्थापनेशुभफलम्*

शूलस्थापनमात्रेण यजमानो महत्फलम्॥ 13.121 ॥

अश्रुते मानुषान् दैवनथवा न समापितम्।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां।
क्रियापादे शूलस्थापनविधिर्नाम

त्रियोदशोऽध्यायः


  1. वृक्षजातिर्यथा प्रोक्ता. ↩︎

  2. बह्वीभि ↩︎

  3. सप्तविशांगुलासैन. ↩︎

  4. पार्श्व ↩︎

  5. वंशदण्डं दधासस्य, वंशदण्डं तथा नास्य ↩︎

  6. शूलमूलस्यविस्तारस्त्र्यङ्गुलं च चतुर्यवम्। त्र्यंगुलं मध्य हाग्रं तु सार्थ. ↩︎

  7. चतस्रः इत्यादिश्ळोकद्वयं क्वचिन्नदृश्यते. ↩︎

  8. धातुः ↩︎

  9. बर्हकम् ↩︎

  10. विस्तारः ↩︎

  11. उपनदादि. ↩︎

  12. उपानदादि. ↩︎

  13. यद्वाश्वभ्रं ↩︎