पाद्मसंहितायाम्.
द्वादशोद्यायः
श्रीभगवान्—
- मूलबेरप्रमाणादिविधिः *
अथातत्संप्रवक्ष्यामि 1 मूलबेरसमुच्छ्रयम्।
गर्भविस्तारमानं वा द्वारदैर्घ्यमथापि वा॥ 12.1 ॥
प्रासादपादमानं वा हस्तमानमथापि वा।
यजमानप्रमाणं वा स्तम्भमानमथापि वा॥ 12.2 ॥
कुर्याद्धुवप्रतिकृतिं ग्रामादेरनुकूलिकाम्।
- प्रतिमायाः मानं उत्तमादिभेदश्च*
प्रतिमागर्भविस्तार 2 तुल्या श्रेष्ठा चतुर्मुख॥ 12.3 ॥
नवाभागै कहीना तु प्रतिमा मध्यमा भवेत्॥
पञ्चभागैकहीना तु जघन्या परिकीर्तता॥ 12.4 ॥
सप्तदा गरर्भविस्तारं विभज्य द्वौ विवर्जयेत्।
शिष्टभाग समुच्छ्राया श्रोष्ठा स्यादथवाब्जज॥ 12.5 ॥
मध्यमा पञ्चसूत्र्यंशैः त्रिभद्वाभ्या कनीयसी।
3 द्वाराध्यार्धसमुच्छ्राया श्रोष्ठा पादाधिका पुनः॥ 12.6 ॥
मध्यमा द्वारमात्रा तु कनिष्ठा मध्यमा भवेत्।
द्वारं षोडशधा कृत्वा न्युनै कद्वित्रभिः क्रमात्॥ 12.7 ॥
श्रेष्ठा मध्या कनिष्ठा स्यादित्थं पादादिषु क्रमात्।
उत्तमा पञ्चभिर्हस्तेः त्रिभिरेकेन चेतरे॥ 12.8 ॥
स्थितस्य कौतुकस्याय मुच्छ्रसस्समुदीरितः।
- आसीनमूर्तिमानम्*
गर्बगेहस्य विस्तारं त्रिधा भङ्त्क्वा 4 द्वयी भवत्॥ 12.9 ॥
उत्तमा पञ्चधात्र्यंशैः मध्यमार्ध कनीयसी।
आसीना चाथवा श्रेष्ठा गर्भविस्तार सम्मिता॥ 12.10 ॥
नवभागैकहीना तु मध्यमा पञ्चधा कृते।
एकेना चरमा प्रोक्ता सप्तधा षड्भिरुत्तमा॥ 12.11 ॥
सप्तथैव त्रिभिर्मध्या त्रिधा द्वाभ्यां कनीयसी।
द्वारादिषु स्थितस्यैव समासीनोन्नति क्रमात्॥ 12.12 ॥
हस्तैस्सस्तभिरासीना श्रोष्ठा मध्या तु पञ्चभिः।
- शयनमूर्तिमानम्*
त्रिभिर्जघन्या वक्ष्यामि शयनस्यापि चोन्नतिम्॥ 12.13 ॥
आयामं गर्भगेहस्य भङ्त्क्वा षोडशधा पुनः।
अवशिष्टदशां शेन शयितस्योत्तमोन्नतिः।
आयाममष्टदा कृत्वा हित्वाद्वौ मून्ध्नपार्श्वतः॥ 12.14 ॥
एकमंशं 5 चरणतश्शिष्टां शेनैव मध्यमा।
आयामं सप्तधा कृत्वा मूर्ध्न द्वावेकमङ्घ्रितः॥ 12.15 ॥
हित्वा कनिष्ठाशेषेण शयानस्याकृतिर्भवेत्।
विस्तारे वा चतुर्धा तु कृते तेष्वेकमुद्धरेत्॥ 12.16 ॥
शिष्टेन 6 द्विगुणेन स्याच्छयनस्योत्तमोन्नतिः।
कृत्वैवं पञ्चभागेन स्याच्छयानस्य मध्यमा॥ 12.17 ॥
गर्भ विस्तारमानेन शयानस्याधमा भवेत्।
द्विगुणा द्वारमानेन शयानस्योत्तमोन्नतिः॥ 12.18 ॥
अध्यर्धमानै र्मध्या स्यात्सपादा चरमा भवेत्।
उत्तमादिक्रमो यादृग्द्वारमाश्रित्य कीर्ततः॥ 12.19 ॥
ध्रुवबेरस्य यादृक्स्यात् स्तम्भद्याश्रयणेऽपि च।
सप्तबिः पञ्चभिर्ह स्तैस्त्र्सिभिश्श्रेष्ठा यथाक्रमम्॥ 12.20 ॥
यानेऽप्यासनवन्मानं विश्वरूपं स्थितां यथा।
गर्भगेहं त्रिधा कृत्वा द्विभागं चोत्तमं भवेत्॥ 12.21 ॥
पञ्चदा तु कृते तस्मिन् त्रिभगो मध्यमो भवेत्।
गर्भार्धमधमं धाम्ना सर्वसाधारणे विधिः॥ 12.22 ॥
यजमानानुगुण्येनमुर्तिमानम्
यजमानाद्यनुगुणे विधिरद्याभिदीयते।
लब्धांशमङ्गुलीकुर्यात्प्रासादस्य चतुर्मुख॥ 12.23 ॥
- अङ्गुलिविधिः*
तत्राङ्गुलिविधिं वक्ष्ये यथातदवधारय।
पंचधाङ्गुलिराख्याता उच्यन्ते ता विधाः क्रमात्॥ 12.24 ॥
मानं माना न्तरं मात्रा मुष्टिर्देह स्तथैव च।
वक्ष्यमाणक्रमेणैषां भेदानां लक्षणं शृणु॥ 12.25 ॥
वातायनपथं प्राप्य ये यान्ति रविरश्मयः।
तेषु सूक्ष्मा विसर्पन्ति रेणवः परमाणवः॥ 12.26 ॥
तेऽष्टौ केशाह्वय स्तेऽष्टौ लीक्षो यूकस्तदष्टकम्।
तदष्टकं यवा स्तेऽष्टौवङ्गु लिस्समुदाहृता॥ 12.27 ॥
तदुत्तमाङ्गुलिस्सप्त यवा स्सैव तु मध्यमा।
यवाष्षडधमा प्रोक्ता मानाङ्गुलमिदं भवेत्॥ 12.28 ॥
विन्यस्तैस्तिर्यगष्टाभिर्यवै र्मानान्तरागुलम्।
शालीभिर्वा ऋजुन्य स्तैस्त्रिभिर्माना न्तरं भवेत्॥ 12.29 ॥
आचार्यदक्षिणकरे मध्यमाङ्गुलिमध्यमे।
पर्वणोरन्तरं दीर्घं मात्राङ्गुलमुदाहृतम्॥ 12.30 ॥
चतुर्धा विभजेदेको भागो मुष्ट्यङ्गुलिः स्मृता।
- कौतुकायाममानम्?
यत्किञ्चित्कौतुकायामं विभज्य दशधा पुनः॥ 12.31 ॥
एकं द्वादशधा भागं कृत्वा तेष्वेकमङ्गुलम्।
उच्छ्रायः प्रतिमायास्स्या 7 न्महामानाङ्गुलाश्रयः॥ 12.32 ॥
- प्रासादवेदिकादीनामङ्गुलनिर्देशः *
प्रासादादींश्च तेनैव कुर्युन्मानान्तरेण वा।
वेदिका पीठशिबिका रथादीनां विधिः पुनः॥ 12.33 ॥
मानान्तराङ्गुलेनै व भवेन्नन्येन केवचित्।
यागोपकरणानां च कुर्यान्मात्राङ्गुलेन च॥ 12.34॥
होमाङ्गानि स्रुवादीनि कुणमुष्ट्यङ्गुलाश्रयः।
- देहलब्धाङ्गुलेनप्रतिमाङ्गमानम्*
देहलब्धाङ्गुलेनैव प्रतिमाङ्गानि कल्पयेत्॥ 12.35 ॥
8 यैर्यावद्भिर्विभागां शैरर्च्यमानमुदाहृतम्।
- ग्रामादीनां मानाङ्गुलेनै वायविभागः*
मानाङ्गुलेन तन्मानमङ्गुलीकृत्य तत्पुवः॥ 12.36 ॥
आयव्ययादौ संयोज्य ग्रामादेर्यच्छुभं भवेत्॥
तत्तथा वक्ष्यते ब्रह्मन् इदानीमवधार्यताम्॥ 12.37 ॥
लल्धांशमङ्गुलीकृत्य तदङ्गुलमथाष्टभिः
वर्धयेद्ध्रासयेच्चैव पुनर्द्वादशसङ्ख्यया॥ 12.38 ॥
आयं शिष्टाङ्गु लं ज्ञेयं व्ययैर्नवभिरेधयेत्।
दशभिः क्षपयेच्छिष्टमङ्गुलं व्ययसंज्ञितम्॥ 12.39 ॥
आयस्समग्रशुभदो व्यसस्स्वल्पशुभावहाः।
प्रतिकूले विपर्यासे ग्रामादेः कमलासन॥ 12.40 ॥
त्रिभर्वृद्धौ क्षयोऽष्टाभिश्शिष्टं योनिरुदाहृता।
- ध्वजाद्यष्टौ आयाः *
ध्वजो धूमस्तथा संहश्श्वावृषो गर्दभः करी॥ 12.41 ॥
काक इत्युच्यते योनि स्सा शुभा शुभलक्षणा।
ध्वजस्सिंहो गजोऽवड्वान् शुभयोनिश्शुभावहः॥ 12.42 ॥
धूमध्वाङ्क्षखरश्वानः प्रतिकूला वियोनयः।
- नक्षत्रादिकल्पनप्रकारः*
अष्टाभिर्वर्धते हानौ सप्तविंशतिसङ्ख्यया॥ 12.43 ॥
शिष्टमृक्षमिति प्रोक्तं ग्रामादे स्तच्छुभं भवेत्।
नवभिर्वर्धते हानौ पस्तभिश्शिष्टमङ्गुलम्॥ 12.44 ॥
वारास्ते शुभदास्सौम्याः क्रूरास्स्युर्भयदायिनः।
वृद्धौ चतुर्भिर्नवभिश्शिष्टं हानवथांशकम्॥ 12.45 ॥
तस्करो भुक्तिशक्तिश्च धन्यो नरवतिः क्लिबः।
9 सुनीतिः प्रींरायुष्मान् एतेंशास्समुदीरिताः॥ 12.46 ॥
- तालधनुः क्रौशादिनिरूपणम्*
मानाङ्गुलै र्द्वादशभिः मानं तालाह्ययं मतम्।
10 द्वौतालौ कथितो हस्तसै ह्यष्टौ धनुरुच्यते॥ 12.47 ॥
स एव दण्डस्सयुगः क्रोशस्तैः पंच भिश्शतैः।
क्रोशैश्चतुर्भिर्गौपानं योजनं तच्चतुर्गणम्॥ 12.48 ॥
ग्रामस्य यजमानस्य राज्ञो जनपदस्य च।
आयादिरनुकूलश्चेत्प्रतिमास्सर्वसिद्धिदाः॥ 12.49 ॥
आयादिरेष विज्ञेयो मूलबेरसमाश्रयः।
11 न तदङ्गेषु बिम्बेषु लोहजेष्वितरेषु वा॥ 12.50 ॥
श्रद्धाबिम्बेषु विज्ञेयस्तथा भवनकौतुके।
- प्रस्थादिमानभेदाः*
प्रस्था 12 दीना तुं मर्यादा प्रसङ्गादुच्यतेऽ13धुना॥ 12.51 ॥
चत्वारो व्रीयः कुञ्जास्तेऽष्टौ मञ्जिष्ठ उच्यते।
ते शतं षष्टिरधिकं निष्कं निष्काष्टकं फलम्॥ 12.52 ॥
फलानि पञ्च कुडुभं प्रस्थं स्यात्तु चतुर्गणम्।
तच्चतुर्गुणकं विद्यादाढकं तद्वयं शिवम्॥ 12.53 ॥
तद्द्वयं द्रोणमुदितं खारी तद्वितयं भवेत्।
तत्खारीत्रितयं भारं परिमाणमुदीरितम्॥ 12.54 ॥
एतेन परिमाणेन परिच्छेद्यं घृतादिकम्।
इति श्रीपाञ्च रात्रे महोपनिषदि पाद्मसंहितायं क्रियापदे
ध्रुवबेरप्रमाणानुकूल्यनिर्णयो नाम
द्वादशोऽध्यायः