पाद्मसंहितायाम्.
दशमोऽध्यायः
- परिवारदेवतास्थानादिकल्पनम्.*
श्रीभगवान्—-
परिवारनिवेशार्थं शोभार्थं मन्दिरस्य च।
रक्षणार्थं च परितः प्राकारं परिकल्पयेत्॥ 10.1 ॥
- अन्तर्मंडलादिप्राकारनिरूपणम्*
अन्तर्मण्डलनामानं प्राकारं प्रथमं विदुः॥
अन्तर्हारं 1 ततो वप्रं मध्याहारमनन्तरम्॥ 10.2 ॥
अनन्तरं च मर्यादा 2 महती नाम पञ्चकम्।
पञ्चैते चतुरश्रास्सुस्समुपेतखलूरिकाः॥ 10.3 ॥
पञ्चभेदाश्च तन्त्रेषु 3 चन्द्रिकाभूमिरन्तिमा
एकास्तम्भावली कल्प्या द्वयी वा कमलासन॥ 10.4 ॥
उपानदादिपञ्चौङ्ग मधिष्ठानं प्रकल्पयेत्।
दण्डस्तदर्धं पादोसं तस्योत्सेधस्समीरितः॥ 10.5 ॥
अधिष्ठाने कृते तस्मिंस्तम्भमाला विधीयते।
अन्तरालं महीमाहुर्धा मान्तर्मण्डलाख्यया॥ 10.6 ॥
पञ्चहस्तां चतुर्हस्तं द्विहस्तां वा यथेच्चया।
आन्तरावरणस्यास्य पञ्चप्रासादगुम्भितः?॥ 10.7 ॥
- सालान्तरालोच्छ्रययोर्मानम्.*
4 विच्छिन्ने चान्त रेषां तु सालानामन्तरालभूः।
एकद्वित्रिचतुर्हस्तैः क्रमशे वर्धितो भवेत्॥ 10.8 ॥
मन्दिरस्य महानासासमस्सालसमुच्छ्रयः।
ग्रीवग्रतुलितो वा स्यात्प्रतिसम्मित एव वा॥ 10.9 ॥
उपरीठसमायुक्तो सालोदण्डस्त्रिरुच्छ्रयः।
चतुः पञ्च5 द्विदण्डो वा सालानामुच्छ्रयं विदुः॥ 10.10 ॥
- सालोपरिगरुडादिविधानम्.*
उपरिष्टाच्च सालानां सिंहो गरुड एव वा।
कल्पनीयः प्रयत्नेन ध्वजयष्टिस्समन्ततः॥ 10.11 ॥
- अर्धमण्डपविधिः *
प्रासादाग्रे प्रकर्तव्य 6 स्त दङ्ग श्चार्धमण्डपः।
चतुर्धा धामनि कृते पादो वार्धमथापि वा॥ 10.12 ॥
त्रिपाद्वा धाम तुल्यं वा 7 अध्यर्धं वा यथारुचि।
द्विगुणं वा चतुर्व क्त्रयद्वा 8 हर्म्यप्रमाणतः॥ 10.13 ॥
एकहस्तं द्विहस्तं वा त्रिहस्तं वा समायतम्।
चतुर्हस्तं पञ्चहस्तं कारयेनर्धमण्डपम्॥ 10.14 ॥
अन्तरालं तयोः कार्यां तालं यद्वा 9 करायतम्।
दण्डमध्यर्धमथ वा द्विगुणं वा विनापि वा॥ 10.15 ॥
- हीनेऽर्धमण्ठपेनिर्गमस्थलनिर्देशः*
10 हीनेऽर्धे मण्डपे धाम्नि पार्श्वाभ्यां निर्गमः स्मृतः।
अग्रतः पृष्ठतश्चापि भवेतां पार्श्ववर्त्मनी॥ 10.16 ॥
- सोपपीठस्यधाम्नः गोपुरचतुष्टयम्.*
चत्वारि गोपुराणि स्युर्धाम चेत्सोपपीठकम्।
11 अग्रे तु मण्डपस्यार्धे विपुले वृत्तमण्डपः॥ 10.17 ॥
समुच्छृतं प्रतिसममधिकं वा यथेच्छया।
- नृत्तमण्डपार्ध मण्डपयेरायाममानम्*
एकद्वित्रिचतुः पञ्चहस्तौ वृत्तार्धमण्डपौ॥ 10.18 ॥
सान्तरालं समुद्धिष्टं पार्श्वाभ्यं 12 निर्गमः स्मृतः!
सोपानपङ्त्कयः कार्याः पार्श्व योरुभयोरपि॥ 10.19 ॥
देवालयेषु युग्मास्स्यु ष्षडङ्गुलसमुच्छ्रयाः।
तावद्विस्तारयुक्ताश्चं 13 द्व्यङ्गुल वोभयं भवेत्॥ 10.20 ॥
- सोपानपर्श्व योर्हस्तिरथाङ्गादिन्यासः*
सोपानपर्श्वयो 14 र्हस्तिहस्तं कुर्यात् स्थवीयसः।
यद्वा रथाङ्गं विर्वीत द्विरतं पार्श्ववाहिकम्॥ 10.21 ॥
- द्वारवातायनयोर्भित्तिबन्धनिषेधः*
द्वारं वातायनं वापि भित्तिबन्धं न जूतु चित्।
कुलक्षये विनाशश्च व्याधर्वा भित्तबन्धने॥ 10.22 ॥
- वातायनास्तरालतालबंधनाङ्गलादि निरूपणम्*
यद्वार्धमण्डपादर्धं त्रिपादं पादमेव वा।
तत्तुल्यं वान्तरां तु 15 अन्तरालान्तरं भवेत्॥ 10.23 ॥
विस्तारो ह्रासयेत्तस्य अस्तरालस्य पार्श्वयोः।
हस्तं तालं तदर्धं वा ह्रासयेत्पार्श्वयोरपिः॥ 10.24 ॥
युग्मस्तम्भ 16 समो पेतं तालबन्धमथापि वा।
लाङ्गलं वा प्रकुर्वीत उभयं वा विना भवेत्॥ 10.25 ॥
चतुरश्रायतं वा स्याच्चतुर्द्वारं चतुर्दशम्।
वातायनं वा युग्मेतु न कुर्याद्भित्तिबन्धनम्॥ 10.26 ॥
अन्तरावरणस्यान्त र्बहिर्वोभयतोपि वा।
- मण्टपायामविस्तारौ*
आयामो मण्डपस्य स्यादयुग्मं तु प्रमाणतः॥ 10.27 ॥
आषोडशान्तं युग्मे स्यादधायुग्मे त्रयोदश।
मण्डपायाममुद्दिष्टं 17 हस्तैः कमलसम्भव॥ 10.28 ॥
यद्वा मूलालयसममर्धमण्डपसंमितम्।
तदर्धं पादमेवाथ यद्वालयसमं भवेत्॥ 10.29 ॥
अध्यर्धं द्विगुणं वाथ सपादं वालयस्य च।
मण्टपायाममुद्दिष्टं विस्तारे कमलासन॥ 10.30 ॥
मूलालयसमं वापि तालहस्तं च वाधिकम्।
उपानाद्यङ्गसंयुक्तं सर्वालङ्कारसंयुतम्॥ 10.31 ॥
नानानाटकसंयुक्त मन्त स्तम्भविवर्जितम्।
उत्सेधं मण्टपस्याहुरर्धमण्टपसंमितम्॥ 10.32 ॥
अधिकं वा तदुत्सेधं मण्टपस्य चतुर्मुख।
यद्वा प्राग्याम्यसोपनं पाश्वे तन्निर्गमो भवेत्॥ 10.34 ॥
कल्पयेच्छिल्पशास्त्रज्ञो भित्तयः कोणभूमिषु।
स्थलबन्धं तदूर्ध्वे तु लाङ्गलं वा प्रकल्पयेत्॥ 10.35 ॥
- कोणेषु गरुडसिंहयोर्न्यासविकल्पः*
कोणेषु गरुडं कुर्यात्सिंहिं वा कमलासन।
सभां वा तत्प्रकुर्वीत यथा वित्तानुसारतः॥ 10.36 ॥
- प्राकारस्य चतुर्दिक्षु गोपुर चतुष्टयबन्धविकल्पः*
प्राकारस्य चतुर्दिक्षु गोपुराणि प्रकल्पयेत्।
धामाग्रवृष्ठयोर्वा स्यादग्रे चैकं प्रकल्पयेत्॥ 10.37 ॥
- द्वितलादिधामनिरूपणम्*
तलैर्द्वादशभिर्युक्तमुत्तमं द्वितलादिषु।
मूर्धेष्टकां स्तूपिकां च पूर्ववत्कल्पयेत्क्रमात्॥ 10.38 ॥
दिङ्मूर्तयः पूर्ववत्स्युः पूर्ववद्गरुडादिकम्।
- मण्डपस्य उत्तमादि मानभेद भित्तिबन्दौ *
प्राकारेषु च सर्वेषु 18 मण्डपास्युस्समन्ततः॥ 10.39 ॥
19 षड्विंशतिधनुर्मानं मण्डपं चोत्तमं विदुः।
अष्टादशधनुर्मानं मण्डपं पध्यमं विदुः॥ 10.40 ॥
अधमं द्वादशधनुमण्डपं संप्रचक्षते।
पूर्वोक्तहस्तसङ्ख्यं वा कुर्यादास्थानमण्डपम्॥ 10.41 ॥
उत्तमं दशभिर्हस्तैर्मध्यमं चाष्टहस्तकं।
षड्ढस्तमधमं विध्यात् क्षुद्रं हस्तत्रयायतम्॥ 10.42 ॥
दक्षीणोत्तरतः पृष्ठे भित्तिं तस्य प्रकल्पयेत्।
स्तम्भाष्टकयुतं तत्र सोपानं परिकल्पयेत्॥10.43 ॥
दीर्घशालामधः कुर्या द्यूपाच्छादनसंयुताम्।
मण्टपाः प्राङ्मुखास्सर्वे सर्वावरणसंस्थिताः॥ 10.44 ॥
आस्थानमण्टपान्सर्वान् प्रकुर्यात्सर्वतो मुखान्।
प्रासादारंभवत्सर्वं भूमि संशोधनादिकम्॥ 10.45 ॥
कृत्वा हस्तिनखं चैव मण्टपं चैव कल्पयेत्।
- मण्टपगर्भन्यासप्रकारः *
गर्भन्यासस्तु कोणे स्यादग्रेर्मण्टपकर्मणि॥ 10.46 ॥
गोपुरेक्रियमाणे तु दक्षिणस्यां दिशिस्मृतः।
- द्वारस्यकवाटमुग्मादि विन्यासः *
कवाटयुग्मं संस्थाप्य द्वारे द्वारे दृढंयथा॥ 10.47 ॥
लोहजं दारुजं वापि विचित्रं तुरगादिभिः।
20 उत्तराङ्गं शिलादारु वा हरेच्छिल्पिस्सह॥ 10.48 ॥
रथकृत्तक्षयित्वा तु सर्वेण क्षालयेद्द्रुतः।
पुण्याहं वाचयित्वाथ मुहोर्ते शोभने गुरुः॥ 10.49 ॥
रथकृच्छिल्पिभिस्सार्थं द्वारस्योपरि निक्षिपेत्।
शाखाचतुष्कं कुर्वीत तथै वशिलयापि वा॥ 10.50 ॥
शाखाकवाटौ प्रक्षाल्य पञ्चोपनिषदा जलैः।
नववस्त्रेण संवेष्ट्य धान्यराशिषु निक्षिपेत्॥ 10.51 ॥
महाकुम्भार्चनं कुर्यात्पूर्ववच्छास्त्रचोदितम्।
कृत्वा प्रभाते विमले मुहोर्ते शोभने गुरुः॥ 10.52 ॥
खाते लोहादि विन्यस्य 21 कारयेच्छिल्पिना सह।
पुण्याहं वाचयित्वा च प़ञ्चगव्यैर्विलेपयेत्॥ 10.53 ॥
महाकुम्भजलै 22 र्देवान् न्यसेत्कूर्चेन तत् क्षणात्।
- कवाटोपरिकल्पनीयदेवताः*
अधश्शान्तिं दक्षिणतो वाग्देवीमुपरि श्रियम्॥ 10.54 ॥
रतिमुत्तरतश्शास्वेवं चतसृषु क्रमात्।
कवाटे दक्षिणे स्थाप्यो विश्वधृग्भूतनायकः॥ 10.55 ॥
कवाटे चोत्तरे स्थाप्यो विश्ववक्त्रः प्रातापवान्।
अवतारांश्च तत्र स्थान् प्रोक्षयेत्स्वस्य विद्यया॥ 10.56 ॥
देवशास्त्रपुराणानि वेत्रेषु निवसन्तिच।
नाराचेषु त्रयस्त्रिंशद्देवाः कीलेषु चर्क्षयः॥ 10.57 ॥
कवाटपट्टिकायां च भूतनाथः प्रतिष्ठितः।
कवाटनन्दपट्टे स्याते संस्थाप्यो विश्व 23 भावनः॥ 10.58 ॥
एवं कुम्भजले ध्यात्वा विन्यसेत्सर्वदेवताः।
आचार्यदक्षिणां दद्यात् निष्कसङ्ख्या तु पूर्ववत्॥ 10.59 ॥
- कवाटस्य सौवर्णताविदिकल्पः *
सौवर्णो राजतस्ताम्रः कवाटो दारुजस्मृतः।
पूर्वः पूर्वः फलाय स्यात् भूयसे कल्पते नृणाम्॥ 10.60 ॥
कवाटं दारजं स्वर्णैः रञ्जयन्पूह्यते सुरैः।
- स्तंभपोतिकादिविधानम्*
स्तम्भान् पादशिलास्वेव रत्नन्यासादि पूर्ववत्॥ 10.61 ॥
न स्थाप्या ब्रह्मणस्थ्साने तेषामुपरि पोतिकाः।
कल्प्यास्ता 24 स्सूत्तरारोपो? वाजनादिसमन्विता॥ 10.62 ॥
तुलामारोपयेत्पश्चात् बन्धयेच्चेष्टकादिभिः।
25 तलबन्धं ततः कुर्यात् ब्रह्मन् वित्तानुसारतः॥ 10.63 ॥
यूपच्छादवकं वापि कुर्याच्छास्त्रासुसारतः।
- दिग्भेदेनचण्डादिद्वारपालनिरूपणम्*
चण्डप्रचण्टौ कर्तव्यौ द्वारे गर्भगृहस्यतु॥ 10.64 ॥
दक्षिणोत्तरपार्श्वस्थौ मुनिवेषौ सहस्त्रियौ।
दंष्ट्राकरालवदनौ भीमौ वा दण्ड धारिणौ॥ 10.65 ॥
कान्तावियुक्तौ विकटौ करण्डि 26 मकुटोज्वलौ।
अर्धमण्टपकद्वारे शङ्खचक्रोत्तमाङ्गिनौ॥ 10.66 ॥
अन्तर्मण्डलसंज्ञस्य सालस्य द्वारपार्श्शयोः।
जयश्च विजय 27 श्चैव कर्तव्यौ तस्य गोपुरे॥ 10.67 ॥
एवमेवेष्यतेऽन्येषां चतुर्दिक्षु च गोपुरम्।
अन्तर्हारस्य पूर्वस्यां द्वारि पद्मगदाधरौ॥ 10.68 ॥
ख़ड्गशार्ङ्गधरौ द्वारि दक्षिणस्यां प्रकल्पयेत्।
प्रतीच्यां वज्रमुसलधारिणौ दिशि कल्पयेत्॥ 10.69 ॥
पाशाङ्कुशधरौ ब्रह्मन्नुत्तरस्यां दिशि स्थितौ।
मध्यान्तर्हारसालस्य प्राच्यादिषु यथाक्रमम्॥ 10.70 ॥
दिक्षु धातृविधातारौ ततो भद्रसुभद्रकौ।
कृतान्तासुरविध्वंसौ कुबेराक्षकुबेरकौ॥ 10.71 ॥
प्राच्यादिषु तथा दिक्षु मर्यादा सालगोपुरौ।
दुर्जयप्रबलौ कार्यौ विश्वभावनपुष्करौ॥ 10.72 ॥
सम्भवप्रभवौ स्यातां सुभोभनसुभद्रकौ।
जघन्यावरणद्वारे प्राच्यादौ कुमुदादयः॥ 10.73 ॥
कुमुदगि कुमुदाक्षश्च पुण्डरीकोऽध वामनः।
शङ्कुकर्णस्सर्व नेत्रस्सुमुखस्सप्रतिष्ठितः॥ 10.74 ॥
अष्टौ द्वौ द्वौ प्रतिद्वारं कल्पनीया यथाविधि।
विष्णुपारिषदास्सर्वे 28 सेनभिः कोटिभिर्वृताः॥ 10.75 ॥
दण्डहस्ता विरूपाक्षाः 29 करण्डमुकुटान्विताः।
30 फणिकङ्कणमालाढ्याः भ्रुकुटीकुटिलेक्षणाः॥ 10.76 ॥
व्यत्यस्तहस्तचरणाः रक्षन्ति द्वारमाश्रिताः।
चतुर्थावरणे कुर्यात्पाकस्थानं विचक्षणः॥ 10.77 ॥
प्रथमावणे वापि द्वितीयावरणेऽपि वा।
तृतीयावरणे वापि यथादेशानुकूलतः॥ 10.78 ॥
- खलुरिकास्थाननिर्देशः*
इन्द्राग्निमध्ये वाग्नेये तस्य स्थानं विधीयते।
खिलूरिका समायुक्तं मध्ये चाङ्कणसंयुतम्॥ 10.79 ॥
चतुरश्रायते भागे प्रचीनस्याश्म कान्तकम्।
31 युग्त्मेर्हस्तप्रमाणैश्चदीर्घ 32 चुल्येन वा युतम् ॥ 10. 80 ॥
मध्येग्नियमयोः कुण्डं नित्यहोमाय कल्पयेत्।
- अपूप पचननस्थानम्*
अपूपपचनस्थानं मध्ये नैऋतयाम्ययोः॥ 10.81 ॥
- फलमरीच्यादिनिधानस्थानम्*
फलानि निक्षिपेन्मध्ये निरृतेर्वरुणस्य च।
द्वारं प्रकल्पयेत्प्रक् मध्ये वायुजलेशयोः॥ 10.82 ॥
मरीच्यादि 33निधानं स्याद्वायुसोमान्तरे भवेत् ।
सर्पिरादिद्रवस्थानं मध्येशर्वशचीशयोः॥ 10.83 ॥
- तण्डुलक्षालनकूप धूमनिर्गममार्ग स्थाननिरूपणम्.*
क्षालनं तण्डुलादीनां कूपोन्तर्बहि रेव वा।
धूमनिर्गममार्गाश्च युग्मास्स्युः कुटिलास था॥ 10.84 ॥
- मज्जन, तांबूल वस्त्रपुष्पनिवेशन प्रदेशाः एकान्तिनां भुक्तिस्थानं च.*
मज्जनम्भोगृहं याम्ये ताब्बूली 34 धाम नैरुते।
वारुणे वासनां स्थानं मारुते पुष्पमण्टपः॥ 10.85 ॥
सौम्ये चै कान्तिनां भुक्तिस्थानमीशे धनालयः।
- धान्यसङ्ग्रह छत्रादिनिवेशदेशाः *
बहीरावरणे कुयान् दाग्नेये धान्यसंग्रहम्॥ 10.86 ॥
अवघातगृहं याम्ये गोशालास्यादुमापतौ।
तृतीयावरणेस्थानं भत्रादीनां विभावसौ॥ 10.87 ॥
शिभिकादिस्थितिश्चैन्द्रे पानीयं वारुणे भवेत्।
उत्सवे देवयजनं सोमशानान्तरे भवेत् ॥ 10.88 ॥
इन्द्रेशानान्तरे वापि मध्येवाग्निसुरेशयोः।
यमाग्निमध्ये वा कुर्यादुत्सवेयाग मण्टपम्॥ 10.89 ॥
स्थानमीशे सरस्वत्याः वाद्यस्थानं तु वाय वे।
- स्थान सङ्को चेरचनाप्रकारः*
यथोक्तावरणाभावे वद्यमाने क्वचिद्भवेत्॥ 10.90 ॥
- कूपतटाकादिजलाशयविधिः *
वारुणे वा भवेत्यौम्ये कूपं 35 शार्वेपि वा भवेत्।
यत्र 36 वापां सिराग्सन्ति तत्रकूपं प्रकल्पयेत्॥ 10.91 ॥
अष्टदिक्षु यथा योगं तटाकं कारयेन्महम्।
- प्राकारस्यबहिः धीर्घिका यत्यादीनां मठादिश्च.*
प्राकाराणां च सर्वेषां बहिष्ठा दीर्घका भवेत्॥ 10.92 ॥
शास्त्रश्रवणयुक्तानां वेदध्ययनशालिनम्।
यतीनामितरेषां च पठः कार्यो बहिर्भवेत्॥ 10.93 ॥
सदनानि च कार्याणि देवमाश्रित्य तिष्ठताम्।
- उद्यानादिनिर्देशः *
उद्यानं पुष्पवाटीं च परितो धाम कल्पयेत्॥ 10.94 ॥
- एकावरण परि वारनिरूपणम्*
एकावरणयुक्त स्य परिवारानिमान् शृणु।
प्रधानबेराभिमुखः कल्पनीयो विहङ्गराट्॥ 10.95 ॥
नृत्तार्धमण्टप्यसाग्रे तस्य धाम च कल्पयेत्।
गोपुरस्योत्त रे साले मन्दिराभिमुखो रविः॥ 10.96 ॥
तस्यैव दक्षिणे साले 37 सुधांशुं परिकल्पयेत्।
वह्नौ कामो यमे ब्रह्मनैऋते स्याद्गजाननः॥ 10.97 ॥
वारणे षण्मुखो दुर्गावायौ सौम्ये धनाधिपः।
ईशाने शङ्करस्तत्र क्षेत्रपालस्तथा भवेत्॥ 10.98 ॥
सोमेशयोरन्तराले विष्वक्सेनं प्रकल्पयेत्।
अङ्कणे कक्षिणे सप्त मातरश्श्रीस्तु नैऋते॥ 10.99 ॥
इन्द्रादयो लोकपालाः पूह्यस्स्वाशासु चाङ्कणे।
गोपुरस्य भवेदन्तर्बहिर्वा बलिपीठकम्॥ 10.100 ॥
अन्तर्हाराह्वायोपेते विशेषो धाम्मि कथ्य ते।
सूर्याचन्द्रमसोः स्थाने संस्थाप्यौ पुरुषाच्युतौ॥ 10.101 ॥
सुर्याचन्द्रमसौ कल्पौ द्वितीयावरणे तथा।
हयग्रीवः 38 स्मरस्स्थाने स्थाने सङ्कर्ष णो विधेः॥ 10.102 ॥
वराहू विघ्नराट् स्थाने प्रद्युम्नश्शरजन्मनः।
कात्यायन्यामनन्तस्यादनिरुद्धो नरासने॥ 10.103 ॥
नृ केसरी शङ्क रेस्यादङ्कणे पीठिकासु चेत्।
इन्द्रादयस्समभ्यर्च्या स्तेषां स्थाने यथाक्रमम्॥ 10.104 ॥
चक्री मुसलवान् शङ्खी खड्गीचैव गदाधरः।
शार्ङ्ग पद्मी तथा वज्री पूज्या दिव्यास्त्रधारिणः॥ 10.105 ॥
- परिवारदेवतानामवस्थानादि.*
प्रथमावरणे येषां स्थाने 39 न्ये समुदीरिताः।
ज्ञेया द्वितीये ते सर्वे परिवारा यथोक्तया॥ 10.106 ॥
मध्यान्तर्हारसाले तु गोपुरोभयपार्श्वयोः।
आदित्या द्वादशाराद्याः मध्ये मन्मथवेथसो॥ 10.107 ॥
वसवः पूजिनीयास्युर्विधिविघ्न 40 कृतोः पुनः।
मद्ये पितृगणाः पूज्याष्षडाननगणेशयोः॥ 10.108 ॥
विश्वे देवास्समाराद्याः मरुतो गुहदुर्गयोः।
सप्तर्षयः पूजनीया मध्ये दुर्गाकुबेरयोः॥ 10.109 ॥
कुबेरेशान योर्मध्ये रुद्रा एकादश स्मृताः।
तत्रैव च क्षेत्रपालाः प्राङ्कणे कुमुदादयः॥ 10.110 ॥
इन्द्रादिपीठिकास्थाने सभाज्याः कमलासन।
मर्यादवरणे स्थाप्या अष्टादश गणेषु ये॥ 10.111 ॥
उत्तमाः परिवारास्ते प्राङ्कणोर्वीतले पुनः।
41 उपेन्द्रप्रमुखाः पूज्या दिक्षु प्राच्यादिषु क्रमात्॥ 10.112 ॥
उपेन्द्रः 42 प्राकृतः पुण्यः पुष्करो विश्वभावनः।
असुरघ्नः कृतान्तश्च भुतनाथोऽष्टमः स्मृतः॥ 10.113 ॥
मर्यादायां महत्यां तु मध्यमा ये गणेषु ते।
परिवाराः प्रकर्तव्याः विश्वाद्या वासवादिषु॥ 10.114 ॥
अङ्गणेसमर्चनीयाः देवताः
अङ्कणेषु समर्च्या ये वक्ष्ये ताननुपूर्वशः ।
विश्वेशो वश्विकृद्विश्वो विश्वात्मा विश्वलोचनः॥ 10.115 ॥
विश्वपादो विश्वभुजस्तथा वै विश्वकर्मकृत्।
- आदित्याद्यष्टादशगणाः *
अष्टादसगणान् वक्ष्येतान् बुध्यस्व क्रमोदितान्॥ 10.116 ॥
आदित्या वसवो रुद्राः साद्याश्च मरुत स्तथा।
विश्वे देवाश्च पितरो मातरो गुहदेवताः॥ 10.117 ॥
अङ्गिराश्चाश्विनीदेवौ तथा स्त्रीदेवातागणाः।
लोकेशा वास्तुदेवाश्च नक्षत्राणि च पार्षदाः॥ 10.118 ॥
तत्वानां पतयश्चैव उत्तमाः परिकीर्तिताः!
सिद्धाश्च ऋषयो नागाः असुरा राक्षसा अपि॥ 10.119 ॥
यक्षविद्यधराश्चैव सौरभेयाश्च गुह्यकाः।
गन्धर्वाप्सरसश्चैव व्रजानां पतयस्तथा॥ 10.120 ॥
मर्त्याश्चैवाथ रोहिण्यो गणास्ते मध्यमाः स्मृताः।
भूताः प्रेताः पिशाचाश्च कूश्माण्डाः प्रमथा अपि॥ 10.121 ॥
स्कन्दो बालग्रहाश्चैव तैतलाश्चैव भैरवाः।
किन्नराश्चैव वेताला अपस्मारास्तथैव च॥ 10.122 ॥
योगिन्यश्चैव ढाकिन्यश्शाकिन्यश्चैव चारिकाः।
मोहिन्यश्चेव सर्वेषु जघन्याः परिकीर्तताः॥ 10.123 ॥
धाताऽर्यमा विधाता च मत्रिश्च वरुण स्तथा।
भगो विवस्वान् पूषा च सविता च रविस्तथा॥ 10.124 ॥
त्वष्टा विष्णुरिति प्रोक्ताः द्वादशैतेऽदितेस्सुताः।
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽवलः॥ 10.125 ॥
प्रत्यूषश्च प्रभासश्च वसवश्शान्तवर्चसः।
मृगव्याधश्च शर्वश्च निरृतिर्ध्वज एकपात्॥ 10.126 ॥
अहिर्बुध्न्यः पिनाकी च यवषश्च तथैव च।
स्थाणुर्भवः कपाली च रुद्राश्चै कादश स्मृताः॥ 10.127 ॥
त्रिणेत्रा रुद्रसदृशाः जटामुकुटधारिणः।
आवहो विवहश्चैव उद्वहस्संवहस्तथा॥ 10.128 ॥
निवहोऽनुवहश्चेव 43 प्रवहश्च तथैव च।
सप्तैते मरुतः प्रोक्तास्सप्त सस्ताद्रिभेदिनः॥ 10.129 ॥
अलो रविश्च रुद्रश्च अग्निरापस्तथैव च।
पञ्चैतेतु समाख्याताः गणास्साध्यसमाह्वयाः॥ 10.130 ॥
रुद्रोऽग्निस्सविता विष्णुर्विश्वे देवगणाः स्मृताः।
कव्यवाडवलस्सोमो यम एवार्यमा तथा॥ 10.131 ॥
अग्निष्वात्तास्सोमपाश्च तथा बर्हिषदोपि च।
एते पितृगणाः प्रोक्तास्सप्तैते लोकपूजिताः॥ 10.132 ॥
क्रतुर्दक्षः कालकाख्यो वसुस्सत्यश्शुची रुचि।
पुरूरवा 44र्द्वश्चैव विश्वे देव इमे स्मृताः॥ 10.133 ॥
नासत्यदस्समुभयमश्विनौ परिकीर्तितौ।
अन्योन्यसदृशौ देवौ पीयूष 45 कलशोद्भवौ॥ 10.134 ॥
रविसोमाङ्गारबुधगुरुशुक्रशनैश्चराः।
राहुकेतू तथा 46 श्लिष्टौ कीर्त तास्तु नवग्रहाः॥ 10.135 ॥
शक्राग्नि यमरक्षांसि वरुणो वायुरेव च।
सोम ईशान इत्यष्टौ लोकपालाः प्रकीर्तिताः॥ 10.136 ॥
ब्रह्मा मरीचिरत्रिश्च विनस्वान् वृथिवीश्वरः।
47 आपश्चै वापवत्सश्च सविता च सवित्रकः॥ 10.137 ॥
रुद्रो रुद्रजयश्चैव इन्द्र इन्द्रजय स्तथा।
इशश्चैवाथ पर्जन्यो जयन्तश्च महोन्द्रकः॥ 10.138 ॥
भानुस्सत्यो भृगुश्चेव अन्तरिक्षश्च पूर्वतः।
अग्निः पूषा कृशोभनुर्बृहत् क्षत्रो यमस्तथा॥ 10.139 ॥
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु याम्यतः।
पितृदौवारिका श्चैव सुक्रीवः पुष्पदन्तकः॥ 10.140 ॥
वरुणश्च भृशश्चापो 48 चक्षुमश्च मनोजवः।
रोगनाथश्च मृत्यन्तो भल्लाटस्सोम एव च॥ 10.141 ॥
अदितिर्वास्तुनाथश्च वासुदेवगणाः स्मृताः।
अग्निर्वायः प्रजासक्तश्चत्वारोऽङ्गिरसः स्मृताः॥ 10.142 ॥
तिष्ठन्ति मुनिरुपेण देवरूपेण च द्विधा।
लक्ष्मीस्सरस्वती विघ्ना तिस्रस्तु गृहदेवताः॥ 10.143 ॥
इत्येतेऽष्टादश प्रोक्ताः गणा मध्योत्तमाधमाः।
उत्तमा मध्यमा श्चापि परिवारेषु संमताः॥ 10.144 ॥
रुद्रालयादिष्वधमाः परिवाराः प्रकीर्तिताः।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे परिवारादिदेवताकल्पनं नाम
दशमोऽध्यायः।
-
मनो। ↩︎
-
महामर्या च पञ्चमम्. ↩︎
-
पञ्चकाभिरतन्द्रितः ↩︎
-
पञ्चकं वेतरेषांतु. ↩︎
-
त्रिदण्डो ↩︎
-
स्तदर्ध. ↩︎
-
संध्यर्द्धं ↩︎
-
हस्त. ↩︎
-
करालयम्. ↩︎
-
हीनेर्धमण्टपे धाम्नः ↩︎
-
अग्रं तु मंडलस्यार्ध। ↩︎
-
धामनिर्गमः ↩︎
-
द्विगुणं वोभयंर्हस्तस्व हस्तास्स्युः ↩︎
-
हस्ति हस्तं वाथ स्थवीयसः ↩︎
-
अन्तरालायतं ↩︎
-
द्वयो. ↩︎
-
विस्तारे कमलासन. ↩︎
-
मण्टपस्य ↩︎
-
द्वाविशंति ↩︎
-
“उत्तराङ्गम्—स्योपरिनिक्षि पेत्” इत्यन्तं क्वचिन्न. ↩︎
-
स्थापयेत्. ↩︎
-
देहान्. ↩︎
-
नायकः ↩︎
-
स्सूत्रकारोपो. ↩︎
-
स्थलबन्धमधः ↩︎
-
मकुटान्वितौ. ↩︎
-
श्चोभौ. ↩︎
-
सर्वे सेनाधिपः स्मृताः॥ ↩︎
-
केयूर. ↩︎
-
मणि. ↩︎
-
मुग्महस्तप्रमाणाश्च. ↩︎
-
चुल्याथवा पुनः ↩︎
-
निवासस्स्यात्. ↩︎
-
याम्यनैऋते ↩︎
-
सर्वषु ↩︎
-
वापश्शिवास्सन्ति. वापां रसाः इति च पा. ↩︎
-
चन्द्रमाः ↩︎
-
सुरस्सावे. ↩︎
-
सोधमुदीरितं ↩︎
-
कृते पुनः ↩︎
-
उपेन्द्रः प्राङ्मुखः पूज्यो. ↩︎
-
प्राङ्मुखः ↩︎
-
व्यवहारस्त. ↩︎
-
ध्रुव. ↩︎
-
कलशावहौ. ↩︎
-
क्लिष्टौ ↩︎
-
चित्र. ↩︎
-
यक्ष्मामाजन्मनो. ↩︎