पाद्मसंहितायाम्
नवमोऽध्यायः
प्रासादविधिः
- वेसरम्*
श्रीभगवान्—-
नागरं द्रामिडं चैव वेसरं चेति तत्त्रिधा।
- नागरं*
आ स्तूपीकर्ण [^1] मारभ्य चतुरश्रं प्रकल्पितम्॥ 9.1 ॥
धामा यताश्रमथवा नागरं तदुदाहृतम्।
- द्रामिडम्*
वस्वश्रमायतं धिष्ण्यं षडश्रमथवायतम्॥ 9.2 ॥
उक्तं तद्धामिडाह्वानं वृत्तं वृत्तायतं पुनः।
- वेसरम*
वेसराख्यं तदाख्यातमेवं त्रिविधमिष्यते॥ 9.3 ॥
- मूर्धेष्टकाविधिः *
मुर्धेष्टकाविधिं ब्रह्मन् श्रुणु वक्ष्यामि साम्प्रतम्।
भवनस्य पुनः पूर्वं पूर्ववत्कारयेत्प्रपाम्॥ 9.4 ॥
तन्मध्ये वेदिकां कुर्यात्सर्वालङ्कारसंयुताम्।
यन्मय्यो यादृशाः पूर्वं कल्पिताः प्रथमेष्टकाः॥ 9.5 ॥
मूर्धेष्टकाश्च तन्मय्यश्चतस्रस्तादृशाः स्मृताः।
- स्नपसार्थङ्कलशप्रतिष्ठा *
स्नापयेत्पूर्ववत्ताश्च धान्यराशिषु निक्षिपेत्॥ 9.6 ॥
1 द्वारकुम्भान् ध्वजान् सम्यक्तोरणानि समर्चयेत्।
संस्थापयेन्महाकुन्भं तस्मिन्नावाह्य पूजयेत्॥ 9.7 ॥
वेदिकायाश्चतुर्दिक्षु होमः पूर्ववदिष्यते।
दिक्ष्वष्टासु तथा धाम्न श्शान्तिहोमं 2 प्रकल्पयेत्॥ 9.8 ॥
पूर्ववच्चेष्टकास्सूत्रैर्वेष्टयेत् 3 प्रयतोऽब्जज।
धान्यराशिषु संस्थाप्य कलशान्पञ्चविंशतीः॥ 9.9 ॥
मणिहेमादिसंयुक्तान् सूत्रवस्तादिवेष्ठितान्।
अर्चयेद्गन्धपुप्पाद्यैराचार्यश्शास्त्रचक्षुषा॥ 9.10 ॥
- आचर्यानियमाः *
उपोषितश्शुचिस्स्नातो नववस्त्राङ्गुलीयकः।
तत्रैव दर्भानास्तीर्य शयीत विजितेन्द्रियः॥ 9.11 ॥
मूर्धेष्टकासामाधाता तथैव गुरुणा सह।
यजमानेन शुद्धात्मा सोपवापो जितेन्द्रियः॥ 9.12 ॥
वसेत्तत्रैव दर्भेषु ध्यायन् परमपूरुषम्।
एवं रात्रौ प्रकुर्वीत यथोक्तं सर्वमक्षतम्॥ 9.13 ॥
- इष्टकास्नपनाधाने*
श्वोभूते विमले शुद्धे मुहूर्ते गुरुरात्मवान्।
उद्धृत्य कलशान् सर्वान् स्नापयेन्मूलविद्यया॥ 9.14 ॥
महाकुम्भस्थतोयेन भुयस्तान् 4 स्नापयेद्गुरुः।
अभ्यर्च्य मूलमन्त्रेण वेष्टयेन्नववाससा॥ 9.15 ॥
आदाय चेष्टकास्सर्वा ऋत्विजस्समलङ्कृताः।
धाम प्रदक्षिणीकृत्य तूर्यघोषसमन्वितम्॥ 9.16 ॥
आरोपयेयुस्तास्सर्वा विमानस्योपरिस्थले।
पुण्याहं वाचयेत्तत्र ऋत्विग्भिन्सहितो गुरुः॥ 9.17 ॥
मूर्धेष्टकानामाधाता प्राङ्मुखस्सुसमाहितः।
ध्यायन्नारायणं देवं हृत्पद्मे प्रणवं जपेत्॥ 9.18 ॥
आदध्यादिष्टका 5 स्सर्वाः पूर्वादिक्रममाश्रितः।
- स्त्री शूद्रादीनाममन्त्रकमाधानम्*
स्त्री शूद्रास्सानुलोमाश्च तूष्णीमाधानमाचरेत्॥ 9.19 ॥
- इष्टकाविधौवर्ज्याः जनाः *
पापरोगयुतान् ब्रह्मन् पतितान् प्रतिलोमजान्।
वर्जयेद्यत्नमास्थाय मर्य्यैन् मूर्धेष्टकाविदौ॥ 9.20 ॥
- गुरोस्सत्कारः*
प्रणम्य शिरसा भूमौ यजमानो गुरं पुनः।
पस्त्रैश्च धनधान्यैश्च गोभूमिकनकै स्तथा॥ 9.21 ॥
पञ्चाङ्गभूषणं दद्वाद्धासीदासां स्तथैवच।
वाहनं हस्तितुरगं छत्रोपनहमेव च॥ 9.22 ॥
तस्मैच गुरुवे सर्वं प्रयच्छे 6 दविशङ्कितः।
- रथकारतोषणम्*
तोषयेद्रथकारांश्च वस्तान्नाधनधान्यकैः॥ 9.23 ॥
- स्तूपीकीलविधिः *
स्तूपिकाकीलमधुना वक्ष्यामि कमलासन।
लोहजं दारुजं वापि स्तुपिकाकीलमिष्यते॥ 9.24 ॥
ऊर्ध्वभूम्यङ्घ्रीतुलितं विस्तारायामसम्मितम्।
स्तूपिकाकीलमेतत्प्यादग्रमङ्गुल 7 संयुतम्॥ 9.25 ॥
विमानकण्ठतुलितमध्यर्धं द्विगुणन्तुवा।
- क्रीलस्याकारभेदाः *
एवं चतुर्वधं प्रोक्तं स्तूपिकाकीलमुत्तमम्॥ 9.26 ॥
तद्वृत्तं चतुरश्रं वा पञ्चाश्रं व प्रकल्पयेत्।
- विमानभेदेनकिलकसङ्ख्या*
वृत्तायते विमाने तु चतुरश्रायते पि च॥ 9.27 ॥
युग्मं स्यात् स्तूपिकाकीलमपुनर्भवकाङ्क्षीणाम्।
इतरेषामयुग्मं स्यात् स्तूपिकाकीलकल्पनम्॥ 9.28 ॥
यावद्विंशतियुग्मं स्यादयुग्मैकोनविंशतिः।
चतुरश्रे षडश्रे च अष्टाश्रे समवृत्तके॥ 9.29 ॥
स्तूपिकाकीलमेवं स्यात्सर्वकाम समृद्धिदम्।
- कीलाधिवासेवशेषः *
कृत्वैवं स्तूपिकाकीलमधिवासं प्रकल्पयेत्॥ 9.30 ॥
स्नापनादिक्रियास्सर्वा यावदारोपणक्रिया।
मूर्धेष्टकावत्कर्तव्या विशेषस्तु विधीयते॥ 9.31 ॥
आरोपिते ततः कीले विमानाग्रे स्थितस्तुधीः।
पुण्याहं वाचयेद्गर्ते 8 नवरत्नं विनिक्षिपेत्॥ 9.32 ॥
पूर्वादिमध्यमान्तं स्यात् धातुबीजं सलोहकम्।
क्षिप्त्वगर्ते ततस्तूपीं प्राङ्मुखो मुलविद्यया॥ 9.33 ॥
- आचर्यालङ्कारः *
आचार्यस्थापयेत् स्तूपीं पञ्चाङ्गाकल्पभुषितः।
हारोपवीतकटकैः केयूरैरङ्गुलीयकैः॥ 9.34 ॥
9 पञ्चाङ्गभुषणै रेतै र्भूषितस्सोत्तरीयकः।
नुधया स्तूपिकागर्तं दृढीकुर्यादनन्तरम्॥ 9.35 ॥
- स्तूप्याकवक्रभावेदोषः*
स्थापनीया ऋजुस्तूपी वक्रा चेद्पहुदोषदा।
- स्तूप्यलोहभेदेनफलम् *
सौरर्णी राजती ताम्री स्तुपी दारुमयी तथा॥ 9.36 ॥
पूर्वपूर्वा बहुफला पश्चिमा [^11] पश्चिमाल्पदा।
गुरुवे दक्षिणा देया हेमसङ्ख्या च पूर्ववत्॥ 9.37 ॥
शिखाकुम्भं सुवर्णं वा राजतं ताम्रमेव वा।
पैत्तलं मृण्मयं वापि स्थापये त्तत्क्षणे शुभे॥ 9.38 ॥
- धामानुगुण्येनस्तूप्याकारः *
वृत्तेधामनि वृत्तं स्यादश्रियुक्तेऽश्रियुच्च तत्।
नानारत्नैश्च लोहैश्च शिखाकुम्भं च पूरयेत्॥ 9.39 ॥
10 घटाग्रं मुकुलाकारं दीपाकारमधापि वा।
कुर्यान्मनोहरं हृद्य मधस्तात्तस्य पङ्कजम्॥ 9.40 ॥
- शूलभेदः *
महानासोत्तमाङ्गेषु चक्रं वा शूलमेव वा।
स्थापयेल्लोहजं वापि दारुजं वा 11 तथा भवेत्॥ 9.41 ॥
- विमानतलकल्पनीयदेवतानां विकल्पः*
तले तले विमानानां दिक्षु देवान्प्रकल्पयेत्।
इन्द्रमैन्द्र्यां कुमारं वा दक्षिणस्यामुमापतिम्॥ 9.42 ॥
दक्षिणामूर्तिमथ वा प्रतीच्यां नृहरिं हरिम्।
श्रीधरं वा तथोदीच्यां ब्रह्माणं वा धनधिपम्॥ 9.43 ॥
अथवाऽऽदिवराहस्स्यात् प्राच्यां नरहरिस्तथा।
ततो नु श्रीधरो देवः ततो हयशिराः स्मृतः॥ 9.44 ॥
प्राच्यादिष्वथ वा दिक्षु नरो नारायणो हरिः।
कृष्णश्चत्वार एते न्युरथवा पुरुषः परः॥ 9.45 ॥
सत्यो दक्षिणतः पश्चादच्युतोऽनन्त उत्तरे।
वासुदेवादयो वास्युर्दिक्षु पूर्वादिषुक्रमात्॥ 9.46 ॥
श्रीधरं पूर्वदिग्भागे वराहं दक्षिणे तथा।
12 नृसिंहं पश्चमे भागे अनन्तं चोत्तरे तथा॥ 9.47 ॥
- विमानदेवतानां ध्रुवबेरसमसंस्थानता *
ध्रुवभेरे स्थिते दिक्षु मूर्तयोपि स्थिता स्तथा।
असीने तद्वदासीनश्शयाने तुभयं भवेत्॥ 9.48 ॥
यानारूढेप्रधाने तु यानारूढा स्थ्सिताश्चते।
विश्वरूपे तु तद्वत्स्यात् स्थिता वा स्युश्चतुर्भुजाः॥ 9.49 ॥
इन्द्रादयश्च दिग्देवाः आसीना एव ते सदा।
- शैलादिविमाने तदुपादाना एव देवताः *
विमान शैलजे दिक्षु शैलजा एव देवताः॥ 9.50 ॥
तोयाधिवासनं कुत्वा मण्टपे चाधिवास्य च।
मुहूर्ते स्थापयेद्धिक्षु वर्णालेपं समाचरेत्॥ 9.51 ॥
शूलानि स्थावयेद्धिक्षु विमानेत्विष्टकामये।
तोयाधिवासनं कृत्वा अधिवास्य व्यपेत्क्रमात्॥ 9.52 ॥
- वर्णलेपविधिः *
त्रिवस्तुकमयं कृत्वा वर्णालेपं समाचरेत्।
यो वर्णो यस्य शास्त्रोक्त स्तेनै वालेपनं भवेत्॥ 9.53 ॥
व्यत्यासे ब्राह्मणादीनां वर्णानां सङ्करोभवेत्।
- भित्तिभागे देवतानां अर्धचित्रादि विकल्पः*
सर्वे च भित्तिभागस्ताः पद्मविष्टपमास्थिताः॥ 9.54 ॥
अर्धचित्राः कृतास्सर्वे चित्राभासेन वा भवेत्।
एकनासासमायुकै एका दिङ्मूर्तिरिष्यते॥ 9.55 ॥
चतुर्भुजो वा द्विभुजस्सौम्यवक्त्रः स्मिताननः।
- नासिकाहीनविमानेदिङ्मूर्तिनिषेधः*
विमाने नासिकाहीने दिङ्मूर्तिरपि नेष्यते॥ 9.56 ॥
- विमानभेदेनदिङ्मूर्तिभेदः *
चतुरश्रायते वृत्ते धाम्नि वृत्तायते पि च।
वीलसेनस्सु षेणश्च वीरनाथस्सुभद्रकः॥ 9.57 ॥
आग्नेयादिविदिक्ष्वेते बाहुभिस्सद्मधारिणः।
विष्युपारिषदाः स्थाप्याः करालवदनान्विताः॥ 9.58 ॥
चतुरश्रायते धाम्नि नासिकाद्वयसंयुते।
दक्षिणोत्तरतस्तस्य पुरषौ पूर्णपुष्करौ॥ 9.59 ॥
शङ्खचक्रधरौ स्थाप्यौ हस्तौ यवनिकास्पृशौ।
तले तले विमानस्य सुरा विद्याधराः स्मृताः॥ 9.60 ॥
नृत्यन्तो बहुधा वेणुवीणापणवधारिणः।
कल्पनीयास्तथान्ये च किन्नरोरगजातयः॥ 9.61 ॥
ममावतारास्सर्वत्र कल्प्यास्तश्चेष्टितानि च।
- कपोतेषुहंसमालादिकल्पनम्*
कपोतेषु कपोतेषु तलेषु च तलेषु च॥ 9.62 ॥
हंसमालां प्रकल्पेत भूतमालां तथैव च।
अन्योन्य मुखमालोक्य स्थितागगनयायिनः॥ 9.63 ॥
भूतानि नाना नृत्यन्ति विकृताननभञ्जिच।
प्रतेरुपरि कण्ठस्याप्यधस्तात्कोणभूमिषु॥ 9.64 ॥
गरुडान्कल्प येत्सिंहान् संविष्टानथवा स्थितान्।
- उक्तानामुच्छ्रायमानम् *
तदुन्नतं कण्ठपात्रं पादमात्रमथापि वा॥ 9.65 ॥
अदुर्धं वा त्रिपादं वा नान्यधोच्छ्रायमिष्यते।
- अधिष्ठानाधस्थाः देवताः *
अधस्तात्तदधिष्ठाने कल्पयेद्धेवताः क्रमात्॥ 9.66 ॥
अग्नेये हस्तिवदनमीशं दक्षिणतोऽथवा।
दक्षिणामूर्तिमृषिभिस्सेवितं वटमाश्रितम्॥ 9.67 ॥
विश्वरूपं प्रतीचीने कमलासनमुत्तरे।
13 ऐशान्यां वसुधां देवीं स्तापयेत्तु विचक्षणः॥ 9.68 ॥
अथवा पूर्ववत्सर्वा दिङ्मूर्तीः परिकल्पयेत्।
अधस्तादुतपीठेऽपि पूर्वौक्ता दिक्षु देवताः॥ 9.69 ॥
अथवा तत्कथोपेता न्प्रादुर्भावान्प्रकल्पयेत्।
- सुधाकल्पनप्रकारः*
पाषाणशर्करा 14 तक्रसुधया त्रिः प्रकारया॥ 9.70 ॥
पिष्टया त्रिफलाम्भोभिस्सकृद्द्विस्तिश्च यत्नतः।
खदिरार्जुनजै स्तोयैश्शल्मल्याः क्षीरशाखिनः॥ 9.71 ॥
मिश्री 15 कृत्यावटे सम्यक्तोयभावितया तथा।
अभिषिच्यपरिक्वाथं सम्मिश्रीभूतया पुनः॥ 9.72 ॥
गुलपाकरसैस्तैश्च पुनः 16 क्वथितया भशम्।
धाम लिम्पेत्क्रमेणैव स्थूलादित्रिविधात्मना॥ 9.73 ॥
चिरस्थायि भवेदेवं कल्पिते 17 मन्दिरं तु तत्।
- लेपनत्रैविध्यम्*
पाषाणशर्करा 18 तक्रसुगन्धं चूर्णयेत्पुरा॥ 9.74 ॥
तच्चूर्णे पीष्टमाने तद्विगुणां वालुकां क्षीपेत्।
पिष्टं तदेकवारं चेत् स्थूलं द्विः पिष्टमुच्यते॥ 9.75 ॥
सूक्ष्मं त्रिश्चेत्परिज्ञेयः स्थूलाद्या लेपनक्रमः।
- पञ्चवर्णकल्पनम्*
पञ्चवर्णैस्ततः कुर्याच्छोभितं शास्त्रचक्षुषा॥ 9.76 ॥
उपानहादिस्तूप्यस्तं भुष येत्कनकादिभिः।
मुक्ता 19 मणिहिरण्यस्रक्किङ्किणीजाल केतुभिः॥ 9.77 ॥
भुषयेत्सदनं विष्णोर्यथावित्तानुसारतः।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापदे मूर्धेष्टकाविधिविमान देवताकल्पनन्नाम
नवमोऽध्यायः.
-
द्वारकुम्भद्वयं ↩︎
-
समाचरेत् ↩︎
-
पृथगब्जज. ↩︎
-
स्नापयेद्भुधः ↩︎
-
पश्चात्. ↩︎
-
दभिशक्तितः ↩︎
-
निर्मतम्. ↩︎
-
नवस्ताणि. ↩︎
-
भूषितैरत्नै. ↩︎
-
घटाग्रमं गुलाकारं ↩︎
-
नवा. ↩︎
-
पश्चिमे तु हयग्रीवं नृसिंहं ↩︎
-
केषु चित्को शेषु " ईशान्यां वसुधां" इतिस्थाने ईशान्यामम्भिकां देवीं माहिषे शिरसि स्थिताम्. एवं पाठो दृश्यते. ↩︎
-
नक्र. ↩︎
-
कृत्यघटे. ↩︎
-
कुट्टिक्रया. ↩︎
-
भवनेस्ति. ↩︎
-
नक्रसुधान्यं चूर्णयेत्ततः ↩︎
-
दाम. ↩︎