०८

अष्टमोऽध्यायः

विमानविधिः

श्रीभगवान्—-

प्रभेदमधुनावक्ष्ये विमानानां सलक्षणम्।
आनन्त्यात्तत्प्रभेदानां किञ्चिदेव प्रदर्श्यते॥ 8.1 ॥

विमानानि च भिद्यन्ते तलादिष्टानभेदतः।
वैजयन्तकविमानम्.

ग्रीवा च मस्तकं च द्वे1 वृत्तं चेद्वैजयन्तकम्॥ 8.2 ॥

  • श्रीविशालम्*

मूले मूलो यदि स्थूलमग्रेऽग्रे सूक्ष्ममद्भुतम्।
पुरोभागे महघोणं त्रिदिक्षु स्वल्पनासिकम्॥ 8.3 ॥

2 स्तूपीचतुष्कं सानायां विमाने चोभयोरपि।
वृत्तायतविमानं 3 तद्दृढधामाभिपूजितम्॥ 8.4 ॥

4 सकर्णकूटं 5 श्रीभोगं मध्ये भद्रं तथाविधम्।

  • पुष्पकम्.*

6 श्रीविशालमितिप्रोक्तं 7 वस्वस्रं स्वस्तिबन्धनम्॥ 8.5 ॥

श्रीकरं चतुरश्रं तु षोडशाश्रयुतं पुनः।
विमानं पुष्पकमिदं विमानेषु सुपूजितम्॥ 8.6 ॥

  • केसरम्.*

भद्रेण सहितं मध्ये मस्तके कर्ण 8 कन्धरम्।
कोष्ठकं भद्रनास्यङ्गं सुवृत्तं गलमस्तकम्॥ 8.7 ॥

विमानं केसरमिदं सर्वालङ्कारशोभितम्।

  • सुदर्शनम्.*

मुखे मुखे 9 समावृत्तं शिरस्तु द्वित्रिनेत्रवत्॥ 8.8 ॥

सौमुख्यं कर्करीभूतं वृत्तगर्भगृहान्वितम्।
मुखे तस्य महाघोणं विमानं चो भयोरपि॥ 8.9 ॥

स्तूपीयुग्ममयुग्मं वा नासिकाल्पं त्रिदिक्षु च।
वृत्तायतं सुवृत्तं वा नाम्नैतत्स्या 10 त्सुदर्शनम्॥ 8.10 ॥

  • स्वस्तिंकं *

चतुरश्रमधिष्ठानं तद्वत्कण्ठं च मस्तुकम्।
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम्॥ 8.11 ॥

शिखरं च महदिक्षु महानासाभिरन्वितम्।
तोलणै र्वेदिभद्राद्यैर्नानाचत्रैर्वचित्रतम्॥ 8.12 ॥

नाम्नैतत्स्वस्तिकं प्रोक्तं विमानेषु सुपूजितम्।
विपुलसुन्दरम्

तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि॥ 8.13 ॥

अन्तः प्रस्तरसंयुक्तमे तद्विपुलसन्दरम्।

  • पर्वतम्*

अंशमंशद्वयं सत्रिपादांशं स्वांघ्रिभागिकम्॥ 8.14 ॥

भागद्वयं 11 विभक्ताङ्घ्रि प्रस्तरग्रीवमस्तकम्।
पादोदये नवांशे तु द्वितलादिविमानके॥ 8.15 ॥

अन्तरप्रस्तरोपेतं कूटशालाभिरन्वितम्।
नानालञारसंयुक्तं नानापादैरलङ्कृतम्॥ 8.16 ॥

विमानं पर्वतं प्रोक्तं विमानेषु सुपूजितम्।

  • मन्दरम्*

तदेव तर्तुलं वेदिकन्धरं शिखरं घटम्॥ 8.17 ॥

अष्ठकूटं चतुश्शालायुक्तं सस्ताष्ठनासिकम्।
कोष्ठकं निर्गमं मध्ये द्वित्रि 12 दण्डेन सोष्टकम्॥ 8.18 ॥

13 समग्रीवशिरोपेतं कूटकोष्ठ 14 समन्वितम्।
नानादिष्ठानसंयुक्तं नानापादैरलङ्कृतम्॥ 8.19 ॥

चतुरश्रं सुवृत्तं वा नाभिभिर्बहुभिर्युतम्।
नाम्नैत 15 न्मंदरं प्रोक्तं विमानं कमलासन॥ 8.20 ॥

  • स्वस्तिबन्धम्*

तदेव शिखरे सार्धकोष्ठकं तु चतुष्टयम्।
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम्॥ 8.21 ॥

नानादिष्ठानसंयुक्तमनेकतलसंयुतम्।
16 नासीभिश्च सहस्त्रैस्तु तदर्धं पादमेव वा॥ 8.22 ॥

नाम्नैतत्वस्तिबन्धं स्यान्नानावयवशोभितम्।

  • कल्याणम्*

तदेव सौष्ठिकं कौष्ठमन्तरप्रस्तरै र्युतम्॥ 8.23 ॥

17 हाराल्पं कन्धरं निम्नं न नाष्पैर्वाल्पनासिकम्।
नानालङ्कारसंयुक्तमेतत्कल्याणमिष्यते॥ 8.24 ॥

  • पाञ्चालं*

तदेवशिखरे सार्धकोष्ठकं रहितं तु चेत्।
चतुर्नासीसमायुक्तमेतत्पाञ्चालमिष्यते॥ 8.25 ॥

  • विष्णुक्रान्तम्.*

तदेवाष्टाश्रकं वेदिं कण्ठं च शिखरं घटम्।
शिखरेष्टमहानासि नाम्नैतद्विष्णुकान्तकम्॥ 8.26 ॥

  • सुमङ्गलम् *

तदेवकूटशालानामन्तरप्रस्तरैर्विना।
तच्चतुर्भेगमधिकमायतं चतुरश्रकम्॥ 8.27 ॥

18 आयताश्रं तथा वेदिं 19 कर्णं च शिखरं घटम्।
स्तूपीत्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम्॥ 8.28 ॥

  • कान्तारम्.*

तदेवायतवृत्तं चेद्वेदिका 20 जठरं शिरः।
सर्वावयवसंयुक्तमेत 21 त्कान्तारमिष्यते॥ 8.29 ॥

  • पुष्करम्.*

तारादर्धांशमधिकमायतं चतुरश्रकम्।
द्व्यश्रयुक्तं शिरोयुक्तं नेत्रशालामुखान्वितम्॥ 8.30 ॥

विमानं पुष्करं प्रोक्तं सर्वहर्म्येषु पूजितम्।

  • मनोहरम्.*

चतुरश्रमधिष्ठानवृत्तगर्भगृहान्वितम्॥ 8.31 ॥

सर्वालङ्कारसंयुक्तमेतन्नाम्ना मनोहरम्।
कौबेरम्.

तदेव चतुरश्रं स्याद्गर्भगेह 22 मसूकरम्॥ 8.33 ॥

वर्तुलं जन्मतस्तूपी कान्तं जेद्वृत्तहर्म्यकम्।
आयताश्रमधिष्ठानं ष़डश्रं कन्धरं शिरः॥ 8.34 ॥

नानालङ्कारसरयुक्तं नाम्ना कौबेरकान्तरम्।

  • भद्रकोष्ठम्.*

नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम्॥ 8.35 ॥

पादोपरि 23 समासीनस्यस्तिकाबन्दशोभितम्।
अनेकतलसंयुक्तं नानालङ्कारसंयुतम्॥ 8.36 ॥

नासीभिर्बहुभिर्युक्तं स्तूपीभिर्बहुभिर्युतम्।
भर्दकोष्ठमिदं नाम्ना आयतं चतुरश्रकम्॥ 8.37 ॥

  • वृत्तकूटम्.*

तदेव वर्तुलं 24 कर्णकूटकर्णशिरस्तथा।
चतुर्नासीसमायुक्तं वृत्तकूटमिदं भवेत्॥ 8.38 ॥

  • कोष्ठभद्रम्.*

तदेवाष्ठांशमाधिक्यमायतं चतुरश्रकम्।
25 कर्णकूटं तथा कर्ण मायतं वृत्तमस्तकम्॥ 8.39 ॥

कोष्ठभद्रमिदं विद्यात्सर्वहर्मेषु पूजितम्।

  • श्रीभोगम् *

तदेव वर्तुलं वेदि 26 कर्णं च शिखरं घटम्॥ 8.40 ॥

शेषं पूर्ववदुद्धिष्टं नाम्ना श्रीभोगमिष्यते।

  • पुष्करम्.*

वृत्ते वृत्तायते चैव नासिभिर्बहुभिर्यतम्॥ 8.41 ॥

अनेकतलसंयुक्तं नानालङ्कारसंयुतम्।
विमानाधिरकै र्युक्तमेत 27 त्पुष्करमिष्यते॥ 8.42 ॥

  • लंबलञ्चरम्.*

जलस्थलं विहायोर्ध्वे आयतं चतुरश्रकम्।
28 कर्णं च शिखरं तद्वच्चतुर्नासीसमन्वितम्॥ 8.43 ॥

29 विमानाधारकै र्युक्तं बहुस्तूपीसमन्वितम्।
नानालङ्कारसंयुक्तं लम्बपञ्जरमीपितम्॥ 8.44 ॥

  • जयावहम्.*

नानामसूरकस्तम्भवेदिकाजालतोरणम्।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम्॥ 8.45 ॥

सोपषीषमधिष्ठानं 30 केवलांग मसूकरम्।
स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कृतम्॥ 8.46 ॥

आयतं चतुरश्रं च अनेकतलसंयुतम्।
नानानाटक संयुक्तमे तन्नाम्ना जयावहम्॥ 8.47 ॥

  • वन्दिकम्*

तदेवान्यैरलङ्कारै र्वेदाश्रं कन्धरं शिरः।
नानामसूरकस्तम्भवेदिका द्यैरलङ्कृतम्॥ 8.48 ॥

31 नाम्ना वन्दिकमित्युक्तं विष्ठोमन्दिरमुत्तमम्।

  • सौभद्रम्*

आयताश्रं सभाकारं शिरस्सर्वायताश्रकम्॥ 8.49 ॥

अनेकतलसंयुक्तं स्तूपीत्रयसमन्वितम्।
स्तूपीचतुष्कयुक्तं वा चतुर्नासीसमन्वितम्॥ 8.50 ॥

सौभद्रकमितिज्ञेयं वर्षस्थलविवर्जितम्।

  • कमलमण्डलम्.*

चतुरश्रमधिष्ठानं चतुरश्रगलं तथा॥ 8.51 ॥

कुम्भाकारं गलादूर्ध्व मनेकतलसंयुतम्।
विमानमेतद्देवस्य ज्ञेयं 32 कमलमण्‍डलम्॥ 8.52 ॥

  • इन्दुभद्रम्*

महापट्टत्रिभागेन मुखे भवति नासिका।
शतदुक्पृष्ठपार्श्वे तु आश्रेयं त्रितलच्छदम्॥ 8.53 ॥

इन्दुभद्रमिदं नाम्ना भवनेषु सुपूजित म्।

  • धवलकान्तम्.*

पट्टिकाम्भुज 33 स्रग्वेत्रवेत्रदृक्पट्टिकान्वितम्॥ 8.54 ॥

प्राङ्कणं तु चतुर्भेदं शुकनासासमन्वितम्।
चतुरश्रं चन्द्रशाला मुखे महति नासिका॥ 8.55 ॥

एकपञ्चार्धपञ्चार्ध चतुर्भागैरधः क्रमात्।
नाम्ना धवलिकान्तं स्यात्पद्माधिष्ठानसंयुतम्॥ 8.56 ॥

  • सौम्यं*

चतुरश्रादि भूपेतमुपर्यष्टाश्रसंयुतम्।
तदूर्ध्वं समवृत्तं तु प्रागुक्तान्यक्रीयान्वितम्॥ 8.57 ॥

सौम्यं नाम्ना च 34 साधारं शिखरं कण्ठकूटधृक्।

  • ललितभद्रकम्.*

कर्णकूटं सुवृत्ताभं ग्रीवाकारं सकुण्डलम्॥ 8.58 ॥

शिखरेण समायुक्तं नाम्ना ललितभद्रकम्।

  • व्यासाख्यम्.*

आयताश्रमधश्छन्धं व्यानाख्यं शक्तिबन्धनम्॥ 8.59 ॥

  • शैलच्चन्धम्*

35 धीर्घं कमलबन्धं तु वृत्तर्गीवा तथा शिरः।
पञ्चकोष्ठक 36 पादाद्यग्रहपिण्डिमपिण्डितम्॥ 8.60 ॥

अर्पितानर्पिताङ्गं च [^37] शैलच्छंदसमाह्वयम्।

  • मध्येभद्रम्*

विशालं च शिरोयुक्तमेतदेवजयावहम्॥ 8.61 ॥

निम्नशालोच्चकूटं तु चतुरष्ट्राश्रवृत्तवत्।
नासिकाबहुसंयुक्तं मूलमध्याग्रकूटकम्॥ 8.62 ॥

वृत्तगर्भगृहं नाम्ना मध्ये भद्रमितिस्मृतम्।

  • श्रियश्छन्दम्.*

एतन्नाम्नाश्रियं चन्धं चतुरश्रान्तरालयम्॥ 8.63 ॥

  • योगानन्दनम्*

एतदेव त्रिरश्रं चेच्छाखाकारं शिरोगलम्।
मुखान्तमुन्नतमुखं 37 शेषं तद्वृत्तकर्णकम्॥ 8.64 ॥

38 वृष्ठतश्चाश्र 39 युक्तं तत् श्रान्तकेशप्रकोष्ठकम्।

समवृत्तशिरोयुक्तं योगानन्दनमुच्यते।

  • हंसतारकम्*

आयताष्टाष्टशिखरग्रीवमष्टाष्टनासिकं॥ 8.65॥

सौकर्यं सौकुमार्यं च षदष्टशिखरान्वितं।
घटाकृति समाकारं कर्णकूटोल्लसद्गलं॥ 8.66 ॥

षडद्रशिखरं ग्रीवं नाम्ना तद्धंसतारकं।

  • मा हेन्द्रकम्.*

अयताग्राकृतिश्शाला शिरश्शाला मुखे मुखे॥ 8.67 ॥

द्विचन्द्रशालकं पृष्ठमेतन्नाम्ना महेन्द्रकं।

  • सूर्यकान्तम्.*

चतुरश्राङ्गसंयुक्तं चतुरश्रमसूकरं॥ 8.68 ॥

नव त्रयोदशं धीर्घं ह्रस्वकारं च मण्डलं ।
शाला मुखे मुखे पृष्ठे तत्पा र्श्वे ष्वष्टनासिकं॥ 8.69 ॥

ग्रहपिण्डं चतुर्विंशन्नासिकाभिरलङ्कृतं।
नाम्नैतत्सूर्यकान्तं स्याद्वृत्तायतशिरोगलं॥ 8.70 ॥

  • मङ्गलास्पदम्*

सौरभ्यं पार्श्व 40 पादान्तं मध्यमं सोर्ध्वंपञ्जरं।
मङ्गलास्पदमित्युक्तं नाम्ना शेषं पुरोक्तवत्॥ 8.71 ॥

  • उदारसारम्*

दशभागं चतुर्भागं व्यासवृत्तान्तमायतं।
चतुरश्रं बहुच्छन्दं शालायां च मुखे मुखे॥ 8.72 ॥

महानासीद्वयोपेतं मुखे च चतुरष्टकं।
शिरः पद्मासने पस्थाः पद्मकुण्डलसन्निभं॥ 8.73 ॥

विंशतिद्वारिका नासीनि? द्रानिद्रसमन्वितं।
द्विभागं च चतुर्भागं वृध्यादीर्घा श्रमुलकं॥ 8.74 ॥

पागुक्तं चतुरश्रं तु शालापञ्चरसंयुतं।
शतनासीनमायुक्तं 41 तथा चैव तु विंशतिः॥ 8.75 ॥

प्राङ्मुखो मध्यमारभ्य कुटमन्यत्पुरोक्तवत्।
उदारसारमेतत्तु दीर्घं वृत्तं तु सारवत्॥ 8.76 ॥

  • विजयम्*

अर्धान्यष्टाश्र संयुक्त 42 मधस्ताच्चतुरायतं।
उज्वलं प्रज्वलं भूमि चतुरश्राष्टमण्‍डलं॥ 8.77 ॥

अर्धरं च तथा ग्रीवं शिखरं युगनासिकं।
विजयं नाम षट्सप्तभागार्धार्धसमन्वितं॥ 8.78 ॥

  • अमलाङ्गम्*

चतुरर्धं 43 चतुर्ष्कोष्ठ वृत्ताष्ठाश्रशिरोगलं।
अमलाङ्गमिदं नाम्ना नवसप्तपदेस्थितं॥ 8.79 ॥

  • विमलाकृति*

युक्तं द्वादशभिः कोष्ठैरष्टाभिश्च प्रकोष्ठकैः।
44 अष्टोर्ध्वपञ्जरैरष्ट नासिकाशिखरान्वितं॥ 8.80 ॥

अनेकतलसंपन्नं नाम्नैतद्विमलाकृति।
महापीठं तु गर्भं स्यादर्धारीं चोर्ध्वपट्टिका॥ 8.81 ॥

मण्डूकै 45 र्धारिकाभासादासने परिकल्प्य च।
कोष्ठैर्द्वादशभिर्युक्तं सौष्ठिकाभिरधाष्टकैः॥ 8.82 ॥

व्यक्तैः पञ्जरशालाभिद्वाराग्रशिखरैर्गलं।
अष्टोर्ध्वं 46 पंजरं विंशच्छतैस्तु विमलेदहं? ॥ 8.83 ॥

सुवृत्तं शिखिरग्रीवं कपोतेनाष्ठनासिकं।
अर्धाधिके चतुष्कोणे मङ्गलाकारकुट्टिमं॥ 8.84 ॥

एतद्धि विमलं धाम त्रिधेयं विमलाकृति।

  • श्रीधरम्*

विंशत्रयोदशांकं वा अष्टांशं द्वादशांशके॥ 8.85 ॥

द्वात्रंशत्त्रिंशतं वापि गर्भं स्याच्चतुरायतम्॥

अर्धाधिकाधिकं द्व्यङं कर्करीकृतनासिकम्॥ 8.86 ॥

तथा विन्यस्तसर्वाङ्गं शालाकृतिशिरोन्वितम्।
शिखराष्टं महानासि शालापंजरसं युतम्॥ 8.87 ॥

47 एतच्छ्रीधरमित्युक्तं श्रियं ददति देहिनम्।

  • चन्द्रकान्तम्*

एतद्वृत्तायताकारं कर्करीकृतनासिकम्॥ 8.88 ॥

शेषं पूर्वोक्तवत्सर्वं चन्द्रकान्तमिदं स्मृतम्।

  • श्रीप्रतिष्ठितम् *

48 मुखे मुखे सभवक्त्रं शिरसस्तद्विनेत्रवत्॥ 8.89 ॥

सौमुख्यं कर्करीभुतं वृत्तगर्भगृहान्वितम्।
वृत्तायत विमानेषु मुखे महति नासिका॥ 8.90 ॥

नासिकापृष्ठतश्चापि स्तूपीत्रयस्तमन्वितम्।
चतुरश्रतलच्छन्दं वृत्तगर्भगृहान्वितम्॥ 8.91 ॥

सुवृत्तं शिखराकारं नासीभिः पञ्चभिर्युतम्।
नवांशं वाष्टसंयुक्तं श्रीप्रतिष्ठितमुच्यते॥ 8.92 ॥

  • शुद्दस्वस्तिकम्*

महानास्या चतस्रस्स्यु श्शालापंजरसंयुतम्।
तच्चतुश्चार्धसंयुक्तं वृत्तमुर्ध्वशिरोधरम्॥ 8.93 ॥

सञ्चितं सञ्चिताङ्गं च सोपानानां चतुष्टयैः।
कपोतमालयायुक्तं द्वारेणैव पताकया॥ 8.94 ॥

अन्तः प्रस्तरसंयुक्तमुन्नताङ्गसमन्वितम्।
प्रासादमध्यकर्णस्थैः नीलीकृतविशालकैः॥ 8.95 ॥

शालापञ्जरकूटैश्च युक्तं प्रासादमस्तकम्।
अधिष्टानादिभिर्वर्गै रूहप्रत्यूहमण्डनैः॥ 8.96 ॥

नन्द्यावर्ताकृतिं प्राप्तैस्सौपानानां चतुष्टयैः।
युक्तं बहुतलोपेतं शुद्धस्वस्तिकमुच्यते॥ 8.97 ॥

इति श्रिपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे प्रासदभेदो नाम

अष्टमोऽध्यायः।


  1. वक्तै ↩︎

  2. सुची. ↩︎

  3. तु तुङ्गधामाभिपूजितम्. ↩︎

  4. सकर्ण इत्यादि श्लोकद्वयं क्वचिन्न. ↩︎

  5. शृंगाभं. ↩︎

  6. श्रिविमान. ↩︎

  7. बह्यश्रं ↩︎

  8. कण्ठ ↩︎

  9. सभवक्त्रं॥ ↩︎

  10. वृत्तकम्. ↩︎

  11. विभज्यांघ्रिं ↩︎

  12. दण्‍डन सौष्ठकान्॥ ↩︎

  13. सामग्रिव. ↩︎

  14. मितीरितं. ↩︎

  15. न्मनसं. ↩︎

  16. नाभिभिश्च. ↩︎

  17. भाराल्पपंजपैर्निम्नं नवाल्पैर्वाल्प. ↩︎

  18. आयताश्रेत्यादि सार्धं श्लोकद्वयं क्वचिन्नास्ति. ↩︎

  19. कंठं. ↩︎

  20. .९कन्धरं ↩︎

  21. द्गान्धर. ↩︎

  22. समन्वितम्. ↩︎

  23. भवेन्नासी स्वस्तिकाबलसंयुतम्. ↩︎

  24. कण्ठकूकण्ठ ↩︎

  25. कस्ठकूटमधः कण्ठ ↩︎

  26. कण्ठम् ↩︎

  27. त्पुष्पक. ↩︎

  28. कण्ठम्. ↩︎

  29. विमानाधार.इत्यादि सार्धश्लोकः क्वचिन्न दृश्यते. ↩︎

  30. केवलं ग्राम. ↩︎

  31. नानाचक्रकमित्युक्तं विनाकन्धर. ↩︎

  32. कमलमण्डपम्. ↩︎

  33. हृद्वत्र ↩︎

  34. संधानं. ↩︎

  35. धिर्घमण्डल. ↩︎

  36. विध्युक्तं गुहपिंदविमण्डलम्. ↩︎

  37. षण्णाभं वृक्तकर्णकं ↩︎

  38. वृत्तं चाश्रप्रयुक्तंतु क्रमुकेच. ↩︎

  39. युग्मं तु क्रमुके च. ↩︎

  40. भागन्तम्. ↩︎

  41. तथा विंशति चक्रमात्. ↩︎

  42. मुन्नता. ↩︎

  43. चतुष्माटं. ↩︎

  44. अर्धार्धं. ↩︎

  45. र्धारिकाभिश्च। ↩︎

  46. पञ्चकं विंशच्छेदेतु ↩︎

  47. एतत् श्रीकान्तं। ↩︎

  48. चतुरश्रगृहच्छन्दं वृत्तगर्भगृहान्तरम्. इत्यर्धं “मुखे—न्वतम्” इति श्लोकस्थाने दृश्यते. ↩︎