षष्ठोऽध्यायः
गर्भन्यासविधिः
श्रीभगवान्—
1 गर्भन्यानवधिं ब्रह्मन् वक्ष्यामि श्रूयतामसौ।
गृह्णीयान्मृत्तिकां पूर्वं स्थानेषु दशसु क्रमात्॥ 6.1 ॥
शैले ह्रदे पुण्यतीर्थे वल्मीके 2 कर्कटाशये।
नद्यां वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ॥ 6.2 ॥
हले चैतेषु सम्भूता प्रशस्ता मृत्तिका 3 ततः।
कुमुदस्यारविन्दस्य कशेरूत्पुल योस्तथा॥ 6.3 ॥
नीलोत्पलस्य पञ्चैतान्कन्दानपि समाहरेत्।
मनश्शिला हरीतालमञ्जनश्यामसीसकम्॥ 6.4 ॥
सौराष्ट्रं रोचनां चैव गैरिकं पारदं तथा।
आदाय4 धातून् रत्नानि वज्रवैढूर्य 5 मौक्तिकम्॥ 6.6 ॥
6 स्फटिकं पुष्यकं शङ्कं पद्मरागं तथा परम्।
चन्द्रकान्तं 7 महानिलं नवैतानि समाहरेत्॥ 6.7 ॥
शालिनीवारकङ्गूंश्च प्रियङ्गुतिलमाषकान्।
मुद्गांश्च यववेणूंश्च गृह्णीयान्नवधान्यकम्॥ 6.8 ॥
हिरण्यं रजतं ताम्रमायसं त्रपु सिसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं शङ्खचक्रकम्॥ 6.9 ॥
एतान् सर्वान् समानीय निक्षिपेद्गर्भभाजने।
भाजनं धान्यराशौ तु न्यन्य वस्त्रेण वेष्टयेत्॥ 6.10 ॥
गन्धादिभिस्समभ्यर्च्य विष्णुगायत्रिया ततः।
कुण्डे वा स्थण्डिले वाग्निं समानीय 8 समिध्य च॥ 6.11 ॥
सर्पिषा च समिद्भिश्च विष्णुदैवत्यया तया तया।
अष्ठोत्तरशतं हुत्वा सम्पाताह्यं तु सङ्ग्रहेत्॥ 6.12 ॥
चरुणा नरसू क्तेन जूहुयात् पोदशाहुतीः।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च॥ 6.13 ॥
पर्वतेभ्यस्समुद्रेभ्य आदि त्येभ्यस्तथैव च।
वसुभ्यश्च मरुद्भ्यश्च ऋषिभ्यस्तदन न्तरम्॥ 6.14 ॥
वेदेभ्यस्सर्वशास्त्रेभ्यः पुराणेभ्यस्तथैव च।
पातालेभ्यश्च दिग्भ्यश्च नागेभ्यस्तदनन्तरम्॥ 6.15 ॥
गणेभ्यस्सर्वभूतेभ्यो 9 नरेन्द्रेभ्य स्तथैव च।
ग्रहेभ्यश्चैव सर्वेभ्यस्स्वाहान्तं जुहुयात्पृथक्॥ 6.16 ॥
तिलाज्यमिश्रचरुणा जुहुयात्तेभ्य एव च।
संपाताज्यं समानीय निषिञ्चेद्गर्भभाजने॥ 6.17 ॥
- निशायामेवगर्भन्यासः *
निशायामेव कुर्वीत गर्भस्य न्यसनं गुरुः।
सुमुहूर्ते सुनक्षत्रसुपक्षकरणैर्युते॥ 6.18 ॥
शङ्खभेर्यादि 10 घोषैश्च सहमङ्गलपाठकैः।
द्विजेन्द्रवेदघोषैश्च आस्फोटक्ष्वेलितैरपि॥ 6.19 ॥
आदाय भाजनं पश्चाद्देवागारं प्रदक्षिणम्।
गत्वा गर्भगृहं सम्यग्ब्रणैस्सह संविशेत्॥ 6.20 ॥
11 द्वारस्य दक्षिणे पार्श्वे प्रारभ्यं पादपार्श्वतः।
- देवादिभेदेनगर्भन्यासस्थाननिर्देशः *
देवानां पट्टिकायां तु गर्भन्यासः प्रशस्यते॥ 6.21 ॥
विप्राणां पट्टिकाधस्तान्नृपाणां कुमुदोपरि।
वैश्यानां 12 कुमुदे चैव शूद्राणां जगतोपरि॥ 6.22 ॥
- नी चो च्चादि व्यत्यासे अनिष्टफलम्.*
नी चे दुःखं भवेन्नि त्यमुच्छ्रिते द्रव्यनाशनम्॥ 6.23 ॥
13 स्थानभ्रंशकरं द्वारे भवत्येव न संशयः।
तस्माद्यत्नेन कर्तव्यं सुगुप्तं भित्तिमध्यतः॥ 6.24 ॥
- गर्भन्यासमंञ्जूषाविधिः*
मञ्जूषां मुख्यलोहेन कृत्वा तालप्रमाणतः।
नवगर्तसमायुक्तं विधानेन समन्वितम्॥ 6.25 ॥
दारुजं तदभावे स्याद्गर्ता वरणसंयुतम्।
पुण्याहं वाचयित्वा तु पञ्चगर्व्येन शोधयेत्॥ 6.26 ॥
- ध्यानप्रकारः*
ध्यायन्भूमण्डलं सर्वं साद्रिद्वीपसमुद्रकम्।
दिग्गजो 14 त्तम्भितं शेषफणिन्द्रशिखरस्थितम्॥ 6.27 ॥
मनस्यावेश्य वसुधां द्विहस्तां श्यामलां शुभाम्।
आकल्पितामृतुस्ना तामादध्याद्गर्भ 15 संपदम्॥ 6.28 ॥
आत्मानं केशवं ध्यात्वा सर्वाभरण भूषितम्।
- मृद्धात्वादीनांन्यासस्थानं*
मृदं गृहीत्वासामुद्रीं परिकुर्यात्प्रदक्षिणम्॥ 6.29 ॥
पार्वतीं पूर्वतो स्यस्येत्तीर्थजां दक्षिणे तथा।
नदीजां पश्चिमे भागे ह्रदजामुत्तरे तथा॥ 6.30 ॥
कुलीरमृदमाग्रेय्यां नैरृते वाल्मिकीं मृदम्।
हलजां दिशि मारुत्यामैशान्यां हस्तिदन्तजाम्॥ 6.31 ॥
वृषभस्य निषाणस्थां ब्रह्मस्थाने निवेशयेत्।
कन्दमौत्पलमैन्द्रे स्याद्यमदिश्यथ कौमुदम्॥ 6.32 ॥
नैलोत्पलं प्रतीचीने काशेरवमुदग्गिशि।
ब्रह्मस्थाने भवेत्पाद्मं ततो धातून्विनिक्षिपैत्॥ 6.33 ॥
पुर्व मनश्शिलां याम्ये हरितालं च वारुणे।
अञ्ञनं धनदाशायामाग्नेय्यां दिशि सीसकम्॥ 6.34 ॥
सौराष्ट्रं नैरृते भागे 16 वायवीये तु रोचनां ।
ईशाने गैरिकं मध्ये पारदं ब्रह्मणः पदे॥ 6.35 ॥
वज्रं पूर्वे भवेद्याम्ये 17 वैडूर्यं पश्चिमे मणिः।
कौबेरे पुष्यकं भागे स्फटिकं ज्वलने भवेत्॥ 6.36 ॥
नैरृते मौक्तिकं वायौ चन्द्रकान्तशिला तथा।
माहेश्वरे महानीलं पद्मरागं तु मध्यमे॥ 6.37 ॥
शालिबीजं भवेत्प्राच्यां नीवारं दक्षिणे तथा।
कङ्गुं प्रतीच्यां धनदेप्रियङ्गुं [^18] ज्वलने तथा॥ 6.38 ॥
माषो नैरृतभागे स्यात्तिलो मुद्गस्तु मारुते।
ऐशाने 18 वेणुधान्यं स्याद्यवं स्याद्ब्रह्मणः पदे॥ 6.39 ॥
हिरण्यं पुर्वदिग्भागे दक्षिणे रजतं भवेत्।
पश्चिमे ताम्रमाधाय निक्षिपेतुदगायसम्॥ 6.39 ॥
आग्नेये त्रपु राक्षस्यां कांस्यं मारुतदिश्यपि।
सौवर्णं कूर्ममैशान्यां 19 दरदं हेमनिर्मितम्॥ 6.40 ॥
चक्रं जाम्बूनदं मध्ये विन्यसेस्मूलविद्यया।
- भूदेवताध्यानमन्त्रः*
महीं देवीं ततो ध्यात्वा मन्त्रमेतमुदीरयेत्॥ 6.41 ॥
सर्वभूतधरे कानै पर्वतस्तनमण्डिते।
समुद्रपरिधानिये देव गर्भं समाश्रय॥ 6.42 ॥
- श्वभ्रपूरणविधिः *
एवमुक्त्वा ततश्श्वभ्रं गोमूत्रेण परिप्लुतम्।
आच्छादयेद्विधानेन सुधया दार्ढ्यमाचरेत्॥ 6.43 ॥
- गुरुदक्षिणा*
गुरवे दक्षिणां दद्यात्पूर्वोक्तद्रव्यसङ्ख्यया।
- गर्भरक्षा.*
रक्षां समन्ततः कुर्याद्गर्भस्य 20 स्खलनं यदि॥ 6.44 ॥
पायश्चत्तं ततः कुर्याद्धुर्निमित्ते च पूर्ववत्।
- गर्भन्यासं विनाग्राम प्रासादादिकरणे दोषः*
अकृत्वा गर्भविन्यासं ग्रामं प्रासादमेव वा॥ 6.45 ॥
यदि कुर्यात्क्षयं यायादचिराद्वास्तु धाम वा।
तद्धाम वास्तुनोर्हेम्ना गर्भमादौ समाचरेत्॥ 6.46 ॥
- धाम्नः आयामनिस्तारविदिः *
धामैकहस्तमपरं शतहस्तं परं स्मृतम्।
एकभूम्यपरं धाम परं द्वादशभूमिकम्॥ 6.47 ॥
विस्ताराद्द्विगुणोत्सेधमुत्सेधानुगुणं तलम्।
21 वित्तानुरोधं चोच्छ्रायः कर्तव्यः कमलासनः॥ 6.48 ॥
- एकादिद्वादशतलेषु देवस्यश यनादिविधिः*
स्रष्टुर्देवस्य शयनमादिभूमौ विधीयते।
आसनं श्रीधरायुक्तं द्वितीये तु तले भवेत्॥ 6.49 ॥
22 स्थानं तथा तृतीये स्याच्चतुर्थे यानमिष्यते।
पञ्चमे येगशयनं षष्टे भोगासनं भवेत्॥ 6.50 ॥
योगस्थितिस्सप्तमे स्यादष्टमे तार्क्ष्यवाहनम्।
नवमे भोगशयनं 23 भोगास्स्य र्दशमे भवेत्॥ 6.51 ॥
स्थितिरेकादशे भोक्तुं द्वादशे विश्वरूपवान्।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे गर्भन्यासविधानं नाम
षष्ठोऽध्यायः
-
गर्भस्य संविधिम्. भर्भन्यासमिदं. ↩︎
-
कर्कटालये. ↩︎
-
भवेत्. ↩︎
-
चादौ. ↩︎
-
रत्नकं ↩︎
-
मौक्तिकं स्फटकं पुष्यं. ↩︎
-
तथा निलं ↩︎
-
समिंधयेत्. ↩︎
-
नक्षत्रेभ्य. ↩︎
-
तूर्याङ्गैः ↩︎
-
देवस्य. ↩︎
-
कुमुदाधस्तात्. ↩︎
-
स्थानभ्रंशोऽपचारे तु. ↩︎
-
त्तमभृच्छेषफणिन्द्रशिरसि. ↩︎
-
संयुतम्. ↩︎
-
वायव्ये रोचना मता. ↩︎
-
प्रवालंयाम्ये वैडुर्यं ↩︎
-
यवधान्यं स्याद्वेणुः ↩︎
-
शंखं हेमविनिर्मितम्. ↩︎
-
ज्वलनम्–चलनम्. ↩︎
-
चत्तानुकूलं चोत्सेधं. चित्तानुकूलं चोच्छायम्. ↩︎
-
स्नानं ↩︎
-
भोगस्य. ↩︎