पाद्मसंहितायाम्.
पञ्चमोऽध्यायः
- दिक्परीक्षा*
श्रीभगवान्—
प्राचीं परीक्षयेत्पूर्वं दिशं शास्त्रोक्तवर्त्मना।
प्राच्यादिदिद्विभागेन द्वारादिविधिरिष्यते॥ 5.1 ॥
- शङ्कुस्थापसम्.*
हस्तमानायतं शङ्कुं द्वादशाङ्गुलमेव वा।
क्षीरवृक्षजमङ्गुष्ठ 1 परिणाह मृजुं शुभम्॥ 5.2 ॥
प्रासादस्थानमध्ये तु स्थापयेन्मूलविद्यया।
शङ्कोर्दिगुणमानेन परितो मण्डलं लिखेत्॥ 5.3 ॥
मण्डलान्ते लिखेच्छायां शङ्कोः पुर्वापराह्णयोः।
न्यस्य बिन्दुद्वयं सूत्रं प्राक्रृत्यक्यंस्थितं लिखेत्॥ 5.4 ॥
बिन्दुद्वयान्तरं ग्राह्यं कच्छपाननपुच्छगम्।
जातप्राक्सौम्यदिक्सूत्रमेवंसूत्रे 2 समीकृते॥ 5.5 ॥
सीमासुत्रमिति भ्रान्तमुत्तराद्यं पदं लिखेत्।
अष्टदिषु यथान्यायं सीमासुत्रं तथा लिखेत्॥ 5.6 ॥
त्रिषञ्पसप्तहस्तं वा अधिकंवा यथेच्छया।
कुर्यात्तत्सूत्रिविन्यासं ग्राम्यास्थानसमृद्धये॥ 5.7 ॥
दिक्सूत्रं भ्रमणेनै व चतुरश्रं नयेत्पुनः।
अष्टदिक्षु यथान्याय्यं शङ्कुस्थापनमाचरेत्॥ 5.8 ॥
शङ्कुसंस्थापनाकाले निमित्तानि च लक्षयेत्।
शुभं चेत्सिद्धिमाप्नोति अशुभे शान्तिमाचरेत्॥ 5.9 ॥
- प्रासादसंस्थाननिर्देशः *
चतुरश्रं सुवृत्तं च चतुरश्रायतं तु वा।
वृत्तायतं वा कुर्वीत प्रासादं तु चतुर्विधम्॥ 5.10 ॥
स्थित्यासनानि यानानि चतुरश्रे च वृत्तके।
वृत्रायते सुवृत्तेवा चतुरश्रायतेऽपि वा॥ 5.11 ॥
शयनं तत्र कुर्वीत विश्वरूपं तथैव च।
लोकाक्रान्तं सुरेशेशं तत्र कुर्याद्विचक्षणः॥ 5.12 ॥
एवं बिम्भानुसारेण प्रासादं कारयेद्बुधः।
- विष्ण्वालयस्य अयुग्महसैन मानम्*
आरभ्य चैकहस्तादि दशहस्तान्तमेव हि॥ 5.13 ॥
अयुग्मेनैव हस्तेन कुर्यादायतनं हरेः।
युग्मं वा मोक्षकामस्य अमुग्मं भुक्तिका 3 ङ्क्षिणः॥ 5.14 ॥
- अन्येषां कामनानुसारेण मानम्*
अ द्वादशतलान्तं वै यथा वित्तानुसारतः।
मानयित्वा विधानेन विमानं तत्र कारयेत्॥ 5.15 ॥
कृत्यैवं वास्तुशास्त्रज्ञो ह्यारभेत्प्रथमेष्टकाम्।
इष्टकाभेदाः
इष्ठकास्त्रिविधाः प्रोक्ताश्शिलाकाष्ठजमृण्मयाः॥ 5.16 ॥
- विमानानुरोधेन प्रधमेष्टकाभेदः*
शैलजेषु विमानेषु शिला स्यात्प्रथमेष्टका।
काष्ठेन धमनिर्माणे तेनैव प्रथमेष्टका॥ 5.17 ॥
नुपक्वेष्टकया कुर्याद्विमानं त्विष्टकामये।
आमेष्टकचिते धिष्ठ्ये तथैव प्रथमेष्टका॥ 5.18 ॥
शै लेष्टकाभ्यां रचिते शिलास्यात्प्रथमेष्टका।
इष्टका काष्ठयुकै तु इष्टका प्रथमेष्टका॥ 5.19 ॥
- शिलायाः पुल्लिङ्गादिभेदः तत्त्वीनियोगश्च *
शिलासङ्ग्रहणे देशे साधिवासपुरस्सरम्।
सङ्गृह्य तु शिलां तत्र पुल्लिङ्गादि परीक्षयेत्॥ 5.20 ॥
उपानदादिस्तू प्यन्तं पुल्लङ्गिशिलया भवेत्।
स्त्रीलिङ्गशिलया चैव कारयत्प्रथमां शिलाम्॥ 5.21 ॥
- सदोषप्रतिमाया ग्रहणे हानिः *
प्रतिमा दारुवद्ग्राह्या निर्दोषा गुणवत्तरा॥ 5.22 ॥
[^4] अयथा विहितैर्लिङ्गै र्लोभादज्ञानतोऽपिवा।
तर्तुः कारयितुर्नाशो राज्ञो राष्ट्रस्य निश्चितः॥ 5.23 ॥
- मृण्मयेष्टकाविधिः*
इदानिं सम्प्रपक्ष्यामि मृण्मये त्विष्टकाविधिम्।
रथकारेण निर्दिष्टं देशमासाद्य देशिकः॥ 5.24 ॥
तत्रापि ज्वलिते वह्नौ सर्पिषा जुहुयाच्छतम्।
अष्टौ च मूलमन्रैण नृसू क्तेन चरुं पुनः॥ 5.25 ॥
मूलमन्त्रेण समिथो याज्ञिको जुहुयात्तथा।
कुर्याच्च चरुणा भूयो विष्णुपारिषदाहुतीः॥ 5.26 ॥
क्षेत्रपालस्य भूतानां वास्तुनाथस्य च स्वयम्।
देवतानामृषीणां च तथादेवगणस्य च॥ 5.27 ॥
यथालिङ्गेन मन्त्रेण स्वाहान्तेन विचक्षणः।
भूरादिभिर्वाहृतिभिर्हुत्वापुर्णासुतिं चरुम्॥ 5.28 ॥
चतुर्दिक्षु च पूर्वाद्वं चरुणा बलिकर्मच।
कुर्यादनेन मन्त्रेण नमोन्तेन यथाक्रमम्॥ 5.29 ॥
विष्णुपारिष देभ्यश्च सर्वभूतेभ्य एव च।
वास्तुनाथाय च तथा क्षेत्रपालाय चोपरि॥ 5.30 ॥
कृत्वाग्नि मुत्सृजेदे वमग्रे होमादिकेकृते।
- इष्ठकानिर्माणनियमः*
कुलालः प्राङ्मुखः कुर्यात्तत्र भूमृत्तिकेष्टकाम्॥ 5.31 ॥
- इष्टकानां पुर्लिङ्गादि स्वरूपम् तद्विनियोगश्च*
पुल्लिङ्गादिविभागेन तद्विभागो विधीयते।
रेख ऋजुरयुग्मा वा यत्र पौंस्नी तदिष्टका॥ 5.32 ॥
तिरश्ची वाथा वा युग्मा रेखा स्त्रैणी तदिष्टका।
4 नपुंसकश्च निर्लेखा रेखा वाग्रेऽथ कर्णयोः॥ 5.33 ॥
न पुल्लिङ्गेष्टका तावत् गर्भाधाने विधीयते।
स्त्रीलिङ्गेष्टकया कुर्याद्गर्भाधानादिपीठीकाम्॥ 5.34 ॥
पुल्लीङ्गेष्टकया कुर्यात्प्रासादं तद्विचक्षणः।
- इष्टकायामकूमानम्*
चतुर्व्विंशाङ्गुलायामा श्रेष्ठा स्यान्मध्यमा पुनः॥ 5.35 ॥
अष्टादशाङुलायामा कनिष्ठा षोडशाङ्गुला।
अर्धायामं तु विस्तारं तदर्धं घनमिष्यते॥ 5.36 ॥
आयामसमविस्तारा स्यादाच्छादनिकेष्टका।
एवमादीष्टकामानं कुर्याद्भूमिवशाद्भुधः॥ 5.37 ॥
- इष्टकायामानान्तरम्*
महामानमिदं विद्यादल्पमानमुदीर्यते।
प्रासादपादविस्तारतुल्यो विस्तार इष्यते॥ 5.38 ॥
विस्तारद्धिगुणायामाः कल्पयेदिष्टका बुधः।
एवं शिलानां दारूणां मानं दारुशिलायमे॥ 5.39 ॥
- इष्टकागुणाः *
सुपक्वा सुस्वरा पक्वबिम्बाभा सुदृढा समा।
एकवर्णा प्रशस्ता स्यादिष्टका प्रथमाहिता॥ 5.40 ॥
- वर्जनीयेष्टका*
कालमण्डालसंयुक्तां छिन्नांभिन्नामथानृजुम्।
स्फुटितां वर्जयेद्ब्रह्मन् प्रासादामम्भणेष्टकाम्॥ 5.41 ॥
- देवालये मानुषालये च प्रथमेष्टकानां सङ्ख्या*
चतस्रः प्रथमाः कुयादिष्टका देवतालये।
आवासे पञ्च मर्त्यानां कल्पयेत्प्रथमेष्टकाः॥ 5.42 ॥
पक्वेष्टकचिते धाम्नि पक्वा स्यात्प्रथमेष्टका।
5आद्येष्टक चितेऽगारे प्रथमा नान्यथा भवेत्॥ 5.43 ॥
- इष्टकाधिपासार्थ मङ्गुरार्पणे कलशन्यासादिः *
अङ्कु रानर्प येत्पूर्वमधिर्ववधिवसनकर्मणि।
दिशां चतसृणां धाम्नः पूर्वायां दिशि च क्वचित्॥ 5.44 ॥
प्रफां दर्भस्रजं कुर्यात् षोडशस्तम्भसंयुताम्।
सप्ततालायतां तत्र वेदिं हस्तसमुन्नताम्॥ 5.45 ॥
मध्ये कृत्वा ततः पीठं शालिभारै स्तिभिः कृतम्।
वृत्तं वा चतुरश्रं वा कुर्याच्चेष्टं चतुर्मुख॥ 5.46 ॥
द्वाभ्यां मध्यममेकेन जघन्यं परिकल्पितम्।
सूत्रादिवेष्टितं कुम्भं धान्यपीठे निधापयेत्॥ 5.47 ॥
परितः कलशान्यष्टौ चाष्टदिक्षु विनिक्षिपेत्।
कुम्भस्योत्तरतस्तस्य 6 वारिपूर्णस्य देशिकः॥ 5.48 ॥
तावत्प्रमाणं कुर्वीत धान्यपीठं तथाविधम्।
तदर्धं तण्डुलयुतं तदर्धं तिलसंयुतम्॥ 5.49 ॥
आ स्तीर्णदर्भसंबाधं नववस्त्रपरिष्कृतम्।
7 तदिष्टकाधिवासार्थं कुत्वैवं देशिकोत्तमः॥ 5.50 ॥
स्नापयेदिष्ट काः पूर्वं स्थापयेत्कलशान्नव।
व्रिहीपीठे सुनिहिते मध्ये चैवाष्टदिक्षुच॥ 5.51 ॥
मध्यमे कल शेसर्पिः प्राच्ये क्षीरं विनिक्षिपेत्।
आग्नेये दधि याम्ये तु गुडं नैरृतदिश्यपि॥ 5.52 ॥
प़ञ्चगव्यं फलरसं वारुणे मातरिश्वनि।
गन्धवारि तथा सौम्यो लोहलोयं शिवे मधु॥ 5.53 ॥
विन्यस्य नवस्त्रेण वेष्टयित्वासमर्चयेत्।
- इष्टकास्नपम्.*
स्थापयित्वेष्टकाः पिठे स्नापयेत्कलशैः क्रमात्॥ 5.54 ॥
पयोघृतेन साम्नाग्रे स्नापयेत्पयसा ततः।
स्नापयेदिक्षुतोयेन मधुवातेतिमन्त्रतः॥ 5.55 ॥
फलिनीत्यनुवाकेन स्नापयेत्फलवारिणा।
हिरण्यगर्भममन्त्रेण स्नापयोल्लोहवारिणा॥ 5.56 ॥
दधिक्राण्वेतियजुषा दध्ना संस्नापयेत्ततः।
स्नापयेत्पञ्चगव्येन पञ्चवारुणिकेत्य तः॥ 5.57॥
गन्धद्वारेति मन्त्रेण स्नापयेद्गन्धवारिणा।
मधुवा तेतिमन्त्रेम मधुस्नानं समाचरेत्॥ 5.58 ॥
8 घृतसाम्नेति साम्ना वैघृतेन स्नापये त्ततः।
एकैकं नववस्त्रेण दर्भयुक्तेन वेष्टयेत्॥ 5.59 ॥
परिगृह्येष्टकास्सर्वाश्शयनोपरि निक्षीपेत्।
- अधिवासार्थहोमः *
तोरणं द्वारकुम्भांश्च ध्वजांश्च परिपूरयेत्॥ 5.60 ॥
एष्टव्यो मध्यमे कुम्भ परिमात्मा चतुर्मुख।
अष्टास्वन्येषु कुम्भषु विष्ण्वादीनष्ट पूजयेत्॥ 5.61 ॥
निवेदयेन्महाकुम्भे पयसं वा गुडोदनम्।
पूर्वस्यामुत्तरस्यं वा दिशि कुर्ण्डान् प्रकल्पयेत्॥ 5.62 ॥
स्थण्डिले वाग्नियानीय जुहुया त्समिदादिभिः।
समिदाज्य तिलं पुष्पं पृथगष्टोत्तरं शतम्॥ 5.63 ॥
जुहुयान्मूलमन्त्रेण सूकैन च चरुं पुनः।
स्पर्शयेदिष्टकास्सर्वास्सम्पाताह्येन देशिकः॥ 5.64 ॥
हेमसूत्रैः प्रतिसरैरस्त्र मन्त्रेण बन्धयेत्।
विभवासुगुणैर्वान्यैः कार्पासरजतादिभिः॥ 5.65 ॥
स्वप्नाधिपतिमन्त्रेण जुहुयात्सर्पिषा शतम्।
- स्वप्न परीक्षा.*
स्वप्नार्थं गुरुणा सार्थं यजमानस्तु संविशेत्॥ 5.66 ॥
दुस्स्वप्नदर्शने जह्यान्निर्माणं तस्य सद्मनः।
स्वप्ने शुभे तु सदनं प्रारभेताविलम्बितम्॥ 5.67 ॥
श्वोभूते शोभने लग्ने स्थापयि त्वेष्टका गुरुः।
प्रावेशयेच्च प्रासादमिष्टकास्तास्सुपूजिताः॥ 5. 68 ॥
- इष्टकानां सम्भरस्थानम्*
क्लृप्तस्य द्वारदेशस्य दक्षिणे देशिकोत्तमः।
पादमूलादधस्तात्ताः क्षिपेत्तूर्यादि घोषयेत्॥ 5.69 ॥
9 स्वस्तिकं वाचयित्वातु ब्राह्मणान् धनतोषितान्।
- देवमनुष्यालययोरिष्टकान्यासे विशेषः*
प्रादक्षिण्येऽपि चेन्दादिसोमान्तं देव 10 सद्मनि॥ 5.70 ॥
ममष्याणां तु मध्यान्तं मूलमन्त्रेण दैवते।
नदध्यादिष्टका धाम्नि मानुषाणां निकेतने॥ 5.71 ॥
श्रीसू क्तेनेष्टकाधानां देवीनामधिदेवता।
इष्टकानां चतुर्मूर्तिः पञ्चमूर्तिस्तु मानुषे॥ 5.72 ॥
याम्यवारुणयो र्मूलमग्रमिन्द्रधनेशयोः।
- उपानद्वैषम्येहानिः*
इष्टकानां भवे 11 न्न्यासे उपानद्विषमं भवेत्।
कृते चेन्मोहतोऽज्ञानाद्वैषम्यभयकारणम्॥ 5.73 ॥
तन्मातुपानत्सदृशीरिष्टकाः प्रथमं क्षिपेत्।
- श्वभ्रबूरितजलावर्तपरीक्षा*
आदिदैवं समभ्यर्च्य श्वभ्रं लो येन पूरयेत्॥ 5.74 ॥
रत्नैर्धान्यैश्चलोहैश्च कुसुमैश्च पृधश्विधैः॥
पूरिते सुभृशं श्वभ्रे जलावर्तं परीक्षयेत्॥ 5.75 ॥
शूभं प्रदक्षिणावर्तं सव्यावर्तमथाशुभम्।
- श्वभ्रजलशोषेधामयजमानादीनांहानिः *
श्वभ्रे विनिहितं तोयं सद्यश्शोषं व्रजेद्यदि॥ 5.76 ॥
आरब्धमपि तद्धाम न समाप्तिं समृच्छति।
म्रियते यजमानो वा भवेद्वा राष्ट्रविप्लवः॥ 5.77 ॥
निमितैष्वशुभेष्वेवं शुभेषु तु शुभं भवेत्।
- वनस्तुष्टेः कार्यकरत्वम्.*
देशिकस्य मनस्तुस्टिस्सर्वसम्पत्करी सदा॥ 5.78 ॥
विपत्करी वितुर्षिस्स्याद्रथकारस्य 12 वै तथा।
- दुर्निमितैषु शान्तिहोमादिः*
दुर्निमितैषु सर्वेषु शान्त्यर्थं जुहुयाद्गुरुः॥ 5.79 ॥
ब्राह्मणान्भोजयोद्दद्यात्सुवर्णं शक्त्यपेक्षया।
उत्पलस्यारविन्दस्य कन्दं गर्ते विनिक्षिपेत्॥ 5.80 ॥
पुण्यतीर्थस्य 13 शालेयकेदारस्य च मृत्स्नया।
मूलमन्त्रेण तद्गर्तं पूरयेच्छादयेच्च तत्॥ 7.81 ॥
- आचार्यादीनां दक्षिणा.*
आचार्यदक्षिणां दद्याच्छत 14 निष्कान्विता नृपः।
अन्येषामपि सर्वेषां दशनिष्कावरा भवेत्॥ 5.82 ॥
आरम्भण