पाद्मसंहितायाम
चतुर्थोऽध्यायः
- विघ्ननिवारणोपायप्रश्नः *
ब्रह्माः—-
आरभ्यमाणे प्रासादे ग्रामादौ च जनार्दन।
ये विघ्नकारिणो दैत्ययक्षराक्षसदानवाः॥ 4.1 ॥
तेषां भवेद्यथाशान्तस्तद्भ्रूहि भगवन्मम।
- बालालये भगवतेऽर्चनेन विघ्नशान्तिः*
श्रीभगवान्—
कृत्वा बालगृहं पूर्वं तत्र मामर्चयेत्सुधीः॥ 4.2 ॥
प्रत्यूहकारिणस्सर्वे तेन शाम्यन्ति ते ध्रुवम्।
ग्रामादिश्चाचिरादेव निष्ट्रत्यूहं समाप्यते॥ 4.3 ॥
- बालगृहनिर्माणदिगादि.*
इन्द्रेशानान्त 1 रे वापि सोमेशानान्तरेऽपि वा।
इन्द्राग्निमध्ये वा मध्ये पावकस्य यमस्य च॥ 4.4 ॥
यमस्य निरृ तेर्मध्ये निरृतेर्वरुणस्यवा।
मध्ये वरुणवायोर्वा वायोस्सोमस्य वान्तरे॥ 4.5 ॥
यथाभिमतमेतेषामारम्भायतनं प्रति।
स्थाने बालगृहं विद्यात्सप्तपञ्चत्रिहस्तकम्॥ 4.6 ॥
धाम्ने मूलस्य 2 वलभिद्धिशि यत्र प्रकल्पितम्।
द्वारं बालालयस्यापि तत्रैन परिकल्पयेत्॥ 4.7 ॥
- बालालये अर्चनीय बिम्भमानम्.*
बिम्भं बालालये लोहमाश्मनं वाऽथ दारवम्।
शङ्कचक्रगदा पद्मदिव्यायुधचतुर्भुजम्॥ 4.8 ॥
उत्सेधन्तस्य बिम्बस्य ह्रासे पञ्चाङ्गुलो भवेत्।
त्रयश्च विंशतिश्चैव वृद्धावङ्गुलयः स्मृताः॥ 4.9 ॥
मानं सुखावहं यत्स्याद्यजमानस्य तद्भवेत्।
मत्स्यादिष्ववतारेषु कल्पेष्वारभ्य मन्दिरे॥ 4.10 ॥
बालालयेऽपि तद्वत्स्याद्विश्वरूपे चतुर्भुजः।
यानके यानकं वापि स्थापनं वापि कल्पयेत्॥ 4.11 ॥
जलेऽधिवास्य तद्बिम्बं मण्डपे चाधिवासयेत्।
- वेदीकल्पनम्.*
बालालयस्य मध्ये वा भागे दिव्येऽपि वांशके॥ 4.12 ॥
मेखलात्रयसं युक्तां वेदिं हस्तसमुच्छ्रिताम्।
कृत्वाप्रभाते विमले मुहूर्ते शोभने गुरुः॥ 4.13 ॥
मूलमन्त्रेण वेद्यां तु बालबिम्भं निवेशयेते।
स्थापयित्वा हरिं तत्र मन्त्रं न्यस्येद्यथाविधि॥ 4.14 ॥
- भगवत्प्रार्थना.*
प्रार्थयेत हरेस्तत्र सन्निधिं बालमन्दिरे।
आमूलधामनिर्वृत्ति 3 समया द्देशिकोत्तमः॥ 4.15 ॥
पूजां गृह्णीष्व भगवन्नस्मिंस्त्वं बाल 4 सद्मनि।
शमयन् मूलधिष्णस्य विघ्नकृद्धैत्यसन्ततिम्॥ 4.16 ॥
?* परवारकल्पनम्.*
इति विज्ञाप्य नत्या च परिवारान् प्रकल्पयेत्।
द्वारे चण्डं प्रचण्डं च क्षेत्रपालं खगेश्वरम्॥ 4.17 ॥
इन्द्रादीन् लोकपालांश्च स्वासु दिक्षु प्रकल्पयेत्।
सेनेशमीशकोणे तु गणेशं नैरृते यजेत्॥ 4.18 ॥
आशरीरगतान् देवान् स्थण्डिले पूजयेद्भुधः।
- स्थण्डिलमानम्.*
स्थण्डिलं हस्तमात्रं तु मेखलात्रयसंयुतम्॥ 4.19 ॥
वृत्तं वा चतुरश्रं वा कृत्वा तत्र समर्चयेत्।
कुमुदादिगणान् सर्वान् महापीठे समर्चयेत्॥ 4.20 ॥
- ध्वजारोहणादि पुष्पयागावसानिकं सर्वं बालालये कुर्यात्*
एवं संस्थाप्य मेधावी कुर्यादन्तेमहोत्सवम्।
ध्वजारोहणपूर्वं स्यात्पुष्पयागावसानिकम्॥ 4.21 ॥
एकाहमथवा कुर्यादुत्सवं बालमन्दिरे।
लोहजं बालभिम्बं चेत्तेनै वोत्सवमाचरेत्॥ 4.22 ॥
नित्यं नैमित्तिकं काम्यं कर्म बालालये भवेत्।
- उत्ववभिम्बाभावे बालबिम्बेनै वोत्सवं चरेत्*
उत्सवार्थं न चेद्बिम्बं बालेनै वोत्सवो भवेत्॥ 4.23 ॥
- बालबिम्बेनोत्सवे चतुर्थस्नपननिषेधः*
न कुर्यात्तत्र विन्यासं चतुर्थस्नपनं तथा।
- आलये उत्तमादिभेदः*
आरभेत स्थपतिभिस्साकं रथकृदालयम्।
मुख्यं शिलामयं गेहं मध्यमं चेष्टकादिकम्॥ 4.24 ॥
जघन्यं दारुजं विद्यान्मृण्मयं हेयमुच्यते।
- सञ्चितासञ्चिताद्यालयभेदः *
मिश्रै श्शैलादिभिर्दव्यैरेकानेकत्वयोगतः॥ 4.25 ॥
सञ्चितासञ्चिते स्यातामुपसञ्चितमेव वा।
द्रव्येणै केन यद्धाम स्थूप्यन्तं परिकल्पितम्॥ 4.26 ॥
श्रेष्ठं तत्सञ्चितं विद्याद्द्रव्ययुग्ममस़ञ्चितम्।
सदनं मध्यमं तत्स्यान्मृद्भिर्दार्वादिभिः कृतम्॥ 4.27 ॥
उपसञ्चितमाख्यातमधमं धाम तद्भवेत्।
- गर्भवच्छिलादारुभिरालयनिर्माणे दोषः*
गर्भयुक्तशिलादारु वर्जयेद्धेवताऽलये॥ 4.28 ॥
कुर्याच्चेदामयी स स्याद्यजमानो न संशयः।
- देवता न्तरपद्मस्थशिलादिग्रहणे दोषाधिक्यम्.*
देवता न्तरसद्मस्थं न गुह्णीयाच्छिलादिकम्॥ 4.29 ॥
तेनैव सदनं कुर्वन्नाशयेद्वंशमात्मनः।
पच्यते नरके घोरे जायते च श्वयोनिषु॥ 4.30 ॥
मठकूपतटाकादेरप्यग्राह्यं शिलादिकम्।
नरके पच्यते घोरे जायते निर्दनश्च सः॥ 4.31 ॥
वासुदेवालयाद्धारु षाषाणं वा तदिष्टकान्।
गुहीत्वा धिष्ण्यनिमान् णे कर्ता दुःखै कभाजनम्॥ 4.32 ॥
पर्यायेण प्रजेद्घोरान् नरकान्भृशदारुणान्।
पच्यते तेषु दुखेषु पर्यायेण सदा नरः॥ 4.33 ॥
- न्यायान्यायार्जितद्रव्यैरायनिर्माणे फलम् *
न्यायेन सञ्चितैर्द्रव्यै र्निर्मिते सदने हरेः।
फलमक्षययाप्नोति यजमानो न संशयः॥ 4.34 ॥
अन्यायोपार्जितैर्द्रव्यैरसुरैर्भुज्यते फलम्।
- जलेन समतावीक्षणम्*
जलेन नयतां वीक्ष्य विन्यस्य प्रकृतिं क्षीतौ।
तस्मिन्नाधाय फलकान् प्रथमान् शास्त्रचक्षुषा।
सुधया तां द्रढीकृत्य जानीयात्समतां जलैः॥ 4.35 ॥
- उपपीठादि कल्पनम्.*
कृत्वोपपीठमुपरि स्वादधिष्ठानमुत्तमम्।
विना वाप्युपपीठेन स्यादधिष्ठानकल्पनम्॥ 4.36 ॥
अथवा कल्पयेत्पूर्वमधिष्ठान मुपावहात्।
पादं च प्रस्तरं चैव ग्रीवां च शीखरं तथा॥ 4.37 ॥
कुर्याद्वथाक्रमं यावत्तृप्येरन् तलकल्पने।
- द्वितलाद्याद्यादश तलावधि कल्पनीयाङ्गानि.*
द्वितले धाम्न्यधिष्ठानं चरणं प्रस्तरं तथा॥ 4.38 ॥
कूटं चशालां संस्थानं पञ्चरं प्रस्तरं पुनः।
वेदिं ग्रीवां च शिखरं क्रमेण परिकल्पयेत्॥ 4.39 ॥
त्रितलादिविमानाना माद्वादशतलावधि।
एवं प्रकल्प्य शास्त्रोक्त मितरेष्वपि कल्पयेत्॥ 4.40 ॥
- अष्टादशधाम्नेङ्गानि*
उपानं जगतीं चैव कुमुदं पट्टिकां तथा।
कण्ठं च पट्टिकाचैव चरणं च तलोत्तरम्॥ 4.41 ॥
हंसमाला कपोतश्च प्रतिश्च प्रतिवेदिका।
कण्ठं च शिखरं चैवक्रमेणाष्टादशाङ्गकम्॥ 4.42 ॥
धाम्नस्थूप्यन्तमथ वा यजमानानुरूपतः।
कुर्यात्पटादौ निर्माणां कृत्वा पूर्वं विचक्षणः॥ 4.43 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायं
क्रियापादे शिखरनिर्माणं नाम
चतुर्थोऽध्यायः