तृतीयोऽध्यायः
मन्दिरनिर्माणविधिः.
श्रीभगवान्—–
ब्रह्मन् मन्दिरनिर्माणं तव वक्ष्यामि तच्छ्रुणु।
कर्षणार्थं भूसंस्कारः
पूर्वोक्तां भूमिमासात्य प्रवेशबलिपूर्वकम्॥ 3.1 ॥
भूमिं प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत्।
यक्षाः पिशाचा नागाश्च येऽत्र 1 तिष्ठन्ति सर्वदा॥ 3.2 ॥
2 सर्वेऽप यान्तु तेऽन्यत्र विष्णोः स्थानं करोम्यहं।
तत्रास्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्॥ 3.3 ॥
लूर्ववद्वास्तुहोमं च कुर्याद्वास्तुबलिं तथा।
ब्राह्माणादिकर्षकभेदेन अनडुहो वर्णभेदः.
ततो भागवताचार्यो ह लेन विलिखेद्भुवम्॥ 3.4 ॥
ब्राह्मणो यजमानस्स्या दऩड्वान् गौरवर्णकः।
क्षत्रियो लोहितो वैश्यः पीतश्शूद्रस्तु मेचकः॥ 3.5 ॥
यथोक्त 3 वर्णालाभेतु कपिलो गौर एव वा।
ऋषभौ रक्तवर्णौ तु महन्तौ सबलौ 4 मतौ॥ 3.6 ॥
क्षालयेत्खुरशृङ्गादीन् भूषयेत्कनकादिभिः।
कर्षकवर्णानु गुणं हलयुगादिवैविध्यम्.
हलं युगं च पालाशं भ्राह्मणस्य विदीयते॥ 3.7 ॥
न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्छूद्रयो र्भवेत्।
न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ॥ 3.8 ॥
सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।
राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्॥ 3.9 ॥
कुशा धनुर्ज्या वीरण्यः काशा रज्जुश्च तन्मयी।
5 हलभूतं च मेधिं च कारयेदेकयोनिकम्॥ 3.10 ॥
मानसतरङ्गिणीकृत् - टिप्पनी
Before installing a shrine of viShNu, the Acharya of pa~ncharAtra circumambulates the ground and calls on yakSha-s, pishAcha-s and snakes dwelling in the land to move elsewhere. Then he scatters white mustard seeds potentiated by the astra incantation all around the plot. Thereafter, he performs the vAstu-homa and bali.
Other pA~ncharAtrika texts recommend doing this after plowing the land.
He then marks the ground by plowing it with the help of an ox. The ox’s color is dependent on the sponsor of the temple: v1: white; v2: reddish; v3: yellowish; v4: black.
कर्षकस्य अङ्गप्रसाधनम्.
स्नातो नवाम्बरधर स्सोष्ठीषश्शुचिरात्मवान्।
माल्यानुलेप 6 नायुक्तस्सोत्तरीयपरिच्छदः॥ 3.11 ॥
भूषितस्स्वयमाचार्यः पदौ प्रक्षालयेत्ततः।
आचम्यायम्य च प्राणा न्न्यासं कृत्वा यथाविधि॥ 3.12 ॥
द्विजेन्द्रैरभ्यनुज्ञातः कर्षणं प्रारभेत्ततः।
- पुण्याहपूर्वकं मन्त्रेण हलयुगादियोजनम् *
पुण्याहं वाचयित्वातु वैष्णवैर्मन्त्रवित्तमैः॥ 3.13 ॥
योजयेद्वृषभस्कन्धे युगं वै मूलविद्यया।
लाङ्गलं च युगेनैव योजयेद्विद्यया तया॥ 3.14 ॥
सुमुहुर्ते सुलग्ने च कर्षयेत्प्राङ्मुखस्थ्सितः।
भेरीपटहशङ्खादीन् घोषयेत्सर्वदिक्षु च॥ 3.15 ॥
सूक्तं शाकुनकं विप्राः पठेयुस्सर्वशान्तिदम्।
हृत्सरोजे च मां ध्यायेद्विद्यारूपेण चक्षुषा॥ 3.16 ॥
दण्डं 7 प्रवयणं कुर्यात्पालाशादिमहीरुहाम्।
- कर्षणविधिः *
आदाय तोदनं पश्चात्पीड येत् 8 हुम्फडादिना॥ 3.17 ॥
प्राङ्मुखः प्रथमं ब्रह्मन् कर्षयेन्मूलविद्यया।
सूक्तेन पौरुषेणैव द्वतीयं भूमिकर्षणम्॥ 3.18 ॥
तृतीयं विष्णुसूक्तेन तद्गायत्य्रा तुरीयकम्।
नारायणासुवाकेन कर्षणं पञ्चमं स्मृतम्॥ 3.19 ॥
पाञ्चोपनिषदैर्मन्त्रैष्षष्ठं स्याद्भूमिकर्षणम्।
सप्तमं भूमिसू क्तेन कर्षयेद्देशिकोत्तमः॥ 3.20 ॥
प्रदक्षिणक्रमेणैव सीता स्यात्कमलासन।
दक्षिणेत्तरत स्तद्वत्कर्षयेत्पञ्च रात्रवित्॥ 3.21 ॥
- निमित्त परीक्षा*
8 निमित्तानि परीक्षेत तत्काले देशिकोत्तमः।
देशिकस्य मनस्तुष्टिस्तत्काले शर्मणे भवेत्॥ 3.22 ॥
9 विपर्यये क्षयं विद्धि प्रासाद यजमानयोः।
अनड्वच्छयने चैव योक्त्रादीनां च भेदने॥ 3.23 ॥
व्यत्यासे भ्रमणे चैव दुर्निमित्तोद येतथा।
अर्धच्छेदो भवेत्सूत्रौ स्वामिनो मरणं ध्रुवम्॥ 3.24 ॥
तृतीयभागे च्चेदे च राष्ट्रक्षोभो भवेद्ध्रुवम्।
विच्छेदेऽपि चतुर्भागे प्रयोक्तृभ्रंश उच्यते॥ 3.25 ॥
- दुर्निमित्तेशान्तिः*
पञ्चोपनिषदा 10 कुर्याच्छतं वारान् घृताहतीः।
शाम्यन्ति दोषास्ते सर्वे नार्तिमृच्छेत्प्रयोजकः॥ 3.26 ॥
आचार्यो यजमानस्तु ब्राह्मणान् [^11] भोजयेद्धनैः।
- भूसमिकरणबीजावापौ.*
कृष्टा भुवं समीकुर्याद्यत्नेन महतावृतः॥ 3.27 ॥
आलवालान् पृथक्कृत्वा जलकुल्यासमन्वितान्।
शालिमुद्गमवादीनि तत्र बीजानि वापयेत्॥ 3.28 ॥
सिक्तं प्रतिदिनं क्षेत्रं तोयेन महाता भवेत्।
रक्षां च कुर्या 11 द्यत्नेन परिपाकासानिकम्॥ 3.29 ॥
पक्वं लुनीयात्तत्क्षेत्रमान येद्गो 12 कुलानि तत्।
- फलवृद्धिह्रासयोः फलम्*
फले महति तद्धाम दीर्घकालं भविष्यति॥ 3.30 ॥
अल्पे त्वल्पतरं कालं प्रासादे सन्निधिर्हरेः।
फलहीने भवेद्धाम प्रक्षीणधनधान्यकम्॥ 3.31 ॥
ब्राह्मणान् भोजयेत्तत्र सहस्रं शतमेव वा।
भुक्तवद्भ्यो धनं दद्याद्भ्राह्मणेभ्यो गवादिकम्॥ 3.32 ॥
- भूशोधनम्.*
प्रोक्षयेत्पञ्चगव्येन पञ्चोपनिषदा भुवम्।
कुद्धालैर्वा खनित्रेर्वा यावदम्भः खनेत् 13 क्षितिम्॥ 3.33 ॥
प्रथमावरणं यावत्तावद्विस्तार इष्यते।
दण्डमात्रायतं खातं खनेद्वाकमलासन॥ 3.34 ॥
क्षेत्रदोषानुरूपेण मन्दिरो 14 च्छ्रयणे पि वा।
- तुषाङ्गारादिलाभेशान्तिः*
भुतले खन्यमाने तु भस्माङ्गारतुषादिकम्॥ 3.35 ॥
दुष्टसत्वोपलम्भे तु क्रिमिकीटादिर्शने।
जुहुयाच्छान्तये तेषामाचार्यस्सर्पिरादिना॥ 3.36 ॥
ब्राह्मणेभ्यो यथा शक्ति दद्याद्धेमादिकं धनम्।
- रत्नादिला भेसमृद्धिः *
रन्तादिदर्शने धाम समृद्धं 15 सर्वदा भवेत्॥ 3.37 ॥
- होमकुम्भस्थापनादिविधिः*
खात्या होमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्नि मादीप्य कुर्यादाज्येन देशिकः॥ 3.38 ॥
मूलमन्त्रेण सूक्तेन पौरुषेण चरुं पुनः।
गुग्गुलं तिलनीवारं जुहुयान्मूलविद्यया॥ 3.39 ॥
पुण्याहं वाचयित्वा तु शालिं खाते विनिक्षिपेत्।
कुम्भानुपरि शालीनां सूत्रवस्त्रादिवेष्ठितान्॥ 3.40 ॥
कुर्म्भा लोहमयाः प्रोक्ता स्तदभावे तु मृण्मया।
आधारशक्तिं सौवर्णीं कृत्वा कुर्म्भे विनिक्षिपेत्॥ 3.41 ॥
मध्यमे तदनु प्राच्यां कुर्म्भे बीजानि निक्षिपेत्।
आग्नेय्यां सर्वलोहानि सर्वधातूनि दक्षिणे॥ 3.42 ॥
पुण्यतीर्ध मृदं कुम्भे नैरृते वारुणे पुनः।
मधुना पूरयेत्कुम्भं वायवीयं तु सर्पिषा॥ 3.43 ॥
रत्नैर्धानेश्वरे कुम्भे ऐशाने शैलमृत्तिकाम्।
निक्षिपेन्मध्यकुर्म्भे तु शालिक्षेत्रमृदं तथा॥ 3.44 ॥
अशोष्यह्रदसम्भूतां वल्मीकभवमृत्तिकाम्।
कन्दानि चोत्पलादीनां प्रक्षिपेत्प्रङ्मुखः स्थितः॥ 3.45 ॥
लोहरत्नानि च तथा 16 निदध्या द्धर्भकूर्चकम् 15।
अपिदध्याच्छरावेण क्रमेण परि 17 पूजयेत्॥ 3.46 ॥
कुम्भस्योपरि मध्यस्य कुम्भमन्यं निवेशयेत्।
विधाय कुर्मं कालाग्निं सौवर्णं तत्र निक्षिपेत्॥ 3.47 ॥
कुम्भं तृतीयं विन्यस्य तत्रानन्ताकृतिं क्षिपेत्।
चतुर्थं वसुधाधारमुपरिष्टाद्घटङ्क्षिपेत्॥ 3.48 ॥
गन्धोदकेन तत्कुम्भान् पूरयित्वा समर्चयेत्।
खातमृद्भिश्च पुण्याभिरस्पृष्टाभिश्च दुषणैः॥ 3.49 ॥
पूरयेद्वालुकाभिश्च जलैश्चोपरि पूरयेत्।
हास्ति पादैर्ध्रृढं कृत्वा पुनस्तोयैश्च पूरयेत्॥ 3.50 ॥
इति श्री पाञ्च रात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे कर्षणविधिर्नाम
तृतीयोऽध्यायः.