पद्मसंहितायां
क्रियापादेप्रथमोऽध्यायः
द्वितीयोऽध्यायः
ग्रामादीनां लक्षणम्।
क्रामादीनां चतुर्वर्ग फलदानां यथाक्रमम्।
स्वरूपं तत्र भेदं च वक्ष्यामि तव साम्प्रतम्॥ 2.1 ॥
ब्रह्मणादिवर्णानां वासस्थानस्य समाख्याभेदः
1 वसन्ति ब्राह्मणा यत्र स्थाने ग्रामस्स उच्यते।
अग्रहारश्च तस्यैन नामधे2 यमिति स्मृतम्॥ 2.2 ॥
क्षत्रियाणां तथा वासः पुरं नगरमित्यपि।
वैश्यानां पत्तनं वासो मलिका कुलमित्यपि॥ 2.3 ॥
ग्रामसंस्थानभेदनामानि.
दण्डकं स्वस्तिकं चैव प्रस्तरं च प्रकीर्णकम्।
नन्द्यावर्तं 3 पताकं च पद्मं च श्रीप्रतिष्ठितम्॥ 2.4 ॥
ग्रामादि 4 षु प्रभेदोऽसौ श्रुणु ते षां च लक्षणम्।
दण्डपग्रामः
पूर्वाग्र मुत्तराग्रं च यावन्मानं भवेदथ॥ 2.5 ॥
दण्डवत्तु भवेद्वीधी तद्धण्डकमुदाहृतम्।
स्वस्तिकग्रामः.
पुर्वाग्र मुत्तराग्रं च कृत्वा वीधी द्वयं पुनः॥ 2.6 ॥
दक्षिणाभिमुखो भूत्वा पूर्ववीध्यां तु निर्गमः।
पश्चिमाभिमुखो भुत्वा दक्षिणेन तु निर्गमः॥ 2.7 ॥
उत्तराभिमुखो भूत्वा पश्चिमेन तु निर्गमः।
प्राङ्मुखस्तु 5 ततो भूत्वा सौम्यवीध्या तु निर्गमः॥ 2.8 ॥
एवं प्रकल्पितो ग्रामस्स्वस्तिकाह्वय इष्यते।
एवमेव तु सर्वेषां ग्रामादीनां तु निर्गमः॥ 2.9 ॥
प्रस्तरग्रामः
द्विचतुः पञ्चषट्सप्त वीधयश्चेदुदङ्मुखाः।
प्राङ्मुखैस्तु त्रिभिर्युक्तः प्रस्तरः परिकीर्त्यते॥ 2.10 ॥
प्रपीर्णकग्रामः
पूर्वाग्र मुत्तराग्रं च रथ्याभिस्तिसृभिर्युतम्।
प्रकीर्णकमिदं ज्ञेय मभिप्रेतार्थसाधनम्॥ 2.11 ॥
सन्द्यावर्तग्रामः
वूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा।
ग्रामस्य निर्गमश्चैव चतुर्दिक्षु विधीयते॥ 2.12 ॥
त्रयोदशाद्यैर्वीधीभि रेक्तेकमधिकं भवेत्।
नन्द्यावर्तं भवेत्पञ्च पञ्चभिः प्राङ्मुखै र्युतम्॥ 2.13 ॥
पताकग्रामः
अष्टादाशाध्यैरेकैकं वर्धते पञ्चभिस्तथा।
उदङ्मुखैः पताकम् स्यात् प्राङ्मुखैष्षड्भिरेव च॥ 2.14 ॥
पद्मग्रामः
त्रयोविंशतिवीधीना माद्यैः पञ्चाप्युदङ्मुखैः।
नप्तभिः प्राञ्मुखेर्युक्तं पद्मग्राम मुदाहृतम्॥ 2.15 ॥
श्रीप्रतिष्ठितग्रामः
अष्टाविशतिवीधीनां पूर्वाभिश्चा प्युदङ्मुखैः।
अष्टभिः प्राङ्मुखैर्युक्तं श्रिप्रतिष्ठित मुच्यते॥ 2.16 ॥
ग्रामादिवास्तु भूमिविभागः
एवमष्टा विधाः प्रोक्ता ग्रामादीनां समानतः।
ग्रामादिं पञ्चधा कृत्वा भागमेकं बहिस्त्यजेत्॥ 2.17 ॥
ब्राह्मं दैवं मानुषं च पैशाचमिति 6 तत्पुनः।
चतुष्टयीं विजानीयाद्भागानां तत्र दैविके॥ 2.18 ॥
दैविकादिभूविभागेषु परिकल्पनीय धिष्ठ्यानि.
मानुषे च द्विजातीनां गृहाणि परिकल्पयेत्।
पेशाचे दै वधिष्ण्यानि दिक्ष्वष्टासु च मध्यमे॥ 2.19 ॥
ग्रामादिभेदेन गर्भन्यासस्थानभेदः
ग्रामस्य 7 गर्भविन्यासो द्विजानां स्थापनात्पुरा।
मध्ये कुर्यात् पुराणां तु8 दिश्यैन्दद्र्यां पत्तनेषु च॥ 2.20 ॥
कौबेर्यां दिशि गर्भस्य न्यास एवमुदाहृतः।
गर्भभाजने स्थापनीयद्रव्याणि.
धातुलोहानि रत्नानि कन्दं बीजं 9 मृदं तथा॥ 2.21 ॥
भाजने लोहजे कृत्वा दारवे मृण्मयेऽपिवा।
उपोषितश्शुचिस्स्नात्वा नववस्त्रोत्तरीयकः॥ 2.22 ॥
रात्रौ मुहूर्ते सम्प्रापै गर्भाधानं समाचरेत्।
आदाय भाजनं पश्चात्स्वमात्मानं हरिं स्मरेत्॥ 2.23 ॥
ध्यात्वा तु वसुधां देवीं मन्त्रमेतमुदीरयेत्।
वसुधाप्रार्थनमन्त्रः
सर्वभूतधरे कान्ते पर्वतस्तन 10 मण्डिते॥ 2.24 ॥
समुद्रपरिधानीये देवि गर्भं समाश्रय।
न्यस्तगर्भरक्षा.
श्वभ्रं मृद्भिस्ततस्सम्य क्पूरयित्वा समन्ततः॥ 2.25 ॥
पञ्चरात्रं त्रिरात्रं वा रक्षां कुर्यादतन्ध्रितः।
अचार्यदक्षिणा.
शतनिष्कं तदर्धं वा तदर्धमथवापि वा॥ 2.26 ॥
श्रद्धया दक्षिणां दद्यादाचार्यायाग्रहारकृत्।
द्विगुणं त्रिगुणं निष्कं पुरादौ दक्षिणा स्मृता॥ 2.27 ॥
गर्भन्यासानन्तरं द्विजानां गृहे संवेशः
गर्भन्यासे कृते पश्चात् द्वजान् संवेशयेद्गृहे ।
वास्तु देवस्थापनम्.
वास्तुदेवान् यथान्यायं क्रमेण स्थापयेत्सुधीः॥ 2.28 ॥
पञ्चमूर्तेर्हरेर्गामादौ.
स्थापने पञ्चयज्ञादि साफल्यम्।
स्थापयेद्ग्राममध्ये तु पञ्चमूर्तिमयं हरिम्।
विप्राणां पञ्चयज्ञोयमेव11 साफल्यमश्नुते॥ 2.29 ॥
चातुराश्रम्यसन्द्ध्यर्धं चतुर्मूर्तिमथापि वा।
सर्वार्थमेकमूतिं वा ग्राममध्ये समर्चयेत्॥ 2.30 ॥
योगिनं भोगिनं वापि कारयेदच्युतं प्रभुम्।
आसीनं वा शयानं वा तिष्ठन्तं वा समर्चयेत्॥ 2.31 ॥
सृष्टिकृद्भोगशयनं देवदेवस्य कीर्त्यते।
संहारं [^12] भोगशयनम् तथा सनहरेर्वपुः॥ 2.32 ॥
जामदग्न्यं नार्चयेत्।
विश्वरूपधरं देवं जामदग्न्यं च नार्चयेत्।
आलयद्वाराणां दिग्भेदेन फलभेदः
प्राग्द्वारं 12 सुखदं विद्धि पश्चिमं पुष्टिवर्धनम्॥ 2.33 ॥
धनदं चोत्तरं द्वारं याम्यं च मोक्षदम्।
भास्करादीनां स्थानद्वार निरूपणम्.
ऐन्द्रेतु भास्करस्थानं प्रत्यग्द्वारं तु कल्पयेत्॥ 2.34 ॥
पावके मदनस्थानं प्रत्यग्ध्वारं प्रकल्पयेत्।
सुब्रह्मण्यस्य याम्ये स्यात्पूर्वद्वारनि केतनम्॥ 2.35 ॥
नैरृते विघ्न राहस्य पूर्वद्वारं प्रकल्पयेत्।
वारुण्यां स्थापयेद्वीष्णुं श्रीभूमिसहितं स्थितम्॥ 2.36 ॥
आसीनं वा श्रियो पेतं गरुडारूढमेव वा।
विश्वरूपधरं भोगशयनं वा प्रकल्पयेत्॥ 2.37 ॥
प्राङ्मुखं तु प्रकुर्वीत पश्चिमे विष्णुमन्दिरम्।
पश्चिमे तु श्रीयस्थ्सानमथ वा कल्पयेद्भुधः॥ 2.38 ॥
वायव्याम् प्राङ्मुखं स्थानं दुर्गायै परिकल्पयेत् ।
धनदं चोत्तरे स्थाप्य (जृम्भलादि/)त्रिफलादि-समन्वितम् ॥ 2.39 ॥
ऐशान्याम् ऐश्वरस्थानं सोमेशानान्तरे ऽपि वा ।
इन्द्रेशानान्तरे वा ऽपि नान्यत्र परिकल्पयेत् ॥ 2.40 ॥
आग्नेय्यां च महामोटीं ग्रामात् दूरतरे स्थिताम् ।
नैरृते चैव शास्तारं ग्रामात् दूरतरे स्थितम् ॥ 2.41 ॥
ग्रामस्य चोत्तरे पार्श्वे किंचिद् दूरतरे स्थितम् ।
मातृस्थानं भवेत् तत्र सर्वास् ताश् चोत्तराननाः ॥ 2.42 ॥
ऐशान्यां वा ऽथ मातॄणां नाति-दूरे गृहं भवेत् ।
आग्नेय्यां वा गुहं दुर्गां वायु-सोमान्तरे ऽपि वा ॥ 2.43 ॥
मानसतरङ्गिणीकृत् - टिप्पनी
The vaiShNava pA~ncharAtra pAdma-saMhitA specifying where the shrines of various deities should be established in a village/town. The standard depiction of viShNu with shrI on garuDA is installed in the center of the settlement.
durgA: facing east in NW or between NW and N. kubera: in N, his shrine is supplied with triphala, i.e., hArItaka, vibhItaka, amalaka trees. shiva: NE, between N-NE or NE-E and nowhere else. mAhAmoTI (a form of chAmuNDA): SE far away from the village. shAstR^i: SW far away from the village. mAtR^ikA-s: N some distance from the village, all facing north, or NE not far from the village. skanda: SE.
रज्जु पात श्रिशूलसूत्रसन्ध्यादिषु देवस्थान गृहादीनां निषेधः।
रज्जुपा तेषु सर्वत्र त्रिशूले सूत्रसन्धषु।
देवस्थानं न कर्तव्यं वीध्यग्रेषु विशेषतः॥ 2.44 ॥
गृहाश्च नैव कर्तव्यास्तत्र 13 वंशर्द्धिमच्छता।
प्रमादास्तुषु कुर्याच्चेत् ग्रामादीनां क्षयो भवेत्॥ 2.45 ॥
ग्राममध्ये हरेरर्चनं मन्त्रक्रियादि
सर्वलोपानां प्रायश्चित्तं भवति
14 मन्त्रहानौ क्रियाहानौ हव्यव्यादि कर्मसु।
प्रायश्चित्तं भवेत्तस्य ग्राममध्यार्चनं हरे॥ 2.46 ॥
भास्करादिपरिवाराणामर्चने फलविशेषः
आराधने भास्करस्य ग्रामे रोगो न जायते।
सौभाग्यसौम्यसौन्धर्यगुणाः कामस्य पूजनात्॥ 2.47 ॥
भूतादयो नृणां नैव भवेयुर्गुह पूजनात्॥
सर्वविघ्ना विनश्यन्ति विघ्न राजस्य पूजनात्॥ 2.48 ॥
वारुण्यां पूजयेद्विष्णुं 15भुक्तिमुक्ति-फलप्रदम्।
दुर्गां16 सम्पूजयेद्देवीं नित्यमायुर्विवृद्धये॥ 2.49 ॥
धन-धान्य-समृद्धिः स्यात् कुबेर-परिचर्यया ।
ज्ञानवन्तो नराः सर्वे भवेयुः शिवपूजनात् ॥ 2.50 ॥
मोटीपूजनया 17 चैव बालानां न विपद् भवेत्।
शास्तुः पूजनया चैव (रक्षन्ति/)पुषन्ति ग्रामवासिनः॥ 2.51 ॥
मातृ-पूजनया नित्यं पिशाचा नैव पीडकाः ।
पुरे च माळिकायां च मध्ये न स्थापयेत् हरिम् ॥
(मातृपूजनया नित्यं पिशाचा नैव पीडकाः।
पुर-मलिकयोर्मध्ये हरेः स्थापननिषेधः)
मानसतरङ्गिणीकृत् - टिप्पनी
A vaiShNava pA~ncharAtrika saMhitA the pAdma giving the benefits of installation and worship of various deities:
viShNu (in the west): Worldly enjoyment and liberation.
durgA: Longevity.
kubera: prosperity of wealth and grain
shiva: wisdom
(karNa)moTI (= a form of chAmuNDA): no misfortune for children.
shAstR^i: Protection of the villagers.
mAtR^ikA-s: protection from pishAcha-s.
पुरे च मलिकायां च मध्ये न स्थापयेद्धरिम्॥ 2.52 ॥
अनलोमजानां मध्ये हर्यर्चननिषेधः
वासेऽनुलोमजानां च मध्येन हरिमर्चयेत्।
शूद्रादीनां वास्तुदेवतानिषेदः.
शूद्राणां प्रतिलोमानां स वास्तु न च देवता॥ 2.53 ॥
यदि स्यादविवेकेन राजा राष्ट्रं च नश्यति।
ग्रामादौ देवोत्सवर्दे वास्तु देवक्लपननिषेधः.
देवोत्सवार्धे ग्रामादौ वात्तेदेवान्न कल्पयेत्॥ 2.54 ॥
अङ्गिनो 18 नैव स्वाङ्गानि कल्पयन्ति स्वत न्त्रवत्।
कल्पयेयुः19 प्रजा नां च राष्ट्रस्य प्रतिकूलकाः॥ 2.55 ॥
मूर्तीनां केशवादीनां मत्स्यादीनां तथैव च।
अन्तरालेषु सर्वषु दिक्षु चैव विदक्षु च॥ 2.56 ॥
सर्वत्र भगवद्गेहं ग्रामादौ कारयेत्सुधीः।
ग्रामप्रेक्षं न कुर्वीत उग्रमुग्रायुधोद्यतम्॥ 2.57 ॥
जामदग्न्यं नृसिंहं च संहारशयनं तथा।
सर्वत्र भोगशयनं भोगस्थानं तधैव च॥ 2.58 ॥
20 भोगासनञ्च सर्वत्र शयनं सृष्ठिसञ्ज्ञितम्।
यानकं च 21 क्रियोपेतं सर्वत्रैव स्तु कारयेत्॥ 2.59 ॥
मानसतरङ्गिणीकृत् - टिप्पनी
The pA~ncharAtrika-s specify that ferocious forms of viShNu or those with raised weapons should not be installed facing or within sight of the villages +++(ग्रामप्रेक्षम् = facing village more likely)+++. These include rAma jAmadagnya, nR^isiMha and the reclining form associated with the dissolution of the world. All other vibhava-s starting with ‘matsya’ and permutational forms starting with ‘keshava’ can be installed everywhere and in all directions. The pleasure-taking forms, reclining, standing, or seated, can similarly be installed anywhere. Mobile idols (yAnaka) with appropriate ritual accompaniments can also be installed all over.
ग्रामस्यान्तरा शूलिनो न्यासनिषेधः
ग्रामान्तरे न कूर्वीत
स्थानं देशस्य शूलिनः।
विनश्यत्यचिराद् ग्रामो
राजा राष्ट्रं तथैव च॥ 2.60 ॥
तस्माद्दूरतरे कुर्यात्
ग्रामाद् ईनम्?? उमापतिम्।
देवताभेदन पूजकभेदः
एवं संस्थाप्य दिग्-देवान्
पूजकः पूजयेत्क्रमात्॥ 2.61 ॥
विष्णोर्भागवतैरेव
पञ्चरात्रपरायणैः।
पूजा कार्या न सामान्य-
देवतामातृपूजकैः॥ 2.62 ॥
शीवस्य शिवशास्त्रज्ञैः
पूजनं च शिवद्विजैः।
सोमपाभिर् 22 द्विजश्रेष्ठैः
कार्यं दिनकरार्चनम्॥ 2.63 ॥
मदनं गणनाथं च
सुब्रह्मण्यं शिवद्विजः।
पूजयेद् धनदादीनां
पूजको विप्र इइष्यते॥ 2.64 ॥
दुर्गां सम्पूजयेद् देवीं
सदा भागवतस्स्वयम्।
मातॄणामर्चनं कार्यं
तज्-ज्ञैः पारशवैस्तथा॥ 2.65 ॥
शास्तारं च माहामोटीं
कुलालः पूजयेत्सदा।
मानसतरङ्गिणीकृत् - टिप्पनी
The sectarian Agamika tradition took either of two approaches to officiating the diverse religious traditions within its ecumene. One was that of the sarvAdhikArin: the sthApaka or AchArya who had the adhikAra to install and officiate at the temples of all sects. The second was maintaining core sectarian control while divesting the other shrines to their respective specialists. Above is such an example from the pAdma saMhitA of the pA~ncharAtrika-s.
In this setting, the vaiShNava knower of the doctrine of the five nights, the pa~ncharAtra specialist, but no one else, performed worship at the shrine of viShNu.
The shiva, gaNesha, skanda, and kAma temples were officiated by shaiva brAhmaNa-s, which in the classical period would have implicitly meant saiddhAntika-s. However, in theory it could have also meant pAshupata specialists (=atimArga, e.g., kAlAmukha).
The shrine of kubera was officiated by an unspecified v1, while that of the Solar deity was handled by soma ritualists. This latter situation represents an interesting departure in South India from the Iranic officiants (the shakadvIpIya-s) who handled saura shrines, especially in the North and Northwest.
Interestingly, the vaiShNava-s themselves handled durgA (this probably went hand-in-hand with the viShNu-durgA iconography, for elsewhere in shaiva-dominated settlements they handled durgA).
The mAtR^ikA-s were handled by shAkta specialists or the pArashava-s.
The latter were originally a tribe living to the southwest of the madhyadesha, who the ancient social theorists interpreted as emerging from an anuloma mating between a v1 and v4.
Interestingly, shAstR^i and mahAmoTI were handled by potters. This is notable because in South Indian tradition, the most voluminous of the shAstR^i-tantra-s is the kulAla-tantra, which provides the detailed shAstR^i-sthApanA-vidhi with a role for the potter-ritualist in installing the monumental images of shAstR^i.
Thus, it is notable that in addition v1s several other jAti-s were incorporated as officiants for various shrines.+++(5)+++
सुवर्णकाराम्भष्ठानां ग्रामस्यान्तः प्रकल्पनम्.
स्वर्णाम्भष्ठकलाभिज्ञान् [^24] ग्रामस्यान्तः प्रकल्पयेत्॥ 2.66 ॥
प्रतिलोमादीनां स्थानम्
23अन्येषां प्रतिलोमानां बहिर्ग्रामात्प्रकल्पयेत्।
प्राच्यां दिश्यनुलोमानां स्थापनं 24 कर्मिणां भवेत्॥ 2.67 ॥
सर्वेषां प्रतिलोमानां दक्षिणादिषु कल्पनम्।
श्रेणीभ्योऽपि बहिर्दूरे चण्डाला नैरृते स्मृताः॥ 2.68 ॥
सामान्येन श्मशानस्थानम्.
ग्रामस्य चोत्तरे दूरेश्मशानं 25 उदकाशये।
द्विजन्मनांश्वशासेस्थानविशेषः
26 याम्ये तटे तटाकस्य श्शशानं स्याद्द्विजन्मनाम्॥ 2.69 ॥
सर्वेषामनुलोमानां दाहः प्राच्यादिरोधसं।
27 अन्येषां प्रतिलोमानां दिशः प्राच्यादयो विदुः।
इत्थं प्रकल्पयेद्ग्रामं नगरं कुलमेव वा॥ 2.70 ॥
मुक्तिमाप्नोति 28 पुरुषः पुनर्नेहोपजायते।
उपकुर्वन्ती ये मर्त्या द्रव्यैर्वा मानसेन वा॥ 2.71 ॥
स्वर्गलोके वसन्त्येते कालं कल्पावसानिकम्।
रक्षन्ति ये यथाक्लृप्तं ग्रामादीन् पृथिवीश्वराः॥ 2.72 ॥
ते य
-
वसन्तवाद्विजा यत्र ग्रामे स्थानं तदुच्यते. ↩︎
-
यान्तरं ↩︎
-
पराकं च ↩︎
-
रष्टभेदोऽसौ. ↩︎
-
ततः प्रोक्तो ↩︎
-
मितरत्पुनः। ↩︎
-
मध्यनिन्यासः. ↩︎
-
दिशस्सात्. ↩︎
-
तथा मृदः ↩︎
-
मुद्रिते. ↩︎
-
साकल्य ↩︎
-
शुभदम्. ↩︎
-
स्तत्रेवं शुद्धि. ↩︎
-
मन्त्रहानिः क्रियाहानिर्हन्यकव्यविवर्जितः ↩︎
-
सम्पूजयेन्नित्यमायुर्जमयविवर्धनम्. ↩︎
-
प्रदं विभुम्. ↩︎
-
नित्यम्. ↩︎
-
अङ्गानि ↩︎
-
प्रजा राज्ञो राष्ट्रस्य प्रति कूलता. ↩︎
-
भागस्थानं ↩︎
-
श्रियोपेतम्. ↩︎
-
द्विजेन्द्ध्रेश्च. ↩︎
-
अन्येषामनुलेमानां ↩︎
-
कर्मणां ↩︎
-
बन्धकालये. ↩︎
-
ग्रामस्य दक्षीणाचैव तटाकस्य. ↩︎
-
इदमर्धं क्वचदधिकमस्ति. ↩︎
-
स पुमान् पुनरे व न जायते. ↩︎