पाद्मसंहितायाम्.
पञ्चमोऽध्यायः।
- ध्यानलक्षणम् *
श्रीभगवान्—
बध्वायोगासनं पूर्वं हृद्धेशे रचिताञ्जलिः।
नासाग्रव्यस्तनयनो जिह्वां कृत्वाच च तालुनि॥ 5.1 ॥
दन्तैर्दत्तानसंस्पृश्य 1 ऊर्ध्वकायस्समाहितः।
2 संहरेदिन्द्रियग्रामं ततो बुद्ध्या विशुद्धया॥ 5.2 ॥
चिन्तनं वासुदेवस्य परस्य परमात्मनः।
सरूपस्याप्यरूपस्य स्वहृदम्बुरुहासने॥ 5.3 ॥
यत्तद्ध्यानं प्रशंसन्ति कैवल्यफलदं सदा।
- ध्यानफलम् *
याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः॥ 5.4 ॥
सप्तजन्मकृतं पापं तस्य वश्यति योगिनः।
- जाग्रदादिवृत्तीनांस्थानानि *
नाभिकन्दात्समारभ्य यावद्धृदयगोचरम्॥ 5.5 ॥
जाग्रद्वृत्तिं विजानियात्कण्ठस्थं स्वप्रमुत्तमं।
नुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम्॥ 5.6 ॥
तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत्।
जाग्रद्वृ तैस्समारभ्य यावद्ब्रह्मबिला न्तरम्॥ 5.7 ॥
3 तत्रोदयं तुरीयं स्यात्तु र्यान्ते विष्णुरुच्यते ।
- ध्येयशुभाश्रय स्वरूपम् *
ध्याये च्चैवं समायुक्तः व्योम्नि चात्यन्तनिर्मले॥ 5.8 ॥
सूर्यकोटिद्युतिधरं नित्योदितमधोक्षजम्।
हृदयाम्भुरुहासिनं ध्यायेद्वा विश्वरूपिणम्॥ 5.9 ॥
अनेकाकारखचितं अनेकवदनान्वितम्॥
अनेकभुजसंयुक्त मनेकायुधमण्डितम्॥ 5.10 ॥
नानारूपधरं देवं शान्तमुग्रमुदायुधम्।
अनेक नयानाकीर्णं सूर्यकोटिसमब्रभम्॥ 5.11 ॥
ध्यायतो योगिनस्सर्वं 4 यतोऽज्ञानं विनश्यति।
हृत्पुण्डरीक मध्यस्थं चैतन्यं ज्योतिरव्ययम्॥ 5.12 ॥
कदम्ब 5 मुकुलाकारं 6 तुर्यान्तान्मण्डलात्परम्॥
अनन्तमानन्दमयं चिन्मयं भास्वरं विभुम्॥ 5.13 ॥
निवातदीपसदृशमकृत्रिम मणिप्रभम्।
ध्यायतो योगिन स्तस्य मुक्तिः करतले स्थिता॥ 5.14 ॥
विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेवहि।
स्थवीयस्सूक्ष्ममन्यद्पा पश्यन् हृदयपङ्गजे॥ 5.15 ॥
ध्यायतो योगिनो वस्तु नाक्षादेव प्रकाशते।
अणिमादिफलं चैव 7 सकलं का कथा परे॥ 5.16 ॥
- समाधिः *
जीवात्मनः परस्यापि यदैक्य मुभयोरपि।
समादिस्सतु विज्ञेय 8 स्साध्वर्थानां प्रसाधकः॥ 5.17 ॥
- ध्यानप्रकारः *
अहमेव परम्ब्रह्म तदिति ध्यानमास्थितः।
स्थाणुभूतो दृढश्शश्वद्विषया न्नावबुध्यते॥ 5.18 ॥
यथा बाह्यजलं वारां प्रविष्टं निश्चलं निधिम्।
चलस्वभावं त्यजति तथाजीवः प्रलीयते॥ 5.19 ॥
परमात्मनि वैकुण्ठे समाधिस्थस्य योगिनः।
- परतत्वाभिलाषोपायः *
अचिरात्परमे तत्त्वे ह्यभिलाषः प्रवर्तते॥ 5.20 ॥
तमुपायं प्रवक्ष्यामि श्रूयतां कमलासन।
द्वादशाक्षरमभ्यस्य परमात्मधिया हरिम्॥ 5.21 ॥
9 असूर्यभूमौ लिखीते चक्रपद्मे सुलक्षणे।
तस्योपरि सुविस्तीर्णे समासीनः कुशासने॥ 5.22 ॥
बध्वा 10 पद्मासनं योगी सिते पक्षे तथोत्तरे।
अयने 11 श्वसनं पूर्वं धारयित्वा यथापुरम्॥ 5.23 ॥
देहमध्यस्थितं वह्निं दीपयित्वा समुज्ज्वलम्।
हृत्पुण्डरीक मध्यस्थं स्मरन्ब्रह्म सनातनम्॥ 5.24 ॥
विद्यत्सहस्र सङ्काशं युगान्तानलसन्निभम्।
तन्मयं च स्वचैतन्यं कृत्वा तद्वह्निरश्मिभिः॥ 5.25 ॥
भूतदेहं दहेत्कृत्स्नं दग्ध्वा मन्त्र स्वरूपधृक्।
मुक्ताण्ड इव पक्षीश आसीनं चन्तयेच्छनैः॥ 5.26 ॥
शनैः परिणतां मन्त्रतनुं तेजोमयीं सदा।
चिन्मयीं सर्वगां शब्दस्वरूपां भावयन्नपि॥ 5.27 ॥
शनैश्शनै रस्थिरां च विनिवार्य तत स्स्वयम्।
- ब्रह्मसम्पन्नस्य अपुवरावृत्तिः *
ब्रह्म सम्पद्यते योगी न भूयस्संसरे दिह॥ 5.28 ॥
- उक्तार्धनिगमनं अधिकारि फलादिनिरूपणम्*
इत्येवं योगसरोऽयं कथितः कमलासन।
नित्यं क्रिया तत्पराणां संसारचकितात्मनाम्॥ 5. 29 ॥
मद्भक्तानां दीक्षितानां वाच्योऽयमुपसीदताम्॥
इदं 12 भवहरं पुण्यं योगं सर्वार्थसिद्धिदम्॥ 5.30 ॥
यो धीते गुर्वनुज्ञातस्सयाति परमां गतिम्॥
इति श्री पाञ्चरात्रे महूपनिषदि पाद्मसंहितायां
योगपदे योगलक्षणं नाम
पञ्चमोऽध्यायः
योगपादस्समाप्तः.