पाद्मसंहितायाम्

चतुर्थोऽध्यायः

  • अरिष्ठनिरूपणम्*

ब्रह्माः—-

भगवन् कान्यरिष्टानि 1 कथं तैर्जीवितक्षयः।
सूच्यते संशयस्यास्य छेदने कारणं भवान्॥ 4.1 ॥

  • अरिष्टप्रकाराः *

श्रीभगवान्—-

पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य नश्यति।
तस्यसंवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत्॥ 4.2 ॥

मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति।
2 षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत्॥ 4.3 ॥

कूर्परेस्फुरणं यस्य तस्य त्रैमासिकी स्थितिः।
कक्षे मेहनपाश्वे च स्फुरणाद्युपलम्भने॥ 4.4 ॥

मानावधिर्जीवितस्य तदर्धं स्वेददर्शने।
अश्रुते जाठरे घोषे दिनानि दश जीवितम्॥ 4.5 ॥

ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम्।
जिह्वाया दर्शने त्रीणि दिनानि स्थितिरात्मनः॥ 4.6 ॥

3 नासाग्रा दर्शने मृत्युः द्विदिने नैव संशयः।

  • अरिष्टज्ञानानन्तरकर्तव्यानि *

एवमादीन्यरिष्टानि दृष्ट्वायुः क्षयकारणम्॥ 4.7 ॥

निश्रेयसाय युञ्जीत जपध्यानपरायणः।

  • प्रत्याहारप्रकारद्वयम् *

मनसा त्मन्यनुष्ठानं यदिदं नित्यकर्मणाम्॥ 4.8 ॥

प्रत्याहारस्सविज्ञेयो योगाङ्गत्वेन सेवितः।
यद्वाष्टादशभेदेषु मर्मस्थानेषु धारणम्॥ 4.9 ॥

स्थानात् स्थानं समाकृष्य सा प्रत्याहृति रिष्यते।

  • अष्टादशमर्मस्थानानि.*

पादाङ्गुष्ठं तथागुल्फं जङ्घामध्यं तथैव च॥ 4.10 ॥

मध्यमूर्वोश्च मूलं च पायुः हृदयमेवच।
मेहनं देहमध्यं च नाभिं च गलकूबरम्॥ 4.11 ॥

तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्‍डलम्।
4 भ्रुवोर्मध्यं ललाटं च मूर्धाचापि ततः परम्॥ 4.12 ॥

मूलं च कर्मयोर्मूलं मर्मूण्येतानि पद्मज।

  • धारणालक्षणम्*

पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु॥ 4.13 ॥

मनसो धारणं यत्तद्युक्तस्य च यनूदिभिः।
धारणा सा च संसारसागरोतार कारणम्॥ 4.14 ॥

  • शरीरेवञ्चभूतस्थानविभागः *

आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते।
पित्तला चतुरश्रा च वसुधा वज्रलाञ्चिता॥ 4.15 ॥

स्मर्तव्या पञ्चघटिका स्तत्रारोप्य प्रभञ्जनम्।
तस्योपर्यूरुमूलान्तं वारिस्थानं चतुर्मुख॥ 4.16 ॥

अर्धचन्द्रसमाकारं श्वेतमम्बुजलाञ्चितम्।
स्मर्तव्यमङ्गे श्वसनमारोप्य दश नाडिकाः॥ 4.17 ॥

आनाभिदेहमध्यान्त मग्निस्थानमुदाहृतम्।
तत्र सिन्धूरवर्णोऽग्नि 5 स्त्य्रश्राङ्को दश पञ्च च॥ 4.18 ॥

स्मर्तव्यो नाडिकाः प्राणं कृत्वाकुम्भै कधारितम्।
ना भेरुपरि नासान्तं वायुस्थानं तु तत्रवै॥ 4.19 ॥

वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः।
स्मर्तव्यः कुम्भके नैव प्राणमारोप्य मारुतः॥ 4.20 ॥

घटिका विंशतिस्तस्माद्घ्राणाद्ब्रह्मबिलावधि।
व्योमस्थानं नभन्तत्र भिन्नाञ्ञनसमप्रभम्॥ 4.21 ॥

ध्यायोन्मारुतमारोप्य कुम्भकेनैन यत्नवान्।
विश्वम्भरांशे 6 देहस्य चतुर्बाहुमलङ्कृतम्॥ 4.22 ॥

अनिरुद्धं हरिं योगी यजेत भवमुक्तये।
अबंशे पूरयेद्योगी नारायणमुदग्रधीः॥ 4.23 ॥

प्रद्युम्नमग्नौ वाय्वंशे सङ्कर्षणमतः परम्।
व्योमां शे परमात्मानं वासुदेवं समर्चयेत्॥ 4.24 ॥

अचिरादेवतत्प्राप्ति र्युञ्जानस्य न संशयः॥

इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

योगपादे पञ्चभूतस्थावनिर्ण योनाम

चतुर्थोऽध्यायः।


  1. कथ्यानै जीवितक्षये. ↩︎

  2. षण्मासाभ्यन्तरे तस्य जीवतस्य भवेत्. ↩︎

  3. ज्वालाग्रा. ↩︎

  4. भ्रुवोर्मध्यं ललाटस्य मूलमूर्ध्वं च जानुनोः। इति श्वचित्। ↩︎

  5. र्ज्यलन्‌सन्‌दश. ↩︎

  6. देवेशम्. ↩︎