पाद्मसंहितायाम्
चतुर्थोऽध्यायः
- अरिष्ठनिरूपणम्*
ब्रह्माः—-
भगवन् कान्यरिष्टानि 1 कथं तैर्जीवितक्षयः।
सूच्यते संशयस्यास्य छेदने कारणं भवान्॥ 4.1 ॥
- अरिष्टप्रकाराः *
श्रीभगवान्—-
पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य नश्यति।
तस्यसंवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत्॥ 4.2 ॥
मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति।
2 षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत्॥ 4.3 ॥
कूर्परेस्फुरणं यस्य तस्य त्रैमासिकी स्थितिः।
कक्षे मेहनपाश्वे च स्फुरणाद्युपलम्भने॥ 4.4 ॥
मानावधिर्जीवितस्य तदर्धं स्वेददर्शने।
अश्रुते जाठरे घोषे दिनानि दश जीवितम्॥ 4.5 ॥
ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम्।
जिह्वाया दर्शने त्रीणि दिनानि स्थितिरात्मनः॥ 4.6 ॥
3 नासाग्रा दर्शने मृत्युः द्विदिने नैव संशयः।
- अरिष्टज्ञानानन्तरकर्तव्यानि *
एवमादीन्यरिष्टानि दृष्ट्वायुः क्षयकारणम्॥ 4.7 ॥
निश्रेयसाय युञ्जीत जपध्यानपरायणः।
- प्रत्याहारप्रकारद्वयम् *
मनसा त्मन्यनुष्ठानं यदिदं नित्यकर्मणाम्॥ 4.8 ॥
प्रत्याहारस्सविज्ञेयो योगाङ्गत्वेन सेवितः।
यद्वाष्टादशभेदेषु मर्मस्थानेषु धारणम्॥ 4.9 ॥
स्थानात् स्थानं समाकृष्य सा प्रत्याहृति रिष्यते।
- अष्टादशमर्मस्थानानि.*
पादाङ्गुष्ठं तथागुल्फं जङ्घामध्यं तथैव च॥ 4.10 ॥
मध्यमूर्वोश्च मूलं च पायुः हृदयमेवच।
मेहनं देहमध्यं च नाभिं च गलकूबरम्॥ 4.11 ॥
तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम्।
4 भ्रुवोर्मध्यं ललाटं च मूर्धाचापि ततः परम्॥ 4.12 ॥
मूलं च कर्मयोर्मूलं मर्मूण्येतानि पद्मज।
- धारणालक्षणम्*
पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु॥ 4.13 ॥
मनसो धारणं यत्तद्युक्तस्य च यनूदिभिः।
धारणा सा च संसारसागरोतार कारणम्॥ 4.14 ॥
- शरीरेवञ्चभूतस्थानविभागः *
आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते।
पित्तला चतुरश्रा च वसुधा वज्रलाञ्चिता॥ 4.15 ॥
स्मर्तव्या पञ्चघटिका स्तत्रारोप्य प्रभञ्जनम्।
तस्योपर्यूरुमूलान्तं वारिस्थानं चतुर्मुख॥ 4.16 ॥
अर्धचन्द्रसमाकारं श्वेतमम्बुजलाञ्चितम्।
स्मर्तव्यमङ्गे श्वसनमारोप्य दश नाडिकाः॥ 4.17 ॥
आनाभिदेहमध्यान्त मग्निस्थानमुदाहृतम्।
तत्र सिन्धूरवर्णोऽग्नि 5 स्त्य्रश्राङ्को दश पञ्च च॥ 4.18 ॥
स्मर्तव्यो नाडिकाः प्राणं कृत्वाकुम्भै कधारितम्।
ना भेरुपरि नासान्तं वायुस्थानं तु तत्रवै॥ 4.19 ॥
वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः।
स्मर्तव्यः कुम्भके नैव प्राणमारोप्य मारुतः॥ 4.20 ॥
घटिका विंशतिस्तस्माद्घ्राणाद्ब्रह्मबिलावधि।
व्योमस्थानं नभन्तत्र भिन्नाञ्ञनसमप्रभम्॥ 4.21 ॥
ध्यायोन्मारुतमारोप्य कुम्भकेनैन यत्नवान्।
विश्वम्भरांशे 6 देहस्य चतुर्बाहुमलङ्कृतम्॥ 4.22 ॥
अनिरुद्धं हरिं योगी यजेत भवमुक्तये।
अबंशे पूरयेद्योगी नारायणमुदग्रधीः॥ 4.23 ॥
प्रद्युम्नमग्नौ वाय्वंशे सङ्कर्षणमतः परम्।
व्योमां शे परमात्मानं वासुदेवं समर्चयेत्॥ 4.24 ॥
अचिरादेवतत्प्राप्ति र्युञ्जानस्य न संशयः॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
योगपादे पञ्चभूतस्थावनिर्ण योनाम
चतुर्थोऽध्यायः।