पाद्मसंहितायाम्.
तृतीयोऽध्यायः
प्राणायामविधिः
श्रीभगवान्—-
त्रैवर्णिक स्स्ववर्णोक्तै राश्रमानुगुणै स्तथा।
आचारै राचरन्युक्तै र्वासुदेवार्चने रतः॥ 3.1 ॥
विविक्तं देशमासाद्य सर्वसम्बाधवर्जितम्।
योगाङ्गद्रव्यसम्पूर्णं तत्र दारुमये शुभे॥ 3.2 ॥
आसने कल्पिते दर्भवासः कृष्णाजिनादिभिः।
तालमात्रसमुत्सेधे तालद्वयसमायुते॥ 3.3 ॥
उपविश्यासने वश्ये स्वस्तिकादि यथारुचि।
बध्वा प्रागाननस्सम्यक् ऋजुकायस्समाहितः॥ 3.4 ॥
नासाग्रव्यस्तनयनो दन्तैर्दन्तानसंस्पृशन्।
रसनां तालुनि व्यस्य श्लथबाहुद्वयान्वितः॥ 3.5 ॥
आकुञ्चतशिराः रिञ्चित् निबध्नन् योगमुद्रया।
हस्तौ यधोक्त विधिना प्राणायामं समाचरेत्॥ 3.6 ॥
- प्राणायाम लक्षणम् *
रेचनं पूरणं वायोः रोधनं रेचनं तथा।
1 चतुर्भिः क्लेशनं वायोः प्राणायाम उदीरितः॥ 3.7 ॥
हस्तेन दक्षिणेनै व पीडयन्नासिकापुटम्।
इडयापूर येदन्तर्वा युमात्मनि कुम्भयेत्।
शनैश्शनै रथ बहिः क्षिपेत्पिङ्गलयानिलम्॥ 3.8 ॥
द्वात्रिंशन्मात्रयटा कुक्षौ पूरयेदिडयानिलम्।
भूयष्षोडशमात्राभिश्चतुष्षष्ठ्यातु मात्रया॥ 3.9 ॥
सम्पूर्णकुम्भवद्धेहं 2 पूरयेन्मातरिश्वना।
पूरणान्नाडयस्सर्वाः पूर्यन्ते मातरिश्वना॥ 3.10 ॥
- प्राणायामफलम् *
एवं कृतेसति ब्रह्मन् चरन्तिदश वायवः।
हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम्॥ 3.11 ॥
पूरणेन तथा कुम्भी करणा 3 दुन्मुखं स्थितम्।
गलकूपविरूढं तु तदधोमुखमम्भुजम्॥ 3.12 ॥
नालं 4 तालनिभं तस्य दलाष्टकसमन्वितम्।
कदली पुष्पसङ्काशं चन्द्रकान्तसमप्रभम्॥ 3.13 ॥
सन्ध्ययोर्मध्यरात्रे च प्राणायामांस्तु षोडश।
एकाहमात्रं कुर्वाणस्सर्वपापैः प्रमुच्यते॥ 3.14 ॥
किमन्यैर्भहुभिः प्रोक्तैः प्राणायामपरायणाः।
निर्धूतसर्वपाप्मानो वत्सरत्रयपूरणे॥ 3.15 ॥
पश्यन्ति मामपि ब्रह्मन् हृदयाम्भोरुहेस्थितम्।
संवत्सरत्रयादूध्वं प्राणायामपरो नरः॥ 3.16 ॥
योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः।
अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत्॥ 3.17 ॥
अपमुत्युमतिक्रम्य दीर्घमायुरवाप्नु यात्।
प्रस्वेदजननं यस्य प्राणायामेषु सोऽधमः॥ 3.18 ॥
कम्पनं वपुषो यस्य प्राणायामेषु मध्यमः।
उत्थानं वपुषो यस्य स उत्तम उदाहृतः॥ 3.19 ॥
अधमे व्याधिपापानां नाशस्स्यान्मध्यमे पुनः।
पापरोगमहाव्याधि नाशस्स्यादुत्तमे पुनः॥ 3.20 ॥
अल्पमूत्रो ल्पविष्ठश्च लघुदेहो मिताशनः।
5 वश्येन्द्रियः पटुमतिः कालत्रयविदात्मवान्॥ 3.21 ॥
रेचकं पूरकं मुक्त्वा कुम्भीकरणमेवयः।
करोति त्रिषुलोकेषु नैव तस्यास्तिदुर्लभम्॥ 3.22 ॥
नाभकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान्।
धारयन्मनसा प्राणान् सन्ध्याकालेषु सर्वदा॥ 3.23 ॥
सर्वरोगविनिर्मुक्तो 6 भवेद्योगी गतक्लमः।
कुक्षिरोगविनाशस्स्यात् नाभिकन्देषु धारणात्॥ 3.24 ॥
नासाग्रे धाणाद्धीर्षु 7 मायुष्यं देहलाघपम्।
पादाङ्गष्ठे भवेद्धृत्या वायोः कमलसम्भव॥ 3.25 ॥
वायुमाकृष्य जिह्वाग्रे पिबन्नश्रमदाहाभाक्।
ब्राह्मे मुहोर्ते सम्प्राप्तेवायुमाकृष्यजिह्वया॥ 3.26 ॥
पिबत स्त्रिषुमानेषु वाक्सिस्धिर्महतीभवेत्।
आभ्यस्यतश्चषण्मासा न्महारोगविनाशनम्॥ 3.27 ॥
यत्र यत्र धृतो वामुरङ्गे रोगादिदूषिते।
धारणादेव मरुतस्तत्तदारोग्यमश्रुते॥ 3.28 ॥
मनसो धारणादेव श्वसनो धारितो भवेत्।
- मनसस्थैर्य निरूपणम् *
मनस्थ्सापना हेतुरुच्यते कमलासन॥ 3.29 ॥
करणानि समाहृत्य विषयेभ्यस्समाहितः।
8 अपानमूर्ध्वमाकृष्य वस्तेरुपरि धारयेत्॥ 3.30 ॥
बध्नन्कराभ्यां श्रोत्राति करणानि यथातथम्।
युञ्ञानस्य यधोक्तेन वर्त्मना स्ववशं मनः॥ 3.31 ॥
- वायुजयः *
मनस्पृष्टस्सवै वायुस्स्वव शेस्थाप्यते सदा।
नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते॥ 3.32 ॥
तिस्रश्च नाडिकाः प्राणस्तावत्यश्च 9 चरत्ययम्।
10 शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम्॥ 3.33 ॥
तावन्तश्च पुनः कालं सौम्ये चरति सन्ततम्।
इत्थं क्रमेण चरता वायुना वायुजिन्नरः॥ 3.34 ॥
अहश्च रात्रिं पक्षं च मासऋत्वयनादिकम्।
अन्तर्मुखो विजानीयात्कालभेदनं समाहितः॥ 3.35 ॥
अङ्गुष्ठादिस्वावयवस्फुरणादर्शनैरपि।
अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः॥ 3.36 ॥
ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
योगपादे पञ्चभूतस्थान निर्णयोनाम
तृतीयोऽध्यायः।