पाद्मसंहितायाम्.
द्वितीयोऽध्यायः
नाडीशुद्धिः
श्रीभगवान्——
यमैश्च नियमैश्चैव योगाङ्गैरासनै रपि।
सुसंयतो नाडीशुद्धौ प्राणायामो विधीयते॥ 2.1 ॥
देहमानं स्वाङ्गुलीभिष्षण्णवत्यङ्गुलायतम्।
प्राणश्शरीरादधिको द्वादशाङ्गुलमानतः॥ 2.2 ॥
देहस्थमनिलं देहसमुद्भू तेन वह्निना।
न्यूनं समं वा योगेन कुर्वन्प्रह्मविदिष्यते॥ 2.3 ॥
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम्।
त्रिकोणं द्विपदामन्यच्चतुरश्रं चतुष्पदाम्॥ 2.4 ॥
वृत्तं विहङ्गमानां तु षडश्रं जलजन्मनाम्।
अष्टाश्रं स्वेदजानां तु तस्मिन् दीपवदुज्ज्वलः॥ 2.5 ॥
वै श्वानरोऽग्निः पचति प्राणापानसमा 1 युतः।
चतुष्प्रकारमशनं देहमध्येऽभधीयते॥ 2.6 ॥
अपानाद्वङ्गुलादूर्ध्वमधो मेढ्रस्य वामतः।
देहमध्यं मनुष्याणां 2 मेढ्रमध्यं चतुष्पदाम्॥ 2.7 ॥
इतरेषां तुन्दमध्यं सर्वेषामेव पद्म ज।
कन्दस्धानं मनुष्याणां देहमध्ये नवाङ्गुलम्॥ 2.8 ॥
चतुरङ्गलमुत्सेधं चतुरङ्गुल मायतम्।
अण्डाकृति स्तिरश्चां च द्विपदां च चतुष्पदाम्॥ 2.9 ॥
तुन्धमध्यं तदिष्टं वै तन्मध्यं नाभिरिष्यते।
तत्र चक्रं द्वादशारं आहूर्मासा नराणि तु॥ 2.10 ॥
विष्ण्वादि मूर्तयसैषु द्वादश द्वादशस्वपि।
आहं तत्र स्थितं चक्रं भ्रामयामि स्वमायया॥ 2.11 ॥
अरेषु भ्रमते जीवः क्रमेण कमलासन।
तन्तुपञ्ञरमध्यप्था यथा भ्रमति लूतिका॥ 2.12 ॥
प्राणारूढश्चरति च जीवस्तेन विना न हि।
3 तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः॥ 2.13 ॥
अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता।
यथावद्वायुचारं च ज्वलनादि च नित्यशः॥ 2.14 ॥
परितः कन्दपाश्वेतु निरुध्यैव सदा स्थिता।
मुखेनै व समावेष्ट्य ब्रह्मरन्ध्रमुखं तदा॥ 2.15 ॥
योगकाले च मरुता नाग्निना चोदिता सती।
स्फुरिता हृदयाकाशे नागरूपा महोज्वला॥ 2.16 ॥
वायुर्वा युमुखेनैव ततो याति सुषुम्नया।
कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता॥ 2.17 ॥
पद्मसूत्रप्रतीकाशा ऋजुरूध्व प्रवर्तिनी।
ब्रह्मणो विवरं यावद्विद्युदाभा सनालिका॥ 2.18 ॥
वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्ति पद्थतिः।
इडा च पिङ्गलाचैव तस्यास्सव्येतरेस्थिते॥ 2.19 ॥
इडा समुत्थिता कन्दाद्वामनासापुटावधि।
पिङ्गला चोत्थिता तस्मादन्यनासा पुटावधि॥ 2.20 ॥
गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते।
पुरतः वृष्ठत स्तस्या वामेतरदृशौ प्रति॥ 2.21 ॥
पूशा यशस्विनी नाड्यौ तस्मादेव समुत्थिते।
सर्वेतरश्रुत्यवधि पायुमूलात्त्वलम्बुसा॥ 2.22 ॥
4 अधोमुखा कुहूनाडी मेढ्रान्तावधिरायता।
पादाङ्गुष्ठावधिः कन्था 5 द्यथा याता च केशिनी॥ 2.23 ॥
दशप्रधानभूतान्ताः कथिताः कन्दसम्भवाः।
तन्मूला बहवो नाड्यः स्थूलास्सूक्ष्मास्तु नाडिकाः॥ 2.24 ॥
द्विसप्ततिसहस्राणि स्थूलास्सूक्ष्मास्तु पद्मज।
सङ्ख्यातुं वैव शक्यनै स्थूलमूलाः वृथग्विधाः॥ 2.25 ॥
यथाश्वत्धदले सूक्ष्माः स्थूलश्च वितता स्तथा।
प्राणोऽपानन्समानश्च उदानो व्यास एव च॥ 2.26 ॥
नागः कूर्वश्च कृकरो देवदत्तो धनञ्जयः।
चरन्ति दश नाडीषु दश प्राणादि वायवः॥ 2.27 ॥
प्राणादिपञ्चकं तेषु प्रधानां तत्र च द्वयम्।
प्राण एवाथवा श्रेष्ठो जीवात्मानं भिभर्तियः॥ 2.28 ॥
आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम्।
पादाङ्गुष्ठमिति प्राणस्थानानि कमलासन॥ 2.29 ॥
अपानश्चरति ब्रह्मन् गुदमेढ्रोरुजानुषु।
समानस्सर्वगा त्रेषु सर्वव्यापी व्यवस्थितः॥ 2.30 ॥
उदानस्सर्वसन्धिस्थः पादयोर्हस्तयोरपि।
व्यानश्श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च॥ 2.31 ॥
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः।
तुन्दस्थं जलमन्नं च 6 रसनाग्नि समिकृता॥ 2.32 ॥
तुन्दमध्यगतः प्राणान्तानि कुर्यात्पृथक्पृथक्।
इत्यादिचेष्टया प्राणः करोति वपुषि स्थितिम्॥ 2.33 ॥
अपानवायुर्मूत्रादेः करोति च वसर्जनम्।
प्राणापानादि चेष्टदि क्रियते व्यासवायुना॥ 2.34 ॥
7 उज्जीर्यते शरीरस्थमुदानेन नभस्वता।
पोषणादिशरीरस्य समानः कुरुते सदा॥ 2.35 ॥
उद्गारादिक्रिया नागः कूर्माक्ष्यादिनिमीलनम्।
कृकरस्तु क्षुतः कर्ता दत्तो निद्रादिकर्मकृत्॥ 2.36 ॥
मृतगात्रस्य शोभदि धनञ्जय उदाहृतः।
नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च॥ 2.37 ॥
चेष्टाश्च विविधा स्तेषां ज्ञात्वैवं कमलासन।
शुद्धौ यतेत नाडीनां वक्ष्यमाणेन वर्त्मना॥ 2.38 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहिता यां
योगपादे नाडीस्वरूपकथनं नाम
द्वितीयोध्यायः।