प्रथमोऽध्याये.

  • निश्रेयससाधनयोग निरूपणम्*

ब्रह्माः—

भगवन् योगयुक्तस्य निश्रेयसमुदीरितम्।
पुरुषस्य दयासिन्धो ज्ञानिनः पुरुषोत्तम॥ 1.1 ॥

स योगः कथ्यतां भूय श्श्रोतव्यं यदि मद्विधैः।
यदि नानुग्रहोस्मासु भजमानेषु विद्यते॥ 1.2 ॥

  • योगद्वैविध्यम् *

श्रीभगवान्—-

अव्याकुलस्य चित्तस्य 1 बन्धनं विषये क्वचित्।
यत्सयोगश्चतुर्वक्त्रस च द्वैविध्यमश्नुते॥ 1.3 ॥

  • विभक्तयोः प्रत्येकं लक्षणम्*

कर्म कर्तव्यमि त्येवं विहितेष्वेव कर्मसु।
बन्धनं मनसो नित्यं कर्मयोगस्स उच्यते॥ 1.4 ॥

यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम्।
ज्ञानयोगस्स विज्ञेय स्सर्वसिद्धिकरश्शुभः॥ 1.5 ॥

  • समुच्छितयोस्तयो र्मोक्षसाधनत्वम् *

यस्योक्तलक्षणे योगे 2 द्विविधेऽवस्थितं मनः।
स याति परमं श्रेयो मोक्षलक्षणमञ्जसा॥ 1.6 ॥

  • योगाङ्गनिरूपणम्*

यमादिरङ्गं पूर्वस्य वैराग्यादि परस्यतु।
अष्टौ यमादयो योगाः यमोऽहिंसादिलक्षणः॥ 1.7 ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम्।
क्षमाधृतिर्मिताहारो शौचं चेति यमा दश॥ 1.8 ॥

3 तपः प्रभृतिरूपस्तु नियमः कथ्यते पुनः।
तपश्च तुष्टिरास्तिक्यं दानमाराधनं हरेः॥ 1.9 ॥

सिद्धान्तश्रवणं ह्रीश्च जप इत्यादिलक्षणः।
आसनादीनि सर्वाणि स्वस्तिकादीनि सम्प्रति॥ 1.10 ॥

वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि।
पूर्वोत्तरे जानुनी द्वे कृत्वाऽऽसनमुदीरितम्॥ 1.11 ॥

सीवन्या दक्षीणे पार्श्वे सव्यं सव्ये तु दक्षिणम्।
गुल्फं कृत्याऽऽसनं तच्च स्वस्तिकं कथ्यते बुधैः॥ 1.12 ॥

आरोप्य चोर्वोश्चरणौ तदङ्गुष्ठद्वयं पुनः।
व्युत्क्रमेणैव हस्ताभ्यां गृह्णीयात्तत्त दासनम्॥ 1.13 ॥

बद्धपद्मासनं ज्ञेयमासनेषु सुपूजितम्।
एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः॥ 1.14 ॥

आस्ते यदिदमेनोघ्नं वीरासनमुदाहृतम्।
सिविनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु॥ 1.15 ॥

प्रसार्य जानुनोर्हस्तावासनं सिंहपूर्वकम्।
गुल्फौ च वृषणस्याधस्सीवन्युभयपार्श्वयोः॥ 1.16 ॥

निवेश्य पादौ हस्ताभ्यां दृढं बध्वा यदा सनम्।
भद्रासनं तद्विज्ञेयं सर्वपापप्रणाशनम्॥ 1.17 ॥

गुल्फं सव्येतरं सव्ये वृष्ठसार्श्वे विधाय च।
4 गुल्फं तथेतरं वृष्ठपार्श्वऽन्यस्मिन्निधाय च॥ 1.18 ॥

आसनं गोमुखं यद्वद्घोमुखासनमिष्यते।
सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेणतु॥ 1.19 ॥

निपीड्यासन मेतच्च मुक्तासन मुदाहृतम्।
मेढ्रस्यो परि निक्षिप्य सव्यं गुल्फं तथेतरम्॥ 1.20 ॥

निवेश्योपरि गुल्फस्य यद्वा मुक्तासनं भवेत्।
अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः॥ 1.21 ॥

कूर्परौ नाभिपार्श्वे च स्थापयित्वा मयूरवत्।
समुन्नम्य शिरः पादौ मयूरासनमिष्यते॥ 1.22 ॥

इति श्रिपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

योगपादे आसनभेदलक्षणं नाम

प्रथमोऽध्यायः


  1. सन्धानम् ↩︎

  2. विविधे च स्थितात्मनः मद्विधे च स्थितं मनः इति चपाठौ ↩︎

  3. ततः प्रभृतिरूर्ध्वन्तु. ↩︎

  4. नव्येतरे वृष्टपार्श्वे सव्यशुल्फन्तधैवच. ↩︎