पाद्मसंहितायाम्
द्वादशोऽध्यायः
- भुवरादिलोक स्वरूप निरूपणम् *
ब्रह्मा—-
विस्तारः कथितो भूमेः लोकास्सफ्तातलादिकाः।
नरकाणि तथोक्तानि सांप्रतं भगवन्मम॥ 12.1 ॥
भुवः प्रभृतिलोकानां रूरं मानं च कथ्यताम्।
श्रीभगवान्—
यावत्प्रमाणा वृथिवी विस्तीर्णा परिमण्डला॥ 12.2 ॥
तावद्भुवस्थ्सलं ब्रह्मन् विस्तीर्णं परिमण्डलम्।
- भूसूर्ययोरन्तरमानादि *
उपरिष्टात्क्षितेर्व्योम्नि लक्षयोजनसङ्ख्यया॥ 12.3 ॥
रविस्तिष्ठति 1 तिग्मैस्स्वैरंशुभिर्भासयन् जगत्।
रथमास्थाय भगवान् बहुयोजन 2 विस्तृतम्॥ 12.4 ॥
वामपार्श्वे रथस्यैकं चक्रं दिस्यं प्रतिष्ठितम्।
वहन्ति सप्तयस्सप्त छन्धांसि स्यन्दनं महत्॥ 12.5 ॥
सारथिश्चारुणस्शर्वानश्वान्वाहयति स्वयम्।
मानसोत्तर शैलस्य मूर्ध्नि स्यन्दनपद्धतिः॥ 12.6 ॥
3 विभाग हेतुरुषसामह्ना 4 मपि गतिक्रमात्।
5 योगिनां 6 परमः पन्थाः स्मृतः क्लेशपरिक्षये॥ 12.7 ॥
मोक्षमाणाः पथानेन यान्तिविष्णोः परं पदम्।
उदयान्तमयौ नैव 7 भानुस्सर्वत्र सम्मुखः॥ 12.8 ॥
दर्शनादर्शने भानो रुदया स्तमयौ मतौ॥
यैर्मत्र दृश्यते भानुस्स तेशामुदयस्स्मृतः॥
8 याति यत्र तिरोभावं तत्रास्तमयधीर्नृणाम्॥ 12.9 ॥
स्फीता भवन्ति पूर्वाह्णे रस्मयोऽर्कस्य सन्तताः।
ह्रस्वीभवन्ति पश्चात्तु यावत्तेषामदर्शनम्॥ 12.10 ॥
वर्जयित्वा पुरीं धातुस्सर्वतो मेरुभूधरे।
पतन्ति भानवो भानोस्तिर्य गूर्ध्वमधस्तथा॥ 12.11 ॥
सभां तु ब्रह्मणो गत्वा 9 प्रस्थितं पान्ति यो पुनः।
ब्रह्मणस्तेजसा तेन नान्यत्र स्खलनं क्वचित्॥ 12.12 ॥
- भुवलोकः *
भूसूर्ययोरन्तरालं भुवस्थ्सलमुदाहृतम्।
विद्याधराश्च गन्धर्वा स्सिद्धाश्च सह दानवैः॥ 12.13 ॥
वसन्ति मुदिता स्वेषु पुरेष्वेव पृथक्पृथक्।
- सूर्यध्रुवयोरन्तराले इतरग्रहनां स्थितिः *
लक्षे दिवाकरस्थानाश्छशिनः स्थानमीरितम्॥ 12.14 ॥
तस्योपरिष्टात्तष्ठन्ति नक्षत्राणि यथायथम्।
[^10] लक्षत्रयमतीत्योर्ध्वं बुधस्य स्थितिरुच्यते॥ 12.15 ॥
उशना तु स्थितो लक्षद्वयमु त्तीर्य तिष्ठति।
तद्योजनान्यतिक्रम्य भौमन्ति ष्ठति सर्वदा॥ 12.16 ॥
तावत्प्रमाणेऽवस्थानं गुरो स्तस्योपरि स्थितिः।
शनैश्चरस्तत्प्रमाणमतीत्योर्ध्वं रवेस्सुतः॥ 12.17 ॥
10 लक्षलक्ष क्रमादूर्ध्वं नक्षत्रं मुनयः परे।
परस्सहस्रं ऋषयस्सन्त्युपर्यूर्ध्व 11 गामिनः॥ 12.18 ॥
ततो ध्रुवस्थ्सितस्थ्साने दुरारोहे महर्षिभिः।
द्वादशारं महाचक्रं नेमी द्वे तस्य नाभयः॥ 12.19 ॥
(13.) तिस्रस्सन्ति न सन्त्यस्य मासपास्तेष्वरेषु ते।
मेषादयोप्यरेष्ववं 12 मीनान्ताद्वादश स्थिताः॥ 12.20 ॥
माना द्वादश चैत्राद्या वसन्तप्रमुखा स्तथा।
ऋतवष्षट्सङ्क्रमाश्च 13 विषुवद्वायनद्वयम्॥ 12.21 ॥
सितासितौ च पक्षौ द्वौ युगभेदाश्च वत्सराः।
त्रुट्यादयः कालभेदाश्चक्रधारासु विष्ठिताः॥ 12.22 ॥
ध्रुवः स्थितो ना भिमध्ये प्रादक्षिण्येन राशयः।
प्रसव्येन ग्रहास्सर्वे चरन्ति गतिरीदृशी॥ 12.23 ॥
कुलालचक्रमध्यस्थमृत्पिण्ड सदृशो ध्रुवः।
भ्रमन्ति परितस्सर्वे ध्रुवं ज्योतिर्गणास्सदा॥ 12.24 ॥
- सुवर्लोकः *
आदित्यध्रुवयोर्मध्ये देशस्य्वर्गसमाह्ययः।
वसन्ति तस्मिन् गीर्वाणा विमानेषु पृथक्पृथक्॥ 12.25 ॥
14 असङ्ख्याता नित्यतृप्ताः ज्योतिर्मयवपुर्धराः।
तेषां गङ्गाजलं सेव्यं पुष्पाणि सुरभूरुहाम्॥ 12.26 ॥
धनं च चिन्तामणयः स्त्रियश्चाप्सरसः स्मृताः।
15 सिद्धादयो वपन्तिस्मपुरेषु निरुपद्रवाः।
उतेन्द्र मूर्तिर्भगवा नासीवन्तत्र सर्वदा॥ 12.27 ॥
रक्षति स्वर्गनिलयन् देवादीन् स्वेन तेजसा।
भूर्भवस्स्वस्त्रयोलोकाः लक्षाः पञ्चदश स्मृताः॥ 12.28 ॥
ततः परं महर्लोकः कोतियोजनमायतः।
सनन्दनाद्या मुनयो वसन्ति दशकोटयः॥ 12.29 ॥
- जनोलोकादि निरूपणम्*
ततः परं जनोलोकः कोटिद्वयसमायतः।
अनन्तरं तपोलोकः स्थितः कोटिभिरष्टभिः॥ 12.30 ॥
16 योजनानां सत्यलोकः 17 पुनस्त्रिगुणमायतः।
कोटित्रययुतं तस्मादूर्ध्वं धातुः 18 पुरं स्थितम्॥ 12.31 ॥
तब्ब्रह्मलोकं मुनयः गृणन्ति कमलासन।
लक्षयोजनविस्तारं 19 सालप्रासादगोपुरम्॥ 12.32 ॥
- प्रकृतिमण्डलस्थ विष्णुलोकः *
उत्तरेण ब्रह्मलो काद्द्विष्णुलोकं विदुर्बुधाः।
अन्तरं लोकयोरुक्तं लक्षयोजनसंमितम्॥ 12.33 ॥
- शिवलोकः *
तावत्ये वा न्तरालेऽस्य दक्षिणस्यां दिशि स्थितः।
शिवलोकश्चतुर्वक्त्र तस्मिन्ना स्ते शिवस्स्वयम्॥ 12.34 ॥
- उर्ध्वक्रमेण भगवतः पञ्चलोकाः *
योजनानां 20 कोटि मूध्वन् मुल्लङ्घ्य पुरतः स्थितः।
सर्वात्वा भगवासूर्ध्वं तस्मात्कोटित्रयाय ते॥ 12.35 ॥
निवृत्यात्मा निवसति भगवानव्ययस्स्वयम्।
तावत्येव स्थितो माने विश्वात्मा विश्वकृद्धरिः॥ 12.36 ॥
पुरुषात्मा 21 पुरस्तात्तु चतुष्कोटि प्रमाणके।
स्थितः कोटीरतीत्योर्ध्वं 22 पञ्च पश्चादवस्थितः॥ 12.37 ॥
परमेष्ठि स भगवान् पश्चकं विष्णु 23 विष्टरम्।
अध्यास्ते भगवान्नित्यं शङ्खचक्र गदादरः॥ 12.38 ॥
पश्चशक्तिमयो विष्णुः कोटियोजनसंमिते।
आस्ते श्रीभूमिसहितो वैन तेयेन सेवितः॥ 12.39 ॥
- अण्डभित्तिः *
अण्डभित्तिरुपर्यस्य 24 स्थितो र्ध्वे कोटियोजने।
घनं च 25 तस्याः कोट्या तु संमितं कमलासन॥ 12.40 ॥
शुद्धं हिरण्ययं ज्ञेयमण्डं तद्विस्म यावहम्।
- अवरणसप्तकम्*
एतेनण्डकटाहेन लोकास्सर्वे समावृताः॥ 12.41 ॥
उपर्युपर्यमी लोकाः कपित्थफलवत् स्थिताः।
26 तद्दशो त्तरसङ्ख्ये वारिणा परिवेष्टितम्॥ 12.42 ॥
27 आवृत्याण्डं यथावारि स्थितं तद्यत्तदग्निना।
स वायुना तद्वदेव स व्योम्ना च समावृतः॥ 12.43 ॥
सर्वं दशोत्तरं विद्यात्तद्व्योम महतावृतम्।
28 महांश्च स प्रधानेन प्रधानं तमसावृतम्॥ 12.44 ॥
तदनन्तमपर्यन्तं 29 न सङ्ख्या तत्र विद्यते।
हेतुभूतम शेषस्य तमसः प्रकृतिः परा॥ 12.45 ॥
- अण्डानामसङ्ख्यातत्वम्*
अण्डानामीदृशां ब्रह्मन् सहस्राण्ययुतानि च।
बहुनापि किमु क्तेन सङ्ख्या वक्तुं न शक्यते॥ 12.46 ॥
- नारायणेनान्तर्बहिर्व्याप्तिः *
अण्डानि तानि सर्वणि व्याप्य नारायणः स्थितः।
अन्तश्च तेषां भगवान् सर्वव्यापी परः पुमान्॥ 12.47 ॥
बहिश्च साक्षिवत्सर्व मीक्षमाणोऽवतिष्ठते।
- चत्वारोव्यूहिलोकाः *
महतस्तमसो 30 भाह्ये लोका स्सुबहुयोजनाः॥ 12.48 ॥
चत्वारः क्रमशस्सन्ति चतुर्भिस्समधिष्ठिताः।
व्यूहैः क्रमेण वक्ष्ये ताननिरुद्धः परः स्मृतः॥ 12.49 ॥
प्रद्युम्नोऽन न्तरं तेषां सङ्कर्षण समाह्वयः।
वासुदेवस्ततः पश्चाद्व्यूहाख्यः कमलासन॥ 12.50 ॥
31 विभवाख्यो वासुदेवस्तदनन्तरमीरितः।
अनादिर्वासुदेवश्च तयोर्लोका वनुक्रमात्॥ 12.51 ॥
32 ततो नारायणस्यापि लोकस्तन्निकटे स्थितः।
एकैकस्यान्तरं कोटिर्योहनानामुदीरिता॥ 12.52 ॥
तावानेव च विस्तारसैषामति मनोहरः।
- वैकुण्ठलोकः *
तेभ्यो बहिस्थ्सितो लोको यत्रास्ते भगवानजः॥ 12.53 ॥
अनादिर्वासुदेशाख्यश्शोभिते मणिमण्टपे।
शेषभोगासने दिव्ये 33 श्रीभूभ्यां सममास्थितः॥ 12.54 ॥
व्याप्त्यादिभिस्तथाष्टाभिश्शक्तिभिः परिवारितः।
वालव्यजनहस्ताभि स्त्येव्यमानाभिरन्तिके॥ 12.55 ॥
सेनेशाद्यैः पारिषदैश्च क्राद्यैरायुधैरपि।
प्रणमद्भिस्सेव्यमानस्सामीप्यादिपदस्थितैः॥ 12.56 ॥
मुक्तैश्च पञ्चकालज्ञैस्तिद्धैः किङ्करतां गतैः।
उपास्यमानस्सततं द्वादशाक्षरचिन्तकैः॥ 12.57 ॥
अष्टाङ्गयोगसंसिद्धैर्बहुभिर्भगवन्मयैः।
पञ्चरात्रार्धतत्वज्ञैर्नित्यतृप्तैस्तमीपगैः॥ 12.58 ॥
यथार्हं भगवच्छेषकर्मनिष्ठेर्महात्मभिः।
दिगेषा कथिता ब्रह्मन् धन्यानां तत्र तिष्ठताम्॥ 12.59 ॥
अन्तर्गतानां लोकाना मण्डेषु बहिरप्यथ।
विस्तारः 34 कथ्यते नैव दुर्ग्रहत्वाद्भवादृशैः॥ 12.60 ॥
- पदार्थनिगमनम्.*
सारमात्रं समुद्धृत्य सर्पतस्समुदाहृतम्।
- ब्रष्मणाकृतज्ञताप्रकाशनम् *
ब्रह्माः—-
ज्ञानं 35 भगवतः किञ्चिदज्ञानं ये न हव्यते॥ 12.61 ॥
नष्टमज्ञान तिमिरं ज्ञानं तद्धर्शितं महत्।
सर्वे च संशया नष्ठाः प्रसादा 36 द्भगवन्मम॥ 12.62 ॥
- यथोक्तज्ञानस्य संप्रतायशुद्धिः *
पद्मः—-
इति गुह्यतमं ज्ञानं भगवान् ब्रह्मणे ददौ।
ब्रह्मापि तद्यथातत्वं कपिलायावतारयत्॥ 12.63 ॥
कपिलोपि महर्षिस्तत् ज्ञानं मम यधातथम्।
ददौ तुभ्यं तदत्येनं पारंपर्यक्रमागतम्॥ 12.64 ॥
37 सिद्धान्तज्ञानमुत्कृष्टं त्वय्यनुग्रहकाम्यया।
भगवन्मयमाख्यातं रहस्यतरमद्भुतम्॥ 12.65 ॥
भगवन्मयमाख्यातं रहस्यतरमद्भुतम्।
- भगज्ज्ञानस्य अपात्रे अनाख्येयत्वम् *
नैतद्गुह्यतरं ज्ञानमाख्येयमतिमानिने।
नाभक्ताय न हीनाय न चाशुश्रूषवे पुनः॥ 12.66 ॥
नादीक्षिताय दातव्यं न कृतघ्नाय पापिने।
स नास्तिकाय चाख्येयं न च पाषण्डिने तथा॥ 12.67 ॥
न हीनवर्णिने नैव पिशुनाय दुरात्मने।
नैव चानुप 38 नीताय न बाह्या गमसङ्गिने॥ 12.68 ॥
न चाप्यसूयवे चापि त्यक्ताचाराय पर्हिचित्।
- योग्रपत्र निरूपणम् *
वक्तव्यं च विनीताय शुद्धाय ब्रह्मचारिणे॥ 12.69 ॥
शुश्रूषवे प्रसन्नाय 39 व्रतिने वशिने तथा।
आश्रमस्थाय संसारविमुखाय मुमुक्षवे॥ 12.70 ॥
जिज्ञासमानाय तथा पाञ्चरात्रो 40 दितां क्रियाम्।
सुशीलाय कृतज्ञाय ऋजवे ऋजुबुद्धये॥ 12.71 ॥
छन्दांस्यधीतिने साङ्गं कुलीनाय तपस्विने।
त्रैवर्णिकाय संवर्त महर्षे संहितामिमाम्॥ 12.72 ॥
नाध्यापयेन्नोपदिशेन्नविद्यामरये वदेत्।
- उक्तानुवाद पूर् ???
-
मेरुं स्वैः इति क्वचित् अन्यत्र `खेस्त्वेरम्’ इति. ↩︎
-
सम्मितम् ↩︎
-
प्राग्भागेहेतुपुरुषसामान्य वगति क्रमात्. ↩︎
-
मतिगतिः ↩︎
-
इदमर्धं क्वचिन्नास्ति. ↩︎
-
चरमः ↩︎
-
भानोः ↩︎
-
यदायत्र दिरोभावस्तत्रा. ↩︎
-
प्रतिपद्यन्ति ते. ↩︎
-
लक्षद्वयात्क्रमादूर्ध्वं ↩︎
-
रेतसः॥ ततोर्ध्वमास्थितंस्थाने. ↩︎
-
राशयो. ↩︎
-
विषुवाह्यमनद्वयम्. ↩︎
-
असङ्ख्यानित्यतृप्तासै. ↩︎
-
भूसूर्ययोरन्तरालं भुवस्थ्सलमितिस्मृतम्. इदमर्धं अत्र प्रमादपतितं क्वचित्को शे. ↩︎
-
योजनानामित्यर्धक्वचिन्नास्ति. ↩︎
-
पुनस्तद्ध्विगुणायतः ↩︎
-
पुरस्थितः योजनानां कोटिः पुनस्तद्ध्वगुणायतिः इत्यर्द्धं. क्वचिदधिकं दृश्यते. ↩︎
-
सालप्राकारसंकुलम्. ↩︎
-
कोटिरूर्ध्वे उल्लंघ्ये पुरतस्थ्सिते। ↩︎
-
परस्मात्तु. ↩︎
-
पञ्च पञ्च दस्थितः ↩︎
-
विष्टपं ↩︎
-
स्थितार्धा. ↩︎
-
तस्यां कोटिस्तु. ↩︎
-
तद्धेशान्तरसंख्येन. ↩︎
-
अवृत्य तद्यथावारि वह्निना परिसङ्खया. ↩︎
-
मया सर्वप्रधानेव. एवं निरूपणस्य सङ्गतिश्विन्त्या. ↩︎
-
सङ्ख्या तत्र न विद्यते ↩︎
-
भह्यो योगः ↩︎
-
प्यूहाख्यो वसुदेवस्तु. ↩︎
-
स्मृत्यो श्रिमहीभ्यां सह स्थितः ↩︎
-
भवति यत्किञ्चित् ↩︎
-
कथितो. ↩︎
-
भवति यत्किञ्चित् ↩︎
-
द्भतो मम. ↩︎
-
संवर्तज्ञरान. ↩︎
-
सन्नाय. ↩︎
-
यतये. ↩︎
-
दितिक्रमाम्. ↩︎