१०

पाद्मसंहितायाम्.

दशमोऽद्यायः

  • भारतवर्षवर्णनम् *

श्रीभगवान्——

आदाक्षिणात्यादम्भोधेराशै लाच्च हिमालयात्।
देशोऽयं भारतं वर्षं भूरेषा कर्मणां नृणाम्॥ 10.1 ॥

1 योजनानि सहस्राणि 2 विस्तारश्चैव कथ्यते।
स्वर्गापवर्ग फलदं कर्म कार्यं नृणामिह॥ 10.2 ॥

सह्यो महेन्द्रो मलयश्शुक्तिमानृक्षनामवान्।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥ 10.3 ॥

इहैव क्रियमाणस्य कर्मणो नरकं फलम्।
वर्शेष्वन्येषु सर्वेषु केवलं भुज्यते फलम्॥ 10.4 ॥

इहैव चातुराश्रम्यं चातुर्वर्ण्य 3 मवस्थितम्।
कृतादियुगभेदानां चतुर्णामिह सम्भवः।
दानां यज्ञं तपो मर्त्याः परलोक फलार्थिनः।
इह कुर्वन्ति यज्ञेशं यजन्ते पुरुषोत्तमम्॥ 10.5 ॥

श्रेष्ठं तद्भारतं वर्षं सर्ववर्षेऽषु सम्मतम्।
फलार्थिनः कामयन्ते कर्मभूषु जनिं भुधाः॥ 10.6 ॥

सहस्ताणि तथै वास्मिन् दिव्यानि पुरुषः परः।
आस्ते धामानि सद्यश्च पुण्यास्सन्ति सहस्रशः॥ 10.7 ॥

ग्रामाः पुरः पत्तनानि भवन्ति च परश्शतम्।
द्वीपेषु षट्सु चान्येषु सन्ति वर्षाणि सप्त वै॥ 10.8 ॥

प्रत्येकं सप्त च ब्रह्मन् भवन्ति कुलपर्वताः।
वर्णानामाश्रमाणां च भेदास्तत्र व्यवस्थिताः॥ 10.9 ॥

  • पुष्करद्वीपवर्णनम् *

अन्तिमे पुष्करद्वीपे मानसोत्तरपर्वतः।
मध्ये वलयवद्भाति तस्योच्छ्रायो भिधीयते॥ 10.10 ॥

योजनानां सहस्त्राणि पञ्चाशत्तत्समुन्नतिः।
तावानेवस्य विस्तारो द्वीपं तद्विभजन्निव॥ 10.11 ॥

स्थितश्शैलवरो ब्रह्मन् द्वे वर्षे परिम़ण्डले।
4शैलस्य चान्तर्मानस्य बहिश्च सदृशे उभे॥ 10.12 ॥

तन्मूर्ध्नि लोकपालाना मिन्द्रादीनां यधा 5 पुनः।
पुरस्सन्ति 6 पुवस्तासां नामान्यपि यथापुरम्॥ 10.13 ॥

देवानामपि चान्येषां तत्र सन्ति पुरः पृथक्।
असङ्ख्याता ब्रह्मणश्च पुरी भवति पुष्करे॥ 10.14 ॥

स्वादुस्स्वच्छोदकैः पूर्णो वारिधिः पुष्कराद्बहिः।
तेन तद्वेष्टितं द्वीपं यथा 7 न्यान्यर्णवोत्तरैः॥ 10.15 ॥

  • लोकालोकाचलवर्णनम् *

स्वादूदकाद्बहिर्भूमिस्सर्वा चैव हिरण्मयी।
तपनीयमयो ब्रह्मन् लोकालोकाचलो बहिः॥ 10.16 ॥

भूलोकस्य समस्तस्य 8 सालव9 च्चतुरश्रकम्।
आवृत्य तिष्ठतस्तस्य योजनायतमुन्नतिः॥ 10.17 ॥

विस्तारश्च न एवास्य मूर्ध्नि सर्वत्र च स्वयम्।
मूर्तिभेदैरपर्यन्तेः परमः पुरुषः स्थितः॥ 10.18 ॥

कुमुदादिगणाश्चात्र चक्राधीन्यायुधानि च।
देव्यौ मही च लक्ष्मीश्च विष्वक्सेनः पतत्रिराट्॥ 10.19 ॥

स्थानानि मूर्तिभेदानां विष्णोः परिजनस्य च।
सन्ति भूयांसि रम्याणि तत्र तत्र चतुर्मुख॥ 10.20 ॥

परं पार्श्वं रविस्तस्य न द्योतवति भानुभिः।
आवृत्य तं तमश्शैलभागं बाह्यमवस्थितम्॥ 10.21 ॥

10 लोकालोकस्स च पुनस्समन्ताद्वेष्टितो गिरिः।
बहिरण्‍डकटाहेन 11 महता समनन्तरम्॥ 10.22 ॥

योजनानामियं पृथ्वी पञ्चाशत्कोटिभिर्मता।
सहैवाण्‍डकटाहेन सद्वीपाभ्धिमहीधरा॥

अनया ध्रियते सर्वं जगद्धात्री ततः स्मृता॥ 10.23 ॥

इति श्री पञ्चरात्रे महोपनिषदि पाद्मसंहितायां

ज्ञानपादे भूलोकविस्तारकथनं नाम

दशमोऽध्यायः.


  1. योजनानां ↩︎

  2. विस्तारो नच. विस्तारे नव. ↩︎

  3. व्यवस्थ्सितिः ↩︎

  4. शैलस्तास्तं मानसस्य. ↩︎

  5. क्रमाम्. ↩︎

  6. पुरान्तानाम्. ↩︎

  7. नाभ्यर्णनान्तरैः न्यान्यर्णवान्तरैः ↩︎

  8. समिपम्. ↩︎

  9. च्छतुरानन. ↩︎

  10. लोकस्य च पुनस्तस्य. ↩︎

  11. मानसात्. ↩︎