०९

पाद्मसंहितायाम्

नवमोऽध्यायः

  • भुवनकोशस्वरूपनिरूपणम् *

ब्रह्माः—–

अज्ञानसागरं तीर्त्वा 1 विद्यापारमुपेयिवान्।
2 उच्यतां सांप्रतं मह्यं भुवनानि चतुर्दश॥ 9.1 ॥

रूपतो 3 नामतश्चापि जिज्ञासा परमेश्वर।

श्रीभगवान्—-

यत्र प्रतिष्ठितं यच्च मानं रूपं च यादृशम्।
भुवनानां तदखिलं चतुर्मुखमुखै श्शतैः॥ 9.2 ॥

वक्तुं निरवशेषेण कः 4 क्षमेत प्रपञ्चतः।
बोद्धुं वा निखिलं शक्तः को वा धारयितुं क्षमः॥ 9.3 ॥

तद्भ्रवीमि समासेन 5 सर्वं त्वं बुध्यसे यथा।

  • पृधिव्याः परिमाणम् *

चतुरश्रा भवति भूः पञ्चौशत्कोटि योजनैः॥ 9.4 ॥

विस्तीर्णा सर्वतो दिक्षु घनं वैकोटियोजनम्।
द्वीपानि सप्त सन्त्यत्र तावस्तस्तोयराशयः॥ 9.5 ॥

आङ्गुलीयकवत्सर्वे भूमेरुपरि विष्ठिताः।

  • सप्तद्वीपाः*

द्वीपानि नामभिस्तावत्कथ्यन्ते 6 क्रमशशृणु॥ 9.6 ॥

7 जम्भूप्लक्ष कुश क्रौञ्चाश्शाकद्वीपस्तथा परः।
शाल्मली पुष्करो नाम सप्तमश्चतुरानन॥ 9.7 ॥

  • सप्तसमुद्राः*

आनुपूर्व्यात्समुद्रांश्च कथयामि यथातथम्॥

8 लवणेक्षुरसौ पश्चात् मैरेय स्तदनन्तरम्॥ 9.8 ॥

सर्पिर्दधि 9 पयस्त्वव्यत्ततश्शुद्धोदकं परम्।

  • द्वीपसमुद्रपरिमाणम् *

10 भूभागे मध्यमे जुम्भूद्वीपमानं च कथ्यते॥ 9.9 ॥

लक्षयोजनविस्तारस्सर्वतस्तदनन्तरम्।
विस्तारं वारिधिः क्षारस्तादृग्द्वीपमनन्तरम्॥ 9.10 ॥

उत्तरोत्तरमेकैकं द्वीगुणायाम 11 विस्तरः।
12 द्वीपानि षट्समुद्राश्च परिशिष्ठाश्चतुर्मुख॥ 9.11 ॥

द्वीपं जम्भूसमाख्यातं विभजेन्नवदा पुनः।

  • मेरोस्सन्निवेशविशेषः *

भागेतु मध्यमे मेरोरुच्छायो लक्षसंमितः॥ 9.12 ॥

योजनानां क्षितेरस्त र्मग्नष्षोड़शकङ्ख्यया।
सहस्त्राणां योजनानां 13 शिष्टोभागः प्रकाशते॥ 9.13 ॥

क्षीते रूर्ध्वं रैमयश्च सर्वतो मूर्ध्निविस्तृतः।
द्वात्रिंशच्च सहप्राणां योजना 14 नामयां पुनः॥ 9.14 ॥

कर्णिकावच्च भूपद्ममध्ये सम्यगवस्थितः।
शृङ्गैश्शतसहस्रेण शतयोजन विस्तृतैः॥ 9.15 ॥

तत्सङ्ख्यापरिणाहैश्च तस्य पार्श्वमहीधरान्।
वक्ष्यामि चानुपूर्व्येण यथा तदवधारय॥ 9.16 ॥

  • मोरोर्दक्षिणतस्त्रयो वर्षाचलाः *

हिमवान् हेमकूटस्च निषधश्छास्य दक्षिणे।
एते वर्षाचलाः प्रोक्ता स्त्रयः कमलसम्भव॥ 9.17 ॥

  • त्रीणिवर्षाणि*

वर्षं भारतमाख्यां प्रथमं तदन न्तरम्।
नाम्ना किंपुरुषं तस्माद्धरिवर्षमनन्तरम्॥ 9.18 ॥

  • उत्तरतस्त्रयो वर्षाचलाः *

उत्तरे मेरुशैलस्य क्रमा 15 द्वर्षमहीधराः।
नीलश्श्वेताह्वयश्शृङ्गी नाम्ना वर्षत्रयं पुनः॥ 9.19 ॥

  • त्रीणिवर्षाणि*

रम्यं हिरण्मयं वर्षमुत्तराः कुरव 16 स्तथा।
उक्तानि षट्च वर्षणि प्रत्येकं परिमाणतः॥ 9.20 ॥

योजनानां सहस्राणि नव वर्षंतु मध्यमम्।
इलावृतं समाख्यातं तन्मध्ये 17 मेरुरीरितः॥ 9.21 ॥

मेरोश्चतुर्दशं तत्र विस्तीर्णं योजनानि षट्।
त्रिणी चैव सहस्राणि चत्वारस्तत्रपर्वताः॥ 9.22 ॥

विष्कम्भरूपै रचिता योजनायुतमुच्भ्रिताः।

  • दिशाचनानांसामानि*

मन्धरो दिशि पुर्वस्यां याम्यायां गन्धमादनः॥ 9.23 ॥

प्रतीच्यां विपुलो नाम्ना……………

………………..18 कौभेरीमधितिष्ठति॥

  • चतुर्दक्षु चत्वारो वृक्षाः *

दिशानु तानु चत्वारो पृक्षाः केतुवदुन्नताः॥ 9.24 ॥

कदम्भभूरुहो जम्भूः पिप्पलो विटपी वटः।
शतानि दश चैकं च तेषां प्रत्येकमायतिः॥ 9.25 ॥

  • जम्भूवृक्ष प्रभावः *

जम्भ्वूतया समाख्या स्यात् द्वीपस्य कमलासन।
फलानि 19 गजमानानि पतितानि शिलातले॥ 9.26 ॥

श्रीर्यन्ते शतधा तेषां 20 रसवाह स्सरिद्वरा।
जाम्भूनदीति कथिता तत्तटोर्वीनिवासिनः॥ 9.27 ॥

पीत्वा रसं जरामृत्युवलीपलितवर्जिताः।
न स्वेदो न च 21 दौर्गन्ध्यं नेन्द्रियाणामपि क्षयः॥ 9.28 ॥

भवन्ति तेषां तीरोर्वी मृदस्तद्रसरञ्जिताः।
जाम्भानदाख्यां कल्पन्ते सौवर्णा कल्पसम्पदः॥ 9.29 ॥

  • भद्र केतुमालेलावृतवर्षाणां स्थानविशेषः *

22 भद्राश्ववर्षमाख्यातं मेरोः प्राच्यां चतुर्मुख।
23 पश्चिमं केतुमालाख्यमेतयोर्वर्षयोः पुनः॥ 9.30 ॥

इलापृतं समाख्यातं मध्यमं तत्पुरोदितम्॥

  • चतुर्दिक्षु चत्वार्युद्यानानि*

वनं चैत्ररथं पूर्वं दक्षिणं गन्धमादनम्॥ 9.31 ॥

24 वै भ्राजां पश्चीमं मेरोर्वनं नन्दन 25 मुत्तरम्।

  • चत्वारि सरांसि *

अरुणोदं सरः पूर्वं महाभद्रं ततः परम्॥ 9.32 ॥

26 शीतोदकं प्रतीचीनमुदीचीनं तु मानसम्।
देवोपभोगयोग्यानि सरांसि कथितानि ते॥ 9.33 ॥

*मेरोश्चतुर्दिक्षु प्रत्येकं पञ्चपञ्च केसराचलाः *

27 शतातश्च मुकुन्दश्च कुररी माल्यवानथ।
वैकङ्को नामपञैते पौरस्त्याः केसराचलाः॥ 9.34 ॥

त्रिकूटोङ्गिरसश्चो भौ पन्नगः 28 कूटलाह्ययः।
निषदो दक्षिणे तस्य तावन्तः केसराचलाः॥ 8.35 ॥

शिखिवासो थ 29 वै दूर्यः कपिलो गन्धमादनः।
30 जारुधिः पञ्चमो ब्रह्मन् केसराः पञ्चभूधरा॥ 8.36 ॥

शङ्खकूटस्समाख्यात स्समाख्यात 31 स्तथर्षभः।
हंसस्समाख्यया नागस्तथा कालाञ्जनप्रभः॥ 9.37 ॥

उदीच्यां केसराः पञ्च विंशतिः केसराचलाः।

  • मेरुशृंगमध्ये ब्रह्मपुरी सन्निवेशः *

योजनानां सहस्राणां द्वात्रिंशन्मानसम्मिते॥ 9.38 ॥

विस्तारे मूर्ध्ना शैलस्य मेरोर्भागेऽथ मध्यमे।
चतुर्भीर्दशभिश्चैव सहस्रैर्निर्मिता पुरी॥ 9.39 ॥

योजनैस्संमितो धातुः कर्णि केवाचलाम्भुजे।
विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी॥ 9.40 ॥

  • पूर्वादिदिक्षु लोकपालनगर्यः *

इन्द्रादिलोकपालानां 32 पुरः पूर्वादिषु स्थिताः।

विस्तारायाममानेन शतयोजनसंमिताः॥ 9.41 ॥

पुरी भवति माघौनी नाम्ना चै वामरावती।
सहस्रगोपुरद्वार प्राकार परिघाकुला॥ 9.42 ॥

तेजोवती पुर्याग्नेयी याम्या संयमनी पुरी।
रक्षोवती राक्षसी पूश्सुद्ध वत्यथ वारुणी॥ 9.43 ॥

वायोर्गन्धवती ख्याता 33 नाम्ना सौम्या महोदया।
यशस्पिनी भवस्योक्ता केसराचलभूमिषु॥ 9.44 ॥

भगवस्मूर्ती भेदानां पुरस्सन्ति परिष्कृताः।

  • चतुर्दिक्षु गंगा विभागः *

भित्वेन्दुमण्‍डलं गङ्गा भगवत्पाद जन्मभूः॥ 9.45 ॥

दिवः पतन्ती प्रत्याशमभ्याशं भ्रह्मणः पुरः।
चतुर्तिक्षु वहन्ती सा [^34] चतुर्धाभवतिस्वयम्॥ 9.46 ॥

34 सिता चालकनन्दा च सुचक्षुर्भद्रया सह।
चतस्रो नाम 35 भेदाश्च दिग्भेदाश्च चतुर्मुख॥ 9.47 ॥

स्तीता न्तरिक्षगा पूर्व शैलान्निष्क्रम्य निम्नगा।
याति पूर्वेण वर्षेण भद्राश्वेन च संज्ञया॥ 9.48 ॥

प्रविष्टा सागरमुखं दक्षिणेन तथा 36 ध्वना।
भारतं वर्षमभ्येति शैलात्सप्तमुखा ततः॥ 9.49 ॥

प्रविष्टालकनन्धा 37 सा नदी त्रैलोक्यपावनी।
सुचक्षुः पश्चिमाच्छैला त्केतुमालात् 38 स्वयं पुनः॥ 9.50 ॥

अतीत्य वर्षमम्भोधिमेति योषिद्यथा पतिम्।
भद्रा गिरेरुधीचिना देशा 39 नुत्तरतः कुरून्॥ 9.51 ॥

अतीत्य वारिधिं याति निम्नगा सरितां पतिम्।

  • लोकपद्मप्रकार कल्पनम् *

आनीन विषदायामौ माल्यवान् गन्दमादनः॥ 9.52 ॥

मध्ये तयोर्मेरुशैलः कर्णका पङ्कजे यथा।
भारतं केतुमालं च भद्राश्वं 40 कुरुसंज्ञकम्॥ 9.53 ॥

पत्राणि लोकपद्मस्य मर्यादा शैलतो बहि।
हेमकूटश्च निषधो दक्षीणोत्तरमाय तौ॥ 9.54 ॥

मर्यादापर्वतौ ज्ञेयौ कैलासो गन्धमादनः।
अशीतियोजनामामौ पूर्वापरमहोदधी॥ 9.55 ॥

41 संस्पृशन्तौ पारियात्र निषधावधिभूभृतौ।
मेरोः पश्चिमभूभागे पूर्रोत्तर 42 मथाश्रितौ॥ 9.56 ॥

त्रिशृङ्गो जारुधिर्वर्ष पर्वतौ मेरुभूभृतः।
उत्तरेण स्थितौ प्राप्य पूर्वापरमहोदधी॥ 9.57 ॥

पर्वतानामवस्थान 43 मानन्त्यान्न प्रपञ्च्यते।
शैलानामन्तरद्रोण्यस्सेव्यन्ते सिद्धचारणैः॥ 9.58 ॥

अन्यैश्च पुण्यकृद्भिस्ता दैत्यदानवकिन्नरैः।
भौमा ह्येते कृतास्स्वर्गाः दुर्लभाः [^45] पापकर्मभिः॥ 9.59 ॥

  • लोकरक्षार्थां भद्राश्वादिषु भगवतो वासः *

ज्ञानमूर्तिर्हयग्रिवो भद्राश्वे वसति स्वयम्।
वर्षेषु मूर्तयोविष्णो र्मर्यादापर्वतेषुच॥ 9.60 ॥

वसन्ति लोकरक्षायै नानारूपविशेषिताः।

  • किंपुरुषादीनां भोगभूमित्वोपपादनम्*

यानि किंपुरुषादीनि वर्षा 44 ण्येतेषु पद्मज॥ 9.61 ॥

निरातङ्काः प्रजाश्शश्वन् शोको न भयं तथा।
नोदन्या च बुभुक्षा च न द्वेषो ना युषुः क्षयः॥ 9.62 ॥

सन्ति तेषां सहस्राणि वर्षाणि द्वौ च विंशतिः।
आयुर्व तेषु देशेषु 45 भौममम्भो न वर्षति॥ 9.63 ॥

46 देवो न चर्तुभेदोस्ति न कालो युगभेदवान्।
सदा कृतयुगः कालो वर्तते चतुरानन॥ 9.64 ॥

धर्मश्चतुष्पात्सकलो ध्यानमेवार्चनं हरेः।
पर्वतास्सरितश्चापि 47 यत्र यत्र पुराणि च॥ 9.65 ॥

ग्रामाश्च सन्ति बहवस्स्य धर्मनिरतास्सदा।
ब्राह्मणा भूमिपाश्चापि प्रजापालनतत्पराः॥ 9.66 ॥

स्वे स्वे कर्मण्यभिरताश्चातुर्वर्ण्यमवस्थिताः।
चारुराश्रम्यमप्येवं यथोक्तमवतिष्ठते॥ 9.67 ॥

इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

ज्ञानपादे [^50] जम्बूद्वीप्रमाणवर्णनं नाम

नवमोऽध्यायः


  1. पद्मागार. ↩︎

  2. भगवन् ↩︎

  3. मानतश्चापि विज्ञाने. इति क्वचित्. अन्यत्र—रूपतो वापि विज्ञापय पमेश्वर. इति. ↩︎

  4. क्षमस्तत्प्रपञ्चतः ↩︎

  5. सुखं ↩︎

  6. तत्क्रमं. ↩︎

  7. जम्भूः प्लक्षः कुशश्चैवशाकश्शाल्मलिकस्तथा। क्रौञ्चपुष्करनामानस्सप्तद्वीपाः प्रकीर्तताः इति क्वचित्. अन्यत्र तु जंबूप्लक्षश्शाल्मलिश्छकुशः क्रौञ्चस्तथा परः शाकः पुष्करनामा च सप्तमः ↩︎

  8. लवणेक्षु सुराक्षीरदधिसर्पि स्तथोदकम्. ↩︎

  9. पयांस्त्यव्यत् पयस्त्वस्वक् पश्चिमश्च शुभोदकः इतिच. ↩︎

  10. तन्मध्ये मध्यतोंबूनि द्वीपः निस्ताराद्वारिधि.क्षारस्तादृग्ध्वि पाह्यनन्तराः इति क्वचित्. ↩︎

  11. विस्तराः इति पाठः ↩︎

  12. द्वीपाश्च सन्तिषट् तत्र. ↩︎

  13. मेरोर्भागः ↩︎

  14. नां शतम्. ↩︎

  15. वर्षेषुभूदराः ↩︎

  16. स्त्रिधा ↩︎

  17. मेरुरुच्यते. ↩︎

  18. अत्र ग्रंधपातः सुपार्श्वनाम्ने गिरेर्नर्दशे नात्र भाव्यम्. ↩︎

  19. गजमानं यथा—-अरत्नीनां शतान्यष्टौवेकषष्ट्यधिकानितु। फलप्रमाणं संख्यात मृषिभिस्तत्वदर्शभिः इति वायुपुराणे. विष्णु पुराण व्याख्याने विष्णु चत्तीये—गजमानं यथा—-पञ्चोन्नतिस्सप्तगजस्य दैर्घ्यमष्टौ चहस्ताः परिणाहमानम्। एकद्ववृद्धावथ मन्थ्रभद्रौ पज्कीर्णना गो नियतप्रमाणः इति. ↩︎

  20. सुवह च सरिद्वरा. ↩︎

  21. दौर्बल्यमिन्द्रियाणाम्. ↩︎

  22. भद्राख्यं वर्षं ↩︎

  23. पञ्चमम् . ↩︎

  24. वैराजम्. ↩︎

  25. मुत्तरे. ↩︎

  26. सहस्तोदम्, सितोदकम्. ↩︎

  27. शीताम्भुश्च सिताम्भ कु मुध्वांश्च. ↩︎

  28. रुचकाह्वयः ↩︎

  29. वैदूर्मफलको. ↩︎

  30. चारुश्चपश्चीमो ↩︎

  31. स्तुदर्शितः ↩︎

  32. पुर्यः ↩︎

  33. ख्याता. ↩︎

  34. चत्वारि वहति स्वयम्. ↩︎

  35. सीता. ↩︎

  36. स्वयम्. ↩︎

  37. ख्याम्भोदिं ↩︎

  38. मालाह्ययम्. ↩︎

  39. न्मन्दनतः पुनः ↩︎

  40. कुरवस्तथा ↩︎

  41. निषधः पारियात्रश्च स्पृशन्तावधिभूदरौ. ↩︎

  42. धरोस्मृतौ मुन्नतानां प्रपञ्चितम्. ↩︎

  43. पापदेहिनां ↩︎

  44. ण्येतानि ↩︎

  45. भूमिमिन्द्रो. ↩︎

  46. देवोनरो नभेदोस्ति. ↩︎

  47. सन्ति तत्र. ↩︎