अष्टमोऽध्यायः
- विज्ञानोपायत तपश्चर्या स्वरूपप्रश्नः *
ब्रह्माः—
विज्ञानोपायारूपेण तपश्चर्या च कीर्तिता।
भगवन् तत्तपः क्रीदृक् किं वा तत्कथ्यतां मम॥ 8.1 ॥
श्रीभगवान्—
- वाचिकादि तपस्त्रैवध्यम् *
वाङ्मनः 1 कायजत्वेन तपस्तत्त्रि विधं मतम्।
देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवम्॥ 8.2 ॥
अहिंसनं ब्रह्मचर्मं तपश्शारीरमीरितम्।
अनुग्रहपरं वाक्यं सत्यं भूतो पकारकम्॥ 8.3 ॥
स्वाध्या 2 याभ्यसनं चेति वाचिकं कथितं तपः।
सन्तोषस्सततं ब्रह्मचिव्तयाऽऽत्मविनिग्रहः॥ 8.4 ॥
भावशुद्धि 3 स्सौम्यता च तपो मानस 4 मीरितम्।
- सात्विकादिभेदेन पुनस्त्रै विध्यम् *
श्रद्धधानैः 5 कृतं सम्यगफलाकाङ्क्षिभिर्नरैः॥ 8.5 ॥
सात्विकं तत्तपो ज्ञेयं तद्धि विज्ञानकारकम्।
सत्कारमानपूजादि सिध्यर्थं राजसं तपः॥ 8.6 ॥
तामसं तु तपत्तत्स्यात् यत्परोत्सादनादिकम्।
कर्म कद्विविधं 6 नैव विज्ञानोत्पत्तिकारणम्॥ 8.7 ॥
- सृष्टिकारण लयाधिष्ठान स्थितिकालानां निरूपणम् *
ब्रह्माः—
कुतः प्रसूतिर्जगतां तेषां नाशः क्वसंमतः।
कियन्तं कालमेतेषां स्थितिर्म भगवन् वद॥ 8.8 ॥
श्रीभगवान्—
आपन्ना प्रकृतिर्व्यक्तिं सूते सर्वं चराचरम्।
तत्रैव लीयते सर्वं ब्राह्मे आयुषि च स्थितिः॥ 8.9 ॥
- चतुर्मुखायः परिमाणम्*
कालो युगसहस्त्राख्यः दिवारात्रिश्च तावती॥
ब्रह्मणसैन मानेन शतमायुश्च वत्सराः॥ 8.10 ॥
- ब्रह्मण एकस्मिन् दिने चतुर्दशमनवः *
भवन्ति मनवस्तस्य दिने तत्र चतुर्दश।
एकोनसप्ततिः कालो मनोरेकस्य कीर्तितः॥ 8.11 ॥
परस्मिन् ब्रह्मणि 7 ब्रह्मन् अर्वाचिने लयं गते।
प्रलयो महदाख्योयं चतुरानन कीर्तितः॥ 8.12 ॥
- अवान्तर लयो दैनन्दिनः *
8 अवान्तराश्च प्रलया दिनानामवसानजाः।
- सृष्ठिस्थितिलयानाम विश्रान्तिः *
भवन्तिधातृभिस्तैस्तैर्म हांश्च प्रलयः पुनः॥ 8.13 ॥
चक्रवद्वर्तते 9 कालो न विरामोस्ति कर्हिचित्।
ब्रह्माः—
किंरूपा प्रकृतिर्देव सूते कथमिदं जगते।
ब्रूहि सर्वमशेषेणभ वगवन् भूतभावन॥ 8.14 ॥
- प्रकृतिस्वरूप निरूपणम् *
श्रीभगवान्—-
अस्यूनाधिकरूपाणां सत्वाधीनां चतुर्मुख।
गुणानां संहतिर्या सा प्रकृतिस्सद्भिरुच्यते॥ 8.15 ॥
- भगवदधिष्ठितायास्तस्या जगद्योनित्वम्*
अचेतना सा विश्वस्य योनि 10 रव्याकृता स्वयम्।
11 नित्या सूते जगत्सर्वं नियोगात्परमात्मनः॥ 8.16 ॥
12) अविभक्ता विभक्ता च दध्नि सर्पिरिव स्थिता।
सङ्कर्षणाख्यो भगवान् प्रकृतावेव ताः प्रजाः॥ 8.17 ॥
रुद्रस्संहरति स्वैरं ब्रह्मणो दिवसक्षये।
दिवसादौ जगत्सर्वं पुनरेवा 13 सृजत्प्रजाः॥ 8.18 ॥
लोककर्तास्वयं ब्रह्मा यथा पूर्वं यथाक्रमम्।
इत्येवं सर्गसंहारौ मया सम्यगुदीरतौ॥ 8.19 ॥
ब्रह्मा—
ऐश्वर्यमष्टगुणवत्किं 14 तध्यद्भक्तिमान् पुमान्।
आप्रोति कीदृक्सायुज्यं युञ्जानस्य सुमेधसः॥
लब्ध्वा चैश्वर्यमखिलं केन प्रतिनिवर्तते॥ 8.20 ॥
श्रीभगवान्—-
- अणिमाद्यैश्वर्यनिरूपणम्*
अणिमा महिमा चापि 15 यावानेवास्य काम्यते॥
ताव न्तमिष्टमाप्नोति गरिमा लघिमापि वा॥ 8.21 ॥
इष्यमाणमवाप्नोति लघिम्नातेन पूरषः।
देशं 16 विदूरमप्येष क्षणमात्रेण गच्छति॥ 8.22 ॥
यथा शाल्मनितूलस्य तथा देहस्य लाघसम्।
गरिम्णा तेन देहस्य पर्वतस्येन नोद्धृतिः॥ 8.23 ॥
आहारेषु विहारेषु [^17] यथाकामं प्रवर्तते।
सङ्कल्पेनैन भूतानि वश्यानि कमलासन ॥ 8.24 ॥
परकायप्रवेशं च यथेष्टं प्रतिपद्यते।
एभिरष्टभिरेवैते विहरन्ति यथेप्सितम्॥ 8.25 ॥
यदि मां विस्म रेयुसै सुखनिद्राविमोहिताः।
मद्भक्रि 17 क्षरणादेव प्रतिस्रोतो वहा जनाः॥ 8.26 ॥
जायन्ते पुनरुत्कृष्टवं शेषु महतां सताम्।
पुनर्भ जेयुर्मा मेव 18 यजन्ते सिद्धिकाम्यया॥ 8.27 ॥
मुच्यन्ते मत्प्रसादेन जन्मनोऽस्माद्विगर्हितात्॥
- सायुज्यादिभेदेन मुकैस्त्रैविद्यम्*
भेदेन चाप्यभेदेन मिश्रेण च चतुर्मुख॥ 8.28 ॥
त्रिधैन मुक्तिरुदिता भेदे कैङ्कर्यलक्षणा।
मुक्तिर्यथेह लोकेषु परिचर्यापरा नराः॥ 8.29 ॥
देवस्य तद्वदेनै ते वै कुण्ठे परमात्मनः।
लोके तस्य समीपस्था मुक्तात्मान स्समाहिताः॥ 8.30 ॥
वसन्ति किङ्करास्सन्त स्तत्प्रसादपरास्सदा।
अभेद मुक्तिरत्यन्त मैक्यं स्यात्परजीवयोः॥ 8.31 ॥
आत्मनो भावना चैक्ये सोहमित्येवमात्मिका।
यस्य 19 तस्यैकतापत्ति र्मुक्तिर्जीववरात्मनोः॥ 8.32 ॥
सिद्धान्तेमिश्ररूपे तु भेदेस्थित्वार्चनादिभिः।
तोषयित्वा परं देवं ततो युक्तस्समाहितः॥ 8.33 ॥
विज्ञानेन्तेकतानेन परमात्मनि चिद्घने।
ऐक्यं प्राप्नोति सा मुक्तिरुक्ता सायुज्यलक्षणा॥ 8.34 ॥
ऐश्वर्यमणिमाद्यष्ट गुणावाप्तिस्सुदुर्लभा।
मुक्तिर्वा 20 वरमानन्दप्राप्तिरूपा यदीप्तितम्।
पुंसां तदुभयं मुक्तिः प्रसूते परमात्मनि॥ 8.35 ॥
- तत्त्वप्रश्नः*
ब्रह्माः—-
बहूनि तत्त्वान्युक्तानि शास्त्रैर्बहुभिरच्युत।
तेषु 21 तत्येषु नर्वेषु भावना विहिता क्रमात्॥ 8.36 ॥
22 समाधिरेकतानैव शास्त्रविज्ञानमुत्तमम्।
प्रसूते येन 23 तद्ब्रह्म तत्त्वेभ्यः परमं मतम्॥ 8.37 ॥
प्राप्नुवन्ति सरास्सर्वे तत्त्वानि कथयस्व मे॥ 8.38 ॥
- एकपञ्चाशत्तत्वानि *
श्रीभगवान्—-
चत्वारिंशद्दशैकं च तत्त्वानि परमात्मनः।
रूपाण्येव चतुर्वक्त्र सङ्क्षेषपात्कथयाम्यहम्॥ 8.39 ॥
भावना तेष्वविकृता सिद्धये कल्पते परा।
24 वक्तव्यानि ततस्तानि 25 हेतो स्तान्यवधारय॥ 8.40 ॥
अव्यक्तं बुद्धिरन्वक्च ततः परमहज्कृतिः।
26 तन्मात्रपञ्चकान्येकादश चोक्तान्यनुक्रमात्॥ 8.41 ॥
पृथिव्यादीनि भूतानि पञ्चैवकमलासन।
मायाकालकलारागविद्यादीनि यतः क्रमात्॥ 8.42 ॥
नन्दश्चैव महानन्दो महाविद्या समीरिता।
क्षेत्रज्ञश्च 27 शिवो ब्रह्मा पुरुषस्तदनन्तरम्॥ 8.43 ॥
सत्याच्युतौ तथाऽनन्तो 28 विष्णुस्सर्वश्च निर्वृतिः।
विश्वश्च पुरुषश्च द्वौ परमेष्ठी समीरितः॥ 8.44 ॥
नाम्नाऽनिरुद्दः प्रद्युम्नस्सङ्कर्षण समाह्वयः।
वासुदेवश्च 29 चत्वारिंशद्दशचैकं चतुर्मुख॥ 8.45 ॥
30 ततः प्रोक्तमिदं सर्वं यत्रोत्पन्नं चराचरम्।
तस्य 31 प्रपञ्चो रुपाणि तेषां नामानि कः क्षमः॥ 8.46 ॥
इह सर्वाण्य शेषाणि वक्तुं वाचामपीश्वरः।
[^34] इत्येषा कथिता तुभ्यं तत्त्वानां नामपद्धतिः॥ 8.47 ॥
संज्ञाविकल्पैस्तत्वानि भावयन्त 32 स्समाधिभिः।
युञ्जाना योगिनश्शश्वत्प्राप्नु पन्ति परं पदं॥ 8.48 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे तपोविशेषकथनं नाम
अष्टमोऽध्यायः
-
कार्य. ↩︎
-
यव्यसनम्. ↩︎
-
पौम्यभावः ↩︎
-
मादृतम्. ↩︎
-
कृतत्यागं. ↩︎
-
चैन. ↩︎
-
परे ↩︎
-
अवान्तरश्च प्रलयो दिनंदिनमथो जनाः। भवन्ति तुस्तैर्महा प्रलयश्च पुनः पुनः चक्रवत्प्रलयः कालो ↩︎
-
लोको. ↩︎
-
रव्याकृतिस्स्वयं ↩︎
-
नित्यं नूते. ↩︎
-
अविभक्तोविभक्तश्च—स्थितः ↩︎
-
सृजं महत् ↩︎
-
दधद्भक्तिमान्. तद्यस्महिमा ↩︎
-
यावतेवास्य. ↩︎
-
दूरं विदूर. ↩︎
-
स्मरणादेव. ↩︎
-
यदिते ↩︎
-
नात्मैकतापत्तिः—-नास्यैकतापत्ति र्जीवात्मपरमात्मनोः इतिपाठान्तरमधिकं दृश्यते. ↩︎
-
परमैश्वर्यं रूपं ना सर्वमीप्सितम्. ↩︎
-
सत्वेषु. ↩︎
-
“समाधिः” इत्यर्धस्य स्थाने “समिहितैव सर्वेषां फलानामुत्तमो त्तमम्’ इतीयवधिकमस्ति. ↩︎
-
तत्सर्वं. ↩︎
-
अव्यक्तानि. ↩︎
-
समस्ता. ↩︎
-
तन्मात्रापंचधा ह्येवं दशचां भोरुगसन. इति क्वचित्. ↩︎
-
शिरो. ↩︎
-
पुरुषः प्रकृतिस्स्वयम्. ↩︎
-
चत्वारि दशचैव. ↩︎
-
" ततः” इत्यर्दस्यस्थाने. " ओतप्रोतमिदं सर्वं यत्रोत्पत्तिः क्षयस्त्रिधा " इतिक्वचित् पाठः ↩︎
-
प्रपञ्चरूपाणि ↩︎
-
स्वकर्मभिः ↩︎