०६

पाद्मसंहितायाम्

षष्ठोऽध्यायः।
ब्रह्माः—-

सर्वतः पाणिपादादि ब्रह्मणो रूपमिरितम्।
अरूपस्यापि तत्सर्वं कथयस्व यथातथम्॥ 6.1 ॥

भगवतस्सर्वतः पाणु पादादित्य निर्वचनम्।
श्रीभगवान्—-

चराचरमिदं कृत्स्नमाक्षिप्तं परमात्मना।
यतस्तत्सर्वपाणित्वं तस्य लक्षणमुच्यते॥ 6.2 ॥

देशकाला विशेषेण संयुक्तं परमेष्ठिना।
यौगपद्येन सततं सर्वतः पात्प्रभुस्तृतः॥ 6.3 ॥

तिर्यगूर्द्वमधश्चोच्चैर्गत्वा भासयते जगत्।
रविर्यथा तथा कृत्वा विश्वतश्चक्षुरुच्यते॥ 6.4 ॥

सर्वं पुरस्थ्सितं तस्य वस्तुजातं यत स्ततः।
विश्वतो मुखता तस्य ब्रह्मणः कमलासन॥ 6.5 ॥

ज्ञानेन्धियाणि सर्वाणि श्रूयन्ते शिर उत्तमम्।
तथा ज्ञानाश्रयत्वेन ज्ञेयस्सर्वशिराः प्रभुः॥ 6.6 ॥

विदूरमविदूरस्थं तथा व्यवहितेतरे।
शृणोति शब्दसङ्घातं तेनासौ सर्वतश्श्रवाः॥ 6.7 ॥

भिन्नो वह्निरयः पिण्‍डादभिन्न इन दृश्यते।
तद्वद्व्यक्ताद्भहिर्भूतो व्यक्तमावृत्य तिष्ठति॥ 6.8 ॥

1 आदर्शे निर्मले यद्वदन्तस्था प्रतियातना।
दृश्यते तत्र तद्वत्स्याद्विभोरव्यक्तरूपता॥ 6.9 ॥

नेन्द्रियाधीनविज्ञानो रूपादिषु चतुर्मुख।
भगवानमुतो हेतोस्सर्वज्ञः कथतो बुधै॥ 6.10 ॥

परमेण महत्वेन संयोगात्परमात्मनः।
व्यापित्वमुच्यते विष्णोरीश्वरस्य 2 मनीषिभिः॥ 6.11 ॥

अनादित्व मजत्वेन तथै वानन्तता विभोः।
परोक्षत्वेन सर्वेषामपदित्युच्यते नृभिः॥ 6.12 ॥

असंविद्वषयो ब्रह्मन् गन्धः पुष्पादिके यथा।
त्रिभिर्गुणैरबद्धोपि बद्धवत्तेषु तिष्ठति॥ 6.13 ॥

यथा पुष्कारपर्णेषु स्वच्छमम्भः प्रतिष्ठितम्।
अन्तर्बहिरभिव्याप्य तिष्ठित्येको महार्णवे॥ 6.14 ॥

निमग्नस्येव कुम्भस्य बहिरन्तरपां स्थितिः।
परक्षेत्रक्षयोरैक्यमात्मनो श्श्रुतिचोदितम्॥ 6.15 ॥

क्षेत्रक्षस्यास्यबाहुल्यं देहभेदात्प्रतीयते।
एकस्यैवहि बिम्भस्य दर्पणेषु यथा तथा॥ 6.16 ॥

भूतादि पञ्चपङ्घातं क्षेत्रं तत्र व्यवस्थितः।
जीवोयस्तं विदुः प्राज्ञाः क्षेत्रज्ञं परसंज्ञितम्॥ 6.17 ॥

अबुद्धिबोध्यमस्पष्टं 3 व्यक्तस्योपरि विष्ठितम्।
परात्परतरं विषुं सूरयो ज्ञानचक्षुषा॥ 6.18 ॥

विदन्तिन तमज्ञानात् ज्ञानगोचरमक्षरम्।
परस्य व्यापिनो देहचलनाद्या न विभ्रमः॥ 6.19 ॥

यथा घटस्थमाकाशं नीयमाने घटे मतिः।
यातीति वस्तुतो नैव भेदौस्ति परजीवयोः॥ 6.20 ॥

पद्मपत्रसहस्रेषु सूचीभिन्नेष्वनु क्रमात्।
सूक्ष्मत्वात्कालभेदस्तु यथा नैवोपलभ्यते॥ 6.21 ॥

तथैव परमात्मायां 4 नाम्नाणुः परिकीर्तितः।
दूरस्थमज्ञाः पश्यन्ति हृत्वद्मे विष्ठितं सदा॥ 6.22 ॥

वितत्य वायुराकाशं यथैक स्तिष्ठति प्रभुः।
तथा चराचरं विश्वं व्याप्य तिष्ठत्यजस्स्वयम्॥ 6.23 ॥

5 स्रष्टुं संहर्तुमीशानो रश्मीनभ्युदितो रविः।
यथा तथा जगत्सर्वं स्रष्टु हर्तुं प्रभुर्हरिः॥ 6.24 ॥

स्वं परं चापि विषयं प्रकाशयति चिद्घनः।
यथा प्रदीपस्स्वस्यापि घटादेश्च प्रकाशकृत्॥ 6.25 ॥

वर्णैस्सितादिभिर्हीनस्त द्वद्भासयते 6 हरिः।
षड्भिर्गुणै रन्वित त्वात् ज्ञानादिभिरनव्यगैः॥ 6.26 ॥

भगवान् कथितस्सद्भिः परमात्मा जगन्मयः।
दध्नि सर्पि स्तिले तैलं माधुर्यं च गुडादिषु॥ 6.27 ॥

अभिन्नं तस्वतो द्वव्यादमूर्तं तत्र च स्थितम्।
उपलम्भन 7 सामर्थ्याद्दृश्यते न तदीक्ष्यते॥ 6.28 ॥

अजोप्यमूर्तस्स र्वेषामन्तरात्मा परः पुमान्।
ज्ञानिनांभावनायोगादुपलभ्धिपथं गतः॥ 7.29 ॥

ब्रह्माः—

चराच रेषु सर्वेषु यद्वस्तु व्याव्य विष्ठितम्।
8 अमूर्तमपृथग्भूतं स्वसं वेद्यं विदन्ति के॥ 6.30 ॥

विद्ययाभगवन्मह्यं तानाचक्ष्व यथातथम्।
पञ्चरात्रविधिदीक्षितानां विष्णुमायो त्तरणम्।
श्रीभगवान्—-

पञ्चरात्रोक्तमार्गेण यो दीक्षां चक्रम़ण्‍डले।
कृत्वा समर्चनं विष्णोः द्विषट्काक्षरविद्यया॥ 6.31 ॥

आराधयन्ति शास्त्रोक्तविधिना देशिकोत्तमाः।
तेषां हृदम्बुजे साक्षादावि 9 रासैपरः पुमान्॥ 6.32 ॥

तरन्ति विष्णुमायां ते न तरन्तीतरे जनाः॥

ब्रह्माः—

वस्तु 10 साक्षात्कृतं कीदृग्लक्षणं तस्य कीदृशम्।
भगवन् कथ्यतां सर्वं मयि चेदस्त्यनुग्रहः॥ 6.33 ॥

निदिध्यासितवस्तु स्वरूपम्

श्रीभगवान्—-

वालाग्रशतभागस्थं प्रधान पुरुषात्मकम्।
गमनागमनैर्हीनमणिष्ठं तदणोपरि॥ 6.34 ॥

महिष्ठं महतो वस्तु परमानन्दविग्रहम्।
वृद्धिक्षयविनिर्मक्तं सर्वगं संविदात्मकम्॥ 6.35 ॥

सद्रूपं प्रणवा 11 वेद्यमप्रतर्क्यं प्रमाणवत्।
एवं 12 वस्तु च कांक्षन्ते हृदये योगिनस्सदा॥ 6.36 ॥

तस्यस्थूलादिरूपेण त्रैविद्यम्.

स्थूलं सूक्ष्मं परं तस्य त्रिविधं रूपमीरितम्॥

स्थूलादीनां लक्षणं

स्थूलं तत्सकलं ज्ञेयं सूक्ष्मं सकलनिष्कलम्॥ 6.37 ॥

परं निष्कलमेवस्याद्रूपं कमलसम्भव।
रूपं सहस्रशीर्षादि सकलं परमात्मनः॥ 6.38 ॥

13 तेजः पुञ्जमिवाभाति रूपं सकलनिष्कलम्।
सच्चिदानन्दरूपादि रूपां निष्कलसंज्ञितम्॥ 6.39 ॥

प्रकृति विकृति निरूपणम्।
प्रकृतिर्विकृतिश्च स्वे स्व रूपे परमात्मनः।
सत्वादिगुणसंघातः प्रकृतिर्विकृतिः पुनः॥ 6.40 ॥

पुरुषः परमात्माख्यस्तेनेयंत्रिगुणात्मिका।
मरमात्मा धिष्ठितायाः प्रकृतेर्जगत्सर्गादिः।
अधिष्ठिता जगस्तर्वं प्रसूते चेतनात्मकम्॥ 6.41 ॥

संहरत्यपि तत्सर्वं नियोगा देव तस्य सा।
सपरमात्मा नारायणः

एक एव परो देवो नानाशक्ति समन्वितः॥ 6.42 ॥

करोति सर्गसंहारौ स च नारायणस्स्मृतः।
नानाथिक्कैः14 पुरद्वारैर्यथा पुरनिवासिनः॥ 6.43 ॥

अन्तर्विंशन्ति यद्वच्च पुरुषाः पुरुषं परम्।
उपासका 15 विशन्त्यन्तर्विद्यया परया सदा॥ 6.44 ॥

  • { ब्रह्मरन्ध्रादिषु रुक्माभत्वादिगुणविशिष्ट ब्रह्मस्वरूप ध्यातुर्दग्ध कल्मषस्य ब्रह्मप्राप्तिः} *

ज्योतिर्मण्‍डलमध्यस्थं रुक्माभं पुरुषं परं।
हृत्पद्मकर्णिकारूढं शङ्खचक्रगदाधरम्॥ 6.45 ॥

चतुर्भुजं भावयन्ति 16 स्थानेष्वेतेषु योगिनः।
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नभिचक्रेगलावटे॥ 6.46 ॥

जीह्वाग्रे दालुमध्ये च भावयन्तो यतेन्द्रियाः।
पूर्वजन्मकृतं कर्म दग्ध्वा यान्ति सनातनम्॥ 6.47 ॥

  • निष्कामकर्मिणामन्येषामपि ब्रह्मप्राप्तिकथनम्.*

विष्णोराराधनपराः पञ्चकालपरायणाः।
अष्टाङ्गयोग17 सिद्धाश्च द्वादशाक्षरचिन्तकाः॥ 6.48 ॥

18 वाशुदेवश्रया मर्त्या वासुदेव परायणाः।
सर्वपापविशुद्धाश्च यान्ति ब्रह्म सनातनम्॥ 6.49 ॥

  • मुक्तात्म परमात्मनोस्सदृष्टान्तं भेदगर्भाभेदनिरूपणम् *

वर्षधाराः पृथग्भूताः पतन्त्यो 18 दिवि मेघतः!

भूमावैक्यं यथा यान्ति तद्वद्ब्रह्मणि योगिनः॥ 6.50 ॥

अर्णो नदीनां बहृधा 19 तत्स्वरूपादि भेदवत्।

प्रविष्टं वारिधेर्वारि नोदकाद्व्यतिरिच्यते॥ 6.51 ॥

तथैव ब्रह्मणि परे मुक्तात्मावश्चतुर्मुख।
एकीभावेन तिष्ठन्ति तत्सालोक्यं यथा भवेत्॥ 6.52 ॥

एतद्रहस्यमुदितं निषत्सूपनिषत्सु च।
20 योगः प्रकाशितस्तुभ्यं मया कमलसम्भव॥ 6.53 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

ज्ञानपाते ब्रह्मप्राप्त्युपायकथनं नाम

षष्ठोऽध्यायः


  1. आदर्शो निर्मलो यद्वन्मलिनेन तिरोहितः ↩︎

  2. महर्षिभिः ↩︎

  3. अव्यक्तोपरि. ↩︎

  4. विज्ञानात्. विज्ञातः ↩︎

  5. क्वचित् कोशे अयं श्लोकः स्वंपरम्' इत्यस्मादनन्तरं दृश्यते. वर्णैः’ इत्याद्यर्द्धंच ना स्ति. ↩︎

  6. तद्वानध्यास्यते ↩︎

  7. सान्निद्यात्. ↩︎

  8. अमूर्तं च पृथग्भूतम्. ↩︎

  9. रस्मि. ↩︎

  10. वस्तुसाक्षात्कृतिः ↩︎

  11. वेद्यं प्रतर्कप्रणवान्वितम्. ↩︎

  12. रूपधरं बेवम्. वस्तु कार्त्स्न्ये इति पाठद्वयू. ↩︎

  13. तेजः रुञ्चं सपादादिरूपम् ↩︎

  14. नवद्वारैः ↩︎

  15. विशन्त्यन्येतन्मय्या. ↩︎

  16. भावरूपमयोगिनः ↩︎

  17. निष्ठाश्च. ↩︎

  18. जवतोदिवः ↩︎ ↩︎

  19. सरोरूपादि. ↩︎

  20. उक्तं प्रकाशितं ↩︎