पाद्मसंहितायाम्
पञ्चमोऽध्यायः
ब्रह्माः—-
प्रकृत्या तस्य संयोगो जायते केन हेतुना।
एतदाचक्ष्व भगवन् रहस्यं दुर्लभं 1 मम॥ 5.1 ॥
श्रीभगवान्—
प्रकृत्या पुरुषस्य संयोगे हेतुः।
मन्माया कारणं ब्रह्मन्न नादिरविनाशिनी।
युनक्ति पुरुषं सैषा प्रकृत्या गुणरूपया॥ 5.2 ॥
भगवतः प्रसादात् प्रकृत्या वियोगः
मत्प्रसादं विना तस्य न विरामो स्ति कस्य चित्।
यावन्नाहं प्रसीदामि तावन्माया दुरत्यया॥ 5.3 ॥
पूर्णकामस्य भगवतः प्रसादे निबन्धनम्.
ब्रह्माः—-
पूर्ण कामस्य देवस्य प्रसादे किं निबन्धनम्।
न जाने कारणं तस्य तन्मे ब्रूहि निबन्धनम्॥ 5.4 ॥
श्रीभगवाः—-
वर्णानामाश्रमाणां च मर्यादायामयाकृता
तां ये समनुवर्त न्ते प्रसाद स्तेषु मे महान्॥ 5.5 ॥
तस्मात्संसारिणां पुंसां मत्प्रसादं विना क्वचित्।
निश्श्रेयसकरं नास्यद्भध्यस्व कमलासन॥ 5.6 ॥
ब्रह्माः—
भगवन् देवदेवेश जानामि पुरुषोत्तम।
त्वामेव जगतां मन्ये स्रष्टापं कमलेक्षण॥ 5.7 ॥
प्रभवन्ति यतो लोकाः प्रलयं यान्ति यत्र च।
भगवन् तदशेषेण 2 ज्ञातुमिच्छामि शंस मे॥ 5.8 ॥
सृष्ट्यादिनिरूपणम्।
श्रीभगवान्—
प्रकृतिः पुरुषश्चोभे मम रूपे दुरत्यये।
अनुप्रविश्य द्वितयां क्षोभयाम्यहमिच्छया॥ 5.9 ॥
प्रकृति स्त्रि गुणा ब्रह्मन्ननादिरविनाशिनी।
पुरुषाधिष्ठिता सूते स्थावराणि चराणि च॥ 5.10 ॥
गुणसाम्यात्मन स्तस्मात्पुरुषाधिष्ठि तात्पुनः।
अजायत महत्तत्वं त्रिविधं त्रिविधैर्गणैः॥ 5.11 ॥
अहङ्कारस्ततो जात स्तस्य तिस्रो विधाः स्मृताः।
वै कारिकस्तैजसश्च 3 भूतादिश्चेति तत्त्रिधा॥ 5.12 ॥
वैकारिकादहङ्कारात्सात्विकाः पञ्चहज्ञि रे।
ज्ञानेन्द्रियाणि पंचैव राजसात्तैजसात्पुनः॥ 5.13 ॥
कर्मेन्द्रियाणि जातानि भूतादेस्तामसादथ।
शब्दतन्मात्रमभवत्तच्चा काशमजीजनत्॥ 5.14 ॥
स्पर्शतन्मात्रमाकाशा त्तस्माद्वायुरजायत।
रूपमात्रं ततो वायो स्तस्मादग्निरजायत॥ 5.15 ॥
रसमात्रमजन्यग्ने स्तस्मादापः प्रजज्ञिरे।
गन्धतस्मात्रमद्भ्योपि गन्धमात्रात्तथा मही॥ 5.16 ॥
शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः।
शब्दस्पर्शौ तथा रूपं तद्वदग्नेरुदाहृतम्॥ 5.17 ॥
4 शब्दस्स्पर्शौ रसो रूपं चातुर्गुण्यपां स्मृतम्।
शब्दस्पर्शौ रूपरसौ गन्धः पञ्चगुणा मही॥ 5.18 ॥
नानावीर्याः पृथग्भूतास्ते सृष्टास्संहतिं विना।
नाशक्नुवन्प्रजास्स्रष्टुं ततसै संहतास्स्वयम्॥ 5.19 ॥
महदादि विशेषान्ताः प्रधानपुरुषेरिताः।
अण्डं ममांशभूतस्य पद्म नाभस्य मद्मज॥ 5.20 ॥
नाभेरजायत ततो जगद्योनिरभूद्भवान्।
सर्गादौ प्रकृतेरेवमुद्भूतमखिलं जगत्॥ 5.21 ॥
लीयते प्रकृतावेव कल्पान्ते कमलासन॥
ब्रह्माः—
मन्ये त्वया जगत्सृष्टं विधृतं च त्वया विभो।
कालरूप स्त्वमेवैकः कल्वान्ते सञ्चहर्थ च॥ 5.22 ॥
इदानीं वद मेज्ञानं ब्रह्मसिद्धिदमच्युत।
यज्ज्ञात्वा न पुनर्जन्म मरणं भवबद्धनम्।
ब्रह्मज्ञानद्वै विध्यम्।
श्रीभगवान्—
ज्ञानं द्विविधमाख्यातं सत्वाख्यं चक्रियात्मकम्।
5 सत्वाख्यस्य क्रियाख्येन सिद्धिरव्यभिचारिणी॥ 5.23 ॥
ब्रह्माः—
ज्ञानं क्रियात्मकं तावत् वद क्रीयग्विधं प्रभो।
योनाभ्यस्तेन सत्वाख्यं यास्यामि ब्रह्म6 सिद्धिदम्॥ 5.24 ॥
सत्वक्रियात्मकज्ञान लक्षणम्।
श्री भगवान्—-
यमश्च नियम 7 श्चैवक्रियाख्यं द्विविधं स्मृतम्।
ताभ्यां ज्ञानंच सत्वाख्यं प्राप्नोत्येव न संशयः॥ 5.25 ॥
ब्रह्मण्यभिन्नं सत्वाख्यं ज्ञानाज् ज्ञेयमवाप्यते।
8 ज्ञानान्मुक्तः परानन्दे परमात्मनि 9 पद्मज॥ 5.26 ॥
ब्रह्माः—-
ब्रह्मप्राप्तौ 10 त्वया सम्यगुपायः कथितः पुरा।
इदानीं देव देवेश ब्रूहि मे ब्रह्मलक्षणम्॥ 5.27 ॥
ब्रह्मलक्षणम्।
श्रीभगवान्—-
आनन्दलक्षणं ब्रह्म नादरूपमविक्रियम्।
क्लेशादिभिरसंस्पृष्टं निष्क्रियं निर्विकल्पकम्॥ 5.28 ॥
अद्वन्द्वमनवच्छिन्नं स्वसंवेद्यं निरञ्चनम्।
सुसूक्ष्मं स्ववशं स्वैरं स्वयं ज्योति 11 रनादिमत्॥ 5.29 ॥
अनन्तमक्षयं शान्तमदृष्टा न्तमवृद्धिमत्।
ध्रुवमेकं 12 सदा नन्दं चिद्रूपं सर्वगं परम्॥ 5.30 ॥
गतागतविनिर्मुक्तं वासुदेवाह्वयं विभु।
प्रभवं सर्वभूतानामीश्वरं पुरुषोत्तमम्॥ 5.31 ॥
स्वभावनिर्मलं नित्यं निस्तरङ्गं निराकुलम्।
निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्॥ 5.32 ॥
हीनवर्णैरसंसेव्यं मोक्षमाणैरतर्कितम्।
अध्येयं ध्येयमाश्चर्यमवाज्मनसगोचरम्॥ 5.33 ॥
षाड्गुण्यविग्रहं सर्वशक्ति 13 स्वाश्रयमाश्रीतम्।
भूतेशं भूतकृद्भूतं तमसः 14 परतः स्थितम्॥ 5.34 ॥
15 प्रधानं प्रकृतेरन्यद्भोग्यं भोक्तृ निरङ्कुशम्।
प्रमाणप्रत्ययातीतं सर्वतोक्षिशिरोमुखम्॥ 5.35 ॥
सर्वतः पाणिचरणं सर्वमावृत्य 16 विष्ठितम्।
बहिरन्तस्थ्सितं व्यापि17 सर्व तन्त्रातिशासनम्॥ 5.36 ॥
अजमोङ्कारमव्यक्तं मूलमन्त्रात्मकं शिवम्।
18 मायारूपंचमायाभि19न्नित्यतृप्तमणोरणु॥ 5.37 ॥
महतोऽपि महा स्थूल 20 मतुलं मृदु दीप्तिमत्।
अमूर्तं मूर्तमोजस्वि चिद्घनं 21 निरुपद्रवम्॥ 5.38 ॥
पश्यन्नित्थं परं ब्रह्म परेण ज्ञानचक्षुषा।
योगयुक्तस्सदा मर्त्यः प्राप्नोति च परं पदम्॥ 5.39 ॥
इति श्री पञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे 22 ब्रह्मालक्षणं नाम
पञ्चमोऽध्यायः
-
मतम् ↩︎
-
श्रोतुं ↩︎
-
भौतिकश्चेति. ↩︎
-
शब्दस्पर्शौ रूपरसौ. ↩︎
-
तत्त्वाख्यस्य इतिक्वचित् इतः प्रभृतिश्लोकेषु सत्वशब्दस्थाने सत्ता शब्दः कोशान्तरे दुश्यते, ↩︎
-
साधनम् ↩︎
-
श्चेति क्रियाच द्विविधा स्मृता, ↩︎
-
ज्ञेयात्, ↩︎
-
परन्धामनि. ↩︎
-
प्राप्तुम्. ↩︎
-
रनामयां ↩︎
-
चिदानन्दम्. ↩︎
-
स्थान समाश्रितम्. ↩︎
-
पारमास्थितम् ↩︎
-
प्रधानात्. ↩︎
-
तिष्ठति. ↩︎
-
सर्वतश्श्रुतिशालिवनम् ↩︎
-
मायातीतं ↩︎
-
अनायासम् ↩︎
-
सद्वक्रमृजु. अमृतं मृदु. ↩︎
-
निरपाश्रयं ↩︎
-
आनन्दलक्षणम् ↩︎