०४

पाद्मसंहितायाम्

चतुर्थोऽध्यायः

ब्रह्माः—-

विधत्से केन रूपेण केन रूपेण पासि वा।
संहर्तुं यतसे केन शुश्रूषा मे विजृम्भते॥ 4.1 ॥

सृष्ठ्यर्थास अनन्तासु शक्तिषु चतस्रो मुख्याः.

श्री भगवान्—-

अनन्ताश्शक्तयस्सृष्टाः मनसैव चतुर्मुख।
चतस्रस्तासु नर्दिष्टाः मुख्या विष्ण्वादिमूर्तयः॥ 4.2 ॥

तत्र तिस्रस्संसारगोचराः चतुर्थी मोक्षदायिनी.

रजस्सत्वसमोमय्य स्तिस्रस्संसारगोचराः।
आनन्दाख्या चतुर्थी तु भुक्ति मुक्तिप्रदायिनी॥ 4.3 ॥

सृष्ट्यादुपयोगिनो गुणाः

रजो गुणेन भुवनं सृजामि सचराचरम्।
पालयामि च सत्वेन तमसा संहरामि च॥ 4.4 ॥

आनन्धात्मानमास्थाय वासुदेवाह्वय स्स्वयम्।
विपाशयामि संसारात् ये मामेव भजन्ति तान्॥ 4.5 ॥

सृजामि पामि हन्म्येत द्रूपैर्बह्मादिभिस्त्रिभिः।
निष्कामानां बन्धमोक्षः

वासुदेवत्मरूपेण परेण भवसागरात्॥ 4.6 ॥

विपाशयामि निष्कामान्ये मामाराधयन्ति तान्।
विष्ण्वादिषु चतसृषु वासुदेवमूर्ति रपवन्गप्रदा.

मुख्यश्चतुर्णामे तेषामुच्यते परमः पुमान्॥ 4.7 ॥

अपवर्गकरत्वेन वासुदेवस्स ईरितः।
ब्रह्मादयस्ततोऽन्येतु संसाराहितदृष्टयः॥ 4.8 ॥

ब्रह्माः—-

संसारी पुरुषः कोऽस्य मात्रे के वा परावरे।
मुक्तः को यस्य मात्रे द्येन विद्येते वरावरे॥ 4.9 ॥

श्रीभगवान्—

पुण्यपापनिमित्ते यस्सुखदुःखे निषेवते।
सांसारी सा परा मात्रा भ्रह्मभूय मितीन्यते॥ 4.10 ॥

मात्रा परा भवे त्तस्य स्थावरत्वमसत्समम्।
मुक्तस्परूपम्.

संसारवासनातीतं विमुक्तं कर्मबन्धनैः॥ 4.11 ॥

आत्मतृप्तमुदासीनं मुक्तमाहुर्मनीषिणः।
सदैक रूपरूपस्य मात्रा कापि न विद्यते॥ 4.12 ॥

ब्रह्माः—-

के संसारं प्रपद्यन्ते के च गच्छन्ति निर्वृतिम्।
कौतूहलं हि भगवन्‌ ब्रूहि तत्त्वं यथातथम्॥ 4.13 ॥

संसारबन्धमोक्षौ.

श्रीभगवान्—-

फल कामनया कर्म विहितं वैदिकं भजन्।
बध्यते निस्पृहः कर्म भजमानो न बध्यते॥ 4.14 ॥

ज्ञानं वैषयिकं यस्य चक्षुरादिनिबन्धनम्।
भद्ध्यते स परे देवे यस्य ज्ञानं स मुच्यते॥ 4.15 ॥

ब्रह्माः—

मुक्तात्मनश्च भवतो भेदः कः पुरुषोत्तम।
एतदाचक्ष्व भगवन्ना तिगुह्यं यदि प्रभो॥ 4.16 ॥

मुक्तात्मनः परमपुरषस्य च भेदः

श्रीभगवान्—

अहमेन भवन्यैते न भेद स्तत्र कश्चन।
यथाहं विवाराम्येवं तथा मुक्ताश्च देहिनः॥ 4.17 ॥

ब्रह्माः—

बध्नन्ति पुरुषं के ते हेतवः कर्महेतवः।
कर्मपाशैर्नगलितान्पुरुषान् भ्रामयन्तिये॥ 4.18 ॥

बन्धहेतवः

श्रीभगवान्—

त्रिभिरेव गुणैर्व्यस्तैस्समस्तैः पूर्वमीरितैः।
सत्वादिभिः क्रिया चापि त्रिविधा सम्प्रवर्तते॥ 4.19 ॥

तया संसार मृच्छन्ति पुरुषाः पूर्ववृत्तयः।
एवमेव सुर[^1]श्रेष्ठ यन्मां त्वं परिपृच्छसि॥ 4.20 ॥

ब्रह्माः—

कथमेभिर्गुणै र्योगः पुरुषस्योपजायते।
कर्मपाशैर्वमुच्येत मोक्ष्यमाणश्च पूरुषः॥ 4.21 ॥

विषयवशाद्गुणत्रययोगवियोगौ.

श्रीभगवान्

पुरुषस्य गुणा ये ते देवादर्मानुवर्तिनः।
विषयस्य वशादेते भवन्तिन भवन्तिच॥ 4.22 ॥

विषय स्वरूपप्रश्नः ।
ब्रह्माः—

कोसौ विषय इत्युक्तः पुरुषाणां महेश्वर।
यस्य योगाद्भव न्यैते न भवन्ति च ते गुणाः॥ 2.23 ॥

विषयनिरूपणम्.

श्रीभगवान्

त्रिगुणा प्रकृतिर्ब्रह्मन् 1 विषयो देहिनः स्मृतः।
तद्योगाद्भध्यते जन्तुस्तदयोगाद्विमुच्यते॥ 4.24 ॥

जानाति पुरुषो नित्यं प्रकृतिं त्रिगृणात्मिकाम्।
सा च प्रसूते सततं निद्रालस्यं पृथग्विधम्॥ 4.25 ॥

स्वरूपं विस्मरत्येष निद्रया विवशस्स्वयम्।
स भन्ध इष्यते पुंसां किं भूयश्शोतुमिच्छसि॥ 4.26 ॥

इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

ज्ञानपादे मुमुक्षुसंसारमोचनं नाम

चतुर्थोऽध्यायः


  1. विषये—स्मृताः ↩︎