पाद्मसंहितायाम्।
तृतीयोऽध्यायः
पद्मः—-
ब्रह्मण स्सृष्टिरधुना वक्ष्यते द्विजसत्तम।
नारायणोऽसृहजत्तोयं तत्रैवासीन्महार्णवः॥ 3.1 ॥
अनिरुद्धांशजा दुर्गा मायारूपा सुमोहिनी।
न्यग्रोधमसृजत्तस्मिन् मायारूपे महाद्रुमे॥ 3.2 ॥
अनिरुद्धांशजश्श्रीमान् पद्मनाभः पुरातनः।
संहृत्य लोकान् पुरुषः पर्णपर्यङ्कमेयिवान्॥ 3.3 ॥
वटपत्रशायिनो नाभीपद्मे चतुर्मुखसृष्टिः।
तत्र पुंसश्शयानस्य नागपर्यङ्कभूषिते।
हिरण्मयं पद्मगर्भम् नाभेरण्डमजायत॥ 3.4 ॥
तदण्डं पञ्चभूतात्मभूतं शुद्धमतर्कितम्।
अण्डस्य पर्धमानस्य मध्ये पद्मं सितप्रभम्॥ 3.5 ॥
सहस्रदलपर्यन्तमन्तः केसरमण्डितम्।
मध्ये 1 कर्णिकया युक्तमद्भुतम् सृष्टिकारणम्॥ 3.6 ॥
स्रष्टारमसृजत्तस्मिन् पद्मनाभश्चतुर्मुखम्।
आसनं ब्रह्मणो यस्मात्पद्म मादावभूत्ततः॥ 3.7 ॥
अन्येषामपि देवाना मासनं पद्ममिष्यते।
सनन्दनादीनां सृष्टिकार्यविमुखता
सनन्दनादीनसृजत्सष्ट्यर्थं पद्मभूस्स्वयम्॥ 3.8 ॥
स्रष्टुं मनो न दधिरे ते च स्वायम्भवास्तदा।
सर्वे ते योगिनो जाता वीतरागा विमत्सराः॥ 3.9 ॥
ब्रह्मणः क्रोधाद्रुद्रसृष्टिः
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मसु।
ब्रह्मणो भून्महान् क्रोधस्त्रैलोक्यदहनक्षमः॥ 3.10 ॥
भ्रुकुटीकुटिला त्तस्य ललाटात्क्रोधदीपितात्।
समुत्पन्नस्तदा रुद्रो युगान्ताग्नि समप्रभः॥ 3.11 ॥
अर्धनारीनरवपु र्महाकायः प्रतापवान्।
संविभज्यात्मनो देवं नरं नारीं च निर्ममे॥ 3.12 ॥
मिथुनाज्जज्ञिरे तस्माद्रुद्राणां कोटयस्तथा।
सर्वे चतुर्भुजाः क्रूराः त्रिणेत्राश्शूलपाणयः॥ 3.13 ॥
तेषु प्रधाना विप्रेन्द्र रुद्रा एकादश स्मृताः।
मरीच्यादिभिर्जगत्सृष्षिः
रुद्रसृष्ठिमपि ब्रह्मा व्यर्थमालोक्य लोककृत्॥ 3.14 ॥
मरीच्यादीन् षडपरान् मनसा विर्ममे पुनः।
तैरेतदखिलं सृष्ठं त्रैलोक्यं सचराचरम्॥ 3.15 ॥
ब्रह्मणः परमपुरुषदर्शनम्।
एवं सृष्ट्वा जगदिदं पद्मयोनिश्चतुर्मुखः।
ध्यानं परममातस्थौ कारणं स्वस्य चिन्तयन्॥ 3.16 ॥
ध्यायतस्तस्य पुरतः तेजः पुञ्जमिवाभवते।
दिवाकरसहस्राभं विद्युत्सङ्घातसन्निभम्॥ 3.17 ॥
तन्मध्ये पुरुषश्रेष्ठं पीतनिर्मलवाससम्।
शङ्खचक्रगधापद्मं धारयन्तं चतुर्भुजम्॥ 3.18 ॥
श्रीवत्साङ्णं प्रसस्नास्यं कौस्तुभेन विराजितम्।
स्फुत्किरीटहाराद्यै र्भूषणै रुपशोभितम्॥ 3.19 ॥
2 तं दृष्ट्वा पुरुषश्रेष्ठं पद्मयोनिरचिन्तयत्।
एष एव परो देवस्सर्वस्य जगतः प्रभुः॥ 3.20 ॥
नास्मात्परतरः कश्चीद्धृश्यते पुरुषः स्थितः।
तमेव संशर्यान् प्रष्टुं विविधानुपचक्रमे॥ 3.21 ॥
ब्रह्माः—
कस्त्वमत्यद्भुताकारः पुरुषः पुरुषोत्तम।
मह्यं [^3] जिज्ञातमानाय आत्सानं दर्शयस्वमे॥ 3.22 ॥
श्रीभगवान्—-
स्रष्टारं सर्वलोकानां पुराणं पुरुषं परम्॥
अनादिमध्यनिधनं विद्धि मामचलं ध्रुवम्॥ 3.23 ॥
कारणं सर्वलोकस्य मा च भूत्संशयस्तव।
संशयस्य त्वदीयस्य च्छेत्तारं मामुपस्थितम्॥ 3.24 ॥
ब्रह्माः—
धन्योस्म्यनुगृहीतोऽस्मि पूर्णाकामोऽस्मि शाश्वत।
अज्ञातं नास्ति ते ज्ञेयं कर्तव्यं नास्ति चाकृतम्॥ 3.25 ॥
नानवाप्तमवाप्तव्यं त्रिषु लोकेषु विद्यते।
कस्य हेतोर्जगत्स्रष्टुं भवान् प्रेरयसे वद॥ 3.26 ॥
श्रीभगवन्—
क्रीडामि केवलं ब्रह्मन् सृष्टिसंहारपालनैः।
लोकानामपि सर्वेषामहं केनापि हेतुना॥ 3.27 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे ब्रह्मादिसृष्टिप्रकारो नाम