द्वितीयोऽध्यायः
संवर्तः—-
हे पद्म नागराजेन्द्र श्रुतवानसि यत्पुरा।
तन्त्रं तदहमध्याप्यो मयि चेदस्त्यनुग्रहः ॥ 2.1 ॥
श्रीपद्म उवाचः—
तत्प वक्ष्यामि विप्रर्षतन्त्रं वै लोकविश्रुतम्।
ज्ञान योग क्रिया चर्या चतुष्पाद समन्वितम् ॥ 2.2 ॥
रहस्यमद्भुतं दिन्यं यन्मया कपिलाच्छ्रुतम्।
संक्षिप्तं च महार्थं च सर्वसिद्धि प्रसाधनम् ॥ 2.3 ॥
सार्धकोटि प्रमाणेन ब्रह्मणा केशपाच्छ्रुतम्।
तस्मात्समुद्ध्रतं तन्त्रं वारिधेरमृतं यथा ॥ 2.4 ॥
विज्ञानमादौ सकलं सृष्ट्युपोद्घातमुच्यते।
ततो योगः क्रिया पश्चाच्चर्या च तदनन्तरम् ॥ 2.5 ॥
विज्ञान शभ्दार्थः—
विज्ञानं भगवज्ञानं तज्ञानान्मुक्तिरुच्यते।
भगवतः आद्यंरूपम्—-
आदिमध्यान्त रहितमवृद्धि क्षयमच्युतम् ॥ 2.6 ॥
नित्यं निरुपमं ज्योति र्नित्यतृप्तं निरञ्जनम्।
सर्वाकारं निराकारं तमसः परमव्ययम् ॥ 2.7 ॥
तत्कारणवशा त्तस्मादाविरासीत्सनातनात्।
द्विहस्तमेकवक्त्रं च शुद्धस्फटिकसन्निभम् ॥ 2.8 ॥
सहस्रसविवह्नीन्दु लज्ञकोटि समप्रभम्।
मरीचि चक्रमध्यस्थं चक्राद्ययुधलाञ्चितम् ॥ 2.9 ॥
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्।
किरीटहारकेयूर वलयादि विभूषितम् ॥ 2.10 ॥
पीताम्बरधरंसौम्यं रूपमाद्यं सनातनम्।
स वासुदेवो विज्ञेयस्सृज्यं सर्वं च तन्मुखात् ॥ 2.11 ॥
ध्येयश्च योगिभिर्नत्यं हृत्वद्माह्वयविष्टरे।
पश्यन्ति सूरयश्शश्व त्तद्विष्णोः परमं पदम् ॥ 2.12 ॥
वासुदेवात्ततो जातो वासुदेवाह्ययोऽपरः।
एकवक्त्रश्चतुर्बाहुश्चक्रा द्यायुधलक्षणः ॥ 2.13 ॥
स्थित्यै चक्रं सरसिजं दधानं सृष्टये पुनः।
मुक्तये पाञ्चजन्यं च गदां संहृतये तथा ॥ 2.14 ॥
श्रीवत्स कौस्तुभोरस्को वनमाला विभूषितः।
मयूरकण्ठवच्छ्यामः पीतनैसर्गिकाम्बरः ॥ 2.15 ॥
स वासुदेवो भगवान् सृष्टिस्थित्यन्तमुक्तिदः।
आत्मानं स द्विधाचक्रे पुनः केनापि हेतुना ॥ 2.16 ॥
तयोरेको वासुदेवश्शुद्धस्स्पटिकसन्निभः।
नारायणो द्वितीयस्तु नीलाम्बुदसमप्रभः ॥ 2.17 ॥
सङ्कर्षणो वासुदेवात् तस्मात्प्रद्युस्नसंज्ञितः।
प्रद्युम्नादनिरुद्धौऽभूत् सर्व एते चतुर्भुजाः ॥ 2.18 ॥
ज्ञानादि गुणसामान्ये वासुदेवः प्रकीर्तितः।
षण्णांगुणानां वैषम्येवक्ष्यंते मूर्तयः क्रमात् ॥ 2.19 ॥
ज्ञानेऽधिको भवेद्भ्रह्मन् सङ्कर्षण समाह्वयः।
बलेऽधिकस्तुप्रद्यम्न स्स्यादैश्वर्येऽनिरुद्धकः ॥ 2.20 ॥
मूर्तिभ्यश्च चतुर्भ्यश्च चतुर्विंशतिमूर्तयः।
जायन्तेक्रमशो ब्रह्मन् दीपाद्धीपान्तरं यथा ॥ 2.21 ॥
सर्वे चतुर्भुजाः पद्म शङ्खचक्र गदाधराः।
वासुदेवादादिदेवात्प्रथमा त्केशवस्तथाः ॥ 2.22 ॥
नारायणो माधवश्च जज्ञिरे भूसुरोत्तम।
सङ्कर्षणाच्च गोविंदो विष्णुश्च मधुसूदनः ॥ 2.23 ॥
त्रमस्ते समजायंत प्रद्युम्नाच्च त्रिविक्रमः।
वामनश्श्री धरश्चै ते जज्ञिरेमुनिसत्तम ॥ 2.25॥
अनिरुद्धाद्धृषीकेशः पद्मनाभश्च सुव्रत।
दामोदरश्च तेनेत्थं द्वादशांशाः प्रजज्ञिरे ॥ 2.26 ॥
वासुदेवाच्च तन्नाम्ना तथा सङ्कर्षणादपि।
प्रद्ध्यम्नादपि तन्नाम्ना तन्नाम्नैवानिरुद्धकात् ॥ 2.27 ॥
अभूवन् क्रमशस्तेभ्य श्चतुर्भ्यः पुरुषोत्तमाः।
अधोक्षजो नृसिंहश्च चतुर्थश्चाच्युतो मतः ॥ 2.28 ॥
चतुर्भ्य एव तेभ्योमी जज्ञिरे च यथाक्रमम्।
जनार्दनत्तथोपेंद्रो हरिः कृष्णस्समाख्यया ॥ 2.29 ॥
वासुदेवादादिदेवान्मूर्त्यष्टकम जायत।
ब्राह्मीच मूर्तिः प्रथमा प्राजापत्याच वैष्णवी ॥ 2.30 ॥
दिव्या चार्षी मासुषी च सप्तमी चासुरी मता।
पैशाची चरमा तासां मूर्तीनामपरादश ॥ 2.31 ॥
मीनाद्या जज्ञिरे विप्र चतुर्प्यूहाद्यथाक्रमम्।
मत्स्यः कूर्मो पराहश्च वासुदेवादजायत ॥ 2.32 ॥
नृसिंहो वासुनो रामो जामदग्न्योऽप्यजायत।
सङ्कर्षणात्तथा जज्ञे प्रद्युम्ना द्राघवो बली ॥ 2.33 ॥
अनिरुद्धादभूत्कृष्णः कल्कीति दश मूर्तयः।
सङ्कर्षणाच्च पुरुषस्सत्यः प्रद्युम्न सम्भवः ॥ 2.34 ॥
जातोऽच्युतोऽ निरुद्धाच्च बुद्धस्तेलोक्य मोहनः।
दशार्हश्शौरिरन्नोशो वासुदेवादजायत ॥ 2.35 ॥
सङ्कर्षणाद्धयग्रीवश्शज्खो दरनृ कोसरी।
वैकुण्ठमूर्तिराद्यातु मुकुन्दश्च वृषाकपिः ॥ 2.36 ॥
तत्रैवादि पराहश्च ततस्सङ्णर्षणादपि।
अनंतः पन्नगो जातस्सहप्रफणवान् बली ॥ 2.37 ॥
सुदर्शनाद्यायुधानि किरीटादि विभूषणम्।
मुर्त्या विर्भावसमये सहै वैतानि जज्ञिरे ॥ 2.38 ॥
देव्यश्श्रियादयस्तद्वत् मूर्तभेदं समाश्रिताः।
श्रिवत्सादेव सकला ज्जज्ञिरे दिव्यलाञ्चनात् ॥ 2.39 ॥
गरुडः पक्षिणामिन्द्रो वाहनं भलिनां वरः।
वासुदेवादि मूर्ति भ्यश्छन्दो मूर्तिरजायत ॥ 2.40 ॥
कुमुदाद्यश्च भूतेशास्सर्वे पारिषदैस्सह।
पादतश्चा निरुद्धस्य समभूवन् सहस्रशः ॥ 2.41 ॥
सहस्रशीर्ष चरणहस्त नेत्राद्भुताकृतेः।
अनिरुद्धाज्जगज्जज्ञे स्वाङ्णादेव यथाक्रमम् ॥ 2.42 ॥
मुखादिन्द्रश्च वह्निश्च छन्धांस्यङ्णानि षट्तथा।
द्यौर्मूध्नो नयनात्सूर्यो मनसश्चन्द्रमा अपि ॥ 2.43 ॥
श्रोत्राद्धिशो नभोनाभेः पद्भ्यां भूमि रजायत।
प्राणाद्यायुस्तथा पानान्मृत्युः केशात्तथम्बुदः ॥ 2.44 ॥
त्रुट्यादि कालभेदश्च कालश्चाभूत्तथा धियः।
वनस्पतय ओषद्यो रोमकूपाद्विनिस्सृताः ॥ 2.45 ॥
यज्ञाश्च जज्ञिरे तस्माद्बहवो बहृदक्षिणाः।
चातुर्वर्ण्यं क्रमाद्वक्त्र भाहूरु चरणोद्भवम् ॥ 2.46 ॥
एवं सृष्ट्वा हगत्सर्वं विश्वरूपधरो हरिः।
आसैऽनन्तासनेदेवश्श्री भूमिभ्यां सहप्रभुः ॥ 2.47 ॥
मध्ये क्षीरार्णवे श्वेतद्वीपाख्ये हेमनिर्मिते।
प्रासादे सेव्यमानश्च योगिभिर्विविधैरपि ॥ 2.48 ॥
चण्डाद्यै र्द्वारपालैश्च कुमुदाद्यनुजीविभिः।
पक्षीन्द्र विष्वक्सेनाभ्यां सेव्यमानो मुदान्वतः ॥ 2.49 ॥
श्रीवत्सवक्षा नित्य श्रीरजेयश्शाश्वतो ध्रुवः।
अनिरुद्धो जगत्स्वां शैरिन्द्राद्यैः परिपालयन् ॥ 2.50 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहियाम्।
ज्ञानपादे मूर्त्युत्पत्ति भेदोनम